About Kaanda 8
Kaanda 8 of the Atharvaveda (Shaunaka) — longer hymns, ranging over health, household and social life and cosmic themes. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
How it is read
Kaanda 8 is given below in its original Sanskrit, in accented Devanagari. The Veda is preserved as shruti and recited in svadhyaya; read it reverently, sukta by sukta.
Original Text
The Verses
दीर्घायुःप्राप्तिः। १-२१ ब्रह्मा। आयुः। त्रिष्टुप्, १ पुरोबृहती त्रिष्टुप्, २-३, १७-२१ अनुष्टुप्, ४,९,१५-१६ प्रस्तारपङ्क्तिः, ७ त्रिपदा विराड् गायत्री, ८ विराट् पथ्याबृहती, १२ त्र्यवसाना पञ्चपदा जगती, १३ त्रिपदा भुरिङ्महाबृहती, १४ एकावसाना द्विपदा साम्नी भुरिग्बृहती। अन्त॑काय मृ॒त्यवे॒ नमः॑ प्रा॒णा अ॑पा॒ना इ॒ह ते॑ रमन्ताम्। इ॒हायम॑स्तु॒ पुरु॑षः स॒हासु॑ना॒ सूर्य॑स्य भा॒गे अ॒मृत॑स्य लो॒के॥१॥ उदे॑नं॒ भगो॑ अग्रभी॒दुदे॑नं॒ सोमो॑ अंशु॒मान्। उदे॑नं म॒रुतो॑ दे॒वा उदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥२॥ इ॒ह तेऽसु॑रि॒ह प्रा॒ण इ॒हायु॑रि॒ह ते॒ मनः॑ । उत् त्वा॒ निरृ॑त्याः॒ पाशे॑भ्यो॒ दैव्या॑ वा॒चा भ॑रामसि ॥३॥ उत् क्रा॒मातः॑ पुरुष॒ माव॑ पत्था मृ॒त्योः पड्वी॑षमवमु॒ञ्चमा॑नः । मा च्छि॑त्था अ॒स्माल्लो॒काद॒ग्नेः सूर्य॑स्य सं॒दृशः॑ ॥४॥ तुभ्यं॒ वातः॑ पवतां मात॒रिश्वा॒ तुभ्यं॑ वर्षन्त्व॒मृता॒न्यापः॑ । सूर्य॑स्ते त॒न्वे॒३शं त॑पाति॒ त्वां मृ॒त्युर्द॑यतां॒ मा प्र मे॑ष्ठाः ॥५॥ उ॒द्यानं॑ ते पुरुष॒ नाव॒यानं॑ जी॒वातुं॑ ते॒ दक्ष॑तातिं कृणोमि । आ हि रोहे॒मम॒मृतं॑ सु॒खं रथ॒मथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ॥६॥ मा ते॒ मन॒स्तत्र॑ गा॒न्मा ति॒रो भू॒न्मा जी॒वेभ्यः॒ प्र म॑दो॒ मानु॑ गाः पि॒तॄन्। विश्वे॑ दे॒वा अ॒भि र॑क्षन्तु त्वे॒ह॥७॥ मा ग॒ताना॒मा दी॑धीथा॒ ये नय॑न्ति परा॒वत॑म्। आ रो॑ह॒ तम॑सो॒ ज्योति॒रेह्या ते॒ हस्तौ॑ रभामहे ॥८॥ श्या॒मश्च॑ त्वा॒ मा श॒बल॑श्च॒ प्रेषि॑तौ य॒मस्य॒ यौ प॑थि॒रक्षी॒ श्वानौ॑ । अ॒र्वाङेहि॒ मा वि दी॑ध्यो॒ मात्र॑ तिष्ठः॒ परा॑ङ्मनाः ॥९॥ मैतं पन्था॒मनु॑ गा भी॒म ए॒ष येन॒ पूर्वं॒ नेयथ॒ तं ब्र॑वीमि । तम॑ ए॒तत् पु॑रुष॒ मा प्र प॑त्था भ॒यं प॒रस्ता॒दभ॑यं ते अ॒र्वाक्॥१०॥ रक्ष॑न्तु त्वा॒ग्नयो॒ ये अ॒प्स्व॑१न्ता रक्ष॑तु त्वा मनु॒ष्या॒३ यमि॒न्धते॑ । वै॒श्वा॒न॒रो र॑क्षतु जा॒तवे॑दा दि॒व्यस्त्वा॒ मा प्र धा॑ग् वि॒द्युता॑ स॒ह॥११॥ मा त्वा॑ क्र॒व्याद॒भि मं॑स्ता॒रात् संक॑सुकाच्चर। रक्ष॑तु त्वा॒ द्यौ रक्ष॑तु पृथि॒वी सूर्य॑श्च त्वा॒ रक्ष॑तां च॒न्द्रमा॑श्च । अ॒न्तरि॑क्षं रक्षतु देवहे॒त्याः ॥१२॥ बो॒धश्च॑ त्वा प्रतिबो॒धश्च॑ रक्षतामस्व॒प्नश्च॑ त्वानवद्रा॒णश्च॑ रक्षताम्। गो॒पा॒यंश्च॑ त्वा॒ जागृ॑विश्च रक्षताम्॥१३॥ ते त्वा॑ रक्षन्तु॒ ते त्वा॑ गोपायन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॑ ॥१४॥ जी॒वेभ्य॑स्त्वा स॒मुद्रे॑ वा॒युरिन्द्रो॑ धा॒ता द॑धातु सवि॒ता त्राय॑माणः । मा त्वा॑ प्रा॒णो बलं॑ हासी॒दसुं॒ तेऽनु॑ ह्वयामसि ॥१५॥ मा त्वा॑ ज॒म्भः संह॑नु॒र्मा तमो॑ विद॒न्मा जि॒ह्वा ब॒र्हिः प्र॑म॒युः क॒था स्याः॑ । उत् त्वा॑दि॒त्या वस॑वो भर॒न्तूदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥१६॥ उत् त्वा॒ द्यौरुत् पृ॑थि॒व्युत् प्र॒जाप॑तिरग्रभीत्। उत् त्वा॑ मृ॒त्योरोष॑धयः॒ सोम॑राज्ञीरपीपरन्॥१७॥ अ॒यं दे॑वा इ॒हैवास्त्व॒यं मामुत्र॑ गादि॒तः । इ॒मं स॒हस्र॑वीर्येण मृ॒त्योरुत् पा॑रयामसि ॥१८॥ उत् त्वा॑ मृ॒त्योर॑पीपरं॒ सं ध॑मन्तु वयो॒धसः॑ । मा त्वा॑ व्यस्तके॒श्यो॒३मा त्वा॑घ॒रुदो॑ रुदन्॥१९॥ आहा॑र्ष॒मवि॑दं त्वा॒ पुन॒रागाः॒ पुन॑र्णवः । सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षुः॒ सर्व॒मायु॑श्च ते ऽविदम्॥२०॥ व्यऽवात् ते॒ ज्योति॑रभू॒दप॒ त्वत्तमो॑ अक्रमीत्। अप॒ त्वन्मृ॒त्युं निरृ॑ति॒मप॒ यक्ष्मं॒ नि द॑ध्मसि ॥२१॥
दीर्घायुःप्राप्तिः। १-२८ ब्रह्मा। आयुः। त्रिष्टुप्, १-२,७ भुरिक्, ३,२६ आस्तारपङ्क्तिः, ४ प्रस्तारपङ्क्तिः, ६,१५ पथ्यापङ्क्तिः, ८ पुरस्ताज्ज्योतिष्मती जगती, ९ पञ्चपदा जगती, ११ विष्टारपङ्क्तिः, १२,२२,२८ पुरस्ताद्बृहती, १४ त्र्यवसाना षट्-पदा जगती, १९ उपरिष्टाद्बृहती, २१ सतः पङ्कतिः ५,१०,१६-१८,२०,२३-२५,२७ अनुष्टुप् (१७ त्रिपाद्)। आ र॑भस्वे॒माम॒मृत॑स्य॒ श्नुष्टि॒मच्छि॑द्यमाना ज॒रद॑ष्टिरस्तु ते । असुं॑ त॒ आयुः॒ पुन॒रा भ॑रामि॒ रज॒स्तमो॒ मोप॑ गा॒ मा प्र मे॑ष्ठाः ॥१॥ जीव॑तां॒ ज्योति॑र॒भ्येह्य॒र्वाङा त्वा॑ हरामि श॒तशा॑रदाय । अ॒व॒मु॒ञ्चन् मृ॑त्युपा॒शानश॑स्तिं॒ द्राघी॑य॒ आयुः॑ प्रत॒रं ते॑ दधामि ॥२॥ वाता॑त् ते प्रा॒णम॑विदं॒ सूर्या॒च्चक्षु॑र॒हं तव॑ । यत् ते॒ मन॒स्त्वयि॒ तद् धा॑रयामि॒ सं वि॒त्स्वाङ्गै॒र्वद॑ जि॒ह्वयाल॑पन्॥३॥ प्रा॒णेन॑ त्वा द्वि॒पदां॒ चतु॑ष्पदाम॒ग्निमि॑व जा॒तम॒भि सं ध॑मामि । नम॑स्ते मृत्यो॒ चक्षु॑षे॒ नमः॑ प्रा॒णाय॑ तेऽकरम्॥४॥ अ॒यं जी॑वतु॒ मा मृ॑ते॒मं समी॑रयामसि । कृ॒णोम्य॑स्मै भेष॒जं मृत्यो॒ मा पुरु॑षं वधीः ॥५॥ जी॒व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्। त्रा॒य॒मा॒णां सह॑मानां॒ सह॑स्वतीमि॒ह हु॑वे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥६॥ अधि॑ ब्रूहि॒ मा र॑भथाः सृ॒जेमं तवै॒व सन्त्सर्व॑हाया इ॒हास्तु॑ । भवा॑शर्वौ मृ॒डतं॒ शर्म॑ यच्छतमप॒सिध्य॑ दुरि॒तं ध॑त्त॒मायुः॑ ॥७॥ अ॒स्मै मृ॑त्यो॒ अधि॑ ब्रूही॒मं द॑य॒स्वोदि॒तो॒३यमे॑तु । अरि॑ष्टः॒ सर्वा॑ङ्गः सु॒श्रुज्ज॒रसा॑ श॒तहा॑यन आ॒त्मना॒ भुज॑मश्नुताम्॥८॥ दे॒वानां॑ हे॒तिः परि॑ त्वा वृणक्तु पा॒रया॑मि त्वा॒ रज॑स॒ उ॑त् त्वा॑ मृ॒त्योर॑पीपरम्। आ॒राद॒ग्निं क्र॒व्यादं॑ नि॒रूहं॑ जी॒वात॑वे ते परि॒धिं द॑धामि ॥९॥ यत् ते॑ नि॒यानं॑ रज॒सं मृत्यो॑ अनवध॒र्ष्यऽम्। प॒थ इ॒मं तस्मा॒द् रक्ष॑न्तो॒ ब्रह्मा॑स्मै॒ वर्म॑ कृण्मसि ॥१०॥ कृ॒णोमि॑ ते प्राणापा॒नौ ज॒रां मृ॒त्युं दी॒र्घमायुः॑ स्व॒स्ति। वै॒व॒स्व॒तेन॒ प्रहि॑तान् यमदू॒तांश्चर॒तोऽप॑ सेधामि॒ सर्वा॑न्॥११॥ आ॒रादरा॑तिं॒ निरृ॑तिं प॒रो ग्राहिं॑ क्र॒व्यादः॑ पिशा॒चान्। रक्षो॒ यत् सर्वं॑ दुर्भू॒तं तत् तम॑ इ॒वाप॑ हन्मसि ॥१२॥ अ॒ग्नेष्टे॑ प्रा॒णम॒मृता॒दायु॑ष्मतो वन्वे जा॒तवे॑दसः । यथा॒ न रिष्या॑ अ॒मृतः॑ स॒जूरस॒स्तत् ते॑ कृणोमि॒ तदु॑ ते॒ समृ॑ध्यताम्॥१३॥ शि॒वे ते॑ स्तां॒ द्यावा॑पृथि॒वी अ॑संता॒पे अ॑भि॒श्रियौ॑ । शं ते॒ सूर्य॒ आ त॑पतु॒ शं वातो॑ वातु ते हृ॒दे। शि॒वा अ॒भि क्ष॑रन्तु॒ त्वापो॑ दि॒व्याः पय॑स्वतीः ॥१४॥ शि॒वास्ते॑ स॒न्त्वोष॑धय॒ उत् त्वा॑हार्ष॒मध॑रस्या॒ उत्त॑रां पृथि॒वीम॒भि। तत्र॑ त्वादि॒त्यौ र॑क्षतां सूर्याचन्द्र॒मसा॑वु॒भा॥१५॥ यत् ते॒ वासः॑ परि॒धानं॒ यां नी॒विं कृ॑णु॒षे त्वम्। शि॒वं ते॑ त॒न्वे॒३तत् कृ॑ण्मः संस्प॒र्शेऽद्रू॑क्ष्णमस्तु ते ॥१६॥ यत् क्षु॒रेण॑ म॒र्चय॑ता सुते॒जसा॒ वप्ता॒ वप॑सि केशश्म॒श्रु। शुभं॒ मुखं॒ मा न॒ आयुः॒ प्र मो॑षीः ॥१७॥ शि॒वौ ते॑ स्तां व्रीहिय॒वाव॑बला॒साव॑दोम॒धौ। ए॒तौ यक्ष्मं॒ वि बा॑धेते ए॒तौ मु॑ञ्चतो॒ अंहसः ॥१८॥ यद॒श्नासि॒ यत् पिब॑सि धा॒न्यंऽ कृ॒ष्याः पयः॑ । यदा॒द्यं॒१ यद॑ना॒द्यं सर्वं॑ ते॒ अन्न॑मवि॒षं कृ॑णोमि ॥१९॥ अह्ने॑ च त्वा॒ रात्र॑ये चो॒भाभ्यां॒ परि॑ दद्मसि । अ॒राये॑भ्यो जिघ॒त्सुभ्य॑ इ॒मं मे॒ परि॑ रक्षत ॥२०॥ श॒तं ते॒ऽयुतं॑ हाय॒नान् द्वे यु॒गे त्रीणि॑ च॒त्वारि॑ कृण्मः । इ॒न्द्रा॒ग्नी विश्वे॑ दे॒वास्तेऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥२१॥ श॒रदे॑ त्वा हेम॒न्ताय॑ वस॒न्ताय॑ ग्री॒ष्माय॒ परि॑ दद्मसि । व॒र्षाणि॒ तुभ्यं॑ स्यो॒नानि॒ येषु॒ वर्ध॑न्त॒ ओष॑धीः ॥२२॥ मृ॒त्युरी॑शे द्वि॒पदां॑ मृ॒त्युरी॑शे॒ चतु॑ष्पदाम्। तस्मा॒त् त्वां मृ॒त्योर्गोप॑ते॒रुद् भ॑रामि॒ स मा बि॑भेः ॥२३॥ सोऽरिष्ट॒ न म॑रिष्यसि॒ न म॑रिष्यसि॒ मा बि॑भेः । न वै तत्र॑ म्रियन्ते॒ नो य॑न्त्यध॒मं तमः॑ ॥२४॥ सर्वो॒ वै तत्र॑ जीवति॒ गौरश्वः॒ पुरु॑षः प॒शुः । यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कम्॥२५॥ परि॑ त्वा पातु समा॒नेभ्यो॑ऽभिचा॒रात् सब॑न्धुभ्यः । अम॑म्रिर्भवा॒मृतो॑ऽतिजी॒वो मा ते॑ हासिषु॒रस॑वः॒ शरी॑रम्॥२६॥ ये मृ॒त्यव॒ एक॑शतं॒ या ना॒ष्ट्रा अ॑तिता॒र्याः । मु॒ञ्चन्तु॒ तस्मा॒त् त्वां दे॒वा अ॒ग्नेर्वै॑श्वान॒रा दधि॑ ॥२७॥ अ॒ग्नेः शरी॑रमसि पारयि॒ष्णु र॑क्षो॒हासि॑ सपत्न॒हा। अथो॑ अमीव॒चात॑नः पू॒तुद्रु॒र्नाम॑ भेष॒जम्॥२८॥
शत्रुनाशनम्। १-२६ चातनः। अग्निः। त्रिष्टुप्, ७,१२,१४-१५,१७,२१ भुरिक्, २५ पञ्चपदा बृहतीगर्भा जगती २२-२३ अनुष्टुप्, २६ गायत्री। र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म्॥१॥ अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः । आ जि॒ह्वया॒ मूर॑देवान् रभस्व क्र॒व्यादो॑ वृ॒ष्ट्वापि॑ धत्स्वा॒सन्॥२॥ उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रौ॑ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं॑ च । उ॒तान्तरि॑क्षे॒ परि॑ याह्यग्ने॒ जम्भैः॒ सं धे॑ह्य॒भि या॑तु॒धाना॑न्॥३॥ अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम्। प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात् क्र॑वि॒ष्णुर्वि चि॑नोत्वेनम्॥४॥ यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम्। उ॒तान्तरि॑क्षे॒ पत॑न्तं यातु॒धानं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥५॥ य॒ज्ञरिषूः॑ सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः । ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न् प्रती॒चो बा॒हून् प्रति॑ भङ्ग्ध्येषाम्॥६॥ उ॒तार॑ब्धान्त्स्पृनुहि जातवेद उ॒तारे॑भा॒णाँ ऋ॒ष्टिभि॑र्यातु॒धाना॑न्। अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः॑ ॥७॥ इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने यातु॒धानो॒ य इ॒दं कृ॒णोति॑ । तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम्॥८॥ ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः । हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन् यातु॒धाना॑ नृचक्षः ॥९॥ नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ । तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥१०॥ त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑ । तम॒र्चिषा॑ स्फू॒र्जय॑न् जातवेदः सम॒क्षमे॑नं गृण॒ते नि यु॑ङ्ग्धि ॥११॥ यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद् वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः । म॒न्योर्मन॑सः शर॒व्या॒३जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न्॥१२॥ परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न् परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि । परा॒र्चिषा॒ मूर॑देवान्छृणीहि॒ परा॑सु॒तृपः॒ शोशु॑चतः शृणीहि ॥१३॥ परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु सृ॒ष्टाः । वा॒चास्ते॑नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न् विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥१४॥ यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑ । यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥१५॥ वि॒षं गवां॑ यातु॒धाना॑ भरन्ता॒मा वृ॑श्चन्ता॒मदि॑तये दु॒रेवाः॑ । परै॑णान् दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम्॥१६॥ सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द् यातु॒धानो॑ नृचक्षः । पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त् तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑णि ॥१७॥ स॒नाद॑ग्ने मृणसि यातु॒धाना॒न् न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः । स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥१८॥ त्वं नो॑ अग्ने अध॒रादु॑द॒क्तस्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त्। प्रति॒ त्ये ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ॥१९॥ प॒श्चात् पु॒रस्ता॑दध॒रादु॒तोत्त॒रात् क॒विः काव्ये॑न॒ परि॑ पाह्यग्ने । सखा॒ सखा॑यम॒जरो॑ जरि॒म्णे अग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं नः॑ ॥२०॥ तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजो॒ येन॒ पश्य॑सि यातु॒धाना॑न्। अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्योऽष ॥२१॥ परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑तः ॥२२॥ वि॒षेण॑ भङ्गु॒राव॑तः॒ प्रति॑ स्म र॒क्षसो॑ जहि । अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिर॒र्चिभिः॑ ॥२३॥ वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा। प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्षो॑भ्यो वि॒निक्ष्वे॑ ॥२४॥ ये ते॒ शृङ्गे॑ अ॒जरे॑ जातवेदस्ति॒ग्महे॑ती॒ ब्रह्म॑संशिते । ताभ्यां॑ दु॒र्हार्द॑मभि॒दास॑न्तं किमी॒दिनं॑ प्र॒त्यञ्च॑म॒र्चिषा॑ जातवेदो॒ वि नि॑क्ष्व ॥२५॥ अ॒ग्नी रक्षां॑सि सेधति शु॒क्रशो॑चि॒रम॑र्त्यः । शुचिः॑ पाव॒क ईड्यः॑ ॥२६॥
शत्रुदमनम्। १-२५ चातनः। इन्द्रसोमौ। जगती, ८-१४, १६-१७, १९, २२, २४ त्रिष्टुप्, २०,२३ भुरिक्, २५ अनुष्टुप्। इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्यऽर्पयतं वृषणा तमो॒वृधः॑ । परा॑ शृणीतम॒चितो॒ न्योऽषतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्त्रिणः॑ ॥१॥ इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्य॑१घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒माँ इ॑व । ब्र॒ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मी॒दिने॑ ॥२॥ इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम्। यतो॒ नैषां॒ पुन॒रेक॑श्च॒नोदय॒त् तद् वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥३॥ इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम्। उत् त॑क्षतं स्व॒र्यं१ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥४॥ इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः । तपु॑र्वधेभिर॒जरे॑भिर॒त्त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम्॥५॥ इन्द्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वा॒जिना॑ । यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑ इव जिन्वतम्॥६॥ प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः । इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द् यो मा॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हुः ॥७॥ यो मा॒ पाके॑न॒ मन॑सा॒ चर॑न्तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः । आप॑ इव का॒शिना॒ संगृ॑भीता॒ अस॑न्न॒स्त्वस॑तः इन्द्र व॒क्ता॥८॥ ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभिः॑ । अह॑ये वा॒ तान् प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निरृ॑तेरु॒पस्थे॑ ॥९॥ यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ अश्वा॑नां॒ गवां॒ यस्त॒नूना॑म्। रि॒पु स्ते॒न स्ते॑य॒कृद् द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३ तना॑ च ॥१०॥ प॒रः सो अ॑स्तु त॒न्वा॒३ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑ । प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो मा॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म्॥११॥ सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते । तयो॒र्यत् स॒त्यं य॑त॒रदृजी॑य॒स्तदित् सोमो॑ऽवति॒ हन्त्यस॑त्॥१२॥ न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं मिथु॒या धा॒रय॑न्तम्। हन्ति॒ रक्षो॒ हन्त्यास॒द् वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ॥१३॥ यदि॑ वा॒हमनृ॑तदेवो॒ अस्मि॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने । किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम्॥१४॥ अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पुरु॑षस्य । अ॒धा स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥१५॥ यो माया॑तुं॒ यातु॑धा॒नेत्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑ । इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥१६॥ प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हुस्त॒न्वं॑१गूह॑माना । व॒व्रम॑न॒न्तमव॒ सा प॑दीष्ट॒ ग्रावा॑णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ॥१७॥ वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि॒३छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन। वयो॒ ये भू॒त्वा प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे॥१८॥ प्र व॑र्तय दि॒वोऽश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्त्सं शि॑शाधि । प्रा॒क्तो अ॑पा॒क्तो॑अधरा॑दुदक्तो॑ऽभि॑जहि रक्ष॑सः प॑र्वतेन ॥१९॥ ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम्। शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नु॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥२०॥ इन्द्रो॑ यातू॒नाम॑भवत् पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒३विवा॑सताम्। अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्त्स॒त एतु र॒क्षसः॑ ॥२१॥ उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुम्। सु॒प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥२२॥ मा नो॒ रक्षो॑ अ॒भि न॑ड् यातु॒माव॒दपो॑च्छन्तु मिथु॒ना ये कि॑मी॒दिनः॑ । पृ॒थि॒वी नः॒ पार्थि॑वात् पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात् पा॑त्व॒स्मान्॥२३॥ इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम्। विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्त्सूर्य॑मु॒च्चर॑न्तम्॥२४॥ प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम्। रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्यः॑ ॥२५॥
प्रतिसरो मणिः। १-२२ शुक्रः। कृत्यादूषणं, मन्त्रोक्तदेवताः। अनुष्टुप्, १,६ उपरिष्टाद्बृहती, २ त्रिपदा विराड् गायत्री, ३ चतुष्पदा भुरिग्जगती, ५ भुरिक्संस्तारपङ्क्तिः, ७-८ ककुम्मती, ९ पुरस्कृतिर्जगती, १० त्रिष्टुप्, ११ पथ्यापङ्क्तिः, १४ त्र्यवसाना षट्-पदा जगती, १५ पुरस्ताद्बृहती, १९ जगतीगर्भा त्रिष्टुप्, २० विराड्गर्भा प्रस्तारपङ्क्तिः, २१ विराड् त्रिष्टुप्, २२ त्र्यवसाना सप्तपदा विराड्गर्भा भुरिक्शक्वरी। अ॒यं प्र॑तिस॒रो म॒णिर्वी॒रो वी॒राय॑ बध्यते । वी॒र्यऽवान्त्सपत्न॒हा शूर॑वीरः परि॒पाणः॑ सुम॒ङ्गलः॑ ॥१॥ अ॒यं म॒णिः स॑पत्न॒हा सु॒वीरः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः । प्र॒त्यक् कृ॒त्या दू॒षय॑न्नेति वी॒रः ॥२॥ अ॒नेनेन्द्रो॑ म॒णिना॑ वृ॒त्रम॑हन्न॒नेनासु॑रा॒न् परा॑भावयन्मनी॒षी। अ॒नेना॑जय॒द् द्यावा॑पृथि॒वी उ॒भे इ॒मे अ॒नेना॑जयत् प्र॒दिश॒श्चत॑स्रः ॥३॥ अ॒यं स्रा॒क्त्यो म॒णिः प्र॑तीव॒र्तः प्र॑तिस॒रः । ओज॑स्वान् विमृ॒धो व॒शी सो अ॒स्मान् पा॑तु स॒र्वतः॑ ॥४॥ तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह॒ बृह॒स्पतिः॑ सवि॒ता तदिन्द्रः॑ । ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥५॥ अ॒न्तर्द॑धे॒ द्यावा॑पृथि॒वी उ॒ताह॑रु॒त सूर्य॑म्। ते मे॑ दे॒वाः पु॒रोहि॑ताः प्र॒तीचीः॑ कृ॒त्याः प्र॑तिस॒रैर॑जन्तु ॥६॥ ये स्रा॒क्त्यं म॒णिं जना॒ वर्मा॑णि कृ॒ण्वते॑ । सूर्य॑ इव॒ दिव॑मा॒रुह्य॒ वि कृ॒त्या बा॑धते व॒शी॥७॥ स्रा॒क्त्येन॑ म॒णिन॒ ऋषि॑णेव मनी॒षिणा॑ । अजै॑षं॒ सर्वाः॒ पृत॑ना॒ वि मृ॒धो॑ हन्मि र॒क्षसः॑ ॥८॥ याः कृ॒त्या आ॑ङ्गिर॒सीर्याः कृ॒त्या आ॑सु॒रीर्याः । कृ॒त्याः स्व॒यंकृ॑ता॒ या उ॑ चा॒न्येभि॒राभृ॑ताः । उ॒भयी॒स्ताः परा॑ यन्तु परा॒वतो॑ नव॒तिं ना॒व्या॒३अति॑ ॥९॥ अ॒स्मै म॒णिं वर्म॑ बध्नन्तु दे॒वा इन्द्रो॒ विष्णुः॑ सवि॒ता रु॒द्रो अ॒ग्निः । प्र॒जाप॑तिः परमे॒ष्ठी वि॒राड् वै॑श्वान॒र ऋष॑यश्च॒ सर्वे॑ ॥१०॥ उ॒त्त॒मो अ॒स्योष॑धीनामन॒ड्वान् जग॑तामिव व्या॒घ्रः श्वप॑दामिव । यमैच्छामावि॑दाम॒ तं प्र॑ति॒स्पाश॑न॒मन्ति॑तम्॥११॥ स इद् व्या॒घ्रो भ॑व॒त्यथो॑ सिं॒हो अथो॒ वृषा॑ । अथो॑ सपत्न॒कर्श॑नो॒ यो बिभ॑र्ती॒मं म॒णिम्॥१२॥ नैनं॑ घ्नन्त्यप्स॒रसो॒ न ग॑न्ध॒र्वा न मर्त्याः॑ । सर्वा॒ दिशो॒ वि रा॑जति॒ यो बिभ॑र्ती॒मं म॒णिम्॥१३॥ क॒श्यप॒स्त्वाम॑सृजत क॒श्यप॑स्त्वा॒ समै॑रयत्। अबि॑भ॒स्त्वेन्द्रो॒ मानु॑षे॒ बिभ्र॑त् संश्रेषि॒णेऽजयत्। म॒णिं स॒हस्र॑वीर्यं॒ वर्म॑ दे॒वा अ॑कृण्वत ॥१४॥ यस्त्वा॑ कृ॒त्याभि॒र्यस्त्वा॑ दी॒क्षाभि॑र्य॒ज्ञैर्यस्त्वा॒ जिघां॑सति । प्र॒त्यक् त्वमि॑न्द्र॒ तं ज॑हि॒ वज्रे॑ण श॒तप॑र्वणा ॥१५॥ अ॒यमिद् वै प्र॑तीव॒र्त ओज॑स्वान् संज॒यो म॒णिः । प्र॒जां धनं॑ च रक्षतु परि॒पाणः॑ सुम॒ङ्गलः ॥१६॥ अ॒स॒प॒त्नं नो॑ अध॒राद॑सप॒त्नं न॑ उत्त॒रात्। इन्द्रा॑सप॒त्नं नः॑ प॒श्चाज्ज्योतिः॑ शूर पु॒रस्कृ॑धि ॥१७॥ वर्म॑ मे॒ द्यावा॑पृथि॒वी वर्माह॒र्वर्म॒ सूर्यः॑ । वर्म॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ वर्म॑ धा॒ता द॑धातु मे ॥१८॥ ऐ॒न्द्रा॒ग्नं वर्म॑ बहु॒लं यदु॒ग्रं विश्वे॑ दे॒वा नाति॒ विध्य॑न्ति॒ सर्वे॑ । तन्मे॑ त॒न्वं त्रायतां स॒र्वतो॑ बृ॒हदायु॑ष्मां ज॒रद॑ष्टि॒र्यथासा॑नि ॥१९॥ आ मा॑रुक्षद् देवम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये । इ॒मं मे॒थिम॑भि॒संवि॑शध्वं तनू॒पानं॑ त्रि॒वरू॑थ॒मोज॑से ॥२०॥ अ॒स्मिन्निन्द्रो॒ नि द॑धातु नृ॒म्णमि॒मं दे॑वासो अभि॒संवि॑शध्वम्। दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदा॒यायु॑ष्मान् ज॒रद॑ष्टि॒र्यथास॑त्॥२१॥ स्व॒स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी। इन्द्रो॑ बध्नातु ते म॒णिं जि॑गी॒वाँ अप॑राजितः सोम॒पा अ॑भयङ्क॒रो वृषा॑ । स त्वा॑ रक्षतु स॒र्वतो॒ दिवा॒ नक्तं॑ च वि॒श्वतः॑ ॥२२॥
गर्भदोषनिवारणम्। १-२६ मातृनामा। मन्त्रोक्ताः, मातृनामा, १५ ब्रह्मणस्पतिः। अनुष्टुप्, २ पुरस्ताद्बृहती, १० त्र्यवसाना षट्-पदा जगती, ११,१२,१४,१६ पथ्यापङ्क्तिः, १५ त्र्यवसाना सप्तपदा शक्वरी, १७ त्र्यवसाना सप्तपदा जगती। यौ ते॑ मा॒तोन्म॒मार्ज॑ जा॒तायाः॑ पति॒वेद॑नौ । दु॒र्णामा॒ तत्र॒ मा गृ॑धद॒लिंश॑ उ॒त व॒त्सपः॑ ॥१॥ प॒ला॒ला॒नु॒प॒ला॒लौ शर्कुं॒ कोकं॑ मलिम्लु॒चं प॒लीज॑कम्। आ॒श्रेषं॑ व॒व्रिवा॑सस॒मृक्ष॑ग्रीवं प्रमी॒लिन॑म्॥२॥ मा सं वृ॑तो॒ मोप॑ सृप ऊ॒रू माव॑ सृपोऽन्त॒रा। कृ॒णोम्य॑स्यै भेष॒जं ब॒जं दु॑र्णाम॒चात॑नम्॥३॥ दु॒र्णामा॑ च सु॒नामा॑ चो॒भा सं॒वृत॑मिच्छतः । अ॒राया॒नप॑ हन्मः सु॒नामा॒ स्त्रैण॑मिच्छताम्॥४॥ यः कृ॒ष्णः के॒श्यसु॑र स्तम्ब॒ज उ॒त तुण्डि॑कः । अ॒राया॑नस्या मु॒ष्काभ्यां॒ भंस॒सोप॑ हन्मसि ॥५॥ अ॒नु॒जि॒घ्रं प्र॑मृ॒शन्तं॑ क्र॒व्याद॑मु॒त रे॑रि॒हम्। अ॒रायां॑छ्वकि॒ष्किणो॑ ब॒जः पि॒ङ्गो अ॑नीनशत्॥६॥ यस्त्वा॒ स्वप्ने॑ नि॒पद्य॑ते॒ भ्राता॑ भू॒त्वा पि॒तेव॑ च । ब॒जस्तान्त्स॑हतामि॒तः क्ली॒बरू॑पांस्तिरी॒टिनः॑ ॥७॥ यस्त्वा॑ स्व॒पन्तीं॒ त्सर॑ति॒ यस्त्वा॒ दिप्स॑ति॒ जाग्र॑तीम्। छा॒यामि॑व॒ प्र तान्त्सूर्यः॑ परि॒क्राम॑न्ननीनशत्॥८॥ यः कृ॒णोति॑ मृ॒तव॑त्सा॒मव॑तोकामि॒मां स्त्रिय॑म्। तमो॑षधे॒ त्वं ना॑शया॒स्याः क॒मल॑मञ्जि॒वम्॥९॥ ये शालाः॑ परि॒नृत्य॑न्ति सा॒यं ग॑र्दभना॒दिनः॑ । कु॒सूला॒ ये च॑ कुक्षि॒लाः क॑कु॒भाः क॒रुमाः॒ स्रिमाः॑ । तानो॑षधे॒ त्वं ग॒न्धेन॑ विषू॒चीना॒न् वि ना॑शय ॥१०॥ ये कु॒कुन्धाः॑ कु॒कूर॑भाः॒ कृत्ती॑र्दू॒र्शानि॒ बिभ्र॑ति । क्ली॒बा इ॑व प्र॒नृत्य॑न्तो॒ वने॒ ये कु॒र्वते॒ घोषं॒ तानि॒तो ना॑शयामसि ॥११॥ ये सूर्यं॒ न तिति॑क्षन्त आ॒तप॑न्तम॒मुं दि॒वः । अ॒राया॑न् बस्तवा॒सिनो॑ दु॒र्गन्धीं॒ल्लोहि॑तास्या॒न् मक॑कान् नाशयामसि ॥१२॥ य आ॒त्मान॑मतिमा॒त्रमंस॑ आ॒धाय॒ बिभ्र॑ति । स्त्री॒णां श्रो॑णिप्रतो॒दिन॒ इन्द्र॒ रक्षां॑सि नाशय ॥१३॥ ये पूर्वे॑ ब॒ध्वो॒३यन्ति॒ हस्ते॒ शृङ्गा॑णि॒ बिभ्र॑तः । आ॒पा॒के॒स्थाः प्र॑हा॒सिन॑ स्त॒म्बे ये कु॒र्वते॒ ज्योति॒स्तानि॒तो ना॑शयामसि ॥१४॥ येषां॑ प॒श्चात् प्रप॑दानि पु॒रः पार्ष्णीः॑ पु॒रो मुखा॑ । ख॒ल॒जाः श॑कधूम॒जा उरु॑ण्डा॒ ये च॑ मट्म॒टाः कु॒म्भमु॑ष्का अया॒शवः॑ । तान॒स्या ब्र॑ह्मणस्पते प्रतीबो॒धेन॑ नाशय ॥१५॥ प॒र्य॒स्ता॒क्षा अप्र॑चङ्कशा अस्त्रै॒णाः स॑न्तु॒ पण्ड॑गाः । अव॑ भेषज पादय॒ य इ॒मां सं॒विवृ॑त्स॒त्यप॑तिः स्वप॒तिं स्त्रिय॑म्॥१६॥ उ॒द्ध॒र्षिणं॒ मुनि॑केशं ज॒म्भय॑न्तं मरीमृ॒शम्। उपेष॑न्तमुदु॒म्बलं॑ तु॒ण्डेल॑मु॒त शालु॑डम्। प॒दा प्र वि॑ध्य॒ पार्ष्ण्या॑ स्था॒लीं गौरि॑व स्पन्द॒ना॥१७॥ यस्ते॒ गर्भं॑ प्रतिमृ॒शाज्जा॒तं वा॑ मा॒रया॑ति ते । पि॒ङ्गस्तमु॒ग्रध॑न्वा कृ॒णोतु॑ हृदया॒विध॑म्॥१८॥ ये अ॒म्नो जा॒तान् मा॒रय॑न्ति॒ सूति॑का अनु॒शेर॑ते । स्त्रीभा॑गान् पि॒ङ्गो ग॑न्ध॒र्वान् वातो॑ अ॒भ्रमि॑वाजतु ॥१९॥ परि॑सृष्टं धरयतु॒ यद्धि॒तं माव॑ पादि॒ तत्। गर्भं॑ त उ॒ग्रौ र॑क्षतां भेष॒जौ नी॑विभा॒र्यौऽ॥२०॥ प॒वी॒न॒सात् त॑ङ्ग॒ल्वा॒३च्छाय॑कादु॒त नग्न॑कात्। प्र॒जायै॒ पत्ये॑ त्वा पि॒ङ्गः परि॑ पातु किमी॒दिनः॑ ॥२१॥ द्व्याऽस्याच्चतुर॒क्षात् पञ्चपदादनङ्गु॒रेः । वृन्ता॑द॒भि प्र॒सर्प॑तः॒ परि॑ पाहि वरीवृ॒तात्॥२२॥ यआ॒मं मां॒सम॒दन्ति॒ पौरु॑षेयं च॒ ये क्र॒विः । गर्भा॒न् खाद॑न्ति केश॒वास्तानि॒तो ना॑शयामसि ॥२३॥ ये सूर्या॑त् परि॒सर्प॑न्ति स्नु॒षेव॒ श्वशु॑रा॒दधि॑ । ब॒जश्च॒ तेषां॑ पि॒ङ्गश्च॒ हृद॒येऽधि॒ नि वि॑ध्यताम्॥२४॥ पिङ्ग॒ रक्ष॒ जाय॑मानं॒ मा पुमां॑सं॒ स्त्रियं॑ क्रन्। आ॒ण्डादो॒ गर्भा॒न्मा द॑भ॒न् बाध॑स्वे॒तः कि॑मी॒दिनः॑ ॥२५॥ अ॒प्र॒जा॒स्त्वं मार्त॑वत्स॒माद् रोद॑म॒घमा॑व॒यम्। वृ॒क्षादि॑व॒ स्रजं॑ कृ॒त्वाप्रि॑ये॒ प्रति॑ मुञ्च॒ तत्॥२६॥
ओषधयः। १-२८ अथर्वा। भैषज्यं, आयुष्यं, ओषधयः। अनुष्टुप्, २ उपरिष्टाद् भुरिग्बृहती, ३ पुरउष्णिक्, ४ पञ्चपदा परानुष्टुबतिजगती, ५-६, १०, २५ पथ्यापङ्क्तिः ( ६ विराड् गर्भा भुरिक्) ९ द्विपदार्ची भुरिगनुष्टुप्, १२ पञ्चपदा विराडतिशक्वरी, १४ उपरिष्टान्निचृद् बृहती, २६ निचृत्, २८ भुरिक्। या ब॒भ्रवो॒ याश्च॑ शु॒क्रा रोहि॑णीरु॒त पृश्न॑यः । असि॑क्नीः कृ॒ष्णा ओष॑धीः॒ सर्वा॑ अ॒च्छाव॑दामसि ॥१॥ त्राय॑न्तामि॒मं पुरु॑षं॒ यक्ष्मा॑द् दे॒वेषि॑ता॒दधि॑ । यासां॒ द्यौष्पि॒ता पृ॑थि॒वी मा॒ता स॑मु॒द्रो मूलं॑ वी॒रुधां॑ ब॒भूव॑ ॥२॥ आपो॒ अग्रं दि॒व्या ओष॑धयः । तास्ते॒ यक्ष्म॑मेन॒स्य॑१मङ्गा॑दङ्गादनीनशन्॥३॥ प्र॒स्तृ॒ण॒ती स्त॒म्बिनी॒रेक॑शुङ्गाः प्रतन्व॒तीरोष॑धी॒रा व॑दामि । अं॒शु॒मतीः॑ का॒ण्डिनी॒र्या विशा॑खा॒ ह्वया॑मि ते वी॒रुधो॑ वैश्वदे॒वीरु॒ग्राः पु॑रुष॒जीव॑नीः ॥४ यद् वः॒ सहः॑ सहमाना वी॒र्यं॑१यच्च॑ वो॒ बल॑म्। तेने॒मम॒स्माद् यक्ष्मा॒त् पुरु॑षं मुञ्चतौषधी॒रथो॑ कृणोमि भेष॒जम्॥५॥ जी॒व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम्। अ॒रु॒न्ध॒तीमु॒न्नय॑न्तीं पु॒ष्पां मधु॑मतीमि॒ह हु॑वे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥६॥ इ॒हा य॑न्तु॒ प्रचे॑तसो मे॒दिनी॒र्वच॑सो॒ मम॑ । यथे॒मं पा॒रया॑मसि॒ पुरु॑षं दुरि॒तादधि॑ ॥७॥ अ॒ग्नेर्घा॒सो अ॒पां गर्भो॒ या रोह॑न्ति॒ पुन॑र्णवाः । ध्रु॒वाः स॒हस्र॑नाम्नीर्भेष॒जीः स॒न्त्वाभृ॑ताः ॥८॥ अ॒वको॑ल्बा उ॒दका॑त्मान॒ ओष॑धयः । व्यृऽषन्तु दुरि॒तं ती॑क्ष्णशृ॒ङ्ग्यः ॥९॥ उ॒न्मु॒ञ्चन्ती॑र्विवरु॒णा उ॒ग्रा या वि॑ष॒दूष॑णीः । अथो॑ बलास॒नाश॑नीः कृत्या॒दूष॑णीश्च॒ यास्ता इ॒हा य॒न्त्वोष॑धीः ॥१०॥ अ॒प॒क्री॒ताः सही॑यसीर्वी॒रुधो॒ या अ॒भिष्टु॑ताः । त्राय॑न्ताम॒स्मिन् ग्रामे॒ गामश्वं॒ पुरु॑षं प॒शुम्॥११॥ मधु॑मन्मू॑लं म॑धुमद॑ग्रमासाम्म॑धुमन्म॑ध्यं वीरु॑धां बभूव । मधु॑मत् प॒र्णं मधु॑म॒त् पुष्प॑मासां॒ मधोः॒ संभक्ता अ॒मृत॑स्य भ॒क्षो घृ॒तमन्नं॑ दुह्रतां॒ गोपु॑रोगवम्॥१२॥ याव॑तीः किय॑तीश्चे॒माः पृ॑थि॒व्यामध्योष॑धीः । ता मा॑ सहस्रप॒र्ण्योऽ मृ॒त्योर्मु॑ञ्च॒न्त्वंह॑सः ॥१३॥ वैया॑घ्रो म॒णिर्वी॒रुधां॒ त्राय॑मानोऽभिशस्ति॒पाः । अमी॑वाः॒ सर्वा॒ रक्षां॒स्यप॑ ह॒न्त्वधि॑ दू॒रम॒स्मत्॥१४॥ सिं॒हस्ये॑व स्त॒नथोः॒ सं वि॑जन्ते॒ऽग्नेरि॑व विजन्त॒ आभृ॑ताभ्यः । गवां॒ यक्ष्मः॒ पुरु॑षाणां वी॒रुद्भि॒रति॑नुत्तो ना॒व्याऽएतु स्रो॒त्याः ॥१५॥ मु॒मु॒चा॒ना ओष॑धयो॒ऽग्नेर्वै॑श्वान॒रादधि॑ । भूमिं॑ संतन्व॒तीरि॑त॒ यासां॒ राजा॒ वन॒स्पतिः॑ ॥१६॥ या रोह॑न्त्याङ्गिर॒सीः पर्व॑तेषु स॒मेषु॑ च । ता नः॒ पय॑स्वतीः शि॒वा ओष॑धीः सन्तु॒ शं हृ॒दे॥१७॥ याश्चा॒हं वेद॑ वी॒रुधो॒ याश्च॒ पश्या॑मि॒ चक्षु॑षा । अज्ञा॑ता जानी॒मश्च॒ या यासु॑ वि॒द्म च॒ संभृ॑तम्॥१८॥ सर्वाः॑ सम॒ग्रा ओष॑धी॒र्बोध॑न्तु॒ वच॑सो॒ मम॑ । यथे॒मं पा॒रया॑मसि॒ पुरु॑षं दुरि॒तादधि॑ ॥१९॥ अ॒श्व॒त्थो द॒र्भो वी॒रुधां॒ सोमो॒ राजा॒मृतं॑ ह॒विः । व्री॒हिर्यव॑श्च भेष॒जौ दि॒वस्पु॒त्रावम॑र्त्यौ ॥२०॥ उज्जि॑हीध्वे स्त॒नय॑त्यभि॒क्रन्द॑त्योषधीः । य॒दा वः॑ पृश्निमातरः प॒र्जन्यो॒ रेत॒साव॑ति ॥२१॥ तस्या॒मृत॑स्ये॒मं बलं॒ पुरु॑षं पाययामसि । अथो॑ कृणोमि भेष॒जं यथा स॑च्छ॒तहा॑यनः ॥२२॥ व॒रा॒हो वे॑द वी॒रुधं॑ नकु॒लो वे॑द भेष॒जीम्। स॒र्पा ग॑न्ध॒र्वा या वि॒दुस्ता अ॒स्मा अव॑से हुवे ॥२३॥ याः सु॑प॒र्णा आ॑ङ्गिर॒सीर्दि॒व्या या र॒घतो॑ वि॒दुः । वयां॑सि हं॒सा या वि॒दुर्याश्च॒ सर्वे॑ पत॒त्रिणः॑ । मृ॒गा या वि॒दुरोष॑धी॒स्ता अ॒स्मा अव॑से हुवे ॥२४॥ याव॑तीना॒मोष॑धीनां॒ गा॑वः प्रा॒श्नन्त्य॒घ्न्या याव॑तीनामजा॒वयः॑ । ताव॑ती॒स्तुभ्य॒मोष॑धीः॒ शर्म॑ यच्छ॒न्त्वाभृ॑ताः ॥२५॥ याव॑तीषु मनु॒ष्याऽ भेष॒जं भि॒षजो॑ वि॒दुः । ताव॑तीर्वि॒श्वभे॑षजी॒रा भ॑रामि॒ त्वाम॒भि॥२६॥ पुष्प॑वतीः प्र॒सूम॑तीः फ॒लिनी॑रफ॒ला उ॒त। सं॒मा॒तर॑ इव दुह्राम॒स्मा अ॑रि॒ष्टता॑तये ॥२७॥ उत् त्वा॑हार्षं॒ पञ्च॑शला॒दथो॒ दश॑शलादु॒त। अथो॑ य॒मस्य॒ पड्वी॑शा॒द् विश्व॑स्माद् देवकिल्बि॒षात्॥२८॥
शत्रुपराजयः। भृग्वङ्गिराः। इन्द्रः, वनस्पतिः, परसेनाहननं च। अनुष्टुप्, २, ८-१०, २३ उपरिष्टाद्बृहती, ३ विराड् बृहती, ४ बृहती पुरस्तात्प्रस्तारपङ्क्तिः, ६ आस्तारपङ्क्तिः, ७ विपरीतपादलक्ष्मा चतुष्पदातिजगती, ११ पथ्याबृहती, १२ भुरिक्, १९ पुरस्ताद्विराड् बृहती, २० पुरस्तान्निचृद्बृहती, २१ त्रिष्टुप्, २२ चतुष्पदा शक्वरी, २४ त्र्यवसाना त्रिष्टुबुष्णिग्गर्भा पराशक्वरी पञ्चपदा जगती। इन्द्रो॑ मन्थतु॒ मन्थि॑ता श॒क्रः शूरः॑ पुरंद॒रः । यथा॒ हना॑म॒ सेना॑ अ॒मित्रा॑णां सहस्र॒शः ॥१॥ पू॒ति॒रज्जुरु॑प॒ध्मानी॒ पूतिं॒ सेनां॑ कृणोत्व॒मूम्। धू॒मम॒ग्निं प॑रा॒दृश्या॒मित्रा॑ हृ॒त्स्वा द॑धतां भ॒यम्॥२॥ अ॒मून॑श्वत्थ॒ निः शृ॑णीहि॒ खादा॒मून् ख॑दिराजि॒रम्। ता॒जद्भङ्ग॑ इव भजन्तां॒ हन्त्वे॑नान् वध॑को व॒धैः ॥३॥ प॒रु॒षान॒मून् प॑रुषा॒ह्वः कृ॑णोतु॒ हन्त्वे॑ना॒न् वध॑को व॒धैः । क्षि॒प्रं श॒र इ॑व भजन्तां बृहज्जा॒लेन॒ संदि॑ताः ॥४॥ अ॒न्तरि॑क्षं॒ जाल॑मासीज्जालद॒ण्डा दिशो॑ म॒हीः । तेना॑भि॒धाय॒ दस्यू॑नां श॒क्रः सेना॒मपा॑वपत्॥५॥ बृ॒हद्धि जालं॑ बृह॒तः श॒क्रस्य॑ वा॒जिनी॑वतः । तेन॒ शत्रू॑न॒भि सर्वा॒न् न्युऽब्ज॒ यथा॒ न मुच्या॑तै कत॒मश्च॒नैषा॑म्॥६॥ बृ॒हत् ते॒ जालं॑ बृह॒त इ॑न्द्र शूर सहस्रा॒र्घस्य॑ श॒तवी॑र्यस्य । तेन॑ श॒तं स॒हस्र॑म॒युतं॒ न्यऽर्बुदं ज॒घान॑ श॒क्रो दस्यू॑नामभि॒धाय॒ सेन॑या ॥७॥ अ॒यं लो॒को जाल॑मासीच्छ॒क्रस्य॑ मह॒तो म॒हान्। तेना॒हमि॑न्द्रजा॒लेना॒मूंस्तम॑सा॒भि द॑धामि॒ सर्वा॑न्॥८॥ से॒दिरु॒ग्रा व्यृऽद्धि॒रार्ति॑श्चानपवाच॒ना। श्रम॑स्त॒न्द्रीश्च॒ मोह॑श्च॒ तैर॒मून॒भि द॑धामि॒ सर्वा॑न्॥९॥ मृ॒त्यवे॒ऽमून् प्र य॑च्छामि मृत्युपा॒शैर॒मी सि॒ताः । मृ॒त्योर्ये अ॑घ॒ला दू॒तास्तेभ्य॑ एना॒न् प्रति॑ नयामि ब॒द्ध्वा॥१०॥ नय॑ता॒मून् मृ॑त्युदूता॒ यम॑दूता॒ अपो॑म्भत । प॒रः॒स॒ह॒स्रा ह॑न्यन्तां तृ॒णेढ्वे॑नान् म॒त्यं भ॒वस्य॑ ॥११॥ सा॒ध्या एकं॑ जालद॒ण्डमु॒द्यत्य॑ य॒न्त्योज॑सा । रु॒द्रा एकं॒ वस॑व॒ एक॑मादि॒त्यैरेक॒ उद्य॑तः ॥१२॥ विश्वे॑ दे॒वाः उ॒परि॑ष्टादु॒ब्जन्तो॑ य॒न्त्वोज॑सा । मध्ये॑न॒ घ्नन्तो॑ यन्तु॒ सेना॒मङ्गि॑रसो म॒हीम्॥१३॥ वन॒स्पती॑न् वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑ । द्वि॒पाच्चतु॑ष्पादिष्णामि॒ यथा॒ सेना॑म॒मूं हन॑न्॥१४॥ ग॒न्ध॒र्वा॒प्स॒रसः॑ स॒र्पान् दे॒वान् पु॑ण्यज॒नान् पितॄ॒न्। दृ॒ष्टान॒दृष्टा॑निष्णामि॒ यथा॒ सेना॑म॒मूं हन॑न्॥१५॥ इ॒म उ॒प्ता मृ॑त्युपा॒शा याना॒क्रम्य॒ न मु॒च्यसे॑ । अ॒मुष्या॑ हन्तु॒ सेना॑या इ॒दं कूटं॑ सहस्र॒शः ॥१६॥ घ॒र्मः समि॑द्धो अ॒ग्निना॒यं होमः॑ सहस्र॒हः । भ॒वश्च॒ पृश्नि॑बाहुश्च॒ शर्व॒ सेना॑म॒मूं ह॑तम्॥१७॥ मृ॒त्योराष॒मा प॑द्यन्तां॒ क्षुधं॑ से॒दिं व॒धं भ॒यम्। इन्द्र॑श्चाक्षुजा॒लाभ्यां॒ शर्व॒ सेना॑म॒मूं ह॑तम्॥१८॥ परा॑जिताः॒ प्र त्र॑सतामित्रा नु॒त्ता धा॑वत॒ ब्रह्म॑णा । बृह॒स्पति॑प्रनुत्तानां॒ मामीषां॑ मोचि कश्चन॥१९॥ अव॑ पद्यन्तामेषा॒मायु॑धानि॒ मा श॑कन् प्रति॒धामिषु॑म्। अथै॑षां ब॒हु बिभ्य॑ता॒मिष॑वः घ्नन्तु॒ मर्म॑णि ॥२०॥ सं क्रो॑शतामेना॒न् द्यावा॑पृथि॒वी सम॒न्तरि॑क्षं स॒ह दे॒वता॑भिः । मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम्॥२१॥ दिश॒श्चत॑स्रोऽश्वत॒र्यो देवर॒थस्य॑ पुरो॒डाशाः॑ श॒फा अन्तरि॑क्षमु॒द्धिः । द्यावा॑पृथि॒वी पक्ष॑सी ऋ॒तवो॒ऽभीश॑वोऽन्तर्दे॒शाः किं॑क॒रा वाक् परि॑रथ्यम्॥२२॥ सं॒व॒त्स॒रो रथः॑ परिवत्स॒रो र॑थोप॒स्थो वि॒राडी॒षाग्नी र॑थमु॒खम्। इन्द्रः॑ सव्य॒ष्ठाश्च॒न्द्रमाः॒ सार॑थिः ॥२३॥ इ॒तो ज॑ये॒तो वि ज॑य॒ सं ज॑य॒ जय॒ स्वाहा॑ । इ॒मे ज॑यन्तु॒ परा॒मी ज॑यन्तां॒ स्वाहै॒भ्यो दु॒राहा॒मीभ्यः॑ । नी॒ल॒लो॒हि॒तेना॒मून॒भ्यव॑तनोमि ॥२४॥
विराट्। १-२६ अथर्वा। कश्यपः, सर्वे ऋषयः, छन्दांसी च, विराट्। त्रिष्टुप्, २ पङ्क्तिः, ३ आस्तारपङ्क्तिः, ४-५, २३, २५-२६ अनुष्टुप्, ८, ११-१२, २२ जगती, ९ भुरिक्, १४ चतुष्पदातिजगती। कुत॒स्तौ जा॒तौ क॑त॒मः सो अर्धः॒ कस्मा॑ल्लो॒कात् क॑त॒मस्याः॑ पृथि॒व्याः । व॒त्सौ वि॒राजः॑ सलि॒लादुदै॑तां॒ तौ त्वा॑ पृछामि कत॒रेण॑ दु॒ग्धा॥१॥ यो अक्र॑न्दयत् सलि॒लं म॑हि॒त्वा योनिं॑ कृ॒त्वा त्रि॒भुजं॒ शया॑नः । व॒त्सः का॑म॒दुघो॑ वि॒राजः॒ स गुहा॑ चक्रे त॒न्वःऽ परा॒चैः ॥२॥ यानि॒ त्रीणि॑ बृ॒हन्ति॑ येषां॑ चतु॒र्थं वि॑यु॒नक्ति॒ वाच॑म्। ब्र॒ह्मैन॑द् विद्या॒त् तप॑सा विप॒श्चिद् यस्मि॒न्नेकं॑ यु॒ज्यते॒ यस्मि॒न्नेक॑म्॥३॥ बृ॒ह॒तः परि॒ सामा॑नि ष॒ष्ठात् पञ्चाधि॒ निर्मि॑ता । बृ॒हद् बृ॑ह॒त्या निर्मि॑तं॒ कुतोऽधि॑ बृह॒ती मि॒ता॥४॥ बृ॒ह॒ती परि॑ मात्रा॑या मा॒तुर्मात्राधि॒ निर्मि॑ता । मा॒या ह॑ जज्ञे मा॒याया॑ मा॒याया॒ मातली॒ परि॑ ॥५॥ वै॒श्वा॒न॒रस्य॑ प्रति॒मोपरि॒ द्यौर्याव॒द् रोद॑सी विबबा॒धे अ॒ग्निः । ततः॑ ष॒ष्ठादामुतो॑ यन्ति॒ स्तोमा॒ उदि॒तो य॑न्त्य॒भि ष॒ष्ठमह्नः॑ ॥६॥ षट् त्वा॑ पृछाम॒ ऋष॑यः कश्यपे॒मे त्वं हि यु॒क्तं यु॑यु॒क्षे योग्यं॑ च । वि॒राज॑माहु॒र्ब्रह्म॑णः पि॒तरं॒ तां नो॒ वि धे॑हि यति॒धा सखि॑भ्यः ॥७॥ यां प्रच्यु॑ता॒मनु॑ य॒ज्ञाः प्र॒च्यव॑न्त उप॒तिष्ठ॑न्त उप॒तिष्ठ॑मानाम्। यस्या॑ व्र॒ते प्र॑स॒वे य॒क्षमेज॑ति॒ सा वि॒राडृषयः पर॒मे व्योऽमन्॥८॥ अ॒प्रा॒णैति॑ प्रा॒णेन॑ प्राण॒तीनां॑ वि॒राट् स्व॒राज॑म॒भ्येऽति प॒श्चात्। विश्वं॑ मृ॒शन्ती॑म॒भिरू॑पां वि॒राजं॒ पश्य॑न्ति॒ त्वे न त्वे प॑श्यन्त्येनाम्॥९॥ को वि॒राजो॑ मिथुन॒त्वं प्र वे॑द॒ क ऋ॒तून् क उ॒ कल्प॑मस्याः । क्रमा॒न् को अ॑स्याः कति॒धा विदु॑ग्धा॒न् को अ॑स्या॒ धाम॑ कति॒धा व्युऽष्टीः ॥१०॥ इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑दा॒स्वित॑रासु चरति॒ प्रवि॑ष्टा । म॒हान्तो॑ अस्यां महि॒मानो॑ अ॒न्तर्वधूर्जि॑गाय नव॒गज्जनि॑त्री ॥११॥ छन्दः॑पक्षे उ॒षसा॒ पेपि॑शाने समा॒नं योनि॒मनु॒ सं च॑रेमे । सूर्य॑पत्नी॒ सं च॑रतः प्रजान॒ती के॑तु॒मती॑ अ॒जरे॒ भूरि॑रेतसा ॥१२॥ ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आगु॒स्त्रयो॑ घ॒र्मा अनु॑ रेत॒ आगुः॑ । प्र॒जामेका॒ जिन्व॒त्यूर्ज॒मेका॑ रा॒ष्ट्रमेका॑ रक्षति देवयू॒नाम्॥१३॥ अ॒ग्नीषोमा॑वदधु॒र्या तु॒रीयासी॑द् य॒ज्ञस्य॑ प॒क्षावृष॑यः क॒ल्पय॑न्तः । गा॒य॒त्रीं त्रि॒ष्टुभं॒ जग॑तीमनु॒ष्टुभं॑ बृहद॒र्कीं यज॑मानाय॒ स्वऽरा॒भर॑न्तीम्॥१४॥ पञ्च॒ व्युऽष्टी॒रनु॒ पञ्च॒ दोहा॒ गां पञ्च॑नाम्नीमृ॒तवोऽनु॒ पञ्च॑ । पञ्च॒ दिशः॑ पञ्चद॒शेन॑ क्लृ॒प्तस्ता एक॑मूर्ध्नीर॒भि लो॒कमेक॑म्॥१५॥ षड् जा॒ता भू॒ता प्र॑थम॒जर्तस्य॑ षडु॒ सामा॑नि षड॒हं व॑हन्ति । ष॒ड्यो॒गं सीर॒मनु॒ साम॑साम॒ षडा॑हु॒र्द्यावा॑पृथि॒वीः षडु॒र्वीः ॥१६॥ षडा॑हुः शी॒तान् षडु॑ मा॒स उ॒ष्णानृ॒तुं नो॑ ब्रूत यत॒मोऽति॑रिक्तः । स॒प्त सु॑प॒र्णाः क॒वयो॒ नि षे॑दुः स॒प्त च्छन्दां॒स्यनु॑ स॒प्त दी॒क्षाः ॥१७॥ स॒प्त होमाः॑ स॒मिधो॑ ह स॒प्त मधू॑नि स॒प्तर्तवो॑ ह स॒प्त। स॒प्ताज्या॑नि॒ परि॑ भू॒तमा॑य॒न् ताः स॑प्तगृ॒ध्रा इति॑ शुश्रुमा व॒यम्॥१८॥ स॒प्त च्छन्दां॑सि चतुरुत्त॒राण्य॒न्यो अ॒न्यस्मि॒न्नध्यार्पि॑तानि । क॒थं स्तोमाः॒ प्रति॑ तिष्ठन्ति॒ तेषु॒ तानि॒ स्तोमे॑षु॒ क॒थमार्पि॑तानि ॥१९॥ क॒थं गा॑य॒त्री त्रि॒वृतं॒ व्याऽप क॒थं त्रि॒ष्टुप् प॑ञ्चद॒शेन॑ कल्पते । त्र॒य॒स्त्रिं॒शेन॒ जग॑ती क॒थम॑नु॒ष्टुप् क॒थमे॑कविं॒शः ॥२०॥ अ॒ष्ट जा॒ता भू॒ता प्र॑थम॒जर्तस्या॒ष्टेन्द्र॒र्त्विजो॒ दैव्या॒ ये। अ॒ष्टयो॑नि॒रदि॑तिर॒ष्टपु॑त्राष्ट॒मीं रात्रि॑म॒भि ह॒व्यमे॑ति ॥२१॥ इ॒त्थं श्रेयो॒ मन्य॑माने॒दमाग॑मं यु॒ष्माकं॑ स॒ख्ये अ॒हम॑स्मि॒ शेवा॑ । स॒मा॒नज॑न्मा॒ क्रतु॑रस्ति वः शि॒वः स वः॒ सर्वाः॒ सं च॑रति प्रजा॒नन्॥२२॥ अ॒ष्टेन्द्र॑स्य॒ षड् य॒मस्य॒ ऋषी॑णां स॒प्त स॑प्त॒धा। अ॒पो म॑नु॒ष्या॒३नोष॑धी॒स्ताँ उ॒ पञ्चानु॑ सेचिरे ॥२३॥ केव॒लीन्द्रा॑य दुदु॒हे हि गृ॒ष्टिर्वशं पी॒यूषं॑ प्रथ॒मं दुहा॑ना । अथा॑तर्पयच्च॒तुर॑श्चतु॒र्धा दे॒वान् म॑नु॒ष्याँ॒३ असु॑रानु॒त ऋषी॑न्॥२४॥ को नु गौः क ए॑कऋ॒षिः किमु॒ धाम॒ का आ॒शिषः॑ । य॒क्षं पृ॑थि॒व्यामे॑क॒वृदे॑क॒र्तुः क॑त॒मो नु सः ॥२५॥ एको॒ गौरेक॑ एकऋ॒षिरेकं॒ धामै॑क॒धाशिषः॑ । य॒क्षं पृ॑थि॒व्यामे॑क॒वृदे॑क॒र्तुर्नाति॑ रिच्यते ॥२६॥
विराट्। १-१३ अथर्वाचार्यः। विराट्। (षट्-पर्यायाः)। १-१३, १ त्रिपदार्ची पङ्क्तिः, २-७ याजुषी जगती, ३, ९ साम्न्यनुष्टुप्, ५ आर्च्यनुष्टुप्, ७, १३ विराड् गायत्री, ११ साम्ननी बृहती। वि॒राड् वा इ॒दमग्र॑ आसी॒त् तस्या॑ जा॒तायाः॒ सर्व॑मबिभेदि॒यमे॒वेदं भ॑वि॒ष्यतीति॑ ॥१॥ सोद॑क्राम॒त् सा गार्ह॑पत्ये॒ न्यऽक्रामत्।।२॥ गृ॒ह॒मे॒धी गृ॒हप॑तिर्भवति॒ य ए॒वं वेद॑ ॥३।। सोद॑क्राम॒त् साह॑व॒नीये॒ न्यऽक्रामत्।।४।। यन्त्य॑स्य दे॒वा दे॒वहू॑तिं प्रि॒यो दे॒वानां॑ भवति॒ य ए॒वं वेद॑ ॥५॥ सोद॑क्राम॒त् सा द॑क्षिणा॒ग्नौ न्यऽक्रामत्।।६।। य॒ज्ञर्तो॑ दक्षि॒णीयो॒ वास॑तयो भवति॒ य ए॒वं वेद॑ ॥७॥ सोद॑क्राम॒त् सा स॒भायां॒ न्यऽक्रामत्।।८।। यन्त्य॑स्य स॒भां सभ्यो॑ भवति॒ य ए॒वं वेद॑ ॥९॥ सोदक्राम॒त् सा समि॑तौ॒ न्यऽक्रामत्।।१०।। यन्त्य॑स्य॒ समि॑तिं सामि॒त्यो भ॑वति॒ य ए॒वं वेद॑ ॥११॥ सोद॑क्राम॒त सामन्त्र॑णे॒ न्यऽक्रामत्।।१२।।(६) यन्त्य॑स्या॒मन्त्र॑णमामन्त्र॒णीयो॑ भवति॒ य ए॒वं वेद॑ ॥१३॥(७) (2) १-१०) १ त्रिपदा साम्नी अनुष्टुप्, २ उष्णिग्गर्भा चतुष्पदोपरिष्टाद्विराड्बृहती, ३ एकपदा याजुषी गायत्री, ४ एकपदा साम्नी पङ्क्तिः ५ विराड् गायत्री, ६ आर्च्यनुष्टुप्, ७ साम्नी पङ्क्तिः, ८ आसुरी गायत्री, ९ साम्नी अनुष्टुप्, १० साम्नी बृहती। सोद॑क्राम॒त् सान्तरि॑क्षे चतु॒र्धा विक्रा॑न्तातिष्ठत्॥१॥(८) तां दे॑वमनु॒ष्याऽ अब्रुवन्नि॒यमे॒व तद् वे॑द॒ यदु॒भय॑ उप॒जीवे॑मे॒मामुप॑ ह्वयामहा॒ इति॑ ॥२॥(९) तामुपा॑ह्वयन्त ॥३॥(१०) ऊर्ज॒ एहि॒ स्वध॒ एहि॒ सूनृ॑त॒ एहीरा॑व॒त्येहीति॑ ॥४॥(११) तस्या॒ इन्द्रो॑ व॒त्स आसी॑द् गाय॒त्र्यऽभि॒धान्य॒भ्रमूधः॑ ॥५॥(१२) बृ॒हच्च॑ रथन्त॒रं च॒ द्वौ स्तना॒वास्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॒ द्वौ॥६॥(१३) ओष॑धीरे॒व र॑थन्त॒रेण॑ दे॒वा अ॑दुह्र॒न् व्यचो॑ बृह॒ता॥७॥(१४) अ॒पो वा॑मदे॒व्येन॑ य॒ज्ञं य॑ज्ञाय॒ज्ञिये॑न ॥८॥(१५) ओष॑धीरे॒वास्मै॑ रथन्त॒रं दु॑हे॒ व्यचो॑ बृ॒हत्॥९॥(१६) अ॒पो वा॑मदे॒व्यं य॒ज्ञं य॑ज्ञाय॒ज्ञियं॒ य ए॒वं वेद॑ ॥१०॥(१७) (3) (१-८) १ चतुष्दा विराडनुष्टुप्, २ आर्ची त्रिष्टुप्, ३,५,७ चतुष्पदा प्राजापत्या पङ्क्तिः, ४,६,८ आर्ची बृहती। सोद॑क्राम॒त् सा वन॒स्पती॒नाग॑च्छत् तां वन॒स्पत॑योऽघ्नत॒ सा सं॑वत्स॒रे सम॑भवत्।।१।। तस्मा॒द् वन॒स्पती॑नां संवत्स॒रे वृ॒क्णमपि॑ रोहति वृ॒श्चते॒ऽस्याप्रि॑यो॒ भ्रातृ॑व्यो॒ य ए॒वं वेद॑ ॥२॥ (१८) सोद॑क्राम॒त् सा पि॒तॄनाग॑च्छ॒त् तां पि॒तरो॑ऽघ्नत॒ सा मा॒सि सम॑भवत्।।३।। तस्मा॑त् पि॒तृभ्यो॑ मा॒स्युप॑मास्यं ददति॒ प्र पि॑तृ॒याणं॒ पन्थां॑ जानाति॒ य ए॒वं वेद॑ ॥४॥(१९) सोद॑क्राम॒त् सा दे॒वानाग॑च्छ॒त् तां दे॒वा अ॑घ्नत॒ सार्ध॑मा॒से सम॑भवत्।।५।। तस्मा॑द् दे॒वेभ्यो॑ऽर्धमा॒से वष॑ट्कुर्वन्ति॒ प्र दे॑व॒यानं॒ पन्थां॑ जानाति॒ य ए॒वं वेद॑ ॥६॥(२०) सोद॑क्राम॒त् सा म॑नु॒ष्या॒३नाग॑च्छ॒त् तां म॑नु॒ष्याऽ अघ्नत॒ सा स॒द्यः सम॑भवत्।।७।। तस्मा॑न्मनु॒ष्ये॒ऽभ्य उभय॒द्युरुप॑ हर॒न्त्युपा॑स्य गृ॒हे ह॑रन्ति॒ य ए॒वं वेद॑ ॥८॥(२१) (4-5) (१-१६, १-१६) २२-२३, २६,२९(प्र०) चतुष्पदा साम्नी जगती, २२-२४, २८-२९(द्वि०) साम्नी बृहती, २२,२६ (तृ०) साम्नी उष्णिक्, २२-२३,२६,२९ (च०) आर्च्यनुष्टुप्, २३ (तृ०) आर्ची गायत्री, २४-२५, २८ (प्र०) चतुष्पदा उष्णिक्, २४ (तृ०) प्राजापत्यानुष्टुप्, २४-२५, २७ आर्ची त्रिष्टुप्, २५-२६ (द्वि०) साम्नी उष्णिक्, २५, २७-२८ (तृ०) विराड् गायत्री २७ (प्र०)चतुष्पदा प्राजापत्या जगती, २७ (द्वि०) साम्नी बृहती त्रिष्टुप्, २८ (च०) त्रिपदा ब्राह्मी भुरिग्गायत्री, २९ (तृ०) साम्नी अनुष्टुप्। सोद॑क्राम॒त् सासु॑रा॒नाग॑च्छ॒त् तामसु॑रा॒ उपा॑ह्वयन्त॒ माय॒ एहीति॑ ।। १।। तस्या॑ वि॒रोच॑नः॒ प्राह्रा॑दिर्व॒त्स आसी॑दयस्पा॒त्रं पात्र॑म्।।२।। तां द्विमू॑र्धा॒र्त्व्योऽधो॒क् तां मा॒यामे॒वाधो॑क्।।३।। तां मा॒यामसु॑रा॒ उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।४॥(२२) सोद॑क्राम॒त् सा पि॒तॄ॒नाग॑च्छत् तां पि॒तर॒ उपा॑ह्वयन्त॒ स्वध॒ एहीति॑ ।।५।। तस्या॑ य॒मो राजा॑ व॒त्स आसी॑द् रजतपा॒त्रं पात्र॑म्।।६।। तामन्त॑को मार्त्य॒वोऽधो॒क् तां स्व॒धामे॒वाधो॑क्।।७।। तां स्व॒धां पि॒तर॒ उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑।।८॥(२३) सोद॑क्राम॒त् सा म॑नु॒ष्या॒३नाग॑च्छ॒त् तां म॑नु॒ष्या॒३ उपा॑ह्वय॒न्तेरा॑व॒त्येहीति॑ ।।९।। तस्या॒ मनु॑र्वैवस्व॒तो व॒त्स आसी॑त् पृथि॒वी पात्र॑म् ।।१०।। तां पृथी॑ वै॒न्योऽधो॒क् तां कृ॒षिं च॑ स॒स्यं चा॑धोक् ।।११।। ते कृ॒षिं च॑ स॒स्यं च॑ मनु॒ष्या॒३उप॑ जीवन्ति कृ॒ष्टरा॑धिरुपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।१२॥(२४) सोद॑क्राम॒त् सा स॑प्तऋ॒षीनाग॑च्छ॒त् तां स॑प्तऋ॒षय॒ उपा॑ह्वयन्त॒ ब्रह्म॑ण्व॒त्येहीति॑ ।।१३।। तस्याः॒ सोमो॒ राजा॑ व॒त्स आसी॒च्छन्दः॒ पात्र॑म् ।।१४।। तां बृह॒स्पति॑राङ्गिर॒सोऽधो॒क् तां ब्रह्म॑ च॒ तप॑श्चाधोक् ।।१५।। तद् ब्रह्म॑ च॒ तप॑श्च सप्तऋ॒षय॒ उप॑ जीवन्ति ब्रह्मवर्च॒स्युऽपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।१६॥(२५) (5) सोद॑क्राम॒त् सा दे॒वानाग॑च्छ॒त् तां दे॒वा उपा॑ह्वय॒न्तोर्ज॒ एहीति॑ ।।१।। तस्या॒ इन्द्रो॑ व॒त्स आसी॑च्चम॒सः पात्र॑म् ।।२।। तां दे॒वः स॑वि॒ताधो॒क् तामू॒र्जामे॒वाधो॑क् ।।३।। तामू॒र्जां दे॒वा उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।४॥(२६) सोद॑क्राम॒त् सा ग॑न्धर्वाप्स॒रस॒ आग॑च्छत् तां ग॑न्धर्वाप्स॒रस॒ उपा॑ह्वयन्त॒ पुण्य॑गन्ध॒ एहीति॑ ।।५।। तस्या॑श्चि॒त्रर॑थः सौर्यवर्च॒सो व॒त्स आसी॑त् पुष्करप॒र्णं पात्र॑म् ।।६।। तां वसु॑रुचिः सौर्यवर्च॒सोऽधो॒क् तां पुण्य॑मे॒व ग॒न्धम॑धोक् ।।७।। तं पुण्यं॑ ग॒न्धं ग॑न्धर्वाप्स॒रस॒ उप॑ जीवन्ति॒ पुण्य॑गन्धिरुपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ।।८॥(२७) सोद॑क्राम॒त् सेत॑रज॒नानाग॑च्छत् तामि॑तरज॒ना उपा॑ह्वयन्त॒ तिरो॑ध॒ एहीति॑।।९।। तस्याः॒ कुबे॑रो वैश्रव॒णो व॒त्स आसी॑दामपा॒त्रं पात्र॑म् ।।१०।। तां र॑ज॒तना॑भिः काबेर॒कोऽधो॒क् तां ति॑रो॒धामे॒वाधो॑क् ।।११। तां ति॑रो॒धामि॑तरज॒ना उप॑ जीवन्ति॒ ति॒रो ध॑त्ते॒ सर्वं॑ पा॒प्मान॑मुपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑॥१२॥(२८) सोद॑क्राम॒त् सा स॒र्पानाग॑च्छ॒त् तां स॒र्पा उपा॑ह्वयन्त॒ विष॑व॒त्येहीति॑ ।।१३।। तस्या॑स्तक्ष॒को वै॑शले॒यो व॒त्स आसी॑दलाबुपा॒त्रं पात्र॑म् ।।१४। तां धृ॒तरा॑ष्ट्र ऐराव॒तोऽधो॒क् तां वि॒षमे॒वाधो॑क् ।।१५।। तद् वि॒षं स॒र्पा उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥१६ (२९) (6) (-१-४) १ द्विपदा विराड् गायत्री, २ द्विपदा साम्नी त्रिष्टुप्, ३ द्विपदा प्राजापत्यानुष्टुप्, ४ द्विपदार्च्युष्णिक्। तद् यस्मा॑ ए॒वं वि॒दुषे॒ऽलाबु॑नाभिषि॒ञ्चेत् प्र॒त्याह॑न्यात्॥१।। न च॑ प्रत्याह॒न्यान्मन॑सा त्वा प्र॒त्याह॒न्मीति॑ प्र॒त्याह॑न्यात्॥२।। यत् प्र॑त्या॒हन्ति॑ वि॒षमे॒व तत् प्र॒त्याह॑न्ति ॥३॥ वि॒षमे॒वास्याप्रि॑यं॒ भ्रातृ॑व्यमनु॒विषि॑च्यते॒ य ए॒वं वेद॑ ॥४।।(३०)
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is Kaanda 8 of the Atharva Veda?
Kaanda 8 of the Atharvaveda (Shaunaka) — longer hymns, ranging over health, household and social life and cosmic themes. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
What is the Atharva Veda?
The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
Offer a Vedic paath or seva in your name
Have a Vedic paath, havan or seva performed in your naam-gotra for peace and blessings. Book a seva, or read on in Sanatan Sahitya.








