About the Karna Parva
The two days Karna leads the Kaurava army, with Shalya as his charioteer — great and terrible duels, and at last the fated combat between Karna and Arjuna, in which Karna’s chariot-wheel sinks in the earth and he is slain.
How it is read
The Karna Parva is given below in its original Sanskrit (Devanagari), numbered by chapter (adhyaya) and shloka. Read verse by verse; the Mahabharata is traditionally heard as itihasa-shravana, for dharma and discernment.
Original Text
The Verses
[व] ततॊ दरॊणे हते राजन दुर्यॊधनमुखा नृपाः भृशम उद्विग्नमनसॊ दरॊणपुत्रम उपागमन
ते दरॊणम उपशॊचन्तः कश्मलाभिहतौजसः पर्युपासन्त शॊकार्तास ततः शारद्वती सुतम
मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः रात्र्यागमे महीपालाः सवानि वेश्मानि भेजिरे
विशेषतः सूतपुत्रॊ राजा चैव सुयॊधनः दुःशासनॊ ऽथ शकुनिर न निद्राम उपलेभिरे
ते वेश्मस्व अपि कौरव्य पृथ्वीशा नाप्नुवन सुखम चिन्तयन्तः कषयं तीव्रं निद्रां नैवॊपलेभिरे
सहितास ते निशायां तु दुर्यॊधन निवेशने अतिप्रचण्डाद विद्वेषात पाण्डवानां महात्मनाम
यत तद दयूतपरिक्लिष्टां कृष्णाम आनिन्यिरे सभाम तत समरन्तॊ ऽनवतप्यन्त भृशम उद्विग्नचेतसः
चिन्तयन्तश च पार्थानां तान कलेशान दयूतकारितान कृच्छ्रेण कषणदां राजन निन्युर अब्द शतॊपमाम
ततः परभाते विमले सथिता दिष्टस्य शासने चक्रुर आवश्यकं सर्वे विधिदृष्टेन कर्मणा
ते कृत्वावश्य कार्याणि समाश्वस्य च भारत यॊगम आज्ञापयाम आसुर युद्धाय च विनिर्ययुः
कर्णं सेनापतिं कृत्वा कृतकौतुक मङ्गलाः वाचयित्वा दविजश्रेष्ठान दधि पात्रघृताक्षतैः
निष्कैर गॊभिर हिरण्येन वासॊभिश च महाधनैः वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः
तथैव पाण्डवा राजन कृतसर्वाह्णिक करियाः शिबिरान निर्ययू राजन युद्धाय कृतनिश्चयाः
ततः परववृते युद्धं तुमुलं रॊमहर्षणम कुरूणां पाण्डवानां च परस्परवधैषिणाम
तयॊर दवे दिवसे युद्धं कुरुपाण्डवसेनयॊः कर्णे सेनापतौ राजन्न अभूद अद्भुतदर्शनम
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः
ततस तत संजयः सर्वं गत्वा नागाह्वयं पुरम आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले
[ज] आपगेयं हतं शरुत्वा दरॊणं च समरे परैः यॊ जगाम पराम आर्तिं वृद्धॊ राजाम्बिका सुतः
स शरुत्वा निहतं कर्णं दुर्यॊधनहितैषिणम कथं दविज वरप्राणान अधारयत दुःखितः
यस्मिञ जयाशां पुत्राणाम अमन्यत स पार्थिवः तस्मिन हते स कौरव्यः कथं पराणान अधारयत
दुर्मरं बत मन्ये ऽहं नृषां कृच्छ्रे ऽपि वर्तताम यत्र कर्णं हतं शरुत्वा नात्यजज जीवितं नृपः
तथा शांतनवं वृद्धं बरह्मन बाह्लिकम एव च दरॊणं च सॊमदत्तं च भूरिश्रवसम एव च
तथैव चान्यान सुहृदः पुत्रपौत्रांश च पातितान शरुत्वा यन नाजहात पराणांस तन मन्ये दुष्करं दविज
एतन मे सर्वम आचक्ष्व विस्तरेण तपॊधन न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत
[व] हते कर्णे महाराज निशि गावल्गणिस तदा दीनॊ ययौ नागपुरम अश्वैर वातसमैर जवे
स हास्तिनपुरं गत्वा भृशम उद्विग्नमानसः जगाम धृतराष्ट्रस्य कषयं परक्षीणबान्धवम
स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम ववन्दे पराञ्जलिर भूत्वा मूर्ध्ना पादौ नृपस्य ह
संपूज्य च यथान्यायं धृतराष्ट्रं महीपतिम हा कष्टम इति चॊक्त्वा स ततॊ वचनम आददे
संजयॊ ऽहं कषितिपते कच चिद आस्ते सुखं भवान सवदॊषेणापदं पराप्य कच चिन नाद्य विमुह्यसि
हितान्य उक्तानि विदुर दरॊण गाङ्गेय केशवैः अगृहीतान्य अनुस्मृत्य कच चिन न कुरुषे वयथाम
राम नारद कण्वैश च हितम उक्तं सभा तले न गृहीतम अनुस्मृत्य कच चिन न कुरुषे वयथाम
सुहृदस तवद्धिते युक्तान भीष्मद्रॊणमुखान परैः निहतान युधि संस्मृत्य कच चिन न कुरुषे वयथाम
तम एवं वादिनं राजा सूतपुत्रं कृताञ्जलिम सुदीर्घम अभिनिःश्वस्य दुःखार्त इदम अब्रवीत
गाङ्गेये निहते शूरे दिव्यास्त्रवति संजय दरॊणे च परमेष्वासे भृशं मे वयथितं मनः
यॊ रथानां सहस्राणि दंशितानां दशैव हि अहन्य अहनि तेजस्वी निजघ्ने वसु संभवः
स हतॊ यज्ञसेनस्य पुत्रेणेह शिखण्डिना पाण्डवेयाभिगुप्तेन भृशं मे वयथितं मनः
भार्गवः परददौ यस्मै परमास्त्रं महात्मने साक्षाद रामेण यॊ बाल्ये धनुर्वेद उपाकृतः
यस्य परसादात कौन्तेया राजपुत्रा महाबलाः महारथत्वं संप्राप्तास तथान्ये वसुधाधिपाः
तं दरॊणं निहतं शरुत्वा धृष्टद्युम्नेन संयुगे सत्यसंधं महेष्वासं भृशं मे वयथितं मनः
तरैलॊक्ये यस्य शास्त्रेषु न पुमान विद्यते समः तं दरॊणं निहतं शरुत्वा किम अकुर्वत मामकाः
संशप्तकानां च बले पाण्डवेन महात्मना धनंजयेन विक्रम्य गमिते यमसादनम
नारायणास्त्रे निहते दरॊणपुत्रस्य धीमतः हतशेषेष्व अनीकेषु किम अकुर्वत मामकाः
विप्रद्रुतान अहं मन्ये निमग्नः शॊकसागरे परवमानान हते दरॊणे सन्ननौकान इवार्णवे
दुर्यॊधनस्य कर्णस्य भॊजस्य कृतवर्मणः मद्रराजस्य शल्यस्य दरौणेश चैव कृपस्य च
मत पुत्र शेषस्य तथा तथान्येषां च संजय विप्रकीर्णेष्व अनीकेषु मुखवर्णॊ ऽभवत कथम
एतत सर्वं यथावृत्तं तत्त्वं गावल्गणे रणे आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः
[स] पाण्डवेयैर हि यद्वृत्तं कौरवेयेषु मारिष तच छरुत्वा मा वयथां कार्षीद इष्टे न वयथते मनः
यस्माद अभावी भावी वा भवेद अर्थॊ नरं परति अप्राप्तौ तस्य वा पराप्तौ न कश चिद वयथते बुधः
[धृ] न वयथा शृण्वतः का चिद विद्यते मम संजय दिष्टम एतत पुरा मन्ये कथयस्व यथेच्छकम
[स] हते दरॊणे महेष्वासे तव पुत्रा महारथाः बभूवुर आश्वस्त मुखा विषण्णा गतचेतसः
अवाङ्मुखाः शस्त्रभृतः सर्व एव विशां पते अप्रेक्षमाणाः शॊकार्ता नाभ्यभाषन परस्परम
तान दृष्ट्वा वयथिताकारान सैन्यानि तव भारत ऊर्ध्वम एवाभ्यवेक्षन्त दुःखत्रस्तान्य अनेकशः
शस्त्राण्य एषां च राजेन्द्र शॊणिताक्तान्य अशेषतः पराभ्रश्यन्त कराग्रेभ्यॊ दृष्ट्वा दरॊणं निपातितम
तानि बद्धान्य अनिष्टानि लम्बमानानि भारत अदृश्यन्त महाराज नक्षत्राणि यथा दिवि
तथार्तं सतिमितं दृष्ट्वा गतसत्त्वम इव सथितम सवं बलं तन महाराज राजा दुर्यॊधनॊ ऽबरवीत
भवतां बाहुवीर्यं हि समाश्रित्य मया युधि पाण्डवेयाः समाहूता युद्धं चेदं परवर्तितम
तद इदं निहते दरॊणे विषण्णम इव लक्ष्यते युध्यमानाश च समरे यॊधा वध्यन्ति सर्वतः
जयॊ वापि वधॊ वापि युध्यमानस्य संयुगे भवेत किम अत्र चित्रं वै युध्यध्वं सर्वतॊ मुखाः
पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि परचरन्तं महेष्वासं दिव्यैर अस्त्रैर महाबलम
यस्य वै युधि संत्रासात कुन्तीपुत्रॊ धनंजयः निवर्तते सदामर्षात सिंहात कषुद्रमृगॊ यथा
येन नागायुत पराणॊ भीमसेनॊ महाबलः मानुषेणैव युद्धेन ताम अवस्थां परवेशितः
येन दिव्यास्त्रविच छूरॊ मायावी स घटॊत्कचः अमॊघया रणे शक्त्या निहतॊ भैरवं नदन
तस्य दुष्पार वीर्यस्य सत्यसंधस्य धीमतः बाह्वॊर दरविणम अक्षय्यम अद्य दरक्ष्यथ संयुगे
दरॊणपुत्रस्य विक्रान्तं राधेयस्यैव चॊभयॊः पाण्डुपाञ्चाल सैन्येषु दरक्ष्यथापि महात्मनॊः
सर्व एव भवन्तश च शूराः पराज्ञाः कुलॊद्गताः शीलवन्तः कृतास्त्राश च दरक्ष्यथाद्य परस्परम
एवम उक्ते महाराज कर्णॊ वैकर्तनॊ नृपः सिंहनादं विनद्यॊच्चैः परायुध्यत महाबलः
स सृञ्जयानां सर्वेषां पाञ्चालानां च पश्यताम केकयानां विदेहानाम अकरॊत कदनं महत
तस्येषु धाराः शतशः परादुरासञ शरासनात अग्रे पुङ्खे च संसक्ता यथा भरमरपङ्क्तयः
स पीडयित्वा पाञ्चालान पाण्डवांश च तरस्विनः हत्वा सहस्रशॊ यॊधान अर्जुनेन निपातितः
[वै] एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः शॊकस्यान्तम अपश्यन वै हतं मत्वा सुयॊधनम विह्वलः पतितॊ भूमौ नष्टचेता इव दविपः
तस्मिन निपतिते भूमौ विह्वले राजसत्तमे आर्तनादॊ महान आसीत सत्रीणां भरतसत्तम
स शब्दः पृथिवीं सर्वां पूरयाम आस सर्वशः शॊकार्णवे महाघॊरे निमग्ना भरत सत्रियः
राजानं च समासाद्य गान्धारी भरतर्षभ निःसंज्ञा पतिता भूमौ सर्वाण्य अन्तःपुराणि च
ततस ताः संजयॊ राजन समाश्वासयद आतुराः मुह्यमानाः सुबहुशॊ मुञ्चन्त्यॊ वारि नेत्रजम
समाश्वस्ताः सत्रियस तास तु वेपमाना मुहुर मुहुः कदल्य इव वातेन धूयमानाः समन्ततः
राजानं विदुरश चापि परज्ञा चक्षुषम ईश्वरम आश्वासयाम आस तदा सिञ्चंस तॊयेन कौरवम
स लब्ध्वा शनकैः संज्ञां ताश च दृष्ट्वा सत्रियॊ नृप उन्मत्त इव राजा स सथितस तूष्णीं विशां पते
ततॊ धयात्वा चिरं कालं निःश्वसंश च पुनः पुनः सवान पुत्रान गर्हयाम आस बहु मेने च पाण्डवान
गर्हयित्वात्मनॊ बुद्धिं शकुनेः सौबलस्य च धयात्वा च सुचिरं कालं वेपमानॊ मुहुर मुहुः
संस्तभ्य च मनॊ भूयॊ राजा धैर्यसमन्वितः पुनर गावल्गणिं सूतं पर्यपृच्छत संजयम
यत तवया कथितं वाक्यं शरुतं संजय तन मया कच चिद दुर्यॊधनः सूत न गतॊ वै यमक्षयम बरूहि संजय तत्त्वेन पुनर उक्तां कथाम इमाम
एवम उक्तॊ ऽबरवीत सूतॊ राजानं जनमेजय हतॊ वैकर्तनॊ राजन सह पुत्रैर महारथैः भरातृभिश च महेष्वासैः सूतपुत्रैस तनुत्यजैः
दुःशासनश च निहतः पाण्डवेन यशस्विना पीतं च रुधिरं कॊपाद भीमसेनेन संयुगे
[वै] एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः अब्रवीत संजयं सूतं शॊकव्याकुल चेतनः
दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः हतं वैकर्तनं शरुत्वा शॊकॊ मर्माणि कृन्तति
कृतास्त्र परमाः शल्ये दुःखपारं तितीर्षवः कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः
[स] हतः शांतनवॊ राजन दुराधर्षः परतापवान हत्वा पाण्डव यॊधानाम अर्बुदं दशभिर दिनैः
ततॊ दरॊणॊ महेष्वासः पाञ्चालानां रथव्रजान निहत्य युधि दुर्धर्षः पश्चाद रुक्मरथॊ हतः
हतशिष्टस्य भीष्मेण दरॊणेन च महात्मना अर्धं निहत्य सैन्यस्य कर्णॊ वैकर्तनॊ हतः
विविंशतिर महाराज राजपुत्रॊ महाबलः आनर्तयॊधाञ शतशॊ निहत्य निहतॊ रणे
अथ पुत्रॊ विकर्णस ते कषत्रव्रतम अनुस्मरन कषीणवाहायुधः शूरः सथितॊ ऽभिमुखतः परान
घॊररूपान परिक्लेशान दुर्यॊधनकृतान बहून परतिज्ञां समरता चैव भीमसेनेन पातितः
विन्दानुविन्दाव आवन्त्यौ राजपुत्रौ महाबलौ कृत्वा न सुकरं कर्म गतौ वैवस्वतक्षयम
सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै वशे तिष्ठन्ति वीरस्य यः सथितस तव शासने
अक्षौहिणीर दशैकां च निर्जित्य निशितैः शरैः अर्जुनेन हतॊ राजन महावीर्यॊ जयद्रथः
तथा दुर्यॊधन सुतस तरस्वी युद्धदुर्मदः वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः
तथा दौःशासनिर वीरॊ बाहुशाली रणॊत्कटः दरौपदेयेन विक्रम्य गमितॊ यमसादनम
किरातानाम अधिपतिः सागरानूपवासिनाम देवराजस्य धर्मात्मा परियॊ बहुमतः सखा
भगदत्तॊ महीपालः कषत्रधर्मरतः सदा धनंजयेन विक्रम्य गमितॊ यमसादनम
तथा कौरव दायादः सौमदत्तिर महायशाः हतॊ भूरिश्रवा राजञ शूरः सात्यकिना युधि
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is the Karna Parva of the Mahabharata about?
The two days Karna leads the Kaurava army, with Shalya as his charioteer — great and terrible duels, and at last the fated combat between Karna and Arjuna, in which Karna’s chariot-wheel sinks in the earth and he is slain.
What is the Mahabharata?
The Mahabharata is the great Sanskrit itihasa (epic) composed by Maharishi Vyasa, telling of the Kuru dynasty and the war between the Pandavas and the Kauravas at Kurukshetra. In its eighteen parvas (books) it contains the Bhagavad Gita, the Vishnu Sahasranama and a vast treasury of dharma, and is revered as the fifth Veda.
Offer a path or seva in your name
Have a Gita paath or seva performed in your naam-gotra for peace and clarity. Book a seva, or read on in Sanatan Sahitya.








