About the Drona Parva
The war under Dronacharya’s command — the Chakravyuha and the death of the young Abhimanyu, Arjuna’s vow and slaying of Jayadratha, many great duels, and at last Drona laying down his arms at the news of “Ashwatthama” and being killed by Dhrishtadyumna.
How it is read
The Drona Parva is given below in its original Sanskrit (Devanagari), numbered by chapter (adhyaya) and shloka. Read verse by verse; the Mahabharata is traditionally heard as itihasa-shravana, for dharma and discernment.
Original Text
The Verses
[ज] तम अप्रतिमसत्त्वौजॊ बलवीर्यपराक्रमम हतं देवव्रतं शरुत्वा पाञ्चाल्येन शिखण्डिना
धृतराष्ट्रस तदा राजा शॊकव्याकुल चेतनः किम अचेष्टत विप्रर्षे हते पितरि वीर्यवान
तस्य पुत्रॊ हि भगवन भीष्मद्रॊणमुखै रथैः पराजित्य महेष्वासान पाण्डवान राज्यम इच्छति
तस्मिन हते तु भगवन केतौ सर्वधनुष्मता यद अचेष्टत कौरव्यस तन मे बरूहि दविजॊत्तम
[व] निहतं पितरं शरुत्वा धृतराष्ट्रॊ जनाधिपः लेभे न शान्तिं कौरव्यश चिन्ताशॊकपरायणः
तस्य चिन्तयतॊ दुःखम अनिशं पार्थिवस्य तत आजगाम विशुद्धात्मा पुनर गावल्गणिस तदा
शिबिरात संजयं पराप्तं निशि गानाह्वयं पुरम आम्बिकेयॊ महाराज धृतराष्ट्रॊ ऽनवपृच्छत
शरुवा भीष्मस्य निधनम अप्रहृष्टमना भृशम पुत्राणां जयम आकाङ्क्षन विललापातुरॊ यथा
[धृ] संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम किम अकार्षुः परं तात कुरवः कालचॊदिताः
तस्मिन विनिहते शूरे दुराधर्षे महौजसि किं नु सवित कुरवॊ ऽकार्षुर निमग्नाः शॊकसागरे
तद उदीर्णं महत सैन्यं तरैलॊक्यस्यापि संजय भयम उत्पादयेत तीव्रं पाण्डवानां महात्मनाम
देवव्रते तु निहते कुरूणाम ऋषभे तदा यद अकार्षुर नृपतयस तन ममाचक्ष्व संजय
[स] शृणु राजन्न एकमना वचनं बरुवतॊ मम यत ते पुत्रास तदाकार्षुर हते देवव्रते मृधे
निहते तु तदा भीष्मे राजन सत्यपराक्रमे तावकाः पाण्डवेयाश च पराध्यायन्त पृथक पृथक
विस्मिताश च परहृष्टाश च कषत्रधर्मं निशाम्य ते सवधर्मं निन्दमानाश च परणिपत्य महात्मने
शयनं कल्पयाम आसुर भीष्मायामित तेजसे सॊपधानं नरव्याघ्र शरैः संनतपर्वभिः
विधाय रक्षां भीष्माय समाभाष्य परस्परम अनुमान्य च गाङ्गेयं कृत्वा चापि परदक्षिणम
करॊधसंरक्तनयनाः समवेक्ष्य परस्परम पुनर युद्धाय निर्जग्मुः कषत्रियाः कालचॊदिताः
ततस तूर्यनिनादैश च भेरीणां च महास्वनैः तावकानाम अनीकानि परेषां चापि निर्ययुः
वयावृत्ते ऽहनि राजेन्द्र पतिते जाह्नवीसुते अमर्षवशम आपन्नाः कालॊपहतचेतसः
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः निर्ययुर भरतश्रेष्ठः शस्त्राण्य आदाय सर्वशः
मॊहात तव सपुत्रस्य वधाच छांतनवस्य च कौरव्या मृत्युसाद भूताः सहिताः सर्वजारभिः
अजावय इवागॊपा वने शवापद संकुले भृशम उद्विग्नमनसॊ हीना देवव्रतेन ते
पतिते भरतश्रेष्ठे बभूव कुरु वाहिनी दयौर इवापेत नक्षत्रा हीनं खम इव वायुना
विपन्नसस्येव मही वाक चैवासंस्कृता यथा आसुरीव यथा सेना निगृहीते पुरा बलौ
विधवेव वरारॊहा शुष्कतॊयेव निम्नगा वृकैर इव वने रुद्धा पृषती हतयूथपा
सवाधर्ष हतसिंहेव महती गिरिकन्दरा भारती भरतश्रेष्ठ पतिते जाह्नवीसुते
विष्वग वातहता रुग्णा नौर इवासीन महार्णवे बलिभिः पाण्डवैर वीरैर लब्धलक्षैर भृशार्दिता
सा तदासीद भृशं सेना वयाकुलाश्वरथद्विपा विषण्णभूयिष्ठ नरा कृपणा दरष्टुम आबभौ
तस्यां तरस्ता नृपतयः सैनिकाश च पृथग्विधाः पाताल इव मज्जन्तॊ हीना देव वतेन ते कर्णं हि कुरवॊ ऽसमार्षुः स हि देवव्रतॊपमः
सर्वशस्त्रभृतां शरेष्ठं रॊचमानम इवातिथिम बन्धुम आपद गतस्येव तम एवॊपागमन मनः
चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः राधेयं हितम अस्माकं सूतपुत्रं तनुत्यजम
स हि नायुध्यत तदा दशाहानि महायशाः सामात्यबन्धुः कर्णॊ वै तम आह्वयत माचिरम
भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः रथेषु गण्यमानेषु बलविक्रम शालिषु संख्यातॊ ऽरधरथः कर्णॊ दविगुणः सन नरर्षभः
रथातिरथ संखायां यॊ ऽगरणीः शूर संमतः पितृवित्ताम्बुदेवेषान अपि यॊ यॊद्धुम उत्सहेत
स तु तेनैव कॊपेन राजन गाङ्गेयम उक्तवान तवयि जीवति कौरव्य नाहं यॊत्स्ये कथं चन
तवया तु पाण्डवेयेषु निहतेषु महामृधे दुर्यॊधनम अनुज्ञाप्य वनं यास्यामि कौरव
पाण्डवैर वा हते भीष्मे तवयि सवर्गम उपेयुषि हन्तास्म्य एकरथेनैव कृत्स्नान यान मन्यसे रथान
एवम उक्त्वा महाराज दशाहानि महायशाः नायुध्यत ततः कर्णः पुत्रस्य तव संमते
भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव जघान समरे यॊधान असंख्येयपराक्रमः
तस्मिंस तु निहते शूरे सत्यसंधे महौजसि तवत्सुताः कर्णम अस्मार्षुस तर्तुकामा इव पलवम
तावकास तव पुत्राश च सहिताः सर्वराजभिः का कर्ण इति चाक्रन्दन कालॊ ऽयम इति चाब्रुवन
जामदग्न्याभ्यनुज्ञातम अस्त्रे दुर्वार पौरुषम अगमन नॊ मनःकर्णं बन्धुम आत्ययिकेष्व इव
स हि शक्तॊ रणे राजंस तरातुम अस्मान महाभयात तरिदशान इव गॊविन्दः सततं सुमहाभयात
[व] तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः आशीविषवद उच्छ्वस्य धृतराष्ट्रॊ ऽबरवीद इदम
यत तद वैकर्तनं कर्णम अगमद वॊ मनस तदा अप्य अपश्यत राधेयं सूतपुत्रं तनुत्यजम
अपि तन न मृषाकार्षीद युधि सत्यपराक्रमः संभ्रान्तानां तदार्तानां तरस्तानां तराणम इच्छताम
अपि तत पूरयां चक्रे धनुर्धर वरॊ युधि यत तद विनिहते भीष्मे कौरवाणाम अपावृतम
तत खण्डं पूरयाम आस परेषाम आदधद भयम कृतवान मम पुत्राणां जयाशां सफलाम अपि
[स] हतं भीष्मम आधिरथिर विदित्वा; भिन्नां नावम इवात्यगाधे कुरूणाम सॊदर्यवद वयसनात सूतपुत्रः; संतारयिष्यंस तव पुत्रस्य सेनाम
शरुत्वा तु कर्णः पुरुषेन्द्रम अच्युतं; निपातितं शांतनवं महारथम अथॊपायात तूर्णम अमित्रकर्शनॊ; धनुर्धराणां परवरस तदा वृषः
हते तु भीष्मे रथसत्तमे परैर; निमज्जतीं नावम इवार्णवे कुरून पितेव पुत्रांस तवरितॊ ऽभययात ततः; संतारयिष्यंस तव पुत्रस्य सेनाम
[कर्ण] यस्मिन धृतिर बुद्धिपराक्रमौजॊ; दमः सत्यं वीर गणाश च सर्वे अस्त्राणि दिव्यान्य अथ संनतिर हरीर; परिया च वाग अनपायीनि भीष्मे
बरह्म दविषघ्ने सततं कृतज्ञे; सनातनं चन्द्रमसीव लक्ष्म स चेत परशान्तः परवीर हन्ता; मन्ये हतान एव हि सर्वयॊधान
नेह धरुवं किं चन जातु विद्यते; अस्मिँल लॊके कर्मणॊ ऽनित्य यॊगात सूर्यॊदये कॊ हि विमुक्तसंशयॊ; भावं कुर्वीताद्य महाव्रते हते
वसु परभावे वसु वीर्यसंभवे; गते वसून एव वसुंधराधिपे वसूनि पुत्रांश च वसुंधरां तथा; कुरूंश च शॊचध्वम इमां च वाहिनीम
[स] महाप्रभावे वरदे निपातिते; लॊकश्रेष्ठे शांतनवे महौजसि पराजितेषु भरतेषु दुर्मनाः; कर्णॊ भृशं नयश्वसद अश्रुवर्तयन
इदं तु राधेय वचॊ निशम्य ते; सुताश च राजंस तव सैनिकाश च ह परस्परं चुक्रुशुर आर्तिजं भृशं; तदाश्रु नेत्रैर मुमुचुर हि शब्दवत
परवर्तमाने तु पुनर महाहवे; विगाह्यमानासु चमूषु पार्थिवैः अथाब्रवीद धर्ष करं वचस तदा; रथर्षभान सर्वमहारथर्षभः
[क] जगत्य अनित्ये सततं परधावति; परचिन्तयन्न अस्थिरम अद्य लक्षये भवत्सु तिष्ठत्स्व इह पातितॊ रणे; गिरिप्रकाशः कुरुपुंगवः कथम
निपातिते शांतनवे महारथे; दिवाकरे भूतलम आस्थिते यथा न पार्थिवाः सॊढुम अलं धनंजयं; गिरिप्रवॊढारम इवानिलं दरुमाः
हतप्रधानं तव इदम आर्तरूपं; परैर हतॊत्साहम अनाथम अद्य वै मया कुरूणां परिपाल्यम आहवे; बलं यथा तेन महात्मना तथा
समाहितं चात्मनि भारम ईदृशं; जगत तथानित्यम इदं च लक्षये निपातितं चाहवशौण्डम आहवे; कथं नु कुर्याम अहम आहवे भयम
अहं तु तान कुरु वृषभान अजिह्मगैः; परवेरयन यम सदनं रणे चरन यशः परं जगति विभाव्य वर्तिता; परैर हतॊ युधि शयिताथ वा पुनः
युधिष्ठिरॊ धृतिमतिधर्मतत्त्ववान; वृकॊदरॊ गजशततुल्यविक्रमः तथार्जुनस तरिदशवरात्मजॊ यतॊ; न तद बलं सुजयम अथामरैर अपि
यमौ रणे यत्र यमॊपमौ बले; स सात्यकिर यत्र च देवकी सुतः न तद बलं कापुरुषॊ ऽभयुपेयिवान; निवर्तते मृत्युमुखाद इवासकृत
तपॊ ऽभयुदीर्णं तपसैव गम्यते; बलं बलेनापि तथा मनस्विभिः मनश च मे शत्रुनिवारणे धरुवं; सवरक्षणे चाचलवद वयवस्थितम
एवं चैषां बुध्यमानः परभावं; गत्वैवाहं ताञ जयाम्य अद्य सूत मित्रद्रॊहॊ मर्षणीयॊ न मे ऽयं; भग्ने सैन्ये यः सहायः स मित्रम
कर्तास्म्य एतत सत्पुरुषार्य कर्म; तयक्त्वा पराणान अनुयास्यामि भीष्मम सर्वान संख्ये शत्रुसंघान हनिष्ये; हतस तैर वा वीरलॊकं गमिष्ये
संप्राक्रुष्टे रुदितस्त्री कुमारे; पराभूते पौरुषे धार्तराष्ट्रे मया कृत्यम इति जानामि सूत; तस्माच छत्रून धार्तराष्ट्रस्य जेष्ये
कुरून रक्षन पाण्डुपुत्राञ जिघांसंस; तयक्त्वा पराणान गॊर रूपे रणे ऽसमिन सर्वान संख्ये शत्रुसंघान निहत्य; दास्याम्य अहं धार्तराष्ट्राय राज्यम
निबध्यतां मे कवचं विचित्रं; हैमं शुभ्रं मणिरत्नावभासि शिरस तराणं चार्कसमानभासं; धनुः शरांश चापि विषाहि कल्पान
उपासन गान षॊडश यॊजयन्तु; धनूंषि दिव्यानि तथाहरन्तु असींश च शक्तीश च गदाश च गुर्वीः; शङ्खं च जाम्बूनदचित्रभासम
एतां रौक्मीं नागकक्ष्यां च जैत्रीं; जैत्रं च मे धवजम इन्दीवराभम शलक्ष्णैर वस्त्रैर विप्रमृज्यानयस्व; चित्रां मालां चात्र बद्ध्वा स जालाम
अश्वान अग्र्यान पाण्डुराभ्रप्रकाशान; पुष्टान सनातान मन्त्रपूताभिर अद्भिः तप्तैर भाण्डैः काञ्चनैर अभ्युपेताञ; शीघ्राञ शीघ्रं सूतपुत्रानयस्व
रथं चाग्र्यं हेमजालावनद्धं; रत्रैश चित्रं चन्द्रसूर्यप्रकाशैः दरव्यैर युक्तं संप्रहारॊपपन्नैर; वाहैर युक्तं तूर्णम आवर्तयस्व
चित्राणि चापानि च वेगवन्ति; जयाश चॊत्तमाः संहननॊपपन्नाः तूर्णांश च पूर्णान महतः शराणाम; आसज्य गात्रावरणानि चैव
परायात्रिकं चानयताशु सर्वं; कन्याः पूर्णं वीर कांस्यं च हैमम आनीय मालाम अवबध्य चाङ्के; परवादयन्त्व आशु जयाय भेरीः
परयाहि सूताशु यतः किरीटी; वृकॊदरॊ धर्मसुतॊ यमौ च तान वा हनिष्यामि समेत्य संख्ये; भीष्माय वैष्यामि हतॊ दविषद्भिः
यस्मिन राजा सत्यधृतिर युधिष्ठिरः; समास्थितॊ भीमसेनार्जुनौ च वासुदेवः सात्यकिः सृञ्जयाश च; मन्ये बलं तद अजय्यं महीपैः
तं चेन मृत्युः सर्वहरॊ ऽभिरक्षेत; सदा परमत्तः समरे किरीटिनम तथापि हन्तास्मि समेत्य संख्ये; यास्यामि वा भीष्म पथा यमाय
न तव एवाहं न गमिष्यामि तेषां; मध्ये शूराणां तत तथाहं बरवीमि मित्र दरुहॊ दुर्बलभक्तयॊ ये; पापात्मानॊ न ममैते सहायाः
[स] स सिद्धिमन्तं रथम उत्तमं दृढं; स कूबरं हेमपरिष्कृतं शुभम पताकिनं वातजवैर हयॊत्तमैर; युक्तं समास्थाय ययौ जयाय
संपूज्यमानः कुरुभिर महात्मा; रथर्षभः पाण्डुरवाजियाता ययौ तदायॊधनम उग्रधन्वा; यत्रावसानं भरतर्षभस्य
वरूथिना महता स धवजेन; सुवर्णमुक्ता मणिवज्र शालिना सदश्वयुक्तेन रथेन कर्णॊ; मेघस्वनेनार्क इवामितौजाः
हुताशनाभः स हुताशनप्रभे; शुभः शुभे वै सवरथे धनुर्धरः सथितॊ रराजाधिरथिर महारथः; सवयं विमाने सुरराड इव सथितः
[स] शरतल्पे महात्मानं शयानम अमितौजसम महावातसमूहेन समुद्रम इव शॊषितम
दिव्यैर अस्त्रैर महेष्वासं पातितं सव्यसाचिना जयाशां तव पुत्राणां संभग्नां शर्म वर्म च
अपाराणाम इव दवीपम अगाधे गाधम इच्छताम सरॊतसा यामुनेनेव शरौघेण परिप्लुतम
महान्तम इव मैनाकम असह्यं भुवि पातितम नभश चयुतम इवादित्यं पतितं धरणीतले
शतक्रतॊर इवाचिन्त्यं पुरा वृत्रेण निर्जयम मॊहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम धनंजय शरव्याप्तं पितरं ते महाव्रतम
तं वीरशयने वीरं शयानं पुरुषर्षभम भीष्मम आधिरथिर दृष्ट्वा भरतानाम अमध्यमम
अवतीर्य रथाद अर्तॊ बाष्पव्याकुलिताक्षरम अभिवाद्याञ्जलिं बद्ध्वा वन्दमानॊ ऽभयभाषत
कर्णॊ ऽहम अस्मि भद्रं ते अद्य मा वद भारत पुण्यया कषेमया वाचा चक्षुषा चावलॊकय
न नूनं सुकृतस्येह फलं कश चित समश्नुते यत्र धर्मपरॊ वृद्धः शेते भुवि भवान इह
कॊशसंजनने मन्त्रे वयूह परहरणेषु च नाथम अन्यं न पश्यामि कुरूणां कुरुसत्तम
बुद्ध्या विशुद्धया युक्तॊ यः कुरूंस तारयेद भयात यॊधांस तवम अप्लवे हित्वा पितृलॊकं गमिष्यसि
अद्य परभृति संक्रुद्धा वयाघ्रा इव मृगक्षयम पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरु कषयम
अद्य गाण्डीवघॊषस्य वीर्यज्ञाः सव्यसाचिनः कुरवः संत्रसिष्यन्ति वज्रपाणेर इवासुराः
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is the Drona Parva of the Mahabharata about?
The war under Dronacharya’s command — the Chakravyuha and the death of the young Abhimanyu, Arjuna’s vow and slaying of Jayadratha, many great duels, and at last Drona laying down his arms at the news of “Ashwatthama” and being killed by Dhrishtadyumna.
What is the Mahabharata?
The Mahabharata is the great Sanskrit itihasa (epic) composed by Maharishi Vyasa, telling of the Kuru dynasty and the war between the Pandavas and the Kauravas at Kurukshetra. In its eighteen parvas (books) it contains the Bhagavad Gita, the Vishnu Sahasranama and a vast treasury of dharma, and is revered as the fifth Veda.
Offer a path or seva in your name
Have a Gita paath or seva performed in your naam-gotra for peace and clarity. Book a seva, or read on in Sanatan Sahitya.








