About the Shalya Parva
The final day, with Shalya as commander — his fall and the rout of the Kauravas, and the mace-duel between Bhima and Duryodhana in which Bhima, striking below the waist, breaks Duryodhana’s thighs and ends the war.
How it is read
The Shalya Parva is given below in its original Sanskrit (Devanagari), numbered by chapter (adhyaya) and shloka. Read verse by verse; the Mahabharata is traditionally heard as itihasa-shravana, for dharma and discernment.
Original Text
The Verses
[ज] एवं निपतिते कर्णे समरे सव्यसाचिना अल्पावशिष्टाः कुरवः किमकुर्वत वै दविज
उदीर्यमाणं च बलं दृष्ट्वा राजा सुयॊधनः पाण्डवैः पराप्तकालं च किं परापद्यत कौरवः
एतद इच्छाम्य अहं शरॊतुं तद आचक्ष्व दविजॊत्तम न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत
[वै] ततः कर्णे हते राजन धार्तराष्ट्रः सुयॊधनः भृशं शॊकार्णवे मग्नॊ निराशः सर्वतॊ ऽभवत
हा कर्ण हा कर्ण इति शॊचमानः पुनः पुनः कृच्छ्रात सवशिबिरं परायाद धतशेषैर नृपैः सह
स समाश्वास्यमानॊ ऽपि हेतुभिः शास्त्रनिश्चितैः राजभिर नालभच छर्म सूतपुत्र वधं समरन
स दिवं बलवन मत्वा भवितव्यं च पार्थिवः संग्रामे निश्चयं कृत्वा पुनर युद्धाय निर्ययौ
शल्यं सेनापतिं कृत्वा विधिवद राजपुंगवः रणायनिर्ययौ राजा हतशेषैर नृपैः सह
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयॊः बभूव भरतश्रेष्ठ देवासुररणॊपमम
ततः शल्यॊ महाराज कृत्वा कदनम आहवे पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः
ततॊ दुर्यॊधनॊ राजा हतबन्धू रणाजिरात अपसृत्य हरदं घॊरं विवेश रिपुजाद भयात
अथापराह्णे तस्याह्नः परिवार्य महारथैः हरदाद आहूय यॊगेन भीमसेनेन पातितः
तस्मिन हते महेष्वासे हतशिष्टास तरयॊ रथाः संरभान निशि राजेन्द्र जघ्नुः पाञ्चाल सैनिकान
ततः पूर्वाह्णसमये शिबिराद एत्य संजयः परविवेश पुरीं दीनॊ दुःखशॊकसमन्वितः
परविश्य च पुरं तूर्णं भुजाव उच्छ्रित्य दुःखितः वेपमानस ततॊ राज्ञः परविवेश निवेशनम
रुरॊद च नरव्याघ्र हा राजन्न इति दुःखितः अहॊ बत विविग्नाः सम निधनेन महात्मनः
अहॊ सुबलवान कालॊ गतिश च परमा तथा शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः
दृष्ट्वैव च पुरॊ राजञ जनः सार्वः स संजयम पररुरॊद भृशॊद्विग्नॊ हा राजन्न इति सस्वरम
आकुमारं नरव्याघ्र तत पुरं वै समन्ततः आर्तनादं महच चक्रे शरुत्वा विनिहतं नृपम
धावतश चाप्य अपश्यच च तत्र तरीन पुरुषर्षभान नष्टचित्तान इवॊन्मत्ताञ शॊकेन भृशपीडितान
तथा स विह्वलः सूतः परविश्य नृपतिक्षयम ददर्श नृपतिश्रेष्ठं परज्ञा चक्षुषम ईश्वरम
दृष्ट्वा चासीनम अनघं समन्तात परिवारितम सनुषाभिर भरतश्रेष्ठ गान्धार्या विदुरेण च
तथान्यैश च सुहृद्भिश च जञातिभिश च हितैषिभिः तम एव चार्थं धयायन्तं कर्णस्य निधनं परति
रुदन्न एवाब्रवीद वाक्यं राजानं जनमेजय नातिहृष्टमनाः सूतॊ बाष्पसंदिग्धया गिरा
संजयॊ ऽयं नरव्याघ्र नमस ते भरतर्षभ अद्राधिपॊ हतः शल्यः शकुनिः सौबलस तथा उलूकः पुरुषव्याघ्र कैतव्यॊ दृढविक्रमः
संशप्तका हताः सर्वे काम्बॊजाश च शकैः सह मलेच्छाश च पार्वतीयाश च यवनाश च निपातिताः
पराच्या हता महाराज दाक्षिणात्याश च सर्वशः उदीच्या निहताः सर्वे परतीच्याश च नराधिप राजानॊ राजपुत्राश च सर्वतॊ निहता नृप
दुर्यॊधनॊ हतॊ राजन यथॊक्तं पाण्डवेन च भग्नसक्थॊ महाराज शेते पांसुषु रूषितः
धृष्टद्द्युम्नॊ हतॊ राजञ शिखाण्डी चापराजितः उत्तमौजा युधामन्युस तथा राजन परभद्रकाः
पाञ्चालाश च नरव्याघ्राश चेदयश च निषूदिताः तव पुत्रा हताः सर्वे दरौपदेयाश च भारत कर्ण पुत्रॊ हतः शूरॊ वृषा सेनॊ महाबलः
नरा विनिहताः सर्वे गजाश च विनिपातिताः रथिनश च नरव्याघ्र हयाश च निहता युधि
किं चिच छेषं च शिबिरं तावकानां कृतं विभॊ पाण्डवानां च शूराणां समासाद्य परस्परम
परायः सत्री शेषम अभवज जगत कालेन मॊहितम साप्त पाण्डवतः शेषा धार्तराष्ट्रास तथा तरयः
ते चैव भरातरः पञ्च वासुदेवॊ ऽथ सात्यकिः कृपश च कृतवर्मा च दरौणिश च जयतां वरः
तवाप्य एते महाराज रथिनॊ नृपसत्तम अक्षौहिणीनां सर्वासां समेतानां जनेश्वर एते शेषा महाराज सर्वे ऽनये निधनं गताः
कालेन निहतं सर्वं जगद वै भरतर्षभ दुर्यॊधनं वै पुरतः कृत्वा वैरस्य भारत
एतच छरुत्वा वचः करूरं धृतराष्ट्रॊ जनेश्वरः निपपात महाराज गतसत्त्वॊ महीतले
तस्मिन निपतिते भूमौ विदुरॊ ऽपि महायशाः निपपात महाराज राजव्यसनकर्शितः
गान्धारी च नृपश्रेष्ठ सर्वाश च कुरु यॊषितः पतिताः सहसा भूमौ शरुत्वा करूरं वचश च ताः
निःसंज्ञं पतितं भूमौ तदासीद राजमण्डलम परलाप युक्ता महती कथा नयस्ता पटे यथा
कृच्छ्रेण तु ततॊ राजा धृतराष्ट्रॊ महीपतिः शनैर अलभत पराणान पुत्रव्यसनकर्शितः
लब्ध्वा तु स नृपः संज्ञां वेपमानः सुदुःखितः उदीक्ष्य च दिशः सर्वाः कषत्तारं वाक्यम अब्रवीत
विद्वन कषत्तर महाप्राज्ञ तवं गतिर भरतर्षभ ममानाथस्य सुभृशं पुत्रैर हीनस्य सर्वशः एवम उक्त्वा ततॊ भूयॊ विसंज्ञॊ निपपात ह
तं तथा पतितं दृष्ट्वा बान्धवा ये ऽसय के चन शीतैस तु सिषिचुस तॊयैर विव्यजुर वयजनैर अपि
स तु दीर्घेण कालेन परत्याश्वस्तॊ महीपतिः तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः निःश्वसञ जिह्मग इव कुम्भक्षिप्तॊ विशां पते
संजयॊ ऽपय अरुदत तत्र दृष्ट्वा राजानम आतुरम तथा सर्वाः सत्रियश चैव गान्धारी च यशस्विनी
ततॊ दीर्घेण कालेन विदुरं वाक्यम अब्रवीत धृतराष्ट्रॊ नरव्याघ्रॊ मुह्यमानॊ मुहुर मुहुः
गच्छन्तु यॊषितः सर्वा गान्धारी च यशस्विनी तथेमे सुहृदः सर्वे भरश्यते मे मनॊ भृशम
एवम उक्तस ततः कषत्ता ताः सत्रियॊ भरतर्षभ विसर्जयाम आस शनैर वेपमानः पुनः पुनः
निश्चक्रमुस ततः सर्वास ताः सत्रियॊ भरतर्षभ सुहृदश च ततः सर्वे दृष्ट्वा राजानम आतुरम
ततॊ नरपतिं तत्र लब्धसंज्ञं परंतप अवेक्ष्य संजयॊ दीनॊ रॊदमानं भृशातुरम
पराञ्जलिर निःश्वसन्तं च तं नरेन्द्रं मुहुर मुहुः समाश्वासयत कषत्ता वचसा मधुरेण ह
[वै] विसृष्टास्व अथ नारीषु धृतराष्ट्रॊ ऽमबिका सुतः विललाप महाराज दुःखाद दुःखतरं गतः
सधूमम इव निःश्वस्य करौ धुन्वन पुनः पुनः विचिन्त्य च महाराज ततॊ वचनम अब्रवीत
अहॊ बत महद दुःखं यद अहं पाण्डवान रणे कषेमिणश चाव्ययांश चैव तवत्तः सूत शृणॊमि वै
वज्रसार मयं नूनं हृदयं सुदृढं मम यच छरुत्वा निहतान पुत्रान दीर्यते न सहस्रधा
इन्तयित्वा वचस तेषां बाल करीडां च संजय अद्य शरुत्वा हतान पुत्रान भृशं मे दीर्यते मनः
अन्धत्वाद यदि तेषां तु न मे रूपनिदर्शनम पुत्रस्नेह कृता परीतिर नित्यम एतेषु धारिता
बालभावम अतिक्रान्तान यौवनस्थांश च तान अहम मध्यप्राप्तांस तथा शरुत्वा हृष्ट आसं तथानघ
तान अद्य निहतन शरुत्वा हृतैश्वर्यान हृतौजसः न लभे वै कव चिच छान्तिं पुत्राधिभिर अभिप्लुतः
एह्य एहि पुत्र राजेन्द्र ममानाथस्य सांप्रतम तवया हीनॊ महाबाहॊ कां नु यास्याम्य अहं गतिम
गतिर भूत्वा महाराज जञातीनां सुहृदां तथा अन्धं वृद्धं च मां वीर विहाय कव नु गच्छसि
सा कृपा सा च ते परीतिः सा च राजन सुमानिता कथं विनिहतः पार्थैः संयुगेष्व अपराजितः
कथं तवं पृथिवीपालान भुक्त्वा ताथ समागतान शेषे विनिहतॊ भूमौ पराकृतः कुनृपॊ यथा
कॊ नु माम उत्थितं काल्ये तात तातेति वक्ष्यति महाराजेति सततं लॊकनाथेति चासकृत
परिष्वज्य च मां कण्ठे सनेहेनाक्लिन्न लॊचनः अनुशाधीति कौरव्य तत साधु वद मे वचः
ननु नामाहम अश्रौषं वचनं तव पुत्रक भूयसी मम पृथ्वीयं यथा पार्थस्य नॊ तथा
भगदत्तः कृपः शल्य आवन्त्यॊ ऽथ जयद्रथः भूरिश्रवाः सॊमदत्तॊ महाराजॊ ऽथ बाह्लिकः
अश्वत्थामा च भॊजश च मागधश च महाबलः बृहद्बलश च काशीशः शकुनिश चापि सौबलः
मलेच्छाश च बहुसाहस्राः शकाश च यवनैः सह सुदक्षिणश च काम्बॊजस तरिगर्ताधिपतिस तथा
भीष्मः पितामहश चैव भारद्वाजॊ ऽथ गौतमः शरुतायुश चाच्युतायुश च शतायुश चापि वीर्यवान
जलसंधॊ ऽथार्श्यशृङ्गी राक्षसश चाप्य अलायुधः अलम्बुसॊ महाबाहुः सुबाहुश च महारथः
एते चान्ये च बहवॊ राजानॊ राजसत्तम मदर्थम उद्यताः सर्वे पराणांस तयक्त्वा रणे परभॊ
येषां मध्ये सथितॊ युद्धे भरातृभिः परिवारितः यॊधयिष्याम्य अहं पार्थान पाञ्चालांश चैव सर्वशः
चेदींश च नृपशार्दूल दरौपदेयांश च संयुगे सात्यकिं कुन्तिभॊजं च राक्षसं च घटॊत्कचम
एकॊ ऽपय एषां महाराज समर्थः संनिवारणे समरे पाण्डवेयानां संक्रुद्धॊ हय अभिधावताम किं पुनः सहिता वीराः कृतवैराश च पाण्डवैः
अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः यॊत्स्यन्ति सह राजैन्द्र हनिष्यन्ति च तान मृधे
कर्णस तव एकॊ मया सार्धं निहनिष्यति पाण्डवान ततॊ नृपतयॊ वीराः सथास्यन्ति मम शासने
यश च तेषां परणेता वै वासुदेवॊ महाबलः न स संनह्यते राजन्न इति माम अब्रवीद वचः
तस्याहं वदतः सूत बहुशॊ मम संनिधौ युक्तितॊ हय अनुपश्यामि निहतान पाण्डवान मृधे
तेषां मध्ये सथिता यत्र हन्यन्ते मम पुत्रकाः वयायच्छमानाः समरे किम अन्यद भागधेयतः
भीष्मश च निहतॊ यत्र लॊकनाथः परतापवान शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम
दरॊणश च बराह्मणॊ यत्र सार्व शस्त्रास्त्रपारगः निहतः पाण्डवैः संख्ये किम अन्यद भागधेयतः
भूरि शवरा हतॊ यत्र सॊमदत्तश च साम्युगे बाह्लीकश च महाराज किम अन्याद भग धेयतः
सुदक्षिणॊ हतॊ यत्र जलसंधश च कौरवः शरुतायुश चाच्युतायुश च किम अन्यद भागधेयतः
बृहद्बलॊ हतॊ यत्र मगधश च महाबलः आवन्त्यॊ निहतॊ यत्र तरिगर्तश च जनाधिपः संशप्तकाश च बहवः किम अन्यद भागधेयतः
अलम्बुसस तथा राजन राक्षासश चाप्य अलायुधः आर्श्यशृङ्गश च निहतः किम अन्यद भागधेयतः
नारायणा हता यत्र गॊपाला युद्धदुर्मदाः मलेच्छाश च बहुसाहस्राः किम अन्यद भागधेयतः
शकुनिः सौबलॊ यत्र कैतव्यश च महाबलः निहतः सबलॊ वीरः किम अन्यद भागधेयतः
राजानॊ राजपुत्राश च शूराः परिघबाहवः निहता बहवॊ यत्र किम अन्यद भागधेयतः
नानादेशसमावृत्ताः कषत्रिया यत्र संजय निहताः समरे सर्वे किम अन्यद भागधेयतः
पुत्राश च मे विनिहताः पौत्राश चैव महाबलाः वयस्या भरातरश चैव किम अन्यद भागधेयतः
भागधेय समायुक्तॊ धरुवम उत्पद्यते नरः यश च भाग्यसमायुक्तः स शुभं पराप्नुयान नरः
अहं वियुक्तः सवैर भाग्यैः पुत्रैश चैवेह संजय कथम अद्य भविष्यामि वृद्धः शत्रुवशं गतः
नान्यद अत्र परं मन्ये वनवासाद ऋते परभॊ सॊ ऽहं वनं गमिष्यामि निर्बन्धुर जञातिसंक्षये
न हि मे ऽनयद भवेच छरेयॊ वनाभ्युपगमाद ऋते इमाम अवस्थां पराप्तस्य लूनपक्षस्य संजय
दुर्यॊधनॊ हतॊ यत्र शल्यश च निहतॊ युधि दुःशासनॊ विशस्तश च विकर्णश च महाबलः
कथं हि भीमसेनस्य शरॊष्ये ऽहं शब्दम उत्तमम एकेन समरे येन हतं पुत्रशतं मम
असकृद वदतस तस्य दुर्यॊधन वधेन च दुःखशॊकाभिसंतप्तॊ न शरॊष्ये परुषा गिरः
एवं स शॊकसंतप्तः पार्थिवॊ हतबान्धवः मुहुर मुहुर मुह्यमानः पुत्राधिभिर अभिप्लुतः
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is the Shalya Parva of the Mahabharata about?
The final day, with Shalya as commander — his fall and the rout of the Kauravas, and the mace-duel between Bhima and Duryodhana in which Bhima, striking below the waist, breaks Duryodhana’s thighs and ends the war.
What is the Mahabharata?
The Mahabharata is the great Sanskrit itihasa (epic) composed by Maharishi Vyasa, telling of the Kuru dynasty and the war between the Pandavas and the Kauravas at Kurukshetra. In its eighteen parvas (books) it contains the Bhagavad Gita, the Vishnu Sahasranama and a vast treasury of dharma, and is revered as the fifth Veda.
Offer a path or seva in your name
Have a Gita paath or seva performed in your naam-gotra for peace and clarity. Book a seva, or read on in Sanatan Sahitya.








