About Kaanda 4
Kaanda 4 of the Atharvaveda (Shaunaka) — shorter hymns for healing, protection, long life and well-being. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
How it is read
Kaanda 4 is given below in its original Sanskrit, in accented Devanagari. The Veda is preserved as shruti and recited in svadhyaya; read it reverently, sukta by sukta.
Original Text
The Verses
१-७ वेनः। बृहस्पतिः, आदित्यः। त्रिष्टुप् २, ५ पुरोऽनुष्टुप्। ब्रह्मविद्या। ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द् वि सी॑म॒तः सु॒रुचो॑ वे॒न आवः । स बु॒ध्न्याऽउप॒माअ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि व॑ ॥१॥ इ॒यं पित्र्या॒ राष्ट्र्ये॒त्वग्रे॑ प्रथ॒माय॑ ज॒नुषे॑ भुवने॒ष्ठाः । तस्मा॑ ए॒तं सु॒रुचं॑ ह्वा॒रम॑ह्यं घ॒र्मं श्री॑णन्तु प्रथ॒माय॑ धा॒स्यवे॑ ॥२॥ प्र यो ज॒ज्ञे वि॒द्वान॑स्य॒ बन्धु॒र्विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति । ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या॑न्नी॒चैरु॒च्चै स्व॒धा अ॒भि प्र त॑स्थौ ॥३॥ स हि दि॒वः स पृ॑थि॒व्या ऋ॑त॒स्था म॒ही क्षेमं॒ रोद॑सी अस्कभायत्। म॒हान् म॒ही अस्क॑भाय॒द् वि जा॒तो द्यां सद्म॒ पार्थि॑वं च॒ रज॑ ॥४॥ स बु॒ध्न्यादा॑ष्ट्र ज॒नुषो॒ऽभ्यग्रं बृह॒स्पति॑र्दे॒वता॒ तस्य॑ स॒म्राट्। अह॒र्यच्छुक्रं ज्योति॑षो॒ जनि॒ष्टाथ॑ द्यु॒मन्तो॒ वि व॑सन्तु॒ विप्रा॑ ॥५॥ नू॒नं तद॑स्य का॒व्यो॑ हि॑नोति म॒हो दे॒वस्य॑ पू॒र्व्यस्य॒ धाम॑ । ए॒ष ज॑ज्ञे ब॒हुभि॑ सा॒कमि॒त्था पूर्वे॒ अर्धे॒ विषि॑ते स॒सन्नु॥६॥ योऽथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुं॒ बृह॒स्पतिं॒ नम॒साव॑ च॒ गछा॑त्। त्वं विश्वे॑षां जनि॒ता यथास॑ क॒विर्दे॒वो न दभा॑यत् स्व॒धावा॑न्॥७॥
आत्मविद्या। १-८ वेनः। आत्मा। त्रिष्टुप्, ६ पुरोऽनुष्टुप्, ७ उपरिष्टाज्यो। तिः। य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यो॒३स्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१॥ यः प्रा॑ण॒तो नि॑मिष॒तो म॑हित्वैको॒ राजा॒ जग॑तो ब॒भूव॑ । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥२॥ यं क्रन्द॑सी॒ अव॑तश्चस्कभा॒ने भि॒यसा॑ने॒ रोद॑सी॒ अह्व॑येथाम्। यस्या॒सौ पन्था॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥३॥ यस्य॒ द्यौरु॒र्वी पृ॑थि॒वी च॑ म॒ही यस्या॒द उ॒र्व॑१न्तरि॑क्षम्। यस्या॒सौ सूरो॒ वित॑तो महि॒त्वा कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥४॥ यस्य॒ विश्वे॑ हि॒मव॑न्तो महि॒त्वा स॑मु॒द्रे यस्य॑ र॒सामिदा॒हुः । इ॒माश्च॑ प्र॒दिशो॒ यस्य॒ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥५॥ आपो॒ अग्रे॒ विश्व॑माव॒न् गर्भं॒ दधा॑ना अ॒मृता॑ ऋत॒ज्ञाः । यासु॑ दे॒वीष्वधि॑ दे॒व आ॑सी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥६॥ हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्। स दा॑धार पृथि॒वीमु॒त द्यां कस्मै दे॒वाय॑ ह॒विषा॑ विधेम ॥७॥ आपो॑ व॒त्सं ज॒नय॑न्ती॒र्गर्भ॒मग्रे॒ समै॑रयन्। तस्यो॒त जाय॑मान॒स्योल्ब॑ आसीद्धिर॒ण्ययः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥८॥
शत्रुनाशनम् १-७ अथर्वा । रुद्रः, व्याघ्रः । अनुष्टुप्, १ पथ्यापङ्क्तिः, ३ गायत्री, ७ ककुम्मतीगर्भोपरिष्टाद् बृहती । उदि॒तस्त्रयो॑ अक्रमन् व्या॒घ्रः पुरु॑षो॒ वृकः॑ । हिरु॒ग्घि यन्ति॒ सिन्ध॑वो॒ हिरु॑ग् दे॒वो वन॒स्पति॒र्हिरु॑ङ्नमन्तु॒ शत्र॑वः ॥१॥ परे॑णैतु प॒था वृकः॑ पर॒मेणो॒त तस्क॑रः । परे॑ण द॒त्वती॒ रज्जुः॒ परे॑णाघा॒युर॑र्षतु ॥२॥ अ॒क्ष्यौऽच ते॒ मुखं॑ च ते व्याघ्र जम्भयामसि । आत् सर्वा॑न् विंश॒तिं न॒खान्॥३॥ व्या॒घ्रं द॒त्वतां॑ व॒यं प्र॑थ॒मं ज॑म्भयामसि । आदु॑ ष्टे॒नमथो॒ अहिं॑ यातु॒धान॒मथो॒ वृक॑म्॥४॥ यो अ॒द्य स्ते॒न आय॑ति॒ स संपि॑ष्टो॒ अपा॑यति । प॒थाम॑पध्वं॒सेनै॒त्विन्द्रो॒ वज्रे॑ण हन्तु॒ तम्॥५॥ मू॒र्णा मृ॒गस्य॒ दन्ता॒ अपि॑शीर्णा उ पृ॒ष्टयः॑ । नि॒म्रुक्ते॑ गो॒धा भ॑वतु नी॒चाय॑च्छश॒युर्मृ॒गः ॥६॥ यत् सं॒यमो॒ न वि य॑मो॒ वि य॑मो॒ यन्न सं॒यमः॑ । इ॒न्द्र॒जाः सो॑म॒जा आ॑थर्व॒णम॑सि व्याघ्र॒जम्भ॑नम्॥७॥
वाजीकरण १-८ अथर्वा । वनस्पतिः, १-२ सूर्यः, प्रजापतिः, ४ इन्द्रः, ५ आपः, सोमः, ६ अग्निः, सरस्वती, ब्रह्मणस्पतिः। अनुष्टप्, ४ पुरउष्णिक्, ६-७ भुरिक्। यां त्वा॑ गन्ध॒र्वो अख॑न॒द् वरु॑णाय मृ॒तभ्र॑जे । तां त्वा॑ व॒यं ख॑नाम॒स्योष॑धिं शेप॒हर्ष॑णीम्॥१॥ उदु॒षा उदु॒ सूर्य॒ उदि॒दं मा॑म॒कं वचः॑ । उदे॑जतु प्र॒जाप॑ति॒र्वृषा॒ शुष्मे॑ण वा॒जिना॑ ॥२॥ यथा॑ स्म ते वि॒रोह॑तो॒ऽभित॑प्तमि॒वान॑ति । तत॑स्ते॒ शुष्म॑वत्तरमि॒यं कृ॑णो॒त्वोष॑धिः ॥३॥ उच्छुष्मौष॑धीनां॒ सार॑ ऋष॒भाणा॑म्। सं पुं॒सामि॑न्द्र॒ वृष्ण्य॑म॒स्मिन्धे॑हि तनूवशिन्॥४॥ अ॒पां रसः॑ प्रथम॒जोऽथो॒ वन॒स्पती॑नाम्। उ॒त सोम॑स्य॒ भ्राता॑स्यु॒तार्शम॑सि॒ वृष्ण्य॑म्॥५॥ अ॒द्याग्ने॑ अ॒द्य स॑वितर॒द्य दे॑वि सरस्वति । अ॑द्यास्य ब्र॑ह्मणस्पते॒ धनु॑रि॒वा ता॑नया॒ पसः॑ ॥६॥ आहं त॑नोमि ते॒ पसो॒ अधि॒ ज्यामि॑व॒ धन्व॑नि । क्रम॒स्वर्श॑ इव रो॒हित॒मन॑वग्लायता॒ सदा॑ ॥७॥ अश्व॑स्याश्वत॒रस्या॒जस्य॒ पेत्व॑स्य च । अथ॑ ऋष॒भस्य॒ ये वाजा॒स्तान॒स्मिन्धे॑हि तनूवशिन्॥८॥
स्वापनम्। १-७ ब्रह्म। स्वापनं, वृषभः। अनुष्टुप्,२ भुरिक्, ७ पुरस्ताज्ज्योतिस्त्रिष्टुप्। स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत्। तेना॑ सह॒स्येऽना व॒यं नि जना॑न्त्स्वापयामसि ॥१॥ न भूमिं॒ वातो॒ अति॑ वाति॒ नाति॑ पश्यति॒ कश्च॒न। स्त्रिय॑श्च॒ सर्वाः॑ स्वा॒पय॒ शुन॒श्चेन्द्र॑सखा॒ चर॑न्॥२॥ प्रो॒ष्ठे॒श॒यास्त॑ल्पेश॒या नारी॒र्या व॑ह्य॒शीव॑रीः । स्त्रियो॒ याः पुण्य॑गन्धय॒स्ताः सर्वाः॑ स्वापयामसि ॥३॥ एज॑देजदजग्रभं॒ चक्षुः॑ प्रा॒णम॑जग्रभम्। अङ्गा॑न्यजग्रभं॒ सर्वा॑ रात्री॑णामतिशर्व॒रे॥४॥ य आस्ते॒ यश्चर॑ति॒ यश्च॒ तिष्ठ॑न्वि॒पश्य॑ति । तेषां॒ सं द॑ध्मो॒ अक्षी॑णि॒ यथे॒दं ह॒र्म्यं तथा॑ ॥५॥ स्वप्तु॑ मा॒ता स्वप्तु॑ पि॒ता स्वप्तु॒ श्वा स्वप्तु॑ वि॒श्पतिः॑ । स्वप॑न्त्वस्यै ज्ञा॒तयः॒ स्वप्त्व॒यम॒भितो॒ जनः॑ ॥६॥ स्वप्न॑ स्वप्नाभि॒कर॑णेन॒ सर्वं॒ नि स्वापया॒ जन॑म्। ओ॒त्सू॒र्यम॒न्यान्त्स्वा॒पया॑व्यु॒षं जा॑गृताद॒हमिन्द्र॑ इ॒वारि॑ष्टो॒ अक्षि॑तः ॥७॥
विषघ्नम्। १-८ गरत्मान्। तक्षकः, १ ब्राह्मणः, २ द्यावापृथिवी, सप्तसिन्धवः, ३ सुपर्णः, ४-८ विषम्। अनुष्टुप्। ब्रा॒ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः । स सोमं॑ प्रथ॒मः प॑पौ॒ स चकारार॒सं वि॒षम्॥१॥ याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा यावत् स॒प्त सिन्ध॑वो वितष्ठि॒रे। वाचं॑ वि॒षस्य॒ दूष॑णीं॒ तामि॒तो निर॑वादिषम्॥२॥ सु॒प॒र्णस्त्वा॑ ग॒रुत्मा॒न्विष॑ प्रथ॒ममा॑वयत्। नामी॑मदो॒ नारू॑रुप उ॒तास्मा॑ अभवः पि॒तुः ॥३॥ यस्त॒ आस्य॒त् पञ्चा॑ङ्गुरिर्व॒क्राच्चि॒दधि॒ धन्व॑नः । अ॒प॒स्क॒म्भस्य॑ श॒ल्यान्निर॑वोचम॒हं वि॒षम्॥४॥ श॒ल्याद्वि॒षं निर॑वोचं प्राञ्ज॑नादु॒त प॒र्ण॒धेः । अ॒पा॒ष्ठाच्छृङ्गा॒त्कुल्म॑ला॒न्निर॑वोचमहं वि॒ष॑म्॥५॥ अ॒र॒सस्त॑ इषो श॒ल्योऽथो॑ ते अ॒र॒सं वि॒षम्। उ॒तार॒सस्य॑ वृ॒क्षस्य॒ धनु॑ष्टे अरसार॒सम्॥६॥ ये अपी॑ष॒न् ये अदि॑ह॒न् य आस्य॒न् ये अ॒वासृ॑जन्। सर्वे॒ ते वध्र॑यः कृ॒ता वध्रि॑र्विषगि॒रिः कृतः ॥७॥ वध्र॑यस्ते खनि॒तारो॒ वध्रि॒स्त्वम॑स्योषधे । वध्रिः॒ स पर्व॑तो गि॒रिर्यतो॑ जा॒तमि॒दं वि॒षम्॥८॥
विषनाषनम् १-७ गरुत्मान्। वनस्पतिः। अनुष्टुप्, ४ स्वरीट्। वारि॒दं वा॑रयातै वर॒णाव॑त्या॒मधि॑ । तत्रा॒मृत॒स्यासि॑क्त॒ तेना॑ ते वारये वि॒षम्॥१॥ अ॒र॒सं प्रा॒च्यंऽवि॒षम॑र॒सं यदु॑दी॒च्यऽम्। अथे॒दम॑धरा॒च्यं॑ कर॒म्भेण॒ वि क॑ल्पते ॥२॥ क॒र॒म्भं कृ॒त्वा ति॒र्यंऽपीबस्पा॒कमु॑दार॒थिम्। क्षु॒धा किल॑ त्वा दुष्टनो जक्षि॒वान्त्स न रू॑रुपः ॥३॥ वि ते॒ मदं॑ मदावति श॒रमि॑व पातयामसि । प्र त्वा॑ च॒रुमि॑व॒ येष॑न्तं॒ वच॑सा स्थापयामसि ॥४॥ परि॒ ग्राम॑मि॒वाचि॑तं॒ वच॑सा स्थापयामसि । तिष्ठा॑ वृ॒क्ष इ॑व॒ स्थाम्न्यभ्रि॑खाते॒ न रू॑रुपः ॥५॥ प॒वस्तै॑स्त्वा॒ पर्य॑क्रीणन् दू॒र्शेभि॑र॒जिनै॑रु॒त। प्र॒क्रीर॑सि॒ त्वमो॑ष॒धेऽभ्रि॑खाते॒ न रू॑रुपः ॥६॥ अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे॑। वी॒रान्नो॒ अत्र॒ मा द॑भ॒न् तद् व॑ ए॒तत्पु॒रो द॑धे ॥७॥
राज्याभिषेकः। १-७ अथर्वाङ्गिराः। चन्द्रमाः, आपः, राज्याभिषेकः; १ राजा, २ देवाः, ३ विश्वरूपः, ४-५ आपः। अनुष्टुप्; १, ७ भुरिक् त्रिष्टुप्, ३ त्रिष्टुप्, ५ विराट् प्रस्तारपङ्क्तिः। भू॒तो भू॒तेषु॒ पय॒ आ द॑धाति॒ स भू॒ताना॒मधि॑पतिर्बभूव । तस्य॑ मृ॒त्युश्च॑रति राज॒सूयं॒ स राजा॑ रा॒ज्यमनु॑ मन्यतामि॒दम् ॥१॥ अ॒भि प्रेहि॒ माप॑ वेन उ॒ग्रश्चे॒त्ता स॑पत्न॒हा। आ ति॑ष्ठ मित्रवर्धन॒ तुभ्यं॑ दे॒वा अधि॑ ब्रुवन्॥२॥ आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूषं॒छ्रियं॒ वसा॑नश्चरति॒ स्वरो॑चिः । म॒हत् तद् वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥३॥ व्या॒घ्रो अधि॒ वैया॑घ्रे॒ वि क्र॑मस्व॒ दिशो॑ म॒हीः । विश॑स्त्वा॒ सर्वा॑ वाञ्छ॒न्त्वापो॑ दिव्याः पय॑स्वतीः ॥४॥ या आपो॑ दि॒व्याः पय॑सा॒ मद॑न्त्य॒न्तरि॑क्ष उ॒त वा॑ पृथि॒व्याम्। तासां॑ त्वा॒ सर्वा॑साम॒पाम॒भि॑ षि॑ञ्चामि॒ वर्च॑सा ॥५॥ अ॒भि त्वा॒ वर्च॑सासिच॒न्नापो॑ दि॒व्याः पय॑स्वतीः । यथासो॑ मित्र॒वर्ध॑न॒स्तथा॑ त्वा सवि॒ता क॑रत्॥६॥ ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः सिं॒हं हि॑न्वन्ति मह॒ते सौभ॑गाय । स॒मु॒द्रं न सु॒भुव॑स्तस्थि॒वांसं॑ मर्मृ॒ज्यन्ते॑ द्वी॒पिन॑म॒प्स्व॑१न्तः ॥७॥
आञ्जनम्। १-१० भृगुः। त्रैकाकुदञ्जनम्। अनुष्टुप्, २ ककुम्मती, ३ पथ्यापङ्क्तिः। एहि॑ जी॒वं त्राय॑माणं॒ पर्व॑तस्या॒स्यक्ष्य॑म्। विश्वे॑भिर्दे॒वैर्द॒त्तं प॑रि॒धिर्जीव॑नाय॒ कम्॥१॥ प॒रि॒पाणं॒ पुरु॑षाणां परि॒पाणं॒ गवा॑मसि । अश्वा॑ना॒मर्व॑तां परि॒पाणा॑य तस्थिषे ॥२॥ उ॒तासि॑ परि॒पाणं॑ यातु॒जम्भ॑नमाञ्जन । उ॒तामृत॑स्य॒ त्वं वे॒त्थाथो॑ असि जीव॒भोज॑न॒मथो॑ हरितभेष॒जम्॥३॥ यस्या॑ञ्जन प्र॒सर्प॒स्यङ्ग॑मङ्गं॒ परु॑ष्परुः । ततो॒ यक्ष्मं॒ वि बा॑धस उ॒ग्रो मध्यम॒शीरि॑व ॥४॥ नैनं॒ प्राप्नो॑ति श॒पथो॒ न कृ॒त्या नाभि॒शोच॑नम्। नैनं॒ विष्क॑न्धमश्नुते॒ यस्त्वा॒ बिभ॑र्त्याञ्जन ॥५॥ अ॒स॒न्म॒न्त्रा॑द् दु॒ष्वप्न्याद् दुष्कृ॒ताच्छम॑लादु॒त। दु॒र्हार्द॒श्चक्षु॑षो घो॒रात् तस्मा॑न्नः पाह्याञ्जन ॥६॥ इ॒दं वि॒द्वाना॑ञ्जन स॒त्यं व॑क्ष्यामि॒ नानृ॑तम्। स॒नेय॒मश्वं॒ गाम॒हमा॒त्मानं॒ तव॒ पूरुष ॥७॥ त्रयो॑ दा॒सा आञ्ज॑नस्य त॒क्मा ब॒लास॒ आदहिः॑ । वर्षि॑ष्ठः॒ पर्व॑तानां त्रिक॒कुन्नाम॑ ते पि॒ता॥८॥ यदाञ्ज॑नं त्रैककु॒दं जा॒तं हि॒मव॑त॒स्परि॑ । या॒तूंश्च॒ सर्वा॑ञ्ज॒म्भय॒त् सर्वा॑श्च यातुधा॒न्यः ॥९॥ यदि॒ वासि॑ त्रैककु॒दं यदि॑ यामु॒नमु॒च्यसे॑ । उ॒भे ते॑ भ॒द्रे॑ नाम्नी॒ ताभ्यां॒ नः पाह्याञ्जन ॥१०॥
शङ्खमणिः। १-७ अथर्वा। शङ्खमणिः, कृशनः। अनुष्टुप्, ६ पथ्यापङ्क्तिः, ७ पञ्चपदा परानुष्टुप्शक्वरी। वाता॑ज्जा॒तो अ॒न्तरि॑क्षाद् वि॒द्युतो॒ ज्योति॑ष॒स्परि । स नो॑ हिरण्य॒जाः श॒ङ्खः कृश॑नः पा॒त्वंह॑सः ॥१॥ यो अ॑ग्र॒तो रो॑च॒नानां॑ समु॒द्रादधि॑ जज्ञि॒षे। श॒ङ्खेन॑ ह॒त्वा रक्षां॑स्य॒त्त्रिणो॒ वि ष॑हामहे ॥२॥ श॒ङ्खेनामी॑वा॒मम॑तिं श॒ङ्खेनो॒त सदान्वाः॑ । श॒ङ्खो नो॑ वि॒श्वभे॑षजः॒ कृश॑नः पा॒त्वंह॑सः ॥३॥ दि॒वि जा॒तः स॑मुद्र॒जः सि॑न्धु॒तस्पर्याभृ॑तः । स नो॑ हिरण्य॒जाः श॒ङ्ख आ॑युष्प्र॒तर॑णो म॒णिः ॥४॥ स॒मु॒द्राज्जा॒तो म॒णिर्वृ॒त्राज्जा॒तो दि॑वाक॒रः । सो अ॒स्मान्त्स॒र्वतः॑ पातु हे॒त्या दे॑वासु॒रेभ्यः॑ ॥५॥ हिर॑ण्याना॒मेको॑ऽसि॒ सोमा॒त् त्वमधि॑ जज्ञिषे । रथे॒ त्वम॑सि दर्श॒त॑ इ॑षु॒धौ रो॑च॒नस्त्वं प्र ण॒ आयूं॑षि तारिषत्॥६॥ दे॒वाना॒मस्थि॒ कृश॑नं बभूव॒ तदा॑त्म॒न्वच्च॑रत्य॒प्स्व॑१न्तः । तत् ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय कार्श॒नस्त्वा॒भि र॑क्षतु ॥७॥
अनड्वान् १-१२ भृग्वङ्गिराः। अनड्वान्, इन्द्रः। त्रिष्टुप्; १, ४ जगति, २ भुरिक्, ७ त्र्यवसाना षट् पदानुष्टुब्गर्भोपरिष्टज्जागतानिचृच्छक्वरी, ८-१२ अनुष्टुप्। अ॒न॒ड्वान् दा॑धार पृथि॒वीमु॒त द्याम॑न॒ड्वान् दा॑धारो॒र्व१न्तरि॑क्षम्। अ॒न॒ड्वान् दा॑धार प्र॒दिशः॒ षडु॒र्वीर॑न॒ड्वान् विश्वं॒ भुव॑न॒मा वि॑वेश ॥१॥ अ॒न॒ड्वानिन्द्रः॒ स प॒शुभ्यो॒ वि च॑ष्टे त्र॒यां छ॒क्रो वि मि॑मीते॒ अध्व॑नः । भू॒तं भ॑वि॒ष्यद् भुव॑ना॒ दुहा॑नः॒ सर्वा॑ दे॒वानां॑ चरति व्र॒तानि॑ ॥२॥ इन्द्रो॑ जा॒तो म॑नु॒ष्येऽष्व॒न्तर्घ॒र्मस्त॒प्तश्च॑रति॒ शोशु॑चानः । सु॒प्र॒जाः सन्त्स उ॑दा॒रे न स॑र्ष॒द्यो नाश्नी॒यादन॒डुहो॑ विजा॒नन्॥३॥ अ॒न॒ड्वान् दु॑हे सुकृ॒तस्य॑ लो॒क ऐनं॑ प्याययति॒ पव॑मानः पु॒रस्ता॑त्। प॒र्जन्यो॒ धारा॑ म॒रुत॒ ऊधो॑ अस्य य॒ज्ञः पयो॒ दक्षि॑णा॒ दोहो॑ अस्य ॥४॥ यस्य॒ नेशे॑ य॒ज्ञप॑ति॒र्न य॒ज्ञो नास्य॑ दा॒तेशे॒ न प्र॑तिग्रही॒ता। यो वि॑श्व॒जिद् वि॑श्व॒भृद् वि॒श्क॑र्मा घ॒र्मं नो॑ ब्रूत यत॒मश्चतु॑ष्पात्॥५॥ येन॑ दे॒वाः स्वरारुरु॒हुर्हि॒त्वा शरी॑रम॒मृत॑स्य॒ नाभि॑म्। तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं घ॒र्मस्य॑ व्र॒तेन॒ तप॑सा यश॒स्यवः॑ ॥६॥ इन्द्रो॑ रू॒पेणा॒ग्निर्वहे॑न प्र॒जाप॑तिः परमे॒ष्ठी वि॒राट्। वि॒श्वान॑रे अक्रमत वैश्वान॒रे अ॑क्रमतान॒दुह्य॑क्रमत । सोऽदृंहयत॒ सोऽधारयत ॥७॥ मध्य॑मे॒तद॑न॒डुहो॒ यत्रै॒ष वह॒ आहि॑तः । ए॒ताव॑दस्य प्रा॒चीनं॒ यावा॑न् प्र॒त्यङ् स॒माहि॑तः ॥८॥ यो वेदा॑न॒डुहो॒ दोहा॑न्त्स॒प्तानु॑पदस्वतः । प्र॒जां च॑ लो॒कं चा॑प्नोति॒ तथा॑ सप्तऋ॒षयो॑ विदुः ॥९॥ प॒द्भिः से॒दिम॑व॒क्राम॒न्निरां॒ जङ्घा॑भिरुत्खि॒दन्। श्रमे॑णान॒ड्वान् की॒लालं॑ की॒नाश॑श्चाभि ग॑च्छतः ॥१०॥ द्वाद॑श॒ वा ए॒ता रात्री॒र्व्रत्या॑ आहुः प्र॒जाप॑तेः । तत्रोप॒ ब्रह्म॒ यो वेद॒ तद् वा अ॑न॒डुहो॑ व्र॒तम्॥११॥ दु॒हे सा॒यं दु॒हे प्रा॒तर्दु॒हे म॒ध्यंदि॑नं॒ परि॑ । दोहा॒ ये अ॑स्य सं॒यन्ति॒ ता॑न् वि॒द्मानु॑पदस्वतः ॥१२॥
रोहिणी- वनस्पतिः। १-७ ऋभुः। रोहिणी- वनस्पतिः। अनुष्टुप्, १ त्रिपदा गायत्री, ६ त्रिपदा यवमध्या भुरिग्गायत्री, ७ बृहती। रोह॑ण्यसि॒ रोह॑ण्य॒स्थ्नश्छि॒न्नस्य॒ रोह॑णी । रो॒हये॒दम॑रुन्धति ॥१॥ यत् ते॑ रि॒ष्टं य॑त् ते द्यु॒त्तमस्ति॒ पेष्ट्रं॑ त आ॒त्मनि । धा॒ता तद् भ॒द्रया॒ पुनः॒ सं द॑ध॒त् परु॑षा॒ परुः॑ ॥२॥ सं ते॑ म॒ज्जा म॒ज्ज्ञा भ॑वतु॒ समु॑ ते॒ परु॑षा॒ परुः॑ । सं ते॑ मां॒सस्य॒ विस्र॑स्तं॒ समस्थ्यपि॑ रोहतु ॥३॥ म॒ज्जा म॒ज्ज्ञा सं धी॑यतां॒ चर्म॑णा॒ चर्म॑ रोहतु । असृ॑क् ते॒ अस्थि॑ रोहतु मां॒सं मां॒सेन॑ रोहतु ॥४॥ लोम॒ लोम्ना॒ सं क॑ल्पया त्व॒चा सं क॑ल्पया॒ त्वच॑म्। असृ॑क् ते॒ अस्थि॑ रोहतु छि॒न्नं सं धे॑ह्योषधे ॥५॥ स उत् ति॑ष्ठ॒ प्रेहि॒ प्र द्र॑व॒ रथः॑ सुच॒क्रः सु॑प॒विः सु॒नाभिः॑। प्रति॑ तिष्ठो॒र्ध्वः ॥६॥ यदि॑ क॒र्तं प॑ति॒त्वा सं॑श॒श्रे यदि॒ वाश्मा॒ प्रहृ॑तो ज॒घान॑ । ऋ॒भू रथ॑स्ये॒वाङ्गा॑नि॒ सं द॑ध॒त् परु॑षा॒ परुः॑ ॥७॥ रोहिणी- वनस्पतिः। १-७ ऋभुः। रोहिणी- वनस्पतिः। अनुष्टुप्, १ त्रिपदा गायत्री, ६ त्रिपदा यवमध्या भुरिग्गायत्री, ७ बृहती। रोह॑ण्यसि॒ रोह॑ण्य॒स्थ्नश्छि॒न्नस्य॒ रोह॑णी । रो॒हये॒दम॑रुन्धति ॥१॥ यत् ते॑ रि॒ष्टं य॑त् ते द्यु॒त्तमस्ति॒ पेष्ट्रं॑ त आ॒त्मनि । धा॒ता तद् भ॒द्रया॒ पुनः॒ सं द॑ध॒त् परु॑षा॒ परुः॑ ॥२॥ सं ते॑ म॒ज्जा म॒ज्ज्ञा भ॑वतु॒ समु॑ ते॒ परु॑षा॒ परुः॑ । सं ते॑ मां॒सस्य॒ विस्र॑स्तं॒ समस्थ्यपि॑ रोहतु ॥३॥ म॒ज्जा म॒ज्ज्ञा सं धी॑यतां॒ चर्म॑णा॒ चर्म॑ रोहतु । असृ॑क् ते॒ अस्थि॑ रोहतु मां॒सं मां॒सेन॑ रोहतु ॥४॥ लोम॒ लोम्ना॒ सं क॑ल्पया त्व॒चा सं क॑ल्पया॒ त्वच॑म्। असृ॑क् ते॒ अस्थि॑ रोहतु छि॒न्नं सं धे॑ह्योषधे ॥५॥ स उत् ति॑ष्ठ॒ प्रेहि॒ प्र द्र॑व॒ रथः॑ सुच॒क्रः सु॑प॒विः सु॒नाभिः॑। प्रति॑ तिष्ठो॒र्ध्वः ॥६॥ यदि॑ क॒र्तं प॑ति॒त्वा सं॑श॒श्रे यदि॒ वाश्मा॒ प्रहृ॑तो ज॒घान॑ । ऋ॒भू रथ॑स्ये॒वाङ्गा॑नि॒ सं द॑ध॒त् परु॑षा॒ परुः॑ ॥७॥
रोगनिवारणम् १-७ शंतातिः। चन्द्रमाः, विश्वे देवाः, १ देवाः, २-३ वातः, ४ मरुतः, ६-७ हस्तः। अनुष्टुप्। उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑ । उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुनः॑ ॥१॥ द्वावि॒मौ वातौ॒ वात॒ आ सिन्धो॒रा प॑रावतः॑ । दक्षं॑ ते अ॒न्य आ॒वातु॒ व्य॑१न्यो वा॑तु॒ यद् रपः॑ ॥२॥ आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ । त्वं हि वि॑श्वभेषज दे॒वानां॑ दू॒त ईय॑से ॥३॥ त्राय॑न्तामि॒मं दे॒वास्त्राय॑न्तां म॒रुतां॑ ग॒णाः । त्राय॑न्तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त्॥४॥ आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः । दक्षं॑ त उ॒ग्रमाभा॑रिषं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥५॥ अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः । अ॒यं मे॑ वि॒श्वभे॑षजो॒ऽयं शि॒वाभि॑मर्शनः ॥६॥ हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी। अ॒ना॒म॒यि॒त्नुभ्यां॒ हस्ता॑भ्यां॒ ताभ्यां॑ त्वा॒भि मृ॑शामसि ॥७॥
स्वर्ज्योतिः प्राप्तिः। १-९ भृगुः। आज्यं, अग्निः। त्रिष्टुप्, २, ४ अनुष्टुप्, ३ प्रस्तारपङ्क्तिः, ७, ९ जगति, ८ पञ्चपदातिशक्वरी। अ॒जो ह्य॑१ग्नेरज॑निष्ट॒ शोका॒त् सो अ॑पश्यज्जनि॒तार॒मग्रे॑ । तेन॑ दे॒वा दे॒वता॒मग्रा॑ आय॒न् तेन॒ रोहा॑न् रुरुहु॒र्मेध्या॑सः ॥१॥ क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्या॒न् हस्ते॑षु॒ बिभ्र॑तः । दि॒वस्पृ॒ष्ठं स्वऽर्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम्॥२॥ पृ॒ष्ठात् पृ॑थि॒व्या अ॒हम॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द् दिव॒मारु॑हम्। दि॒वो नाक॑स्य पृ॒ष्ठात् स्व॑१र्ज्योति॑रगाम॒हम्॥३॥ स्व॑१र्यन्तो॒ नापे॑क्षन्त॒ आ द्यां रो॑हन्ति॒ रोद॑सी । य॒ज्ञं ये वि॒श्वतो॑धारं॒ सुवि॑द्वांसो वितेनि॒रे॥४॥ अग्ने॒ प्रेहि॑ प्रथ॒मो दे॒वता॑नां॒ चक्षु॑र्दे॒वाना॑मु॒त मानु॑षानाम्। इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्वऽर्यन्तु॒ यज॑मानाः स्व॒स्ति॥५॥ अ॒जम॑नज्मि॒ पय॑सा घृ॒तेन॑ दि॒व्यं सु॑प॒र्नं प॑य॒सं बृ॒हन्त॑म्। तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं स्वऽरा॒रोह॑न्तो अ॒भि नाक॑मुत्त॒मम्॥६॥ पञ्चौ॑दनं प॒ञ्चभि॑र॒ङ्गुलि॑भि॒र्द॑र्व्योद्ध॑र पञ्च॒धैतमो॑द॒नम्। प्राच्यां॑ दि॒शि शिरो॑ अ॒जस्य॑ धेहि॒ दक्षि॑णायां दि॒शि दक्षि॑णं धेहि पा॒र्श्वम्॥७॥ प्र॒तीच्यां॑ दि॒शि भ॒सद॒मस्य धेह्युत्त॑रस्यां दि॒श्युत्त॑रं धेहि पा॒र्श्वम्। ऊ॒र्ध्वायां॑ दि॒श्य॑१जस्यानू॑कं धेहि दि॒शि ध्रु॒वायां॑ धेहि पाज॒स्यऽम॒न्तरि॑क्षे मध्य॒तो मध्य॑मस्य ॥८॥ शृ॒तम॒जं शृ॒तया॒ प्रोर्णु॑हि त्व॒चा सर्वै॒रङ्गैः॒ संभृ॑तं वि॒श्वरू॑पम्। स उत् ति॑ष्ठे॒तो अ॒भि नाक॑मुत्त॒मं प॒द्भिश्च॒तुर्भिः॒ प्रति॑ तिष्ठ दि॒क्षु॥९॥
वृष्टिः। १-१६ अथर्वा। १ दिशः, २-३ वीरुधः, ४ मरुत्पर्जन्यौ, ५-१० मरुतः आपः, ११ प्रजापतिः, स्तनयित्नुः, १२ वरुणः, १३-१५ मण्डूकाः पितरश्च, १६ वातः। त्रिष्टुप्, १-२, ५ विराड् जगति, ४ विराट् पुरस्ताद्बृहती, ७, १३ अनुष्टुप्, ९ पथ्यापङ्क्तिः, १० भुरिक्, १२ पञ्चपदानुष्टुब्गर्भा भुरिक्, १५ शंकुमत्यनुष्टुप्। स॒मुत्प॑तन्तु प्र॒दिशो॑ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु । म॒ह॒ऋ॒ष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥१॥ समी॑क्षयन्तु तवि॒षाः सु॒दान॑वो॒ ऽपां रसा॒ ओष॑धीभिः सचन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग् जायन्ता॒मोष॑धयो वि॒श्वरू॑पाः ॥२॥ समी॑क्षयस्व॒ गाय॑तो॒ नभां॑स्य॒पां वेगा॑सः॒ पृथ॒गुद् वि॑जन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॑ पृथ॑ग् जायन्तां वी॒रुधो॑ वि॒श्वरू॑पाः ॥३॥ ग॒णास्त्वोप॑ गायन्तु॒ मारु॑ताः पर्जन्य घो॒षिणः॒ पृथ॑क्। सर्गा॑ व॒र्षस्य॒ वर्ष॑तो॒ वर्ष॑न्तु पृथि॒वीमनु॑ ॥४॥ उदी॑रयत मरुतः समुद्र॒तस्त्वे॒षो अ॒र्को नभ॒ उत् पा॑तयाथ । म॒ह॒ऋ॒ष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥५॥ अ॒भि क्र॑न्द स्त॒नया॒र्दयो॑द॒धिं भूमिं॑ पर्जन्य॒ पय॑सा॒ सम॑ङ्धि । त्वया॑ सृ॒ष्टं ब॑हु॒लमैतु॑ व॒र्षमा॑शारै॒षी कृ॒शगु॑रे॒त्वस्त॑म्॥६॥ सं वो॑ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त। म॒रुद्भिः॒ प्रच्यु॑ता मे॒घा वर्ष॑न्तु पृथि॒वीमनु॑ ॥७॥ आशा॑माशां॒ वि द्यो॑ततां॒ वाता॑ वान्तु दि॒शोदि॑शः । म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः सं य॑न्तु पृथि॒वीमनु॑ ॥८॥ आपो॑ वि॒द्युद॒भ्रं व॒र्षं सं वो॑ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त। म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः प्राव॑न्तु पृथि॒वीमनु॑ ॥९॥ अ॒पाम॒ग्निस्त॒नूभिः॑ संविदा॒नो य ओष॑धीनामधि॒पा ब॒भूव॑ । स नो॑ व॒र्षं व॑नुतां जा॒तवे॑दाः प्रा॒णं प्र॒जाभ्यो॑ अ॒मृतं॑ दि॒वस्परि॑ ॥१०॥ प्र॒जाप॑तिः सलि॒लादा स॑मुद्रादाप॑ ई॒रय॑न्नुद॒धिम॑र्दयाति । प्र प्या॑यतां॒ वृष्णो॒ अश्व॑स्य॒ रेतो॒ऽर्वाङे॒तेन॑ स्तनयि॒त्नुनेहि॑ ॥११॥ अ॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॒ श्वस॑न्तु॒ गर्ग॑रा अ॒पां व॑रु॒णाव॒ नीची॑र॒पः सृ॑ज । वद॑न्तु॒ पृश्नि॑बाहवो म॒ण्डूका॒ इरि॒णानु॑ ॥१२॥ सं॒व॒त्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑ । वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्डूका॑ अवादिषुः ॥१३॥ उ॒प॒प्रव॑द मण्डूकि व॒र्षमा व॑द तादुरि । मध्ये॑ ह्र॒दस्य॑ प्लवस्व वि॒गृह्य॑ च॒तुरः॑ प॒दः ॥१४॥ खण्व॒खा३इ॒ खैम॒खा३इ॒ मध्ये॑ तदुरि । व॒र्षं व॑नुध्वं पितरो म॒रुतां॒ मन॑ इछत ॥१५॥ म॒हान्तं॒ कोश॒मुद॑चा॒भि षि॑ञ्च सविद्यु॒तं भ॑वतु॒ वातु॒ वातः॑ । त॒न्वतां॑ य॒ज्ञं ब॑हु॒धा विसृ॑ष्टा आन॒न्दिनी॒रोष॑धयो भवन्तु ॥१६॥
सत्यानृतसमीक्षकः। १-९ ब्रह्म। वरुणः, सत्यानृतान्वीक्षणम्। त्रिष्टुप्, १ अनुष्टुप्, ५ भुरिक्, ७ जगति, ८ त्रिपान्महाबृहती, विराण्नाम त्रिपाद्गायत्री। बृ॒हन्ने॑षामधिष्ठा॒ता अ॑न्ति॒कादि॑व पश्यति । य स्ता॑यन्मन्य॑ते॒ चर॒न्त्सर्वं॑ दे॒वा इ॒दं वि॑दुः ॥१॥ यस्तिष्ठ॑ति॒ चर॑ति॒ यश्च॒ वञ्च॑ति॒ यो नि॒लायं॒ चर॑ति॒ यः प्र॒तङ्क॑म्। द्वौ सं॑नि॒षद्य॒ यन्म॒न्त्रये॑ते॒ राजा॒ तद् वे॑द॒ वरु॑णस्तृ॒तीयः॑ ॥२॥ उ॒तेयं भूमि॒र्वरु॑णस्य॒ राज्ञ॑ उ॒तासौ द्यौर्बृ॑ह॒ती दू॒रेअ॑न्ता । उ॒तो स॑मु॒द्रौ वरु॑णस्य कु॒क्षी उ॒तास्मिन्नल्प॑ उद॒के निली॑नः ॥३॥ उत यो द्याम॑ति॒सर्पा॑त् प॒रस्ता॒न्न स मु॑च्यातै॒ वरु॑णस्य॒ राज्ञः॑ । दि॒व स्पशः॒ प्र च॑रन्ती॒दम॑स्य सहस्रा॒क्षा अति॑ पश्यन्ति॒ भूमि॑म्॥४॥ सर्वं॒ तद् राजा॒ वरु॑णो॒ वि च॑ष्टे॒ यद॑न्त॒रा रोद॑सी॒ यत् प॒रस्ता॑त्। संख्या॑ता अस्य नि॒मिषो॒ जना॑नाम॒क्षानि॑व श्व॒घ्नी नि मि॑नोति॒ तानि॑ ॥५॥ ये ते॒ पाशा॑ वरुण स॒प्तस॑प्त त्रे॒धा तिष्ठ॑न्ति॒ विषि॑ता॒ रुश॑न्तः । छि॒नन्तु॒ सर्वे॒ अनृ॑तं॒ वद॑न्तं॒ यः स॑त्यवा॒द्यति॒ तं सृ॑जन्तु ॥६॥ श॒तेन॒ पाशै॑र॒भि धे॑हि वरुणैनं॒ मा ते॑ मोच्यनृत॒वाङ् नृ॑चक्षः । आस्तां जा॒ल्म उ॒दरं॑ श्रंसयि॒त्वा कोश॑ इवाब॒न्धः प॑रिकृ॒त्यमा॑नः ॥७॥ यः स॑मा॒म्यो॒३वरु॑णो॒ यो व्या॒म्यो॒३यः सं॑दे॒श्यो॒३वरु॑णो॒ यो वि॑दे॒श्यः । यो दै॒वो वरु॑णो॒ यश्च॒ मानु॑षः ॥८॥ तैस्त्वा॒ सर्वै॑र॒भि ष्या॑मि॒ पाशै॑रसावामुष्यायणामुष्याः पुत्र । तानु॑ ते॒ सर्वा॑ननु॒संदि॑शामि ॥९॥
अपामार्गः। १-८ शुक्रः। अपामार्गो वनस्पतिः। अनुषटुप्। ईशा॑णां त्वा भेष॒जाना॒मुज्जे॑ष॒ आ र॑भामहे । च॒क्रे स॒हस्र॑वीर्यं॒ सर्व॑स्मा ओषधे त्वा ॥१॥ स॒त्य॒जितं॑ शपथ॒याव॑नीं॒ सह॑मानां पुनःस॒राम्। सर्वाः॒ सम॒ह्व्योष॑धीरि॒तो नः॑ पारया॒दिति॑ ॥२॥ या श॒शाप॒ शप॑नेन॒ याघं मूर॑माद॒धे। या रस॑स्य॒ हर॑णाय जा॒तमा॑रे॒भे तो॒कम॑त्तु॒ सा॥३॥ यां ते॑ च॒क्रुरा॒मे पात्रे॒ यां च॒क्रुर्नी॑ललोहि॒ते। आ॒मे मां॒से कृ॒त्यां यां च॒क्रुस्तया॑ कृत्या॒कृतो॑ जहि ॥४॥ दौष्व॑प्न्यं॒ दौर्जी॑वित्यं॒ रक्षो॑ अ॒भ्वऽमरा॒य्यः । दु॒र्णाम्नीः॒ सर्वा॑ दु॒र्वाच॒स्ता अ॒स्मन्ना॑शयामसि ॥५॥ क्षु॒धा॒मा॒रं तृ॑ष्णामा॒रम॒गोता॑मनप॒त्यता॑म्। अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ॥६॥ तृ॒ष्णा॒मा॒रं क्षु॑धामा॒रमथो॑ अक्षपराज॒यम्। अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॒ मृज्महे ॥७॥ अ॒पा॒मा॒र्ग ओष॑धीनां॒ सर्वा॑सा॒मेक॒ इद् व॒शी। तेन॑ ते मृज्म॒ आस्थि॑त॒मथ॒ त्वम॑ग॒दश्च॑र ॥८॥
अपामार्गः। १-८ शुक्रः। अपामार्गो वनस्पतिः। अनुष्टुप्, ६ बृहतीगर्भा। स॒मं ज्योतिः॒ सूर्ये॒णाह्ना॒ रात्री॑ स॒मावती॑ । कृ॒णोमि॑ स॒त्यमू॒तये॑ऽर॒साः स॑न्तु॒ कृत्व॑रीः ॥१॥ यो दे॑वाः कृ॒त्यां कृ॒त्वा हरा॒दवि॑दुषो गृ॒हम्। व॒त्सो धा॒रुरि॑व मा॒तरं॒ तं प्र॒त्यगुप॑ पद्यताम्॥२॥ अ॒मा कृ॒त्वा पा॒प्मानं॒ यस्तेना॒न्यं जिघां॑सति । अश्मा॑न॒स्तस्यां॑ द॒ग्धायां॑ बहु॒लाः फट् क॑रिक्रति ॥३॥ सह॑स्रधाम॒न् विशि॑खा॒न् विग्री॑वां छायया॒ त्वम्। प्रति॑ स्म च॒क्रुषे॑ कृ॒त्यां प्रि॒यां प्रि॒याव॑ते हर ॥४॥ अ॒नया॒हमोष॑ध्या सर्वाः॑ कृ॒त्या अ॑दूदुषम्। यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥५॥ यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म्। च॒कार॑ भ॒द्रम॒स्मभ्य॑मा॒त्मने॒ तप॑नं॒ तु सः ॥६॥ अ॒पा॒मा॒र्गोऽप॑ मार्ष्टु क्षेत्रि॒यं श॒पथ॑श्च॒ यः । अपाह॑ यातुधा॒नीरप॒ सर्वा॒ अरा॒य्यः ॥७॥ अ॒प॒मृज्य॑ यातु॒धाना॒नप॒ सर्वा॑ अरा॒य्यः । अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॒ मृज्महे ॥८॥
अपामार्गः। १-८ शुक्रः। अपामार्गो वनस्पतिः। अनुष्टुप्, २ पथ्यापङ्क्तिः। उ॒तो अ॒स्यब॑न्धुकृदु॒तो अ॑सि॒ नु जा॑मि॒कृत्। उ॒तो कृ॑त्या॒कृतः॑ प्र॒जां न॒डमि॒वा छि॑न्धि॒ वार्षि॑कम्॥१॥ ब्रा॒ह्म॒णेन॒ पर्यु॑क्तासि॒ कण्वे॑न नार्ष॒देन॑ । सेने॑वैषि॒ त्विषी॑मती॒ न तत्र॑ भ॒यमस्ति॒ यत्र॑ प्रा॒प्नोष्यो॑षधे ॥२॥ अग्र॑मे॒ष्योष॑धीनां॒ ज्योति॑षेवाभिदी॒पय॑न्। उ॒त त्रा॒तासि॒ पाक॒स्याथो॑ ह॒न्तासि॑ र॒क्षसः॑ ॥३॥ यद॒दो दे॒वा असु॑रां॒स्त्वयाग्रे॑ नि॒रकु॑र्वत । तत॒स्त्वमध्यो॑षधेऽपामा॒र्गो अ॑जायथाः ॥४॥ वि॒भि॒न्द॒ती श॒तशा॑खा विभि॒न्दन् नाम॑ ते पि॒ता। प्र॒त्यग् वि भि॑न्धि॒ त्वं तं यो अ॒स्माँ अ॑भि॒दास॑ति ॥५॥ अस॒द् भूम्याः॒ सम॑भव॒त् तद् यामे॑ति म॒हद् व्यचः॑ । तद् वै ततो॑ विधू॒पाय॑त् प्र॒त्यक् क॒र्तार॑मृच्छतु ॥६॥ प्र॒त्यङ् हि सं॑ब॒भूवि॑थ प्रती॒चीन॑फल॒स्त्वम्। सर्वा॒न् मच्छ॒पथाँ॒ अधि॒ वरी॑यो यावया व॒धम्॥७॥ श॒तेन॑ मा॒ परि॑ पाहि स॒हस्रे॑णा॒भि र॑क्ष मा । इन्द्र॑स्ते वीरुधां पत उ॒ग्र ओ॒ज्मान॒मा द॑धत्॥८॥
पिशाचक्षयणम्। १-९ मातृनामा। मातृनामा। अनुष्टुप्, १ स्वराट्, ९ भुरिक्। आ प॑श्यति॒ प्रति॑ पश्यति॒ परा॑ पश्यति॒ पश्य॑ति । दिव॑म॒न्तरि॑क्ष॒माद् भूमिं॒ सर्वं॒ तद् दे॑वि पश्यति ॥१॥ ति॒स्रो दिव॑स्ति॒स्रः पृ॑थि॒वीः षट् चे॒माः प्र॒दिशः॒ पृथ॑क्। त्वया॒हं सर्वा॑ भू॒तानि॒ पश्या॑नि देव्योषधे ॥२॥ दि॒व्यस्य॑ सुप॒र्णस्य॒ तस्य॑ हासि क॒नीनि॑का । सा भूमि॒मा रु॑रोहिथ व॒ह्यं श्रा॒न्ता व॒धूरि॑व ॥३॥ तां मे॑ सहस्रा॒क्षो दे॒वो दक्षि॑णे॒ हस्त॒ आ द॑धत्। तया॒हं सर्वं॑ पश्यामि॒ यश्च॑ शू॒द्र उ॒तार्यः॑ ॥४॥ आ॒विष्कृ॑णुष्व रू॒पाणि॒ मात्मान॒मप॑ गूहथाः । अथो॑ सहस्रचक्षो॒ त्वं प्रति॑ पश्याः किमी॒दिनः॑ ॥५॥ द॒र्शय॑ मा यातु॒धाना॑न् द॒र्शय॑ यातुधा॒न्यः । पि॒शा॒चान्त्सर्वा॑न् दर्श॒येति॒ त्वा र॑भ ओषधे ॥६॥ क॒श्यप॑स्य॒ चक्षु॑रसि शु॒न्याश्च॑ चतुर॒क्ष्याः । वी॒ध्रे सूर्य॑मिव॒ सर्प॑न्तं॒ मा पि॑शा॒चं ति॒र॒स्क॑रः ॥७॥ उद॑ग्रभं परि॒पाणा॑द् यातु॒धानं॑ किमी॒दिन॑म्। तेना॒हं सर्वं॑ पश्याम्यु॒त शू॒द्रमु॒तार्य॑म्॥८॥ यो अ॒न्तरि॑क्षेण॒ पत॑ति॒ दिवं॒ यश्चा॑ति॒सर्प॑ति । भूमिं॒ यो मन्य॑ते ना॒थं तं पि॑शा॒चं॑ प्र द॑र्शय ॥९॥
गावः। १-७ ब्रह्मा । गावः । त्रिष्टुप्, २-४ जगती आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे। प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥१॥ इन्द्रो॒ यज्व॑ने गृण॒ते च॒ शिक्ष॑त॒ उपेद् द॑दाति॒ न स्वं मु॑षायति । भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॑न्नभि॒न्ने खि॒ल्ये नि द॑धाति देव॒युम्॥२॥ न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्य॒थिरा द॑धर्षति । दे॒वांश्च याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित् ताभिः॑ सचते॒ गोप॑तिः स॒ह॥३॥ न ता अर्वा॑ रे॒णुक॑काटोऽश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि। उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥४॥ गावो॒ भगो॒ गाव॒ इन्द्रो॑ म इच्छा॒द् गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः । इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामि॑ हृ॒दा मन॑सा चि॒दिन्द्र॑म्॥५॥ यू॒यं गा॑वो मेदयथ कृ॒शं चि॑दश्री॒रं चि॑त् कृणुथा सु॒प्रती॑कम्। भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद् वो॒ वय॑ उच्यते स॒भासु॑ ॥६॥ प्र॒जाव॑तीः सू॒यव॑से रु॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः । मा व॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु ॥७॥
अमित्रक्षयणम्। १-७ वसिषठः, अथर्वा वा। क्षत्रियो राजा, इन्द्रश्च। त्रिष्टुप्। इ॒ममि॑न्द्र वर्धय क्ष॒त्रियं॑ म इ॒मं वि॒शामे॑क वृ॒षं कृ॑णु॒ त्वम्। निर॒मित्रा॑नक्ष्णुह्यस्य॒ सर्वां॒स्तान् र॑न्धयास्मा अहमुत्त॒रेषु॑ ॥१॥ एमं भ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॒ निष्टं भ॑ज॒ यो अ॒मित्रो॑ अ॒स्य। वर्ष्म॑ क्ष॒त्राणा॑म॒यम॑स्तु॒ राजेन्द्र॒ शत्रुं॑ रन्धय॒ सर्व॑म॒स्मै॥२॥ अ॒यम॑स्तु धन॑पति॒र्धना॑नाम॒यं वि॒शां वि॒श्पति॑रस्तु॒ राजा॑ । अ॒स्मिन्नि॑न्द्र॒ महि॒ वर्चां॑सि धेह्यव॒र्चसं॑ कृणुहि॒ शत्रु॑मस्य ॥३॥ अ॒स्मै द्यावा॑पृथिवी॒ भूरि॑ वा॒मं दु॑हाथां घर्म॒दुघे॑ इव धे॒नू। अ॒यं राजा॒ प्रि॒य इन्द्र॑स्य भूयात् प्रि॒यो गवा॒मोष॑धीनां पशू॒नाम्॥४॥ यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रं॒ येन॒ जय॑न्ति॒ न प॑रा॒जय॑न्ते । यस्त्वा॒ कर॑देकवृ॒षं जना॑नामु॒त राज्ञा॑मुत्तमं मा॑न॒वाना॑म्॥५॥ उत्त॑र॒स्त्वमध॑रे ते स॒पत्ना॒ ये के च॑ राज॒न् प्रति॑शत्रवस्ते । ए॒क॒वृ॒ष इन्द्र॑सखा जिगी॒वां छ॑त्रूय॒तामा भ॑रा॒ भोज॑नानि ॥६॥ सिं॒हप्र॑तीको॒ विशो॑ अद्धि॒ सर्वा॑ व्या॒घ्रप्र॑ती॒कोऽव॑ बाधस्व॒ शत्रू॑न्। ए॒क॒वृ॒ष इन्द्र॑सखा जिगी॒वां छ॑त्रूय॒तामा खि॑दा॒ भोज॑नानि ॥७॥
पाप-मोचनम्। १-७ मृगारः। प्रचेता अग्निः। त्रिषटुप्, ३ पुरस्ताज्ज्योतिष्मती, ४ अनुष्टुप्, ६ प्रस्तारपङ्क्तिः। अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसः॒ पाञ्च॑जन्यस्य बहु॒धा यमि॒न्धते॑ । विशो॑ विशः प्रविशि॒वांस॑मीमहे॒ स नो मुञ्च॒त्वंह॑सः ॥१॥ यथा॑ ह॒व्यं वह॑सि जातवेदो॒ यथा॑ य॒ज्ञं क॒ल्पय॑सि प्रजा॒नन्। ए॒वा दे॒वेभ्यः॑ सुम॒तिं न॒ आ व॑ह॒ स नो॑ मुञ्च॒त्वंह॑सः ॥२॥ याम॑न्याम॒न्नुप॑युक्तं॒ वहि॑ष्ठं॒ कर्म॑न्कर्म॒न्नाभ॑गम् । अ॒ग्निमी॑डे र॒क्षो॒हणं॑ यज्ञ॒वॄधं॑ घृ॒ताहु॑तं॒ स नो॑ मुञ्च॒त्वंह॑सः ॥३॥ सुजा॑तं जा॒तवे॑दसम॒ग्निं वै॑श्वान॒रं वि॒भुम्। ह॒व्य॒वाहं॑ हवामहे॒ स नो॑ मुञ्च॒त्वंह॑सः ॥४॥ येन॒ ऋष॑यो ब॒लमद्यो॑तयन् यु॒जा येनासु॑राणा॒मयु॑वन्त मा॒याः । येना॒ग्निना॑ प॒णीनिन्द्रो॑ जि॒गाय॒ स नो॑ मुञ्च॒त्वंह॑सः ॥५॥ येन॑ दे॒वा अ॒मृत॑म॒न्ववि॑न्द॒न् येनौष॑धी॒र्मधु॑मती॒रकृण्वन्। येन॑ दे॒वाः स्व॑१राभ॑र॒न्त्स नो॑ मुञ्च॒त्वंह॑सः ॥६॥ यस्ये॒दं प्र॒दिशि॒ यद् वि॒रोच॑ते॒ यज्जा॒तं ज॑नित॒व्यंऽ च॒ केव॑लम्। स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वंह॑सः ॥७॥
पापमोचनम्। १-७ मृगारः। इन्द्रः। त्रिष्टुप्, १ शाक्वरीगर्भा पुरःशक्वरी। इन्द्र॑स्य मन्महे॒ शश्व॒दिद॑स्य मन्महे वृत्र॒घ्न स्तोमा॒ उप॑ मे॒म आगुः॑ । यो दा॒शुषः॑ सु॒कृतो॒ हव॒मेति॒ स नो॑ मुञ्च॒त्वंह॑सः ॥१॥ य उ॒ग्रीणा॑मु॒ग्रबा॑हुर्य॒युर्यो दा॑न॒वानां॒ बल॑मारु॒रोज॑ । येन॑ जि॒ताः सिन्ध॑वो॒ येन॒ गावः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥२॥ यश्च॑र्षणि॒प्रो वृ॑ष॒भः स्व॒र्विद् यस्मै॒ ग्रावा॑णः प्र॒वद॑न्ति नृ॒म्णम्। यस्या॑ध्व॒रः स॒प्तहो॑ता॒ मदि॑ष्ठः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥३॥ यस्य॑ व॒शास॑ ऋष॒भास॑ उ॒क्षणो॒ यस्मै॑ मी॒यन्ते॒ स्व॒र॑वः स्व॒र्विदे॑ । यस्मै॑ शु॒क्रः पव॑ते॒ ब्रह्म॑शुम्भितः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥४॥ यस्य॒ जुष्टिं॑ सो॒मिनः॑ का॒मय॑न्ते॒ यं हव॑न्त॒ इषु॑मन्तं॒ गवि॑ष्टौ । यस्मि॑न्न॒र्कः शि॑श्रि॒ये यस्मि॒न्नोजः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥५॥ यः प्र॑थ॒मः क॑र्म॒कृत्या॑य ज॒ज्ञे यस्य॑ वी॒र्यंऽ प्रथ॒मस्यानु॑बुद्धम्। येनोद्य॑तो॒ वज्रो॒ऽभ्याय॒ताहिं॒ स नो॑ मुञ्च॒त्वंह॑सः ॥६॥ यः सं॑ग्रा॒मान्नय॑ति॒ सं यु॒धे व॒शी यः पु॒ष्टानि॑ संसृ॒जति॑ द्व॒यानि॑ । स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वंह॑सः ॥७॥
पापमोचनम्। १-७ मृगारः। सविता, वायुः। त्रिष्टुप्, ३ अतिशक्वरी, ७ पथ्याबृहती। वा॒योः स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा॑त्म॒न्वद् वि॒शथो॒ यौ च॒ रक्ष॑थः । यौ विश्व॑स्य परि॒भू ब॑भू॒वथु॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥१॥ ययोः॒ संख्या॑ता॒ वरि॑मा॒ पार्थि॑वानि॒ याभ्यां॒ रजो॑ युपि॒तम॒न्तरि॑क्षे । ययोः॑ प्रा॒यं नान्वा॑न॒शे कश्च॒न तौ नो॑ मुञ्चत॒मंह॑सः ॥२॥ तव॑ व्र॒ते नि वि॑शन्ते॒ जना॑स॒स्त्वय्युदि॑ते॒ प्रेर॑ते चित्रभानो । यु॒वं वा॑यो सवि॒ता च॒ भुव॑नानि रक्षथ॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥३॥ अपे॒तो वा॑यो सवि॒ता च॑ दुष्कृ॒तमप॒ रक्षां॑सि॒ शिमि॑दां च सेधतम्। सं ह्यू॒३र्जया॑ सृ॒जथः॒ सं बले॑न॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥४॥ र॒यिं मे॒ पोषं॑ सवि॒तोत वा॒युस्त॒नू दक्ष॒मा सु॑वतां सु॒शेव॑म्। अ॒य॒क्ष्मता॑तिं॒ मह॑ इ॒ह ध॑त्तं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥५॥ प्र सु॑म॒तिं स॑वितर्वाय ऊ॒तये॒ मह॑स्वन्तं मत्स॒रं मा॑दयाथः । अ॒र्वाग् वा॒मस्य॑ प्र॒वतो॒ नि य॑च्छतं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥६॥ उप॒ श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र्धाम॑न्नस्थिरन्। स्तौमि॑ दे॒वं स॑वि॒तारं॑ च वा॒युं तौ नो॑ मुञ्चत॒मंह॑सः ॥७॥
पाप-मोचनम्। १-७ मृगारः। द्यावापृथिवी। त्रिष्टुप्, १ अष्टिः, २-३ जगती, ७ शाक्वरगर्भातिमध्येज्योतिः। म॒न्वे वां॑ द्यावापृथिवी सुभोजसौ॒ सचे॑तसौ॒ ये अप्र॑थेथा॒ममि॑ता॒ योज॑नानि । प्र॒ति॒ष्ठे ह्यभ॑वतं॒ वसू॑नां॒ ते नो॑ मुञ्चत॒मंह॑सः ॥१॥ प्र॒ति॒ष्ठे ह्यभ॑वत॒ वसू॑नां॒ प्रवृ॑द्धे देवी सुभगे उरूची । द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥२॥ अ॒स॒न्ता॒पे सु॒तप॑सौ हुवे॒ऽहमु॒र्वी ग॑म्भी॒रे क॒विभि॑र्नम॒स्येऽ। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥३॥ ये अ॒मृतं॑ बिभृ॒थो ये ह॒वींषि॒ ये स्रो॒त्या बि॑भृ॒थो ये म॑नु॒ष्याऽन्। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥४॥ ये उ॒स्रिया॒ बिभृ॒थो ये वन॒स्पती॒न् ययो॑र्वां॒ विश्वा॒ भुव॑नान्य॒न्तः । द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥५॥ ये की॒लाले॑न त॒र्पय॑थो॒ ये घृ॒तेन॒ याभ्या॑मृ॒ते न किं च॒न श॑क्नु॒वन्ति । द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥६॥ यन्मे॒दम॑भि॒शोच॑ति॒ येन॑येन वा कृ॒तं पौरु॑षेया॒न्न दैवा॑त्। स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मंह॑सः ॥७॥
पापमोचनम् । १-७ मृगारः। मरुतः। त्रिषटुप्। म॒रुतां॑ मन्वे॒ अधि॑ मे ब्रुवन्तु॒ प्रेमं वाजं॒ वाज॑साते अवन्तु । आ॒शूनि॑व सु॒यमा॑नह्व ऊ॒तये॑ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥१॥ उत्स॒मक्षि॑तं॒ व्यच॑न्ति॒ ये सदा॒ य आ॑सि॒ञ्चन्ति॒ रस॒मोष॑धीषु । पु॒रो द॑धे मरुतः॒ पृश्नि॑मातृंस्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥२॥ पयो॑ धेनू॒नां रस॒मोष॑धीनां ज॒वमर्व॑तां कवयो॒ य इन्व॑थ । श॒ग्मा भ॑वन्तु म॒रुतो॑ नः स्यो॒नास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥३॥ अ॒पः स॑मु॒द्राद् दिव॒मुद् व॑हन्ति दि॒वस्पृ॑थि॒वीम॒भि ये सृ॒जन्ति॑ । ये अ॒द्भिरीशा॑ना म॒रुत॒श्चर॑न्ति ते नो॑ मुञ्च॒न्त्वंह॑सः ॥४॥ ये की॒लाले॑न त॒र्पय॑न्ति ये घृ॒तेन॒ ये वा॒ वयो॒ मेद॑सा संसृ॒जन्ति॑ । ये अ॒द्भिरीशा॑ना म॒रुतो॑ व॒र्षय॑न्ति॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥५॥ यदीदि॒दं मरु॑तो॒ मारु॑तेन॒ यदि॑ देवा॒ दैव्ये॑ने॒दृगार॑ । यू॒यमी॑शिध्वे वसव॒स्तस्य॒ निष्कृ॑ते॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥६॥ ति॒ग्ममनी॑कं विदि॒तं सह॑स्व॒न्मारु॑तं॒ शर्धः॒ पृत॑नासू॒ग्रम्। स्तौमि॑ म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥७॥
पापमोचनम् । १-७ मृगारोऽथर्वा वा । भवाशर्वौ रुद्रो वा । त्रिष्टुप्, १ अतिजागतगर्भा भुरिक्। भवा॑शर्वौ म॒न्वे वां॒ तस्य॑ वित्तं॒ ययो॑र्वामि॒दं प्र॒दिशि॒ यद् वि॒रोच॑ते । याव॒स्ये॑शा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥१॥ ययो॑रभ्यभ्व॒ उ॒त यद् दू॒रे चि॒द् यौ वि॑दि॒तावि॑षु॒भृता॒मसि॑ष्ठौ । याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥२॥ स॒ह॒स्रा॒क्षौ वृ॑त्र॒हना॑ हुवे॒हं दू॒रेग॑व्यूती स्तु॒वन्ने॑म्यु॒ग्रौ। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥३॥ यावा॑रे॒भाथे॑ ब॒हु सा॒कमग्रे॒ प्र चेद॑स्रा॑ष्ट्रमभि॒भां जने॑षु । याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥४॥ ययो॑र्व॒धान्नाप॒पद्य॑ते॒ कश्च॒नान्तर्दे॒वेषू॒त मानु॑षेषु । याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥५॥ यः कृ॑त्या॒कृन्मू॑ल॒कृद् या॑तु॒धानो॒ नि तस्मि॑न् धत्तं॒ वज्र॑मु॒ग्रौ। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥६॥ अधि॑ नो ब्रूतं॒ पृत॑नासूग्रौ॒ सं वज्रे॑ण सृजतं॒ यः कि॑मी॒दी। स्तौमि॑ भवाश॒र्वौ ना॑थि॒तो॑ जो॑हवीमि॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥७॥
पापमोचनम् । १-७ मृगारः । मित्रावरुणौ। त्रिष्टुप्, ७ शक्वरीगर्भातिजगती। म॒न्वे वां॑ मित्रावरुणावृतावृधौ॒ सचे॑तसौ॒ द्रुह्व॑णो॒ यौ नु॒देथे॑ । प्र स॒त्यावा॑न॒मव॑थो॒ भरे॑षु॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥१॥ सचे॑तसौ॒ द्रुह्व॑णो॒ यौ नु॒देथे॒ प्र स॒त्यावा॑न॒मव॑थो॒ भरे॑षु । यौ गच्छ॑थो नृ॒चक्ष॑सौ ब॒भ्रुणा॑ सु॒तं तौ नो॑ मुञ्चत॒मंह॑सः ॥२॥ यावङ्गि॑रस॒मव॑थो॒ याव॒गस्तिं॒ मित्रा॑वरुणा ज॒मद॑ग्नि॒मत्रिम्। यौ क॒श्यप॒मव॑थो॒ यौ वसि॑ष्ठं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥३॥ यौ श्या॒वाश्व॒मव॑थो वाध्र्य॒श्वं मित्रा॑वरुणा पुरुमी॒ढमत्रिम्। यौ वि॑म॒दमव॑थः स॒प्तव॑ध्रिं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥४॥ यो भ॒रद्वा॑जमव॑थो॒ यौ ग॒विष्ठि॑रं वि॒श्वामि॑त्रं वरुण मित्र॒ कुत्स॑म्। यौ क॒क्षीव॑न्त॒मव॑थः प्रोत कण्वं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥५॥ यौ मेधा॑तिथि॒मव॑थो॒ यौ त्रि॒शोकं॒ मित्रा॑वरुणावु॒शनां॑ का॒व्यं यौ। यौ गोत॑म॒मव॑थः प्रोत मुद्ग॑लं तौ नो॑ मुञ्चत॒मंह॑सः ॥६॥ ययो॒ रथः॑ स॒त्यव॑र्त्म॒र्जुर॑श्मिर्मिथु॒या चर॑न्तमभि॒याति॑ दू॒षय॑न्। स्तौमि॑ मि॒त्रावरु॑णौ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥७॥
राष्ट्रदेवी । १- ८ अथर्वा। सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्। त्रिष्टुप्, ६ जगती। अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा॥१॥ अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम्। तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तः ॥२॥ अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वाना॑मुत मानु॑षाणाम्। यं का॒मये॒ तन्त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम्॥३॥ मया॒ सोऽन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्रा॒णति॒ य ईं शृ॒णोत्यु॒क्तम्। अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रु॒द्धेयं॑ ते वदामि ॥४॥ अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑ । अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं॑ द्यावा॑पृथि॒वी आ वि॑वेश ॥५॥ अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म्। अ॒हं द॑धामि॒ द्रवि॑णा ह॒विष्म॑ते सुप्रा॒व्या॒३ यज॑मानाय सुन्व॒ते॥६॥ अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्व॑१न्तः स॑मु॒द्रे। ततो॒ वि ति॑ष्ठे॒ भुव॑नानि॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥७॥ अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ । प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यौताव॑ती महि॒म्ना सं ब॑भूव ॥८॥
सेनानिरीक्षणम्। १-७ ब्रह्म स्कन्दः। मन्युः। त्रिष्टुप्, २, ४ भुरिक्, ५-७ जगती। त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो हर्ष॑माणा हृषि॒तासो॑ मरुत्वन्। ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना॒ उप॒ प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥१॥ अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि । ह॒त्वाय॒ शत्रू॒न् वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥२॥ सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मै रु॒जन् मृ॒णन् प्र॑मृ॒णन् प्रेहि॒ शत्रू॑न्। उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयासा एकज॒ त्वम्॥३॥ एको॑ बहू॒नाम॑सि मन्य ईडि॒ता विशं॑विशं यु॒द्धाय॒ सं शि॑शाधि । अकृ॑त्तरु॒क् त्वया॑ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं॑ विज॒याय॑ कृण्मसि ॥४॥ वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह। प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥५॥ आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्षि सहभूत॒ उत्त॑रम्। क्रत्वा॑ नो मन्यो स॒ह मे॒द्येऽधि महाध॒नस्य पुरुहूत सं॒सृजि॑ ॥६॥ संसृ॑ष्टं धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ धत्तां॒ वरु॑णश्च म॒न्युः । भियो॒ दधा॑ना॒ हॄदये॑षु॒ शत्र॑वः॒ परा॑जितासो अप॒ नि ल॑यन्ताम्॥७॥
सेनासंयोजनम्। १-७ ब्रह्म स्कन्दः। मन्युः। त्रिष्टुप्, १ जगती। यस्ते॑ म॒न्योऽवि॑धद् वज्र सायक॒ सह॒ ओजः॒ पुष्य॑ति॒ विश्व॑मानु॒षक्। सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा व॒यं सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥१॥ म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः । म॒न्युर्विश॑ ईडते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषाः॑ ॥२॥ अ॒भीऽहि मन्यो त॒वस॒स्तवी॑या॒न् तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न्। अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥३॥ त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वयं॒भूर्भामो॑ अभिमातिषा॒हः । वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सही॑यान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥४॥ अ॒भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः । तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीडा॒हं स्वा त॒नूर्ब॑ल॒दावा॑ न॒ एहि॑ ॥५॥ अ॒यं ते॑ अ॒स्म्युप॑ न॒ एह्य॒र्वाङ् प्र॑तीची॒नः स॑हुरे विश्वदावन्। मन्यो॑ वज्रिन्न॒भि न॒ आ व॑वृत्स्व॒ हना॑व॒ दस्यूं॑रुत बो॑ध्या॒पेः ॥६॥ अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ नोऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ । जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भावु॑पां॒शु प्र॑थ॒मा पि॑बाव ॥७॥
पाप-नाशनम् १-८ ब्रह्म। पाप्मनाशनोऽग्निः। गायत्री। अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒ग्ध्या र॒यिम्। अप॑ नः॒ शोशु॑चद॒घम्॥१॥ सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे । अप॑ नः॒ शोशु॑चद॒घम्॥२॥ प्र यद् भन्दि॑ष्ठ एषां॒ प्रास्माका॑सश्च सू॒रयः॑ । अप॑ नः॒ शोशु॑चद॒घम्॥३॥ प्र यत् ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम्। अप॑ नः॒ शोशु॑चद॒घम्॥४॥ प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ भा॒नवः॑ । अप॑ नः॒ शोशु॑चद॒घम्॥५॥ त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ । अप॑ नः॒ शोशु॑चद॒घम्॥६॥ द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय । अप॑ नः॒ शोशु॑चद॒घम्॥७॥ स नः॒ सिन्धु॑मिव ना॒वाति॑ पर्ष स्व॒स्तये॑ । अप॑ नः॒ शोशु॑चद॒घम्॥८॥
ब्रह्मौदनम्। १-८ अथर्वा। ब्रह्मौदनं। त्रिष्टुप्, ४ उत्तमा भुरिक्, ५ व्यवसाना सप्तपदा …………, ब्रह्मा॑स्य शी॒र्षं बृ॒हद॑स्य पृ॒ष्ठं वा॑मदे॒व्यमु॒दर॑मोद॒नस्य॑ । छन्दां॑सि प॒क्षौ मुख॑मस्य स॒त्यं वि॑ष्टा॒री जा॒तस्तप॒सोऽधि॑ य॒ज्ञः ॥१॥ अ॒न॒स्थाः पू॒ताः पव॑नेन शु॒द्धाः शुच॑यः॒ शुचि॒मपि॑ यन्ति लो॒कम्। नैषां शि॒श्नं प्र द॑हति जा॒तवे॑दाः स्व॒र्गे लो॒के ब॒हु स्त्रैण॑मेषाम्॥२॥ वि॒ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॒नव॑र्तिः सचते क॒दा च॒न। आस्ते॑ य॒म उप॑ याति दे॒वान्त्सं ग॑न्ध॒र्वैर्मदते सो॒म्येभिः॑ ॥३॥ वि॒ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॑न् य॒मः परि॑ मुष्णाति॒ रेतः॑ । र॒थी ह॑ भू॒त्वा र॑थ॒यान॑ ईयते प॒क्षी ह॑ भू॒त्वाति॒ दिवः॒ समे॑ति ॥४॥ ष॒ य॒ज्ञानां॒ वित॑तो॒ वहि॑ष्ठो विष्टा॒रिणं॑ प॒क्त्वा दि॒वमा विवे॑श । आ॒ण्डीकं॑ कुमु॑दं॒ सं त॑नोति॒ बिसं॑ शा॒लूकं॒ शफ॑को मुला॒ली। ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त् पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥५॥ घृ॒तह्र॑दा॒ मधु॑कूलाः॒ सुरो॑दकाः क्षी॒रेण॑ पू॒र्णा उ॑द॒केन॑ द॒ध्ना। ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त् पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥६॥ च॒तुरः॑ कु॒म्भांश्च॑तु॒र्धा द॑दामि क्षी॒रेण॑ पू॒र्नाँ उ॑द॒केन॑ द॒ध्ना। ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त् पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥७॥ इ॒ममो॑द॒नं नि द॑धे ब्राह्म॒णेषु॑ विष्टा॒रिणं॑ लोक॒जितं॑ स्व॒र्ग॑म्। स मे॒ मा क्षे॑ष्ट स्व॒धया॒ पिन्व॑मानो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॑ मे अस्तु ॥८॥
मृत्युसंतरणम्। १-७ प्रजापतिः। अतिमृत्युः। त्रिष्टुप्, ३ भुरिग्जगती। बयमो॑द॒नं प्र॑थम॒जा ऋ॒तस्य॑ प्र॒जाप॑ति॒स्तप॑सा ब्र॒ह्मणेऽप॑चत्। यो लो॒कानां॒ विधृ॑ति॒र्नाभि॒रेषा॒त् तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम्॥१॥ येनात॑रन् भूत॒कृतोऽति॑ मृ॒त्युं यम॒न्ववि॑द॒न् तप॑सा॒ श्रमे॑ण । यं प॒पाच॑ ब्र॒ह्मणे॒ ब्रह्म॒ पूर्वं॒ तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम्॥२॥ यो दा॒धार॑ पृथि॒वीं वि॒श्वभो॑जसं॒ यो अ॒न्तरि॑क्ष॒मापृ॑णा॒द् रसे॑न । यो अस्त॑भ्ना॒द् दिव॑मू॒र्ध्वो म॑हि॒म्ना तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम्॥३॥ यस्मा॒न्मासा॒ निर्मि॑तास्त्रिं॒शद॑राः संवत्स॒रो यस्मा॒न्निर्मि॑तो॒ द्वाद॑शारः । अ॒हो॒रा॒त्रा यं प॑रि॒यन्तो॒ नापुस्तेनौ॑दनेनाति॑ तराणि मृ॒त्युम्॥४॥ यः प्रा॑ण॒दः प्रा॑ण॒दवा॑न् ब॒भूव॒ यस्मै॑ लो॒का घृ॒तव॑न्तः॒ क्षर॑न्ति । ज्योति॑ष्मतीः प्र॒दिशो॒ यस्य॒ सर्वा॒स्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम्॥५॥ यस्मा॑त् प॒क्वाद॒मृतं॑ संब॒भूव॒ यो गा॑य॒त्र्या अधि॑पतिर्ब॒भूव॑ । यस्मि॒न् वेदा॒ निहि॑ता वि॒श्वरू॑पा॒स्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम्॥६॥ अव॑ बाधे द्वि॒षन्तं॑ देवपी॒युं स॒पत्ना॒ ये मेऽप॒ ते भ॑वन्तु । ब्र॒ह्मौ॒द॒नं वि॑श्व॒जितं॑ पचामि शृ॒ण्वन्तु॑ मे श्र॒द्दधा॑नस्य दे॒वाः ॥७॥
सत्यौजा अग्निः। १-१० चातनः। सत्यौजा अग्निः। अनुष्टुप्, ९ भुरिक्। तान्त्स॒त्यौजाः॒ प्र द॑हत्व॒ग्निर्वै॑श्वान॒रोवृषा॑ । यो नो॑ दुर॒स्याद् दिप्सा॒च्चाथो॒ यो नो॑ अराति॒यात्॥१॥ यो नो॒ दिप्स॒ददि॑प्सतो॒ दिप्स॑तो॒ यश्च॒ दिप्स॑ति । वै॒श्वा॒न॒रस्य॒ दंष्ट्र॑योर॒ग्नेरपि॑ दधामि॒ तम्॥२॥ य आ॑ग॒रे मृ॒गय॑न्ते प्रतिक्रो॒शेऽमावा॒स्ये। क्र॒व्यादो॑ अ॒न्यान् दिप्स॑तः॒ सर्वां॒स्तान्त्सह॑सा सहे ॥३॥ सहे॑ पिशा॒चान्त्सह॑सैषां॒ द्रवि॑णं ददे । सर्वा॑न् दुरस्य॒तो ह॑न्मि॒ सं म॒ आकू॑तिरृद्यताम्॥४॥ ये दे॒वास्तेन॒ हास॑न्ते॒ सूर्ये॑ण मिमते ज॒वम्। न॒दीषु॒ पर्व॑तेषु॒ ये सं तैः प॒शुभि॑र्विदे ॥५॥ तप॑नो अस्मि पिशा॒चानां॑ व्या॒घ्रो गोम॑तामिव । श्वानः॑ सिं॒हमि॑व दृ॒ष्ट्वा ते न वि॑न्दन्ते॒ न्यञ्च॑नम्॥६॥ न पि॑शा॒चैः सं श॑क्नोमि॒ न स्ते॒नैर्न व॑न॒र्गुभिः॑ । पि॒शा॒चास्तस्मा॑न्नश्यन्ति॒ यम॒हं ग्राम॑मावि॒शे॥७॥ यं ग्राम॑मावि॒शत॑ इ॒दमु॒ग्रं सहो॒ मम॑ । पि॒शा॒चास्तस्मा॑न्नश्यन्ति॒ न पा॒पमुप॑ जानते ॥८॥ ये मा॑ क्रो॒धय॑न्ति लपि॒ता ह॒स्तिनं॑ म॒शका॑ इव । तान॒हं म॑न्ये॒ दुर्हि॑ता॒न् जने॒ अल्प॑शयूनिव ॥९॥ अ॒भि तं निरृ॑तिर्धत्ता॒मश्व॑मिवाश्वाभि॒धान्या॑ । म॒ल्वो यो मह्यं॒ क्रुध्य॑ति॒ स उ॒ पाशा॒न्नमु॑च्यते ॥१०॥
कृमिनाशनम्। १२ बादरायणिः। अजशृङ्गी, १ अप्सरसः, १-२, ६-१० औषधी अजशृङ्गी, ३-५ अप्सरसः, ७-१२ गन्धर्वाप्सरसः। अनुष्टुप्, ३ त्र्यवसाना षट् पदा त्रिष्टुप्, ५ प्रस्तारपङ्क्तिः, ७ परोष्णिक्, ११ षट् पदा जगती, १२ निचृत्। त्वया॒ पूर्व॒मथ॑र्वाणो ज॒घ्नू रक्षां॑स्योषधे । त्वया॑ जघान क॒श्यप॒स्त्वया॒ कण्वो॑ अ॒गस्त्यः॑ ॥१॥ त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांस्चा॑तयामहे । अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न् ग॒न्धेन॑ नाशय ॥२॥ न॒दीं य॑न्त्वप्स॒रसो॒ऽपां ता॒रम॑वश्व॒सम्। गु॒ल्गु॒लूः पीला॑ नल॒द्यौ॒३क्षग॑न्धिः प्रमन्द॒नी। तत् परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥३॥ यत्रा॑श्व॒त्था न्य॒ग्रोधा॑ महावृ॒क्षाः शि॑ख॒ण्डिनः॑ । तत् परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥४॥ यत्र॑ वः प्रे॒ङ्खा हरि॑ता॒ अर्जु॑ना उ॒त यत्रा॑घा॒ताः क॑र्क॒र्यः सं॒वद॑न्ति । तत् परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥५॥ एयम॑ग॒न्नोष॑धीनां वी॒रुधां॑ वी॒र्याऽवती । अ॒ज॒शृ॒ङ्ग्यऽराट॒की ती॑क्ष्णशृ॒ङ्गी व्यृऽषतु ॥६॥ आ॒नृत्य॑तः शिख॒ण्डिनो॑ गन्ध॒र्वस्या॑प्सराप॒तेः । भि॒नद्मि॑ मु॒ष्कावपि॑ यामि॒ शेपः॑ ॥७॥ भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तमृ॒ष्टीर॑य॒स्मयीः॑ । ताभि॑र्हविर॒दान् ग॑न्ध॒र्वान॑वका॒दान् व्यृऽषतु ॥८॥ भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तमृ॒ष्टीर्हि॑र॒ण्ययीः॑ । ताभि॑र्हविर॒दान् ग॑न्ध॒र्वान॑वका॒दान् व्युऽषतु ॥९॥ अ॒व॒का॒दान॑भिशो॒चान॒प्सु ज्यो॑तय माम॒कान्। पि॒शा॒चान्त्सर्वा॑नोषधे॒ प्र मृ॑णीहि॒ सह॑स्व च ॥१०॥ स्वेवैकः॑ क॒पिरि॒वैकः॑ कुमा॒रः स॑र्वकेश॒कः । प्रियो दृश इ॑व भू॒त्वा ग॑न्ध॒र्वः स॑चते॒ स्त्रिय॑स्त॑मि॒तो ना॑शयामसि॒ ब्रह्म॑णा वी॒र्याऽवता ॥११॥ जा॒या इद् वो॑ अप्स॒रसो॒ गन्ध॑र्वाः॒ पत॑यो यू॒यम्। अप धावतामर्त्या॒ मर्त्या॒न् मा स॑चध्वम्॥१२॥
वाजिनीवान् ऋषभः। १-७ बादरायणिः। १-४ अप्सरसः, ५-७ ऋषभः। अनुष्टुप्, ३ षट् पदा त्र्यवसाना जगती, ५ भुरिगत्यष्टिः,…. त्रिष्टुप्,७ त्र्यवसाना पञ्चपदानुष्टुब्गर्भा पुरउपरिष्टाज्ज्योतिष्मती जगती। उ॒द्भि॒न्द॒तीं सं॒जय॑न्तीमप्स॒रां सा॑धुदे॒विनी॑म्। ग्लहे॑ कृ॒तानि॑ कृण्वा॒नाम॑प्स॒रां तामि॒ह हु॑वे ॥१॥ वि॒चि॒न्व॒तीमा॑कि॒रन्ती॑मप्स॒रां सा॑धुदे॒विनी॑म्। ग्लहे॑ कृ॒तानि॑ गृह्णा॒नाम॑प्स॒रां तामि॒ह हु॑वे ॥२॥ यायैः॑ परि॒नृत्य॑त्या॒ददा॑ना कृ॒तं ग्लहा॑त्। सा नः॑ कृ॒तानि॑ सीष॒ती प्र॒हामा॑प्नोतु मा॒यया॑ । सा नः॒ पय॑स्व॒त्यैतु॒ मा नो॑ जैषुरि॒दं धन॑म्॥३॥ या अ॒क्षेषु॑ प्र॒मोद॑न्ते॒ शुचं॒ क्रोधं॑ च॒ बिभ्र॑ती । आ॒न॒न्दिनीं॑ प्रमो॒दिनी॑मप्स॒रां तामि॒ह हु॑वे ॥४॥ सूर्य॑स्य र॒श्मीननु॒ याः स॒ञ्चर॑न्ति॒ मरी॑चीर्वा॒ या अ॑नुस॒ञ्चर॑न्ति । यासा॑मृष॒भो दू॑र॒तो वा॒जिनी॑वान्त्स॒द्यः सर्वाँन् लो॒कान् प॒र्यैति॒ रक्ष॑न्। स न॒ ऐतु॒ होम॑मि॒मं जु॑षा॒णो॒३ऽन्तरि॑क्षेण स॒ह वा॒जिनी॑वान्॥५॥ अ॒न्तरि॑क्षेन स॒ह वा॑जिनीवन् क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्। इ॒मे ते॑ स्तो॒का ब॑हु॒ला एह्य॒र्वाङि॒यं ते॑ क॒र्कीह ते॒ मनो॑ऽस्तु ॥६॥ अ॒न्तरि॑क्षेण स॒ह वा॑जिनीवन् क॒र्कीं व॒त्सामि॒ह र॑क्ष वाजिन्। अ॒यं घा॒सो अ॒यं व्र॒ज इ॒ह व॒त्सां नि ब॑ध्नीमः । य॒था॒ना॒म व॑ ईश्महे॒ स्वाहा॑ ॥७॥
संनति १-१० अङ्गिराः, ९-१० ब्रह्म च। १-२ पृथिव्यग्नी, २-४ वाय्वन्तरिक्षे, ५-६ दिवादित्यौ, ७-८ दिक्-चन्द्रमसः, ९-१० जातवेदसोऽग्निः। संनतिः। पङ्क्तिः, १,२,५,७ त्रिपदा महाबृहती, २,४,६,८ संस्तारपङ्क्तिः, ९-१० त्रिष्टुप्। पृ॒थि॒व्याम॒ग्नये॒ सम॑नम॒न्त्स आ॑र्ध्नोत्। यथा॑ पृथि॒व्याम॒ग्नये॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥१॥ पृ॒थि॒वी धे॒नुस्तस्या॑ अ॒ग्निर्व॒त्सः । सा मे॒ऽग्निना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम्। आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥२॥ अ॒न्तरि॑क्षे वा॒यवे॒ सम॑नम॒न्त्स आ॑र्ध्नोत्। यथा॒न्तरि॑क्षे वा॒यवे॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥३॥ अ॒न्तरि॑क्षं धे॒नुस्तस्या॑ वा॒युर्व॒त्सः । सा मे॑ वा॒युना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम्। आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥४॥ दि॒व्याऽदि॒त्याय॒ सम॑नम॒न्त्स आ॑र्ध्नोत्। यथा॑ दि॒व्याऽदि॒त्याय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥५॥ द्यैर्धे॒नुस्तस्या॑ आदि॒त्यो व॒त्सः । सा म॑ आदि॒त्येन॑ व॒त्सेने॑ष॒मूर्जं॒ कामं॑ दुहाम्। आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥६॥ दि॒क्षु च॒न्द्राय॒ सम॑नम॒न्त्स आ॑र्ध्नोत्। यथा॑ दि॒क्षु च॒न्द्राय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥७॥ दिशो॑ धे॒नव॒स्तासां॑ च॒न्द्रो व॒त्सः । ता मे॑ च॒न्द्रेण॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम् । आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥८॥ अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पा उ॑ । न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि॒ मा दे॒वानां॑ मिथु॒या क॑र्म भा॒गम्॥९॥ हृ॒दा पू॒तं मन॑सा जातवेदो॒ विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। स॒प्तास्या॑नि॒ तव॑ जातवेद॒स्तेभ्यो॑ जुहोमि॒ स जु॑षस्व ह॒व्यम्॥१०॥
शत्रुनाशनम्। १-८ शुक्रः। ब्रह्म, १ अग्निः, २ यमः, ३ वरुणः, ४ सोमः, ५ भूमिः, ६ वायुः, ७ सूर्यः, ९ दिशः। त्रिष्टुप्, २ जगती, ८ पुरोऽतिशक्वरी पादयुग्जगती। ये पु॒रस्ता॒ज्जुह्व॑ति जातवेदः॒ प्राच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। अ॒ग्निमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ॥१॥ ये द॑क्षिण॒तो जुह्व॑ति जातवेदो॒ दक्षि॑णाया दि॒शोऽभि॒दास॑न्त्य॒स्मान्। य॒ममृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ॥२॥ ये प॒श्चाज्जुह्व॑ति जातवेदः प्र॒तीच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। वरु॑णमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ॥३॥ य उ॑त्तर॒तो जुह्व॑ति जातवेद॒ उदी॑च्या दि॒शोऽभि॒दास॑न्त्य॒स्मान्। सोम॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ॥४॥ ये॒३धस्ता॒ज्जुह्व॑ति जातवेदो ध्रु॒वाया॑ दि॒शोऽभिदास॑न्त्य॒स्मान्। भूमि॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ॥५॥ ये॒३ऽन्तरि॑क्षा॒ज्जुह्व॑ति जातवेदो व्य॒ध्वाया॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। वा॒युमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ॥६॥ य उ॒परि॑ष्टा॒ज्जुह्व॑ति जातवेद ऊ॒र्ध्वाया॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। सूर्य॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ॥७॥ ये दि॒शाम॑न्तर्दे॒शेभ्यो॒ जुह्व॑ति जातवेदः सर्वा॑भ्यो दि॒ग्भ्योऽभि॒दास॑न्त्य॒स्मान्। ब्रह्म॒र्त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ॥८॥
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is Kaanda 4 of the Atharva Veda?
Kaanda 4 of the Atharvaveda (Shaunaka) — shorter hymns for healing, protection, long life and well-being. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
What is the Atharva Veda?
The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
Offer a Vedic paath or seva in your name
Have a Vedic paath, havan or seva performed in your naam-gotra for peace and blessings. Book a seva, or read on in Sanatan Sahitya.








