About Kaanda 19
Kaanda 19 of the Atharvaveda (Shaunaka) — longer and philosophical hymns of the later books. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
How it is read
Kaanda 19 is given below in its original Sanskrit, in accented Devanagari. The Veda is preserved as shruti and recited in svadhyaya; read it reverently, sukta by sukta.
Original Text
The Verses
यशः। १-३ ब्रह्मा। यज्ञः, चन्द्रमाश्च। १-२ पथ्याबृहती, ३ पङ्क्तिः। सं सं स्र॑वन्तु न॒द्यः॑१ सं वाताः॒ सं प॑त॒त्रिणः॑ । य॒ज्ञमि॒मं व॑र्धयता गिरः संस्रा॒व्येऽण ह॒विषा॑ जुहोमि ॥१॥ इ॒मं होमा॑ य॒ज्ञम॑वते॒मं सं॑स्रावणा उ॒त। य॒ज्ञमि॒मं व॑र्धयता गिरः संस्रा॒व्येऽण ह॒विषा॑ जुहोमि ॥२॥ रू॒पंरू॑पं॒ वयो॑वयः सं॒रभ्यै॑नं॒ परि॑ ष्वजे । य॒ज्ञमि॒मं चत॑स्रः प्र॒दिशो॑ वर्धयन्तु संस्रा॒व्येऽण ह॒विषा॑ जुहोमि ॥३॥
आपः। १-५ सिन्धुद्वीपः। आपः। अनुष्टुप्। शं त॒ आपो॑ हैमव॒तीः शमु॑ ते सन्तू॒त्स्याः । शं ते॑ सनि॒ष्यदा॒ आपः॒ शमु॑ ते सन्तु व॒र्ष्याः ॥१॥ शं त॒ आपो॑ धन्व॒न्याः॒३ शं ते॑ सन्त्वनू॒प्याः । शं ते॑ खनि॒त्रिमा॒ आपः॒ शं याः कु॒म्भेभि॒राभृ॑ताः ॥२॥ अ॒न॒भ्रयः॒ खन॑माना॒ विप्रा॑ गम्भी॒रे अ॒पसः॑ । भि॒षग्भ्यो॑ भि॒षक्त॑रा॒ आपो॒ अच्छा॑ वदामसि ॥३॥ अ॒पामह॑ दि॒व्याऽनाम॒पां स्रो॑त॒स्याऽनाम्। अ॒पामह॑ प्र॒णेज॒नेऽश्वा॑ भवथ वा॒जिनः॑ ॥४॥ ता अ॒पः शि॒वा अ॒पोऽय॑क्ष्मं॒कर॑णीर॒पः । यथै॒व तृ॑प्यते॒ मय॒स्तास्त॒ आ द॑त्त भेष॒जीः ॥५॥
जातवेदाः। १-४ अथर्वाङ्गिराः। अग्निः। त्रिष्टुप्, २ भुरिक्। दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षा॒द् वन॒स्पति॑भ्यो॒ अध्योष॑धीभ्यः । यत्र॑यत्र॒ विभृ॑तो जा॒तवे॑दा॒स्तत॑ स्तु॒तो जु॒षमा॑णो न॒ एहि॑ ॥१॥ यस्ते॑ अ॒प्सु म॑हि॒मा यो वने॑षु॒ य ओष॑धीषु प॒शुष्व॒प्स्व॑१न्तः । अग्ने॒ सर्वा॑स्त॒न्वः॑१ सं र॑भस्व॒ ताभि॑र्न॒ एहि॑ द्रविणो॒दा अज॑स्रः ॥२॥ यस्ते॑ दे॒वेषु॑ महि॒मा स्व॒र्गो या ते॑ त॒नूः पि॒तृष्वा॑वि॒वेश॑ । पुष्टि॒र्या ते॑ मनु॒ष्येऽषु पप्र॒थेऽग्ने॒ तया॑ र॒यिम॒स्मासु॑ धेहि ॥३॥ श्रुत्क॑र्णाय क॒वये॒ वेद्या॑य॒ वचो॑भिर्वा॒कैरुप॑ यामि रा॒तिम्। यतो॑ भ॒यमभ॑यं॒ तन्नो॑ अ॒स्त्वव॑ दे॒वानां॑ यज॒ हेडो॑ अग्ने ॥४॥
आकूतिः। १-४ अथर्वाङ्गिराः। अग्निः। त्रिष्टुप्, १ पञ्चपदा विराडतिजगती, २ जगती। यामाहु॑तिं प्रथ॒मामथ॑र्वा॒ या जा॒ता या ह॒व्यमकृ॑णोज्जा॒तवे॑दाः । तां त॑ ए॒तां प्र॑थ॒मो जो॑हवीमि॒ ताभि॑ष्टु॒प्तो व॑हतु ह॒व्यम॒ग्निर॒ग्नये॒ स्वाहा॑ ॥१॥ आकू॑तिं दे॒वीं सु॒भगां॑ पु॒रो द॑धे चि॒त्तस्य॑ मा॒ता सु॒हवा॑ नो अस्तु । यामा॒शामे॑मि॒ केव॑ली॒ सा मे॑ अस्तु॒ विदे॑यमेनां॒ मन॑सि॒ प्रवि॑ष्टाम्॥२॥ आकू॑त्या नो बृहस्पत॒ आकू॑त्या न॒ उपा ग॑हि । अथो॒ भग॑स्य नो धे॒ह्यथो॑ नः सु॒हवो॑ भव ॥३॥ बृह॒स्पति॑र्म॒ आकू॑तिमाङ्गिर॒सः प्रति॑ जानातु॒ वाच॑मे॒ताम्। यस्य॑ दे॒वा दे॒वताः॑ संबभू॒वुः स सु॒प्रणी॑ताः॒ कामो॒ अन्वे॑त्व॒स्मान्॥४॥
जगतो राजा १ अथर्वाङ्गिराः। इन्द्रः। त्रिष्टुप्। इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॒ क्षमि॒ विषु॑रूपं॒ यदस्ति॑ । ततो॑ ददाति दा॒शुषे॒ वसू॑नि॒ चोद॒द् राध॒ उप॑स्तुतश्चिद॒र्वाक्॥१॥
जगद्बीज पुरुषः। १-१६ नारायणः। पुरुषः। अनुष्टुप्। स॒हस्र॑बाहुः॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात्। स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद् दशाङ्गु॒लम्॥१॥ त्रि॒भिः प॒द्भिर्द्याम॑रोह॒त् पाद॑स्ये॒हाभ॑व॒त् पुनः॑ । तथा॒ व्यऽक्राम॒द् विष्व॑ङशनानश॒ने अनु॑ ॥२॥ ताव॑न्तो अस्य महि॒मान॒स्ततो॒ ज्यायां॑श्च॒ पूरु॑षः । पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्यृ॒तं॑ दि॒वि॥३॥ पुरु॑ष ए॒वेदं सर्वं॒ यद् भू॒तं यच्च॑ भा॒व्यम्। उ॒तामृ॑त॒त्वस्ये॑श्व॒रो यद॒न्येनाभ॑वत् स॒ह॥४॥ यत् पुरु॑षं॒ व्यद॑धुः कति॒धा व्यऽकल्पयन्। मुखं॒ किम॑स्य॒ किं बा॒हू किमू॒रू पादा॑ उच्येते ॥५॥ ब्रा॒ह्म॒णोऽस्य॒ मुख॑मासीद् बा॒हू रा॑ज॒न्योऽभवत्। मध्यं॒ तद॑स्य॒ यद् वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ॥६॥ चन्द्र॑मा म॑नसो जात॑श्च॑क्षोः सू॑र्यो अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद् वा॒युर॑जायत ॥७॥ नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त् तथा॑ लो॒कां अ॑कल्पयन्॥८॥ वि॒राडग्रे॒ सम॑भवद् वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद् भूमि॒मथो॑ पु॒रः ॥९॥ यत् पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥१०॥ तं य॒ज्ञं प्रा॒वृषा॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒शः । तेन॑ दे॒वा अ॑यजन्त सा॒ध्या वस॑वश्च॒ ये॥११॥ तस्मा॒दश्वा॑ अजायन्त॒ ये च॒ के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॒त् तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥१२॥ तस्मा॑द् य॒ज्ञात् स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे । छन्दो॑ ह जज्ञिरे॒ तस्मा॒द् यजु॒स्तस्मा॑दजायत ॥१३॥ तस्मा॑द् य॒ज्ञात् स॑र्व॒हुतः॒ संभृ॑तं पृषदा॒ज्यऽम्। प॒शूंस्तांश्च॑क्रे वाय॒व्याऽनार॒ण्या ग्रा॒म्याश्च॒ ये॥१४॥ स॒प्तास्या॑सन् परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद् य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न् पुरु॑षं प॒शुम्॥१५॥ मू॒र्ध्नो दे॒वस्य॑ बृह॒तो अं॒शवः॑ स॒प्त स॑प्त॒तीः । राज्ञः॒ सोम॑स्याजायन्त जा॒तस्य॒ पुरु॑षा॒दधि॑ ॥१६॥
नक्षत्राणि। १-५ गार्ग्यः। नक्षत्राणि। त्रिष्टुप्, ४ भुरिक्। चि॒त्राणि॑ सा॒कं दि॒वि रो॑च॒नानि॑ सरीसृ॒पाणि॒ भुव॑ने ज॒वानि॑ । तु॒र्मिशं॑ सुम॒तिमि॒च्छमा॑नो॒ अहा॑नि गी॒र्भिः स॑प॒र्यामि॒ नाक॑म्॥१॥ सु॒हव॑मग्ने॒ कृत्ति॑का॒ रोहि॑णी॒ चास्तु॑ भ॒द्रं मृ॒गशि॑रः॒ शमा॒र्द्रा। पुन॑र्वसू सू॒नृता॒ चारु॒ पुष्यो॑ भा॒नुरा॑श्ले॒षा अय॑नं म॒घा मे ॥२॥ पुण्यं॒ पूर्वा॒ फल्गु॑न्यौ॒ चात्र॒ हस्त॑श्चि॒त्रा शि॒वा स्वा॒ति सु॒खो मे॑ अस्तु । राधे॑ वि॒शाखे॑ सु॒हवा॑नुरा॒धा ज्येष्ठा॑ सु॒नक्ष॑त्र॒मरि॑ष्ट॒ मूल॑म्॥३॥ अन्नं॒ पूर्वा॑ रासतां मे अषा॒ढा ऊर्जं॑ दे॒व्युत्त॑रा॒ आ व॑हन्तु । अ॒भि॒जिन्मे॑ रासतां॒ पुण्य॑मे॒व श्रव॑णः॒ श्रवि॑ष्ठाः कुर्वतां सुपु॒ष्टिम्॥४॥ आ मे॑ म॒हच्छ॒तभि॑ष॒ग् वरी॑य॒ आ मे॑ द्व॒या प्रोष्ठ॑पदा सु॒शर्म॑ । आ रे॒वती॑ चाश्व॒युजौ॒ भगं॑ म॒ आ मे॑ र॒यिं भर॑ण्य॒ आ व॑हन्तु ॥५॥
नक्षत्राणी। १-७ गार्ग्यः। नक्षत्राणी, …. ब्रह्मणस्पतिः। त्रिष्टुप्, १ विराड् जगती। यानि॒ नक्ष॑त्राणि दि॒व्य॑१न्तरि॑क्षे अ॒प्सु भूमौ॒ यानि॒ नगे॑षु दि॒क्षु। प्रक॑ल्पयंश्च॒न्द्रमा॒ यान्येति॒ सर्वा॑णि॒ ममै॒तानि॑ शि॒वानि॑ सन्तु ॥१॥ अ॒ष्टा॒विं॒शानि॑ शि॒वानि॑ श॒ग्मानि॑ स॒ह योगं॑ भजन्तु मे । योगं॒ प्र प॑द्ये॒ क्षेमं॑ च॒ क्षेमं॒ प्र प॑द्ये॒ योगं॑ च॒ नमो॑ऽहोरा॒त्राभ्या॑मस्तु ॥२॥ स्वस्ति॑तं मे सुप्रा॒तः सु॑सा॒यं सु॑दि॒वं सु॑मृ॒गं सु॑श॒कुनं॑ मे अस्तु । सु॒हव॑मग्ने स्व॒स्त्य॑१मर्त्यं॑ ग॒त्वा पुन॒राया॑भि॒नन्द॑न्॥३॥ अ॒नु॒ह॒वं प॑रिह॒वं प॑रिवा॒दं प॑रिक्ष॒वम्। सर्वै॑र्मे रिक्तकु॒म्भान् परा॒ तान् स॑वितः सुव॥४॥ अ॒प॒पा॒पं प॑रिक्ष॒वं पुण्यं॑ भक्षी॒महि॒ क्षव॑म्। शि॒वा ते॑ पाप॒ नासि॑कां॒ पुण्य॑गश्चा॒भि मे॑हताम्॥५॥ इ॒मा या ब्र॑ह्मणस्पते॒ विषु॑ची॒र्वात॒ ईर॑ते । स॒ध्रीची॑रिन्द्र॒ ताः कृ॒त्वा मह्यं॑ शि॒वत॑मास्कृधि ॥६॥ स्व॒स्ति नो॑ अ॒स्त्वभ॑यं नो अस्तु॒ नमो॑ऽहोर॒त्राभ्या॑मस्तु ॥७॥
शान्तिः। १-१४ वसिष्ठः (शन्तातिः) शान्तिः, बहुदैवन्यम्। अनुष्टुप्, शान्तिः, बहुदैवन्यम्। अनुष्टुप्, विराडुरोबृहती, पञ्चपदा पथ्यापङ्क्तिः, ९ पञ्चपदा ककुम्मती, १२ त्र्यवसाना सप्तपदाऽष्टिः, १४ चतुष्पदा संकृतिः। शा॒न्ता द्यौः शा॒न्ता पृ॑थि॒वी शा॒न्तमि॒दमु॒र्व॑१न्तरि॑क्षम्। शा॒न्ता उ॑द॒न्वती॒रापः॑ शा॒न्ता नः॑ स॒न्त्वोष॑धीः ॥१॥ शा॒न्तानि॑ पूर्वरू॒पाणि॑ शा॒न्तं नो॑ अस्तु कृताकृ॒तम्। शा॒न्तं भू॒तं च॒ भव्यं॑ च॒ सर्व॑मे॒व शम॑स्तु नः ॥२॥ इ॒यं या प॑रमे॒ष्ठिनी॒ वाग् दे॒वी ब्रह्म॑संशिता । ययै॒व स॑सृ॒जे घो॒रं तयै॒व शान्ति॑रस्तु नः ॥३॥ इ॒दं यत् प॑रमे॒ष्ठिनं॒ मनो॑ वां॒ ब्रह्म॑संशितम्। येनै॒व स॑सृ॒जे घो॒रं तेनै॒व शान्ति॑रस्तु नः ॥४॥ इ॒मानि॒ यानि॒ पञ्चे॑न्द्रि॒याणि॒ मनः॑षष्ठानि मे हृ॒दि ब्रह्म॑णा॒ संशि॑तानि । यैरे॒व स॑सृ॒जे घो॒रं तैरे॒व शान्ति॑रस्तु नः॥५॥ शं नो॑ मि॒त्रः शं वरु॑णः॒ शं विष्णुः॒ शं प्र॒जाप॑तिः । शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॑ भवत्वर्य॒मा॥६॥ शं नो॑ मि॒त्रः शं वरु॑णः॒ शं वि॒वस्वां॒छमन्त॑कः । उत्पाताः॒ पार्थि॑वा॒न्तरि॑क्षाः॒ शं नो॑ दि॒विच॑रा॒ ग्रहाः॑॥७॥ शं नो॒ भूमि॑र्वेप्यमा॒ना शमु॒ल्का निर्ह॑तं च॒ यत्। शं गावो॒ लोहि॑तक्षीराः॒ शं भूमि॒रव॑ तीर्य॒तीः॥८ नक्ष॑त्रमु॒ल्काभिह॑तं॒ शम॑स्तु नः॒ शं नो॑ऽभिचा॒राः शमु॑ सन्तु कृ॒त्याः । शं नो॒ निखा॑ता व॒ल्गाः शमु॒ल्का दे॑शोपस॒र्गाः शमु॑ नो भवन्तु ॥९॥ शं नो॒ ग्रहा॑श्चान्द्रम॒साः शमा॑दि॒त्यश्च॑ राहु॒णा। शं नो॑ मृ॒त्युर्धू॒मके॑तुः॒ शं रु॒द्रास्ति॒ग्मते॑जसः ॥१०॥ शं रु॒द्राः शं वसवः॒ शमा॑दि॒त्याः शम॒ग्नयः॑ । शं नो॑ मह॒र्षयो॑ दे॒वाः शं दे॒वाः शं बृह॒स्पतिः॑ ॥११॥ ब्रह्म॑ प्र॒जाप॑तिर्धा॒ता लो॒का वे॒दाः स॑प्तऋ॒षयो॒ऽग्नयः॑ । तैर्मे॑ कृ॒तं स्व॒स्त्यय॑न॒मिन्द्रो॑ मे॒ शर्म॑ यच्छतु ब्र॒ह्मा मे॒ शर्म॑ यच्छतु । विश्वे॑ मे दे॒वाः शर्म॑ यच्छन्तु॒ सर्वे॑ मे दे॒वाः शर्म॑ यच्छन्तु ॥१२॥ यानि॒ कानि॑ चिच्छा॒न्तानि॑ लो॒के स॑प्तऋ॒षयो॑ वि॒दुः । सर्वा॑णि॒ शं भ॑वन्तु मे॒ शं मे॑ अ॒स्त्वभ॑यं मे अस्तु ॥१३॥ पृ॒थि॒वी शान्ति॑र॒न्तरि॑क्षं॒ शान्ति॒र्द्यौः शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्ति॒र्वन॒स्पत॑यः॒ शान्ति॒र्विश्वे॑ मे दे॒वाः शान्तिः॒ सर्वे॑ मे दे॒वाः शान्तिः॒ शान्तिः॒ शान्तिः॒ शान्ति॑भिः । ताभिः॒ शान्ति॑भिः॒ सर्व॒ शान्ति॑भिः॒ शम॑यामो॒ऽहं यदि॒ह घो॒रं यदि॒ह क्रू॒रं यदि॒ह पा॒पं तच्छा॒न्तं तच्छि॒वं सर्व॑मे॒व शम॑स्तु नः ॥१४॥
शान्तिः। १-१० वसिष्ठः। बहुदैवत्यम्। त्रिष्टुप्। शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या । शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ॥१॥ शं नो॒ भगः॒ शमु॑ नः॒ शंसो॑ अस्तु॒ शं नः॒ पुरं॑धिः॒ शमु॑ सन्तु॒ रायः॑ । शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥२॥ शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑ । शं रोद॑सी बृह॒ती शं नो॒ अद्रिः॒ शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु ॥३॥ शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम्। शं नः॑ सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वातः॑ ॥४॥ शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अस्तु । शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥५॥ शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑ । शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥६॥ शं नः॒ सोमो॑ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा॑णः॒ शमु॑ सन्तु य॒ज्ञाः । शं नः॒ स्वरू॑णा मि॒तयो॑ भवन्तु॒ शं नः॑ प्र॒स्वः॑१ शम्व॑स्तु॒ वेदिः॑ ॥७॥ शं नः॒ सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं नो॑ भवन्तु प्र॒दिश॒श्चत॑स्रः । शं नः॒ पर्व॑ता ध्रु॒वयो॑ भवन्तु॒ शं नः॒ सिन्ध॑वः॒ शमु॑ स॒न्त्वापः॑ ॥८॥ शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो॑ भवन्तु म॒रुतः॑ स्व॒र्काः । शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥९॥ शं नो॑ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो॑ भवन्तू॒षसो॑ विभा॒तीः । शं नः॑ प॒र्जन्यो॑ भवतु प्र॒जाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु शं॒भुः ॥१०॥
शान्तिः। १-६ वसिष्ठः। बहुदैवत्यम्। त्रिष्टुप्। शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्तः॒ शमु॑ सन्तु॒ गावः॑ । शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो॑ भवतु पि॒तरो॒ हवे॑षु ॥१॥ शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु । शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः॑ ॥२॥ शं नो॑ अ॒ज एक॑पाद् दे॒वो अ॑स्तु॒ शमहि॑र्बु॒ध्न्यः॑१ शं स॑मु॒द्रः । शं नो॑ अ॒पां नपा॑त् पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो॑पा ॥३॥ आ॒दि॒त्या रु॒द्रा वस॑वो जुषन्तामि॒दं ब्रह्म॑ क्रि॒यमा॑णं॒ नवी॑यः । शृ॒ण्वन्तु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ॥४॥ ये दे॒वाना॑मृ॒त्विजो॑ य॒ज्ञिया॑सो॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः । ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥५॥ तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम्। अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ॥६॥
शान्तिः। १ वसिष्ठः। उषा। त्रिष्टुप्। उ॒षा अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑ । अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥१॥
एकवीरः। १-११ अप्रतिरथः। इन्द्रः। त्रिष्टुप्, ३-६, ११ भुरिक्। इन्द्र॑स्य बा॒हू स्थवि॑रौ॒ वृषा॑णौ चि॒त्रा इ॒मा वृ॑ष॒भौ पा॑रयि॒ष्णू। तौ यो॑क्षे प्रथ॒मो योग॒ आग॑ते॒ याभ्यां॑ जि॒तमसु॑राणां॒ स्व॑१र्यत्॥१॥ आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम्। सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत् सा॒कमिन्द्रः॑ ॥२॥ सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ऽयो॒ध्येन॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ । तदिन्द्रे॑ण जयत॒ तत् स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥३॥ स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । सं॒सृ॒ष्ट॒जित् सो॑म॒पा बा॑हुश॒र्ध्यु॑१ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥४॥ ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिष॑त्वा सहो॒जिज्जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒विद॑म्॥५॥ इ॒मं वी॒रमनु॑ हर्षध्वमु॒ग्रमिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम्। ग्रा॒म॒जितं॑ गो॒जितं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ॥६॥ अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒य उ॒ग्रः श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यो॒ध्यो३ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु॥७॥ बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः । प्र॒भ॒ञ्जंछत्रू॑न् प्रमृ॒णन्न॒मित्रा॑न॒स्माक॑मेध्यवि॒ता त॒नूना॑म्॥८॥ इन्द्र॑ एषां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ यन्तु॒ मध्ये॑ ॥९॥ इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रम्। म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात्॥१०॥ अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माक॒ या इष॑व॒स्ता ज॑यन्तु । अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मान् दे॑वासोऽवता॒ हवे॑षु ॥११॥
अभयम्। १ अथर्वा। द्यावापृथिवी। त्रिष्टुप्। इ॒दमु॒च्छ्रेयो॑ऽव॒सान॒मागां॑ शि॒वे मे॒ द्यावा॑पृथि॒वी अ॑भूताम्। अ॒स॒प॒त्नाः प्र॒दिशो॑ मे भवन्तु॒ न वै त्वा॑ द्विष्मो॒ अभ॑यं नो अस्तु ॥१॥
अभयम्। १-६ अथर्वा। १-४ इन्द्रः, मन्त्रोक्ताः। त्रिष्टुप्, १ पथ्याबृहती, २, ५ जगती, ३ विराट् पथ्यापङ्क्तिः। यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि । मघ॑वंछ॒ग्धि तव॒ त्वं न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥१॥ इन्द्रं॑ व॒यम॑नूरा॒धं ह॑वाम॒हेऽनु॑ राध्यास्म द्वि॒पदा॒ चतु॑ष्पदा । मा नः॒ सेना॒ अर॑रुषी॒रुप॑ गु॒र्विषू॑चीरिन्द्र द्रु॒हो वि ना॑शय ॥२॥ इन्द्र॑स्त्रा॒तोत वृ॑त्र॒हा प॑र॒स्फानो॒ वरे॑ण्यः । स र॑क्षि॒ता च॑रम॒तः स म॑ध्य॒तः स प॒श्चात् स पु॒रस्ता॑न्नो अस्तु ॥३॥ उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्त्स्व॑१र्यज्ज्योति॒रभ॑यं स्व॒स्ति। उ॒ग्रा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ क्षयेम शर॒णा बृ॒हन्ता॑ ॥४॥ अभ॑यं नः करत्य॒न्तरि॑क्ष॒मभ॑यं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे। अभ॑यं प॒श्चादभ॑यं पु॒रस्ता॑दुत्त॒राद॑ध॒रादभ॑यं नो अस्तु ॥५॥ अभ॑यं मि॒त्रादभ॑यम॒मित्रा॒दभ॑यं ज्ञा॒तादभ॑यं पु॒रो यः । अभ॑यं॒ नक्त॒मभ॑यं॒ दिवा॑ नः॒ सर्वा॒ आशा॒ मम॑ मि॒त्रं भ॑वन्तु ॥६॥
अभयम्। १-२ अथर्वा। मन्त्रोक्ताः। १ अनुष्टुप्, २ त्र्यवसाना सप्तपदा बृहतीगर्भाऽतिशक्वरी। अ॒स॒प॒त्नं पु॒रस्ता॑त् प॒श्चान्नो॒ अभ॑यं कृतम्। स॒वि॒ता मा॑ दक्षिण॒त उ॑त्त॒रान्मा॒ शची॒पतिः॑ ॥१॥ दि॒वो मा॑दि॒त्या र॑क्षन्तु॒ भूम्या॑ रक्षन्त्व॒ग्नयः॑ । इ॒न्द्रा॒ग्नी र॑क्षतां मा पु॒रस्ता॑द॒श्विना॑व॒भितः॒ शर्म॑ यच्छताम्। ति॒र॒श्चीन॒घ्न्या र॑क्षतु जा॒तवे॑दा भूत॒कृतो॑ मे स॒र्वतः॑ सन्तु॒ वर्म॑ ॥२॥
सुरक्षा। १-१० अथर्वा। मन्त्रोक्ताः। जगती, ५, ७, १० अतिजगती, ६ भुरिक्, ९ पञ्चपदाऽतिशक्वरी। अ॒ग्निर्मा॑ पातु॒ वसु॑भिः पु॒रस्ता॒त् तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥१॥ वा॒युर्मा॒न्तरि॑क्षेणै॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥२॥ सोमो॑ मा रु॒द्रैर्दक्षि॑णाया दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥३॥ वरु॑णो मादि॒त्यैरे॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥४॥ सूर्यो॑ मा॒ द्यावा॑पृथि॒वीभ्यां॑ प्र॒तीच्या॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥५॥ आपो॒ मौष॑धीमतीरे॒तस्या॑ दि॒शः पा॑न्तु॒ तासु॑ क्रमे॒ तासु॑ श्रये॒ तां पुरं॒ प्रैमि॑ । ता मा॑ रक्षन्तु॒ ता मा॑ गोपायन्तु॒ ताभ्य॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥६॥ वि॒श्वक॑र्मा मा सप्तऋ॒षिभि॒रुदी॑च्या दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॑ परि॑ ददे॒ स्वाहा॑ ॥७॥ इन्द्रो॑ मा म॒रुत्वा॑ने॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥८॥ प्र॒जाप॑तिर्मा प्र॒जन॑नवान्त्स॒ह प्र॒तिष्ठा॑या ध्रु॒वाया॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥९॥ बृह॒स्पति॑र्मा॒ विश्वै॑र्दे॒वैरू॒र्ध्वाया॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ । स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ॥१०॥
सुरक्षा। १-१० अथर्वा। मन्त्रोक्ताः। १, ८ साम्नी त्रिष्टुप्, २-३ आर्च्यनुष्टुप्, ( ५ सम्राडार्च्यनुष्टुप्) ७, ९-१० (द्विपदाः) अ॒ग्निं ते वसु॑वन्तमृच्छन्तु ।ये मा॑घा॒यवः॒ प्राच्या॑ दि॒शोऽभि॒दासा॑त्॥१॥ वा॒युं ते॒३ऽन्तरि॑क्षवन्तमृछन्तु । ये मा॑घा॒यवः॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्॥२॥ सोमं॒ ते रु॒द्रव॑न्तमृछन्तु । ये मा॑घा॒यवो॒ दक्षि॑णाया दि॒शोऽभि॒दासा॑त्॥३॥ वरु॑णं॒ त आ॑दि॒त्यव॑न्तमृच्छन्तु ।ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्॥४॥ सूर्यं॒ ते द्यावा॑पृथि॒वीव॑न्तमृच्छन्तु । ये मा॑घा॒यव॑ प्र॒तीच्याः॑ दि॒शोऽभि॒दासा॑त्॥५॥ अ॒पस्त ओष॑धीमतीरृछन्तु । ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्॥६॥ वि॒श्वक॑र्माणं॒ ते स॑प्तऋ॒षिव॑न्तमृच्छन्तु । ये मा॑घा॒यव॒ उदी॑च्या दि॒शोऽभि॒दासा॑त्॥७॥ इन्द्रं॒ ते म॒रुत्व॑न्तमृच्छन्तु । ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्॥८॥ प्र॒जाप॑तिं॒ ते प्र॒जन॑नवन्तमृच्छन्तु । ये मा॑घा॒यवो॑ ध्रु॒वाया॑ दि॒शोऽभि॒दासा॑त्॥९॥ बृह॒स्पतिं॒ ते वि॒श्वदे॑ववन्तमृच्छन्तु । ये मा॑घा॒यव॑ ऊ॒र्ध्वाया॑ दि॒शोऽभि॒दासा॑त्॥१०॥
शर्म। १-११ अथर्वा। चन्द्रमाः, मन्त्रोक्ताश्च। पङ्क्तिः १, ३, ९ भुरिग्बृहती, १० स्वराट्, २, ४-८, ११ अनुष्टुगर्भा। मि॒त्रः पृ॑थि॒व्योद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ॥१॥ वा॒युर॒न्तरि॑क्षे॒णोद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ॥२॥ सूर्यो॑ दि॒वोद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ॥३॥ च॒न्द्रमा॒ नक्ष॑त्रै॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ॥४॥ सोम॒ ओष॑धीभि॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ॥५॥ य॒ज्ञो दक्षि॑णाभि॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ॥६॥ स॒मु॒द्रो न॒दीभि॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ॥७॥ ब्रह्म॑ ब्रह्मचा॒रिभि॒रुद॑क्राम॒त् पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ॥८॥ इन्द्रो॑ वी॒र्ये॒३णोद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ॥९॥ दे॒वा अ॒मृते॒नोद॑क्रामं॒स्तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ॥१०॥ प्र॒जाप॑तिः प्र॒जाभि॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः । तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ॥११॥
सुरक्षा। १-४ अथर्वा। बहुदैवत्यम्। १ त्रिष्टुप्, २ जगती, ३ पुरस्ताद्बृहती, ४ अनुष्टुगर्भा। अप॒ न्यधुः॒ पौरु॑षेयं व॒धं यमि॑न्द्रा॒ग्नी धा॒ता स॑वि॒ता बृह॒स्पतिः॑ । सोमो॒ राजा॒ वरु॑णो अ॒श्विना॑ य॒मः पू॒षास्मान् परि॑ पातु मृ॒त्योः ॥१॥ या॑नि॑ च॒कार॒ भुव॑नस्य॒ यस्पतिः॑ प्र॒जाप॑तिर्मात॒रिश्वा॑ प्र॒जाभ्यः॑ । प्र॒दिशो॒ यानि॑ वस॒ते दिश॑श्च॒ तानि॑ मे॒ वर्मा॑णि बहु॒लानि॑ सन्तु ॥२॥ यत् ते त॒नूष्वन॑ह्यन्त दे॒वा द्युरा॑जयो दे॒हिनः॑ । इन्द्रो॒ यच्चक्रे वर्म॒ तद॒स्मान् पा॑तु वि॒श्वतः॑ ॥३॥ वर्म॑ मे॒ द्यावा॑पृथि॒वी वर्माह॒र्वर्म॒ सूर्यः॑ । वर्म॑ मे॒ विश्वे॑ दे॒वाः क्र॒न् मा मा प्राप॑त् प्रतीचि॒का॥४॥
छन्दांसि। १ ब्रह्मा। छन्दांसि। एकावसाना द्विपदा साम्नी बृहती। गा॒य॒त्र्यु॑१ष्णिग॑नु॒ष्टुब् बृ॑ह॒ती प॒ङ्क्तिस्त्रि॒ष्टुब् जग॑त्यै ॥१॥
ब्रह्मा। १-२१ अङ्गिराः। मन्त्रोक्ताः। १ साम्नी उष्णिक्, ३, १९ प्राजापत्या गायत्री, ४, ११, १७ दैवी जगती, ५, १२-१३ दैवी त्रिष्टुप्, २, ६, १४- १६, २० दैवी पङ्क्तिः, ८-१० आसुरी जगती, १८ आसुर्यनुष्टुप्, २१ चतुष्पदा त्रिष्टुप् (१-२० एकावसानाः)। आ॒ङ्गि॒र॒साना॑मा॒द्यैः पञ्चा॑नुवा॒कैः स्वाहा॑ ॥१॥ ष॒ष्ठाय॒ स्वाहा॑ ॥२॥ स॒प्त॒मा॒ष्ट॒माभ्यां॒ स्वाहा॑ ॥३॥ नी॒ल॒न॒खेभ्यः॒ स्वाहा॑ ॥४॥ ह॒रि॒तेभ्यः॒ स्वाहा॑ ॥५॥ क्षु॒द्रेभ्यः॒ स्वाहा॑ ॥६॥ प॒र्या॒यि॒केभ्यः॒ स्वाहा॑ ॥७॥ प्र॒थ॒मेभ्यः॑ श॒ङ्खेभ्यः॒ स्वाहा॑ ॥८॥ द्वि॒ती॒येभ्यः॑ श॒ङ्खेभ्यः॒ स्वाहा॑ ॥९॥ तृ॒ती॒येभ्यः॑ श॒ङ्खेभ्यः॒ स्वाहा॑ ॥१०॥ उ॒पो॒त्त॒मेभ्यः॒ स्वाहा॑ ॥११॥ उ॒त्त॒मेभ्यः॒ स्वाहा॑ ॥१२॥ उ॒त्त॒रेभ्यः॒ स्वाहा॑ ॥१३॥ ऋ॒षिभ्यः॒ स्वाहा॑ ॥१४॥ शि॒खिभ्यः॒ स्वाहा॑ ॥१५॥ ग॒णेभ्यः॒ स्वाहा॑ ॥१६॥ म॒हा॒ग॒णेभ्यः॒ स्वाहा॑ ॥१७॥ सर्वे॒भ्योऽङ्गि॑रोभ्यो विदग॒णेभ्यः॒ स्वाहा॑ ॥१८॥ पृ॒थ॒क्स॒ह॒स्राभ्यां॒ स्वाहा॑ ॥१९॥ ब्र॒ह्मणे॑ स्वाहा॑ ॥२०॥ ब्रह्म॑ज्येष्ठा॒ संभृ॑ता वि॒र्याऽणि॒ ब्रह्माग्रे॒ ज्येष्ठं॒ दिव॒मा त॑तान । भूतानां॑ ब्र॒ह्मा प्र॑थ॒मोत॑ जज्ञे॒ तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तुं॒ कः ॥२१॥
अथर्वाणः। १-३० अथर्वा। चन्द्रमाः, मन्त्रोक्ताश्च। १ आसरी गायत्री, २-७, २०, २३, २७ दैवी त्रिष्टुप्, ८, १०-१२, १४-१६ प्राजापत्या गायत्री, १७, १९, २१, २४-२५, २९ दैवी पङ्क्तिः, ९, १३, १८, २२, २६, २८ दैवी जगती, (१-२९ एकावसानाः)। आ॒थ॒र्व॒णानां चतुरृ॒चेभ्यः॒ स्वाहा॑ ॥१॥ प॒ञ्च॒र्चेभ्यः॒ स्वाहा॑ ॥२॥ ष॒ळृ॒चेभ्यः॒ स्वाहा॑ ॥३॥ स॒प्त॒र्चेभ्यः॒ स्वाहा॑ ॥४॥ अ॒ष्ट॒र्चेभ्यः॒ स्वाहा॑ ॥५॥ न॒व॒र्चेभ्यः॒ स्वाहा॑ ॥६॥ द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥७॥ ए॒का॒द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥८॥ द्वा॒द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥९॥ त्र॒यो॒द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥१०॥ च॒तु॒र्द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥११॥ प॒ञ्च॒द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥१२॥ षो॒ड॒श॒र्चेभ्यः॒ स्वाहा॑ ॥१३॥ स॒प्त॒द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥१४॥ अ॒ष्टा॒द॒श॒र्चेभ्यः॒ स्वाहा॑ ॥१५॥ ए॒को॒न॒विं॒श॒तिः स्वाहा॑ ॥१६॥ विं॒श॒तिः स्वाहा॑ ॥१७॥ म॒ह॒त्का॒ण्डाय॒ स्वाहा॑ ॥१८॥ तृ॒चेभ्यः॒ स्वाहा॑ ॥१९॥ ए॒क॒र्चेभ्यः॒ स्वाहा॑ ॥२०॥ क्षु॒द्रेभ्यः॒ स्वाहा॑ ॥२१॥ ए॒का॒नृ॒चेभ्यः॒ स्वाहा॑ ॥२२॥ रो॒हि॒तेभ्यः॒ स्वाहा॑ ॥२३॥ सू॒र्याभ्यां॒ स्वाहा॑ ॥२४॥ व्रा॒त्याभ्यां॒ स्वाहा॑ ॥२५॥ प्रा॒जा॒प॒त्याभ्यां॒ स्वाहा॑ ॥२६॥ वि॒षा॒स॒ह्यै स्वाहा॑ ॥२७॥ म॒ङ्ग॒लि॒केभ्यः॒ स्वाहा॑ ॥२८॥ ब्र॒ह्मणे॒ स्वाहा॑ ॥२९॥ ब्रह्म॑ज्येष्ठा॒ संभृ॑ता वी॒र्याऽणि॒ ब्रह्माग्रे॒ ज्येष्ठं॒ दिव॒मा त॑तान । भू॒तानां॑ ब्र॒ह्मा प्र॑थ॒मोत जज्ञे॒ तेना॑र्हति॒ ब्रह्म॑णा॒ स्पर्धि॑तुं॒ कः ॥३०॥
राष्ट्रम्। १-८ अथर्वा। ब्रह्मणस्पतिः, बहुदैवत्यम्। अनुष्टुप्, ४-६, ८ त्रिष्टुप्, ७ त्रिपदाऽर्षी गायत्री। येन॑ दे॒वं स॑वि॒तारं॒ परि॑ दे॒वा अधा॑रयन्। तेने॒मं ब्र॑ह्मणस्पते॒ परि॑ रा॒ष्ट्राय॑ धत्तन ॥१॥ परी॒ममिन्द्र॒मायु॑षे म॒हे क्ष॒त्राय॑ धत्तन । यथै॑नं ज॒रसे॑ न॒यां ज्योक् क्ष॒त्रेऽधि॑ जागरत्॥२॥ परी॒मं सोम॒मायु॑षे म॒हे श्रोत्रा॑य धत्तन । यथै॑नं ज॒रसे॒ नयां ज्योक् क्ष॒त्रेऽधि॑ जागरत् ॥३॥ परि॑ धत्त ध॒त्त नो॒ वर्च॑से॒मं ज॒रामृ॑त्युं कृणुत दी॒र्घमायुः॑ । बृह॒स्पतिः॒ प्राय॑च्छ॒द् वास॑ ए॒तत् सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ॥४॥ ज॒रां सु ग॑च्छ॒ परि॑ धत्स्व॒ वासो॒ भवा॑ गृष्टी॒नाम॑भिशस्ति॒पा उ॑ । श॒तं च॒ जीव॑ श॒रदः॑ पुरू॒ची रा॒यश्च॒ पोष॑मुप॒संव्य॑यस्व ॥५॥ परी॒दं वासो॑ अधिथाः स्व॒स्तयेऽभू॑र्वापी॒नाम॑भिशस्ति॒पा उ॑ । श॒तं च॒ जीव॑ श॒रदः॑ पुरू॒चीर्वसू॑नि॒ चारु॒र्वि भ॑जासि॒ जीव॑न्॥६॥ योगे॑योगे त॒वस्त॑रं वाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये॑ ॥७॥ हिर॑ण्यवर्णो अ॒जरः॑ सु॒वीरो॑ ज॒रामृ॑त्युः प्र॒जया॒ सं वि॑शस्व । तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह॒ बृह॒स्पतिः॑ सवि॒ता तदिन्द्रः॑ ॥८॥
अश्वः। १ गोपथः। वाजी। अनुष्टुप्। अश्रा॑न्तस्य त्वा॒ मन॑सा यु॒नज्मि॑ प्रथ॒मस्य॑ च । उत्कू॑लमुद्व॒हो भ॑वो॒दुह्य॒ प्रति॑ धावतात्॥१॥
हिरण्यधारणम्। १-४ अथर्वा। अग्निः, हिरण्यं च। त्रिष्टुप्, ३ अनुष्टुप्, ४ पथ्यापङ्क्तिः। अ॒ग्नेः प्रजा॑तं॒ परि॒ यद्धिर॑ण्यम॒मृतं॑ द॒ध्रे अधि॒ मर्त्ये॑षु । य ए॑न॒द् वेद॒ स इदे॑नमर्हति ज॒रामृ॑त्युर्भवति॒ यो बि॒भर्ति॑ ॥१॥ यद्धिर॑ण्यं॒ सूर्ये॑ण सु॒वर्णं प्र॒जाव॑न्तो॒ मन॑वः॒ पूर्व॑ ईषि॒रे। तत् त्वा॑ च॒न्द्रं वर्च॑सा॒ सं सृ॑ज॒त्यायु॑ष्मान् भवति॒ यो बि॒भर्ति॑ ॥२॥ आयु॑षे त्वा॒ वर्च॑से॒ त्वौज॑से च॒ बला॑य च । यथा॑ हिरण्य॒तेज॑सा वि॒भासा॑सि॒ जनाँ॒ अनु॑ ॥३॥ यद् वेद॒ राजा॒ वरु॑णो॒ वेद॑ दे॒वो बृह॒स्पतिः॑ । इन्द्रो॒ यद् वृ॑त्र॒हा वेद॒ तत् त॑ आयु॒ष्यं भुव॒त् तत् ते॑ वर्च॒स्यं भुवत्॥४॥
सुरक्षा। १-१५ भृग्वङ्गिराः। त्रिवृत्, चन्द्रमाश्च। अनुष्टुप्, ३, ९ त्रिष्टुप्, १० जगती, ११ आर्ची उष्णिक्, १२ आर्च्यनुष्टुप्, १३ साम्नी त्रिष्टुप् (११-१३ एकावसानाः)। गोभि॑ष्ट्वा पात्वृष॒भो वृषा॑ त्वा पातु वा॒जिभिः॑ । वा॒युष्त्वा॒ ब्रह्म॑णा पा॒त्विन्द्र॑स्त्वा पात्विन्द्रि॒यैः ॥१॥ सोम॑स्त्वा पा॒त्वोष॑धीभि॒र्नक्ष॑त्रैः पातु॒ सूर्यः॑ । मा॒द्भ्यस्त्वा॑ च॒न्द्रो वृ॑त्र॒हा वातः॑ प्रा॒णेन॑ रक्षतु ॥२॥ ति॒स्रो दिव॑स्ति॒स्रः पृ॑थि॒वीस्त्रीण्य॒न्तरि॑क्षाणि च॒तुरः॑ समु॒द्रान्। त्रि॒वृतं॒ स्तोमं॑ त्रि॒वृत॒ आप॑ आहु॒स्तास्त्वा॑ रक्षन्तु त्रि॒वृता॑ त्रि॒वृद्भिः॑ ॥३॥ त्रीन्नाकां॒स्त्रीन्त्स॑मु॒द्रांस्त्रीन् ब्र॒ध्नांस्त्रीन् वै॑ष्ट॒पान्। त्रीन् मा॑त॒रिश्व॑न॒स्त्रीन्त्सूर्या॑न् गो॒प्तॄन् क॑ल्पयामि ॥४॥ घृ॒तेन॑ त्वा॒ समु॑क्षा॒म्यग्न॒ आज्ये॑न व॒र्धय॑न्। अ॒ग्नेश्च॒न्द्रस्य॒ सूर्य॑स्य॒ मा प्रा॒णं मा॒यिनो॑ दभन्॥५॥ मा वः॑ प्रा॒णं मा वो॑ऽपा॒नं मा हरो॑ मा॒यिनो॑ दभन्। भ्राज॑न्तो वि॒श्ववे॑दसो दे॒वा दैव्ये॑न धावत ॥६॥ प्रा॒नेना॒ग्निं सं सृ॑जति॒ वातः॑ प्रा॒णेन॑ संहि॑तः । प्रा॒णेन॑ वि॒श्वतो॑मुखं॒ सुर्यं॑ दे॒वा अ॑जनयन्॥७॥ आयु॑षायुः॒कृतां॑ जी॒वायु॑ष्मान् जीव॒ मा मृ॑थाः । प्रा॒णेना॑त्म॒न्वतां जीव॒ मा मृ॒त्योरुद॑गा॒ वश॑म्॥८॥ दे॒वानां॒ निहि॑तं नि॒धिं यमिन्द्रो॒ऽन्ववि॑न्दत् प॒थिभि॑र्देव॒यानैः॑ । आपो॒ हिर॑ण्यं जुगुपुस्त्रि॒वृद्भि॒स्तास्त्वा॑ रक्षन्तु त्रि॒वृता॑ त्रि॒वृद्भिः॑ ॥९॥ त्रय॑स्त्रिंशद् दे॒वता॒स्त्रीणि॑ च वी॒र्याऽणि प्रिया॒यमा॑णा जुगुपुर॒प्स्व॑१न्तः । अ॒स्मिंश्च॒न्द्रे अधि॒ यद्धिर॑ण्यं॒ तेना॒यं कृ॑णवद् वी॒र्या॑णि ॥१०॥ ये दे॑वा दि॒व्येका॑दश॒ स्थ ते दे॑वासो ह॒विरि॒दं जु॑षध्वम्॥११॥ ये दे॑वा अ॒न्तरि॑क्ष॒ एका॑दश॒ स्थ ते दे॑वासो ह॒विरि॒दं जु॑षध्वम्॥१२॥ ये दे॑वा पृथि॒व्यामेका॑दश॒ स्थ ते दे॑वासो ह॒विरि॒दं जु॑षध्वम्॥१३॥ अ॒स॒प॒त्नं पु॒रस्ता॑त् प॒श्चान्नो॒ अभ॑यं कृतम्। स॒वि॒ता मा॑ दक्षिण॒त उ॑त्त॒रान्मा॒ शची॒पतिः॑ ॥१४॥ दि॒वो मा॑दि॒त्या र॑क्षन्तु॒ भूम्या॑ रक्षन्त्व॒ग्नयः॑ । इ॒न्द्रा॒ग्नी र॑क्षतां मा पु॒रस्ता॑द॒श्विना॑व॒भितः॒ शर्म॑ यच्छताम्। ति॒र॒श्चीन॒घ्न्या र॑क्षतु जा॒तवे॑दा भूत॒कृतो॑ मे स॒र्वतः॑ सन्तु॒ वर्म॑ ॥१५॥
दर्भमणिः। १-१० ब्रह्मा (सपत्नक्षयकामः)। दर्भमणिः. मन्त्रोक्ताश्च। अनुष्टुप्। इ॒मं ब॑ध्नामि ते म॒णिं दी॑र्घायु॒त्वाय॒ तेज॑से । द॒र्भं स॑पत्न॒दम्भ॑नं द्विष॒तस्तप॑नं हृ॒दः ॥१॥ द्वि॒ष॒तस्ता॒पय॑न् हृ॒दः शत्रू॑णां ता॒पय॒न् मनः॑ । दु॒र्हार्दः॒ सर्वां॒स्त्वं द॑र्भ घ॒र्म इ॑वा॒भिन्त्संता॒पय॑न्॥२॥ घ॒र्म इ॑वाभि॒तप॑न् दर्भ द्विष॒तो नि॒तप॑न् मणे । हृ॒दः स॒पत्ना॑नां भि॒न्द्धीन्द्र॑ इव विरु॒जं ब॒लम्॥३॥ भि॒न्द्धि द॑र्भ स॒पत्ना॑नां॒ हृद॑यः द्विष॒तां म॑णे । उ॒द्यन्त्वच॑मिव॒ भूम्याः॒ शिर॑ ए॒षा वि पा॑तय ॥४॥ भि॒न्द्धि द॑र्भ स॒पत्ना॑न्मे भि॒न्द्धि मे॑ पृतनाय॒तः । भि॒न्द्धि मे॒ सर्वान् दु॒र्हार्दो॑ भि॒न्द्धि मे॑ द्विष॒तो म॑णे ॥५॥ छि॒न्द्धि द॑र्भ स॒पत्ना॑न् मे छि॒न्द्धि मे॑ पृतनाय॒तः । छि॒न्द्धि मे॒ सर्वा॑न् दु॒र्हार्दो॑ छि॒न्द्धि मे॑ द्विष॒तो म॑णे ॥६॥ वृ॒श्च द॑र्भ स॒पत्ना॑न्मे वृ॒श्च मे॑ पृतनाय॒तः । वृ॒श्च मे॒ सर्वा॑न् दु॒र्हार्दो॑ वृ॒श्च मे॑ द्विष॒तो म॑णे ॥७॥ कृ॒न्त द॑र्भ स॒पत्ना॑न् मे कृ॒न्त मे॑ पृतनाय॒तः । कृ॒न्त मे॒ सर्वा॑न् दु॒र्हार्दो॑ कृ॒न्त मे॑ द्विष॒तो म॑णे ॥८॥ पिं॒श द॑र्भ स॒पत्ना॑न्मे पिं॒श मे॑ पृतनाय॒तः । पिं॒श मे॒ सर्वा॑न् दु॒र्हार्दो॑ पिं॒श मे॑ द्विष॒तो म॑णे ॥९॥ विध्य॑ दर्भ स॒पत्ना॑न् मे॒ विध्य॑ मे पृतनाय॒तः । विध्य॑ मे॒ सर्वा॑न् दु॒र्हार्दो॑ विध्य॑ मे द्विष॒तो म॑णे ॥१०॥
दर्भमणिः। १-९ ब्रह्मा। दर्भमाणिः। अनुष्टुप्। निक्ष॑ दर्भ स॒पत्ना॑न् मे॒ निक्ष॑ मे पृतनाय॒तः । निक्ष॑ मे॒ सर्वा॑न् दु॒र्हार्दो॑ निक्ष॑ मे द्विष॒तो म॑णे ॥१॥ तृ॒न्द्धि द॑र्भ स॒पत्ना॑न् मे तृ॒न्द्धि मे॑ पृतनाय॒तः । तृ॒न्द्धि मे॒ सर्वा॑न् दु॒र्हार्द॑तृ॒न्द्धि मे॑ द्विष॒तो म॑णे ॥२॥ रु॒न्द्धि द॑र्भ स॒पत्ना॑न् मे रु॒न्द्धि मे॑ पृतनाय॒तः । रु॒न्द्धि मे॒ सर्वा॑न् दु॒र्हार्दो॑ रु॒न्द्धि मे॑ द्विष॒तो म॑णे ॥३॥ मृ॒ण द॑र्भ स॒पत्ना॑न् मे मृ॒ण मे॑ पृतनाय॒तः । मृ॒ण मे॒ सर्वा॑न् दु॒र्हार्दो॑ मृ॒ण मे॑ द्विष॒तो म॑णे ॥४॥ मन्थ॑ दर्भ स॒पत्ना॑न् मे॒ मन्थ॑ मे पृतनाय॒तः । मन्थ॑ मे॒ सर्वा॑न् दु॒र्हार्दो॒ मन्थ॑ मे द्विष॒तो म॑णे ॥५॥ पि॒ण्ड्ढि द॑र्भ स॒पत्ना॑न् मे पि॒ण्ड्ढि मे॑ पृतनाय॒तः । पि॒ण्ड्ढि मे॒ सर्वा॑न् दु॒र्हार्दो॑ पि॒ण्ड्ढि मे॑ द्विष॒तो म॑णे ॥६॥ ओष॑ दर्भ स॒पत्ना॑न् मे॒ ओष॑ मे पृतनाय॒तः । ओष॑ मे॒ सर्वा॑न् दु॒र्हार्दो॑ ओष॑ मे द्विष॒तो म॑णे ॥७॥ दह॑ दर्भ स॒पत्ना॑न् मे॒ दह॑ मे पृतनाय॒तः । दह॑ मे॒ सर्वा॑न् दु॒र्हार्दो॒ दह॑ मे द्विष॒तो म॑णे ॥८॥ ज॒हि द॑र्भ स॒पत्ना॑न् मे ज॒हि मे॑ पृतनाय॒तः । ज॒हि मे॒ सर्वा॑न् दु॒र्हार्दो॑ ज॒हि मे॑ द्विष॒तो म॑णे ॥९॥
दर्भमणिः। १-५ ब्रह्मा। दर्भमणिः। अनुष्टुप्। यत् ते॑ दर्भ ज॒रामृ॑त्युः श॒तं वर्म॑सु॒ वर्म॑ ते । तेने॒मं व॒र्मिणं॑ कृ॒त्वा स॒पत्नां॑ जहि वी॒र्यैः ॥१॥ श॒तं ते॑ दर्भ॒ वर्मा॑णि स॒हस्रं॑ वी॒र्या॑णि ते । तम॒स्मै विश्वे॒ त्वां दे॒वा ज॒रसे॒ भर्त॒वा अ॑दुः ॥२॥ त्वामा॑हुर्देव॒वर्म॒ त्वां द॑र्भ॒ ब्रह्म॑ण॒स्पति॑म्। त्वामिन्द्र॑स्याहु॒र्वर्म॒ त्वं रा॒ष्ट्राणि॑ रक्षसि ॥३॥ स॒प॒त्न॒क्षय॑णं दर्भ द्विष॒तस्तप॑नं हृ॒दः । म॒णिं क्ष॒त्रस्य॒ वर्ध॑नं तनू॒पानं॑ कृणोमि ते ॥४॥ यत् स॑मु॒द्रो अ॒भ्यक्र॑न्दत् प॒र्जन्यो॑ वि॒द्युता॑ स॒ह। ततो॑ हिर॒ण्ययो॑ बि॒न्दुस्ततो॑ द॒र्भो अ॑जायत ॥५॥
औदुम्बरमणिः। १-१४ सविता (पुष्टिकामः)। औदुम्बरमणिः। अनुष्टुप्, ५, १२ त्रिष्टुप्, ६ विराट् प्रस्तारपङ्क्तिः, ११ , १३ पञ्चपदा शक्वरी, १४ विराडास्तारपङ्क्तिः। औदु॑म्बरेण म॒णिना॒ पुष्टि॑कामाय वे॒धसा । प॒शूणां॒ सर्वे॑षां स्फा॒तिं गो॒ष्ठे मे॑ सवि॒ता क॑रत्॥१॥ यो नो॑ अ॒ग्निर्गार्ह॑पत्यः पशू॒नाम॑धि॒पा अस॑त्। औदु॑म्बरो॒ वृषा॑ म॒णिः सं मा॑ सृजतु पु॒ष्ट्या॥२॥ क॒री॒षिणीं॒ फल॑वतीं स्व॒धामिरां॑ च नो गृ॒हे। औदु॑म्बरस्य॒ तेज॑सा धा॒ता पु॒ष्टिं द॑धातु मे ॥३॥ यद् द्वि॒पाच्च॒ चतु॑ष्पाच्च॒ यान्यन्ना॑नि॒ ये रसाः॑ । गृ॒ह्णे॒३हं॑ त्वेषां॑ भू॒मानं॒ बिभ्र॒दौदु॑म्बरं म॒णिम्॥४॥ पु॒ष्टिं प॑शू॒नां परि॑ जग्रभा॒हं चतु॑ष्पदां द्वि॒पदां॒ यच्च॑ धा॒न्यम्। पयः॑ पशू॒नां रस॒मोष॑धीनां॒ बृह॒स्पतिः॑ सवि॒ता मे॒ नि य॑च्छात्॥५॥ अ॒हं प॑शू॒नाम॑धि॒पा अ॑सानि॒ मयि॑ पु॒ष्टं पु॑ष्ट॒पति॑र्दधातु । मह्य॒मौदु॑म्बरो म॒णिर्द्रवि॑णानि॒ नि य॑च्छतु ॥६॥ उप॒ मौदु॑म्बरो म॒णिः प्र॒जया॑ च॒ धने॑न च । इन्द्रे॑ण जिन्वि॒तो म॒णिरा मा॑गन्त्स॒ह वर्च॑सा ॥७॥ दे॒वो म॒णिः स॑पत्न॒हा ध॑न॒सा धन॑सातये । प॒शोरन्न॑स्य भू॒मानं॒ गवां॑ स्फा॒तिं नि य॑च्छतु ॥८॥ यथाग्रे॒ त्वं व॑नस्पते पु॒ष्ठ्या स॒ह ज॑ज्ञि॒षे। ए॒वा धन॑स्य मे स्फा॒तिमा द॑धातु॒ सर॑स्वती ॥९॥ आ मे॒ धनं॒ सर॑स्वती॒ पय॑स्फातिं च धा॒न्यऽम्। सि॒नी॒वा॒ल्युपा॑ वहाद॒यं चौदु॑म्बरो म॒णिः ॥१०॥ त्वं म॑णी॒नाम॑धि॒पा वृषा॑सि॒ त्वयि॑ पु॒ष्टं पु॑ष्ट॒पति॑र्जजान । त्वयी॒मे वाजा॒ द्रवि॑णानि॒ सर्वौदु॑म्बरः॒ स त्वम॒स्मत् स॑हस्वा॒रादरा॑ति॒मम॑तिं॒ क्षुधं॑ च॥११॥ ग्रा॒म॒णीर॑सि ग्राम॒णीरु॒त्थाया॒भिषि॑क्तो॒ऽभि मा॑ सिञ्च॒ वर्च॑सा । तेजो॑ऽसि॒ तेजो॒ मयि॑ धार॒याधि॑ र॒यिर॑सि र॒यिं मे॑ धेहि ॥१२॥ पु॒ष्टिर॑सि पु॒ष्ट्या मा॒ सम॑ङ्ग्धि गृहमे॒धी गृ॒हप॑तिं मा कृणु । औदु॑म्बरः॒ स त्वम॒स्मासु॑ धेहि र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑च्छ रा॒यस्पोषा॑य॒ प्रति॑ मुञ्चे अ॒हं त्वाम्॥१३॥ अ॒यमौदु॑म्बरो म॒णिर्वी॒रो वी॒राय॑ बध्यते । स नः॑ स॒निं मधु॑मतीं कृणोतु र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑च्छात्॥१४॥
दर्भः। १-१० भृगुः (आयुष्कामः)। दर्भः। अनुष्टुप्, ८ पुरस्ताद्बृहती, ९ त्रिष्टुप्, १० जगती। श॒तका॑ण्डो दुश्च्यव॒नः स॒हस्र॑पर्ण उत्ति॒रः । द॒र्भो य उ॒ग्र ओष॑धि॒स्तं ते॑ बध्ना॒म्यायु॑षे ॥१॥ नास्य॒ केशा॒न् प्र वप॑न्ति॒ नोर॑सि॒ ताड॒मा घ्न॑ते । यस्मा॑ अछिन्नप॒र्णेन॑ द॒र्भेण॒ शर्म॑ यच्छति ॥२॥ दि॒वि ते॒ तूल॑मोषधे पृथि॒व्याम॑सि॒ निष्ठि॑तः । त्वया॑ स॒हस्र॑काण्डे॒नायुः॒ प्र व॑र्धयामहे ॥३॥ ति॒स्रो दि॒वो अत्य॑तृणत् ति॒स्र इ॒माः पृ॑थि॒वीरु॒त॑। त्व॑याहं दु॒र्हार्दो॑ जि॒ह्वां नि तृ॑णद्मि॒ वचां॑सि ॥४॥ त्वम॑सि॒ सह॑मानो॒ऽहम॑स्मि॒ सह॑स्वान्। उ॒भौ सह॑स्वन्तौ भू॒त्वा स॒पत्ना॑न्सहिषीवहि ॥५॥ सह॑स्व नो अ॒भिमा॑तिं॒ सह॑स्व पृतनाय॒तः । सह॑स्व॒ सर्वा॑न् दु॒र्हार्दः॑ सु॒हार्दो॑ मे ब॒हून् कृ॑धि ॥६॥ द॒र्भेण॑ दे॒वजा॑तेन दि॒वि ष्ट॒म्भेन॒ शश्व॒दित्। तेना॒हं शश्व॑तो॒ जनाँ॒ अस॑नं॒ सन॑वानि च ॥७॥ प्रि॒यं मा॑ दर्भ कृणु ब्रह्मराज॒न्याऽभ्यां शू॒द्राय॒ चार्या॑य च । यस्मै॑ च का॒मया॑महे॒ सर्व॑स्मै च वि॒पश्य॑ते ॥८॥ यो जाय॑मानः पृथि॒वीमदृं॑ह॒द् यो अस्त॑भ्नाद॒न्तरि॑क्षं॒ दिवं॑ च । यं बिभ्र॑तं न॒नु पा॒प्मा वि॑वेद॒ स नो॒ऽयं द॒र्भो वरु॑णो दि॒वा कः॑ ॥९॥ स॒प॒त्न॒हा श॒तका॑ण्डः॒ सह॑स्वा॒नोष॑धीनां प्रथ॒मः सं ब॑भूव । स नो॒ऽयं द॒र्भः परि॑ पातु वि॒श्वत॒स्तेन॑ साक्षीय॒ पृत॑नाः पृतन्य॒तः ॥१०॥
दर्भः। १-५ भृगुः। दर्भः। १ जगती, २, ५ त्रिष्टुप्, ३ आर्षी पङ्क्तिः, ४ आस्तारपङ्क्तिः। स॒ह॒स्रा॒र्घः श॒तका॑ण्डः॒ पय॑स्वान॒पाम॒ग्निर्वी॒रुधां॑ राज॒सूय॑म्। स नो॒ऽयं द॒र्भः परि॑ पातु वि॒श्वतो॑ दे॒वो म॒णिरायु॑षा॒ सं सृ॑जाति नः ॥१॥ घृ॒तादुल्लु॑प्तो॒ मधु॑मा॒न् पय॑स्वान् भूमिदृं॒होऽच्यु॑तश्च्यावयि॒ष्णुः । नु॒दन्त्स॒पत्ना॒नध॑रांश्च कृ॒ण्वन् दर्भा रो॑ह मह॒तामि॑न्द्रि॒येण॑ ॥२॥ त्वं भूमि॒मत्ये॒ष्योज॑सा॒ त्वं वेद्यां॑ सीदसि॒ चारु॑रध्व॒रे। त्वां प॒वित्र॒मृष॑योऽभरन्त॒ त्वं पुनीहि दुरि॒तान्य॒स्मत्॥३॥ ती॒क्ष्णो राजा॑ विषास॒ही र॑क्षो॒हा वि॒श्वच॑र्षणिः । ओजो॑ दे॒वानां॒ बल॑मु॒ग्रमे॒तत् तं ते॑ बध्नामि ज॒रसे॑ स्व॒स्तये॑ ॥४॥ द॒र्भेण॒ त्वं कृ॑णवद् वी॒र्याऽणि द॒र्भं बिभ्र॑दा॒त्मना॒ मा व्य॑थिष्ठाः । अति॑ष्ठाया॒ वर्च॒साधा॒न्यान्त्सूर्य॑ इ॒वा भा॑हि प्र॒दिश॒श्चत॑स्रः ॥५॥
जङ्गिडमणिः। १-१० अङ्गिराः। वनस्पतिः, लिङ्गोक्ताः। अनुष्टुप्। जा॒ङ्गि॒डोऽसि जङ्गि॒डो रक्षि॑तासि जङ्गि॒डः । द्वि॒पाच्चतु॑ष्पाद॒स्माकं॒ सर्वं॑ रक्षतु जङ्गि॒डः ॥१॥ या गृत्स्य॑स्त्रिपञ्चा॒शीः श॒तं कृ॑त्या॒कृत॑श्च॒ ये। सर्वा॑न् विनक्तु॒ तेज॑सोऽर॒सां ज॑ङ्गि॒डस्क॑रत्॥२॥ अ॒र॒सं कृ॒त्रिमं॑ ना॒दम॑र॒साः स॒प्त विस्र॑सः । अपे॒तो ज॑ङ्गि॒डाम॑ति॒मिषु॒मस्ते॑व शातय ॥३॥ कृ॒त्या॒दूष॑ण ए॒वायमथो॑ अराति॒दूष॑णः । अथो॒ सह॑स्वां जङ्गि॒डः प्र ण आयूं॑षि तारिषत्॥४॥ स ज॑ङ्गि॒डस्य॑ महि॒मा परि॑ णः पातु वि॒श्वतः॑ । विष्क॑न्धं॒ येन॑ सा॒सह॒ संस्क॑न्ध॒मोज॒ ओज॑सा ॥५॥ त्रिष्ट्वा॑ दे॒वा अ॑जनय॒न् निष्ठि॑तं॒ भूम्या॒मधि॑ । तमु॒ त्वाङ्गि॑रा॒ इति॑ ब्राह्म॒णाः पू॒र्व्या वि॑दुः ॥६॥ न त्वा॒ पूर्वा॒ ओष॑धयो॒ न त्वा॑ तरन्ति॒ या नवाः॑ । विबा॑ध उ॒ग्रो ज॑ङ्गि॒डः प॑रि॒पाणः॑ सुम॒ङ्गलः॑ ॥७॥ अथो॑पदान भगवो॒ जाङ्गि॒डामि॑तवीर्य । पु॒रा त॑ उ॒ग्रा ग्र॑सत॒ उपेन्द्रो॑ वी॒र्यं ददौ ॥८॥ उ॒ग्र इत् ते॑ वनस्पत॒ इन्द्र॑ ओ॒ज्मान॒माद॑धौ । अमी॑वाः॒ सर्वा॑श्चा॒तयं॑ ज॒हि रक्षां॑स्योषधे ॥९॥ आश॑रीकं॒ विश॑रीकं ब॒लासं॑ पृष्ट्याम॒यम्। त॒क्मानं॑ वि॒श्वशा॑रदमर॒सां ज॑ङ्गि॒डस्क॑रत्॥१०॥
जङ्गिडः। १-५ अङ्गिराः। वनस्पतिः। अनुष्टुप्, ३ पथ्याबृहतीः, ४ शक्वरी निचृत् त्रिष्टुप्। इन्द्र॑स्य॒ नाम॑ गृ॒ह्णन्त॒ ऋस॑यो जङ्गि॒डं द॑दुः । दे॒वा यं च॒क्रुर्भे॑ष॒जमग्रे॑ विष्कन्ध॒दूष॑णम्॥१॥ स नो॑ रक्षतु जङ्गि॒डो ध॑नपा॒लो धने॑व । दे॒वा यं च॒क्रुर्ब्रा॑ह्म॒णाः प॑रि॒पाण॑मराति॒हम्॥२॥ दु॒र्हार्दः॒ संघो॑रं॒ चक्षुः॑ पाप॒कृत्वा॑न॒माग॑मम्। तांस्त्वं स॑हस्रचक्षो प्रतीबो॒धेन॑ नाशय परि॒पाणो॑ऽसि जङ्गि॒डः ॥३॥ परि॑ मा दि॒वः परि॑ मा पृथि॒व्याः पर्य॒न्तरि॑क्षा॒त् परि॑ मा वी॒रुद्भ्यः॑ । परि॑ मा भू॒तात् परि॑ मो॒त भव्या॑द् दि॒शोदि॑शो जङ्गि॒डः पा॑त्व॒स्मान्॥४॥ य ऋ॒ष्णवो॑ दे॒वकृ॑ता॒ य उ॒तो व॑वृ॒तेऽन्यः । सर्वां॒स्तान् वि॒श्वभे॑षजोऽर॒सां ज॑ङ्गि॒डस्क॑रत्॥५॥
शतवारो मणिः। १-६ ब्रह्मा। शतवारः। अनुष्टुप्। श॒तवा॑रो अनीनश॒द् यक्ष्मा॒न् रक्षां॑सि॒ तेज॑सा । आ॒रोह॒न् वर्च॑सा स॒ह म॒णिर्दु॑र्णाम॒चात॑नः ॥१॥ शॄङ्गा॑भ्यां॒ रक्षो॑ नुदते॒ मूले॑न यातुधा॒न्यः । मध्ये॑न॒ यक्ष्मं॑ बाधते॒ नैनं॑ पा॒प्माति॑ तत्रति ॥२॥ ये यक्ष्मा॑सो अर्भ॒का म॒हान्तो॒ ये च॑ श॒ब्दिनः॑ । सर्वा॑न् दुर्णाम॒हा म॒णिः श॒तवा॑रो अनीनशत्॥३॥ श॒तं वी॒रान॑जनयच्छ॒तं यक्ष्मा॒नपा॑वपत्। दु॒र्णाम्नः॒ सर्वा॑न् ह॒त्वाव॒ रक्षां॑सि धूनुते ॥४॥ हिर॑ण्यशृङ्ग ऋष॒भः शा॑तवा॒रो अ॒यं म॒णिः । दु॒र्णाम्नः॒ सर्वां॑स्तृ॒ड्ढ्वाव॒ रक्षां॑स्यक्रमीत्॥५॥ श॒तम॒हं दु॒र्णाम्नी॑नां गन्धर्वाप्स॒रसां॑ श॒तम्। श॒तं श॑श्व॒न्वती॑नां श॒तवा॑रेण वारये ॥६॥
बलप्राप्तिः। १-४ अथर्वा।। अग्निः। १ त्रिष्टुप्, २ आस्तारपङ्क्तिः, ३ त्रिपदा महाबृहती, ४ उष्णिक्। इ॒दं वर्चो॑ अ॒ग्निना॑ द॒त्तमाग॒न् भर्गो॒ यशः॒ सह॒ ओजो॒ वयो॒ बल॑म्। त्रय॑स्त्रिंश॒द् यानि॑ च वी॒र्याणि॒ तान्य॒ग्निः प्र द॑दातु मे ॥१॥ वर्च॒ आ धे॑हि मे त॒न्वां॒३ सह॒ ओजो॒ वयो॒ बल॑म्। इ॒न्द्रि॒याय॑ त्वा॒ कर्म॑णे वी॒र्याय॒ प्रति॑ गृह्णामि श॒तशा॑रदाय ॥२॥ ऊ॒र्जे त्वा॒ बला॑य॒ त्वौज॑से॒ सह॑से त्वा । अ॒भि॒भूया॑य त्वा रा॒ष्ट्रभृ॑त्याय॒ पर्यू॑हामि श॒तशा॑रदाय ॥३॥ ऋ॒तुभ्य॑ष्ट्वार्त॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्यः॑ । धा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे ॥४॥
यक्षमनाशनम्। १-३ अथर्वा। गुल्गुलुः। १ अनुष्टुप्, २ चतुष्पदा उष्णिक्, ३ एकावसाना प्राजापत्याऽनुष्टुप्। न तं यक्ष्मा॒ अरु॑न्धते॒ नैनं॑ श॒पथो॑ अश्नुते । यं भे॑ष॒जस्य॑ गुल्गु॒लोः सु॑र॒भिर्ग॒न्धो अ॑श्नु॒ते॥१॥ विष्व॑ञ्च॒स्तस्मा॒द् यक्ष्मा॑ मृ॒गा अश्वा॑ इवेरते । यद् गु॑ल्गु॒लु सै॑न्ध॒वं यद् वाप्यासि॑ समु॒द्रिय॑म्॥२॥ उ॒भयो॑रग्रभं॒ नामा॒स्मा अ॑रि॒ष्टता॑तये ॥३॥
कुष्ठनाशनम्। १-१० भृग्वङ्गिराः। कुष्ठः। अनुष्टुप्, २, ३ त्र्यवसाना पथ्यापङ्क्तिः, ४ षट्-पदा जगती, ५ सप्तपदा शक्वरी, ६-८ अष्टिः (५-८ चतुरवसाना)। ऐतु॑ दे॒वस्त्राय॑माणः॒ कुष्ठो॑ हि॒मव॑त॒स्परि॑ । त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः ॥१॥ त्रीणि॑ ते कुष्ठ॒ नामा॑नि नद्यमा॒रो न॒द्यारि॑षः । नद्या॒यं पुरु॑षो रिषत्। यस्मै॑ परि॒ब्रवी॑मि त्वा सा॒यंप्रा॑त॒रथो॒ दिवा॑ ॥२॥ जी॒व॒ला नाम॑ ते मा॒ता जी॑व॒न्तो नाम॑ ते पि॒ता। नद्या॒यं पुरु॑षो रिषत्। यस्मै॑ परि॒ब्रवी॑मि त्वा सा॒यंप्रा॑त॒रथो॒ दिवा॑ ॥३॥ उ॒त्त॒मो अ॒स्योष॑धीनामन॒ड्वान् जग॑तामिव व्या॒घ्रः श्वप॑दामिव । नद्या॒यं पुरु॑षो रिषत्। यस्मै॑ परि॒ब्रवी॑मि त्वा सा॒यंप्रा॑त॒रथो॒ दिवा॑ ॥४॥ त्रिः शाम्बु॑भ्यो॒ अङ्गि॑रेभ्य॒स्त्रिरा॑दि॒त्येभ्य॒स्परि॑ । त्रिर्जा॒तो वि॒श्वदे॑वेभ्यः । स कुष्ठो॑ वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति । त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः ॥५॥ अ॒श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि। तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो॑ अजायत । स कुष्ठो॑ वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति । त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः ॥६॥ हि॒र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि। तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो॑ अजायत । स कुष्ठो॑ वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति । त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः ॥७॥ यत्र॒ नाव॑प्र॒भ्रंश॑नं॒ यत्र॑ हि॒मव॑तः॒ शिरः॑ । तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो॑ अजायत । स कुष्ठो॑ वि॒श्वभे॑षजः सा॒कं सोमे॑न तिष्ठति । त॒क्मानं॒ सर्वं॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः ॥८॥ यं त्वा॒ वेद॒ पूर्व॒ इक्ष्वा॑को॒ यं वा॑ त्वा कुष्ठ का॒म्यः । यं वा॒ वसो॑ यमात्स्य॒स्तेनासि॑ वि॒श्वभे॑षजः ॥९॥ शी॒र्ष॒लो॒कं तृ॒तीय॑कं सद॒न्दिर्यश्च॑ हाय॒नः । त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुव ॥१०॥
मेधा। १-४ ब्रह्माः बृहस्पतिः, विश्वे देवाश्च। १ पराऽनुष्टुप् त्रिष्टुप्, २ पुरः ककुम्मत्युपरिष्टाद्बृहती, ३ बृहतीगर्भा, ४ त्रिपदाऽर्षी गायत्री। यन्मे॑ छि॒द्रं मन॑सो॒ यच्च॑ वा॒चः सर॑स्वती मन्यु॒मन्तं॑ ज॒गाम॑ । विश्वै॒स्तद् दे॒वैः स॒ह सं॑विदा॒नः सं द॑धातु॒ बृह॒स्पतिः॑ ॥१॥ मा न॒ आपो॑ मे॒धां मा ब्रह्म॒ प्र म॑थिष्टन । सु॒ष्य॒दा यू॒यं स्य॑न्दध्व॒मुप॑हूतो॒ऽहं सु॒मेधा॑ वर्च॒स्वी॥२॥ मा नो॑ मे॒धां मा नो॑ दी॒क्षां मा नो॑ हिंसिष्टं॒ यत् तपः॑ । शि॒वा नः॒ शं स॒न्त्वायु॑षे शि॒वा भ॑वन्तु मा॒तरः॑ ॥३॥ या नः॒ पीप॑रद॒श्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः । ताम॒स्मे रा॑सता॒मिष॑म्॥४॥
राष्ट्रं बलमोजश्च। १ ब्रह्मा। तपः। त्रिष्टुप्। भ॒द्रमि॒च्छन्त॒ ऋष॑यः स्व॒र्विद॒स्तपो॑ दी॒क्षामु॑प॒निषे॑दु॒रग्रे॑ । ततो॑ रा॒ष्ट्रं बल॒मोज॑श्च जा॒तं तद॑स्मै दे॒वा उ॑प॒संन॑मन्तु ॥१॥
ब्रह्मयज्ञः। १-४ ब्रह्मा। ब्रह्म। १ अनुष्टुप्, २ त्र्यवसाना ककुम्मती पथ्यापङ्क्तिः, ३ त्रिष्टुप्, ४ जगती। ब्रह्म॒ होता॒ ब्रह्म॑ य॒ज्ञा ब्रह्म॑णा॒ स्वर॑वो मि॒ताः । अ॒ध्व॒र्युर्ब्रह्म॑णो जा॒तो ब्रह्म॑णो॒ऽन्तर्हि॑तं ह॒विः ॥१॥ ब्रह्म॒ स्रुचो॑ घृ॒तव॑ती॒र्ब्रह्म॑णा॒ वेदि॒रुद्धि॑ता । ब्रह्म॑ य॒ज्ञस्य॒ तत्त्वं॑ च ऋ॒त्विजो॒ ये ह॑वि॒ष्कृतः॑ । श॒मि॒ताय॒ स्वाहा॑ ॥२॥ अं॒हो॒मुचे॒ प्र भ॑रे मनी॒षामा सु॒त्राव्णे॑ सुम॒तिमा॑वृणा॒नः । इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॑भाय स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ॥३॥ अं॒हो॒मुचं॑ वृष॒भं य॒ज्ञिया॑नां वि॒राज॑न्तं प्रथ॒मम॑ध्व॒राणा॑म्। अ॒पां नपा॑तम॒श्विना॑ हुवे॒ धिय॑ इन्द्रि॒येण॑ त इन्द्रि॒यं द॑त्त॒मोजः॑ ॥४॥
ब्रह्मा। १-८ ब्रह्मा। ब्रह्म, बहुदैवत्यम्। त्र्यवसाना शङ्कुमती पथ्यापङ्क्तिः। यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह। अ॒ग्निर्मा॒ तत्र॑ नयत्व॒ग्निर्मे॒धा द॑धातु मे । अ॒ग्नये॒ स्वाहा॑ ॥१॥ यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह। वा॒युर्मा॒ तत्र॑ नयतु वा॒युः प्रा॒णान् द॑धातु मे। वा॒यवे॒ स्वाहा॑ ॥२॥ यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह। सूर्यो॑ मा॒ तत्र॑ नयतु॒ चक्षुः॒ सूर्यो॑ दधातु मे । सूर्या॑य॒ स्वाहा॑ ॥३॥ यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह। च॒न्द्रो मा॒ तत्र॑ नयतु॒ मन॑श्च॒न्द्रो द॑धातु मे । च॒न्द्राय॒ स्वाहा॑ ॥४॥ यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह। सोमो॑ मा॒ तत्र॑ नयतु॒ पयः॒ सोमो॑ दधातु मे । सोमा॑य॒ स्वाहा॑ ॥५॥ यत्र॑ ब्रह्म॒विदो॑ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह। इन्द्रो॑ मा॒ तत्र॑ नयतु॒ बल॒मिन्द्रो॑ दधातु मे । इन्द्रा॑य॒ स्वाहा॑ ॥६॥ यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह। आपो॑ मा॒ तत्र॑ नयत्व॒मृतं॒ मोप॑ तिष्ठतु । अ॒द्भ्यः स्वाहा॑ ॥७॥ यत्र॑ ब्रह्म॒विदो॒ यान्ति॑ दी॒क्षया॒ तप॑सा स॒ह। ब्र॒ह्मा मा॒ तत्र॑ नयतु ब्र॒ह्मा ब्रह्म॑ दधातु मे । ब्र॒ह्मणे॒ स्वाहा॑ ॥८॥
भैषज्यम्। १-१० भृगुः। आञ्जनम्, ८-९ वरुणः। अनुष्टुप्, ४ चतुष्पदा शङ्कुमत्युष्णिक्, ५ निचृद्विषमा त्रिपदा गायत्री। आयु॑षोऽसि प्र॒तर॑णं॒ विप्रं॑ भेष॒जमु॑च्यसे । तदा॑ञ्जन॒ त्वं शं॑ताते॒ शमापो॒ अभ॑यं कृतम्॥१॥ यो ह॑रि॒मा जा॒यान्यो॑ऽङ्गभे॒दो वि॒सल्प॑कः । सर्वं॑ ते॒ यक्ष्म॒मङ्गे॑भ्यो ब॒हिर्नि॑र्ह॒न्त्वाञ्ज॑नम्॥२॥ आञ्ज॑नं पृथि॒व्यां जा॒तं भ॒द्रं पु॑रुष॒जीव॑नम्। कृ॒णोत्वप्र॑मायुकं॒ रथ॑जूति॒मना॑गसम्॥३॥ प्राण॑ प्रा॒णं त्रा॑य॒स्वासो॒ अस॑वे मृड । निरृ॑ते॒ निरृ॑त्या नः॒ पाशे॑भ्यो मुञ्च ॥४॥ सिन्धो॒र्गर्भो॑ऽसि वि॒द्युतां॒ पुष्प॑म्। वातः॑ प्रा॒णः सूर्य॒श्चक्षु॑र्दि॒वस्पयः॑ ॥५॥ देवा॑ञ्जन॒ त्रैक॑कुदं॒ परि॑ मा पाहि वि॒श्वतः॑ । न त्वा॑ तर॒न्त्योष॑धयो॒ बाह्याः॑ पर्व॒तीया॑ उ॒त॥६॥ वी॒३दं मध्य॒मवा॑सृपद् रक्षो॒हामी॑व॒चात॑नः । अमी॑वाः॒ सर्वा॑श्चा॒तय॑न् ना॒शय॑दभि॒भा इ॒तः ॥७॥ ब॒ह्वि॒३दं रा॑जन् वरु॒णानृ॑तमाह॒ पूरु॑षः । तस्मा॑त् सहस्रवीर्य मु॒ञ्च नः॒ पर्यंह॑सः ॥८॥ यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ यदू॑चि॒म। तस्मा॑त् सहस्रवीर्य मु॒ञ्च नः॒ पर्यंह॑सः ॥९॥ मि॒त्रश्च॑ त्वा॒ वरु॑णश्चानु॒प्रेय॑तुराञ्जन । तौ त्वा॑नु॒गत्य॑ दू॒रं भो॒गाय॒ पुन॒रोह॑तुः ॥१०॥
आञ्जनम्। १-१० भृगुः। आञ्जनम्, मन्त्रोक्ताः। १-२ अनुष्टुप्, ३-४ त्रिष्टुप्, ६-१० एकावसाना महाबृहती ( ६ विराट् ७-१० निचृत्)। ऋ॒णादृ॒णमि॑व सं॒नय॑न् कृ॒त्यां कृ॑त्या॒कृतो॑ गृ॒हम्। चक्षु॑र्मन्त्रस्य दु॒र्हार्दः॑ पृ॒ष्टीरपि॑ शृणाञ्जन ॥१॥ यद॒स्मासु॑ दु॒ष्वप्न्यं॒ यद् गोषु॒ यच्च॑ नो गृ॒हे। अना॑मग॒स्तं च॑ दु॒र्हार्दः॑ प्रि॒यः प्रति॑ मुञ्चताम्॥२॥ अ॒पामू॒र्ज ओज॑सो वावृधा॒नम॒ग्नेर्जा॒तमधि॑ जा॒तवे॑दसः । चतु॑र्वीरं पर्व॒तीयं॒ यदाञ्ज॑नं॒ दिशः॑ प्र॒दिशः॑ कर॒दिच्छि॒वास्ते॑ ॥३॥ चतु॑र्वीरं बध्यत॒ आञ्ज॑नं ते॒ सर्वा॒ दिशो॒ अभ॑यास्ते भवन्तु । ध्रु॒वस्ति॑ष्ठासि सवि॒तेव॒ चार्य॑ इ॒मा विशो॑ अ॒भि ह॑रन्तु ते ब॒लिम्॥४॥ आक्ष्वैकं॑ म॒णिमेकं॑ कृष्णुष्व स्ना॒ह्येके॒ना पि॒बैक॑मेषाम्। चतु॑र्वीरं नैरृ॒तेभ्य॑श्च॒तुर्भ्यो॒ ग्राह्या॑ ब॒न्धेभ्यः॒ परि॑ पात्व॒स्मान्॥५॥ अ॒ग्निर्मा॒ग्निना॑वतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑॥६॥ इन्द्रो॑ मेन्द्रि॒येणा॑वतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑॥७॥ सोमो॑ मा॒ सौम्ये॑नावतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑॥८॥ भगो॑ मा॒ भगे॑नावतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ॥९॥ म॒रुतो॑ मा ग॒णैर॑वन्तु प्रा॒णाया॑पा॒नायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से स्व॒स्तये॑ सुभू॒तये॒ स्वाहा॑ ॥१०॥
अस्तृतमणिः। १-७ प्रजापतिः। अस्तृतमणिः। त्रिष्टुप्, १ पञ्चपदा ज्योतिष्मती त्रिष्टुप्, २ षट्-पदा भुरिक्शक्वरी, ३, ७ पञ्चरदा पथ्यापङ्क्तिः, ४, ५ अतिजगती ( ४ चतुष्पदा, पञ्चपदा), ६ पञ्चपदोष्णिग्गर्भा विराड् जगती पङ्क्तिः। प्र॒जाप॑तिष्ट्वा बध्नात् प्रथ॒ममस्तृ॑तं वी॒र्याय॒ कम्। तत् ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑स॒ ओज॑से च॒ बला॑य॒ चास्तृ॑तस्त्वा॒भि र॑क्षतु ॥१॥ ऊ॒र्ध्वस्ति॑ष्ठतु॒ रक्ष॒न्नप्र॑माद॒मस्तृ॑ते॒मं मा त्वा॑ दभन् प॒णयो॑ यातु॒धानाः॑ । इन्द्र॑ इव॒ दस्यू॒नव॑ धूनुष्व पृतन्य॒तः सर्वां॒छत्रू॒न् वि ष॑ह॒स्वास्तृ॑तस्त्वा॒भि र॑क्षतु ॥२॥ श॒तं च॒ न प्र॒हर॑न्तो नि॒घ्नन्तो॒ न त॑स्ति॒रे। तस्मि॒न्निन्द्रः॒ पर्य॑दत्त॒ चक्षुः॑ प्रा॒णमथो॒ बल॒मस्तृ॑तस्त्वा॒भि र॑क्षतु ॥३॥ इन्द्र॑स्य त्वा॒ वर्म॑णा॒ परि॑ धापयामो॒ यो दे॒वाना॑मधिरा॒जो ब॒भूव॑ । पुन॑स्त्वा दे॒वाः प्र ण॑यन्तु॒ सर्वेऽस्तृ॑तस्त्वा॒भि र॑क्षतु ॥४॥ अ॒स्मिन् म॒णावेक॑शतं वी॒र्याणि स॒हस्रं॑ प्रा॒णा अ॑स्मि॒न्नस्तृ॑ते । व्या॒घ्रः शत्रू॑न॒भि ति॑ष्ठ॒ सर्वा॒न् यस्त्वा॑ पृत॒न्यादध॑रः॒ सो अ॒स्त्वस्तृ॑तस्त्वा॒भि र॑क्षतु॥५॥ घृ॒तादुल्लु॑प्तो॒ मधु॑मा॒न् पय॑स्वान्त्स॒हस्र॑प्राणः श॒तयो॑निर्वयो॒धाः । श॒म्भूश्च॑ मयो॒भूश्चोर्ज॑स्वांश्च॒ पय॑स्वां॒श्चास्तृ॑तस्त्वा॒भि र॑क्षतु ॥६॥ यथा॒ त्वमु॑त्त॒रोऽसो॑ असप॒त्नः स॑पत्न॒हा। स॒जा॒ताना॑मसद् व॒शी तथा॑ त्वा सवि॒ता क॑र॒दस्तृ॑तस्त्वा॒भि र॑क्षतु ॥७॥
रात्रिः। १-९ गोपथः। रात्रिः। अनुष्टुप्, १ पथ्याबृहती, २ पञ्चपदाऽनुष्टुब्गर्भा पराऽतिजगती, ६ पुरस्ताद्बृहती, ७ त्र्यवसाना षट्पदा जगती। आ रा॑त्रि॒ पार्थि॑वं॒ रजः॑ पि॒तुर॑प्रायि॒ धाम॑भिः । दि॒वः सदां॑सि बृह॒ती वि ति॑ष्ठस॒ आ त्वे॒षं व॑र्तते॒ तमः॑ ॥१॥ न यस्याः॑ पा॒रं ददृ॑शे॒ न योयु॑व॒द् विश्व॑म॒स्यां नि वि॑शते॒ यदेज॑ति । अरि॑ष्टासस्त उर्वि तमस्वति॒ रात्रि॑ पा॒रम॑शीमहि॒ भद्रे॑ पा॒रम॑शीमहि ॥२॥ ये ते॑ रात्रि नृ॒चक्ष॑सो द्र॒ष्टारो॑ नव॒तीर्नव॑ । अ॒शी॒तिः सन्त्य॒ष्टा उ॒तो ते॑ स॒प्त स॑प्त॒तिः ॥३॥ ष॒ष्टिश्च॒ षट् च॒ रेवति पञ्चा॒शत् पञ्च॑ सुम्नयि । च॒त्वार॑श्चत्वारिं॒शच्च॒ त्रय॑स्त्रिं॒शच्च॑ वाजिनि ॥४॥ द्वौ च॑ ते विंश॒तिश्च॑ ते॒ रात्र्येका॑दशाव॒माः । तेभि॑र्नो अ॒द्य पा॒युभि॒र्नु पा॑हि दुहितर्दिवः ॥५॥ रक्षा॒ माकि॑र्नो अ॒धशं॑स ईशत॒ मा नो॑ दुः॒शंस॑ ईशत । मा नो॑ अ॒द्य गवां॑ स्ते॒नो मावी॑नां॒ वृक॑ ईशत ॥६॥ माश्वा॑नां भद्रे॒ तस्क॑रो॒ मा नृ॒णां या॑तुधा॒न्यः । प॒र॒मेभिः॑ प॒थिभिः॑ स्ते॒नो धा॑वतु॒ तस्क॑रः । परे॑ण द॒त्वती॒ रज्जुः॒ परे॑णाघा॒युर॑र्षतु ॥७॥ अध॑ रात्रि तृ॒ष्टधू॑ममशी॒र्षाण॒महिं॑ कृणु । हनू॒ वृक॑स्य ज॒म्भया॒स्तेन॒ तं द्रु॑प॒दे ज॑हि ॥८॥ त्वयि॑ रात्रि वसामसि स्वपि॒ष्याम॑सि जागृ॒हि। गोभ्यो॑ नः॒ शर्म॑ य॒च्छाश्वे॑भ्यः॒ पुरु॑षेभ्यः ॥९॥
रात्रिः। १-६ गोपथः। रात्रिः। अनुष्टुप्, १ त्रिपदाऽर्षी गायत्री, २ त्रिपदा विराडनुष्टुप्, ३ बृहतीगर्भाऽनुष्टुप्, ५ पथ्यापङ्क्तिः। अथो॒ यानि॑ च॒ यस्मा॑ ह॒ यानि॑ चा॒न्तः प॑री॒णहि॑ । तानि॑ ते॒ परि॑ दद्मसि ॥१॥ रात्रि॒ मात॑रु॒षसे॑ नः॒ परि॑ देहि । उ॒षा नो॒ अह्ने॒ परि॑ ददा॒त्वह॒स्तुभ्यं॑ विभावरि ॥२॥ यत् किं चे॒दं प॒तय॑ति यत् किं चे॒दं स॑रीसृ॒पम्। यत् किं च॒ पर्व॑ताया॒सत्वं॒ तस्मा॒त् त्वं रा॑त्रि पाहि नः ॥३॥ सा प॒श्चात् पा॑हि॒ सा पु॒रः सोत्त॒राद॑ध॒रादु॒त। गो॒पाय॑ नो विभावरि स्तो॒तार॑स्त इ॒ह स्म॑सि ॥४॥ ये रात्रि॑मनु॒तिष्ठ॑न्ति॒ ये च॑ भू॒तेषु॒ जाग्र॑ति । प॒शून् ये सर्वा॒न् रक्ष॑न्ति॒ ते न॑ आ॒त्मसु॑ जाग्रति॒ ते नः॑ प॒शुषु॑ जाग्रति ॥५॥ वेद॒ वै रा॑त्रि ते॒ नाम॑ घृ॒ताची॒ नाम॒ वा अ॑सि । तां त्वां भ॒रद्वा॑जो वेद॒ सा नो॑ वि॒त्तेऽधि॑ जाग्रति ॥६॥
रात्रिः। १-१० गोपथः, भरद्वाजश्च। रात्रिः। अनुष्टुप्, १-५, ८ त्रिष्टुप्, ६ आस्तारपङ्क्तिः, ७ पथ्यापङ्क्तिः, १० त्र्यवसाना इ॒षि॒रा योषा॑ युव॒तिर्दमू॑ना॒ रात्री॑ दे॒वस्य॑ सवि॒तुर्भग॑स्य । अ॒श्व॒क्ष॒भा सु॒हवा॒ संभृ॑तश्री॒रा प॑प्रौ॒ द्यावा॑पृथि॒वी म॑हि॒त्वा॥१॥ अति॒ विश्वा॑न्यरुहद् गम्भी॒रो वर्षि॑ष्ठमरुहन्त॒ श्रवि॑ष्ठाः । उ॒श॒ती रात्र्यनु॒ सा भ॒द्राभि ति॑ष्ठते मि॒त्र इ॑व स्व॒धाभिः॑ ॥२॥ वर्ये॒ वन्दे॒ सुभ॑गे॒ सुजा॑त॒ आज॑ग॒न् रात्रि॑ सु॒मना॑ इ॒ह स्या॑म्। अ॒स्मांस्त्रा॑यस्व॒ नर्या॑णि जा॒ता अथो॒ यानि॒ गव्या॑नि पु॒ष्ठ्या॥३॥ सिं॒हस्य॒ रात्र्यु॑श॒ती पीं॒षस्य॑ व्या॒घ्रस्य॑ द्वी॒पिनो॒ वर्च॒ आ द॑दे । अश्व॑स्य ब्र॒ध्नं पुरु॑षस्य मा॒युं पु॒रु रू॒पाणि॑ कृणुषे विभा॒ती॥४॥ शि॒वां रात्रि॑मनु॒सूर्यं॑ च हि॒मस्य॑ मा॒ता सु॒हवा॑ नो अस्तु । अ॒स्य स्तोम॑स्य सुभगे॒ नि बो॑ध॒ येन॑ त्वा॒ वन्दे॒ विश्वा॑सु दि॒क्षु॥५॥ स्तोम॑स्य नो विभावरि॒ रात्रि॒ राजे॑व जोषसे । आसा॑म॒ सर्व॑वीरा॒ भवा॑म॒ सर्व॑वेदसो व्यु॒च्छन्ती॒रनू॒षसः॑ ॥६॥ शम्या॑ ह॒ नाम॑ दधि॒षे मम॒ दिप्स॑न्ति॒ ये धना॑ । रात्री॒हि तान॑सुत॒पा यस्ते॒नो न वि॒द्यते॒ यत् पुन॒र्न वि॒द्यते॑ ॥७॥ भ॒द्रासि॑ रात्रि चम॒सो न वि॒ष्टो विष्वं॒ गोरू॑पं युव॒तिर्बि॑भर्षि । चक्षु॑ष्मती मे उश॒ती वपूंषि॒ प्रति॒ त्वं दि॒व्या न क्षाम॑मुक्थाः ॥८॥ यो अ॒द्य स्ते॒न आय॑त्यघा॒युर्मर्त्यो॑ रि॒पुः । रात्री॒ तस्य॑ प्र॒तीत्य॒ प्र ग्री॒वाः प्र शिरो॑ हनत्॥९॥ प्र पादौ॒ न यथाय॑ति॒ प्र हस्तौ॒ न यथाशि॑षत्। यो म॑लि॒म्लुरु॒पाय॑ति॒ स संपि॑ष्टो॒ अपा॑यति । अपा॑यति॒ स्वपा॑यति॒ शुष्के॑ स्था॒णावपा॑यति ॥१०॥
रात्रिः। १-७ गोपथः। रात्रिः। अनुष्टुप्। अध॑ रात्रि तृ॒ष्टधू॑ममशी॒र्षाण॒महिं॑ कृणु । अ॒क्षौ वृक॑स्य॒ निर्ज॑ह्या॒स्तेन॒ तं द्रु॑प॒दे ज॑हि ॥१॥ ये ते॑ रात्र्यन॒ड्वाह॒स्तीक्ष्ण॑शृङ्गाः स्वा॒शवः॑ । तेभि॑र्नो अ॒द्य पा॑र॒याति॑ दु॒र्गाणि॑ वि॒श्वहा॑ ॥२॥ रात्रिं॑रात्रि॒मरि॑ष्यन्त॒स्तरे॑म त॒न्वा व॒यम्। ग॒म्भी॒रमप्ल॑वा इव॒ न त॑रेयु॒ररा॑तयः ॥३॥ यथा॑ शा॒म्याकः॑ प्र॒पत॑न्नप॒वान् नानु॑वि॒द्यते॑ । ए॒वा रा॑त्रि॒ प्र पा॑तय॒ यो अ॒स्मां अ॑भ्यघा॒यति ॥४॥ अप॑ स्ते॒नं वासो॑ गोअ॒जमु॒त तस्क॑रम्। अथो॒ यो अर्व॑तः॒ शिरो॑ऽभि॒धाय॒ निनी॑षति ॥५॥ यद॒द्या रा॑त्रि सुभगे वि॒भज॒न्त्ययो॒ वसु॑ । यदे॒तद॒स्मान् भो॑जय॒ यथेद॒न्यानु॒पाय॑सि ॥६॥ उ॒षसे॑ नः॒ परि॑ देहि॒ सर्वा॒न् रात्र्य॑ना॒गसः॑ । उ॒षा नो॒ अह्ने॒ आ भ॑जा॒दह॒स्तुभ्यं॑ विभावरि ॥७॥
आत्मा। १-२ ब्रह्मा। १ आत्मा, २ सविता च। १ एकपदा ब्राह्म्यनुष्टुप्, २ त्रिपाद् यवमध्योष्णिक्, (१-२ एकावसाना)। यु॑तो॒ऽहमयु॑तो म आ॒त्मायु॑तं मे॒ चक्षु॒रयु॑तं मे॒ श्रोत्र॒म॑युतो मे प्रा॒णोऽयु॑तो मे ऽपा॒नोऽयु॑तो मे व्या॒नोऽयु॑तो॒ऽहं सर्वः॑ ॥१॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्यां॒ प्रसू॑त॒ आ र॑भे ॥२॥
कामः। १-५ ब्रह्माः कामः। त्रिष्टुप्, ३ चतुष्पदा उष्णिक्, ५ उपरिष्टाद्बृहती। काम॒स्तदग्रे॒ सम॑वर्तत॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त्। स का॑म॒ कामे॑न बृह॒ता सयो॑नी रा॒यस्पोषं॒ यज॑मानाय धेहि ॥१॥ त्वं का॑म॒ सह॑सासि॒ प्रति॑ष्ठितो वि॒भुर्वि॒भावा॑ सख॒ आ स॑खीय॒ते। त्वमु॒ग्रः पृत॑नासु सास॒हिः सह॒ ओजो॒ यज॑मानाय धेहि ॥२॥ दू॒राच्च॑कमा॒नाय॑ प्रतिपा॒णायाक्ष॑ये । आस्मा॑ अशृण्व॒न्नाशाः॒ कामे॑नाजनय॒न्त्स्वः ॥३॥ कामे॑न मा॒ काम॒ आगन् हृद॑या॒द्धृद॑यं॒ परि॑ । यद॒मीषा॑म॒दो मन॒स्तदैतूप॒ मामि॒ह॥४॥ यत् का॑म का॒मय॑माना इ॒दं कृ॒ण्मसि॑ ते ह॒विः । तन्नः॒ सर्वं॒ समृ॑ध्यता॒मथै॒तस्य॑ ह॒विषो॑ वीहि॒ स्वाहा॑ ॥५॥
कालः। १-१० भृगुः। कालः। अनुष्टुप्, १-४ त्रिष्टुप्, ५ निचृत् पुरस्ताद्बृहती। का॒लो अश्वो॑ वहति स॒प्तर॑श्मिः सहस्रा॒क्षो अ॒जरो॒ भूरि॑रेताः । तमा रो॑हन्ति क॒वयो॑ विप॒श्चित॒स्तस्य॑ च॒क्रा भुव॑नानि॒ विश्वा॑ ॥१॥ स॒प्त च॒क्रान् व॑हति का॒ल ए॒ष स॒प्तास्य॒ नाभी॑र॒मृतं॒ न्वक्षः॑ । स इ॒मा विश्वा॒ भुव॑नान्यञ्जत् का॒लः स ई॑यते प्रथ॒मो नु दे॒वः ॥२॥ पू॒र्णः कु॒म्भोऽधि॑ का॒ल आहि॑त॒स्तं वै पश्या॑मो बहु॒धा नु स॒न्तः। स इ॒मा विश्वा॒ भुव॑ना॒नि प्र॒त्यङ्कालं तमा॑हुः पर॒मे व्योमन्॥३॥ स ए॒व सं भुव॑ना॒न्याभ॑र॒त् स ए॒व सं भुव॑नानि॒ पर्यै॑त्। पि॒ता सन्न॑भवत् पु॒त्र ए॑षां॒ तस्मा॒द् वै नान्यत् पर॑मस्ति॒ तेजः॑ ॥४॥ का॒लोऽमूं दिव॑मजनयत् का॒ल इ॒माः पृ॑थि॒वीरु॒त। का॒ले ह॑ भू॒तं भव्यं॑ चेषि॒तं ह॒ वि ति॑ष्ठते ॥५॥ का॒लो भू॒तिम॑सृजत का॒ले त॑पति॒ सूर्यः॑ । का॒ले ह॒ विश्वा॑ भू॒तानि॑ का॒ले चक्षु॒र्वि प॑श्यति ॥६॥ का॒ले मनः॑ का॒ले प्रा॒णः का॒ले नाम॑ स॒माहि॑तम्। का॒लेन॒ सर्वा॑ नन्द॒न्त्याग॑तेन प्र॒जा इ॒माः ॥७॥ का॒ले तपः॑ का॒ले ज्येष्ठं॑ का॒ले ब्रह्म॑ स॒माहि॑तम्। का॒लो ह॒ सर्व॑स्येश्व॒रो यः पि॒तासी॑त् प्र॒जाप॑तेः ॥८॥ तेने॑षि॒तं तेन॑ जा॒तं तदु॒ तस्मि॒न् प्रति॑ष्ठितम्। का॒लो ह॒ ब्रह्म॑ भू॒त्वा बिभ॑र्ति परमे॒ष्ठिन॑म्॥९॥ का॒लः प्र॒जा अ॑सृजत का॒लो अग्रे॑ प्र॒जाप॑तिम्। स्व॒यं॒भूः क॒श्यपः॑ का॒लात् तपः॑ का॒लाद॑जायत ॥१०॥
कालः। १-५ भृगुः। कालः। अनुष्टुप्, २ त्रिपदाऽर्षी गायत्री, ५ त्र्यवसाना षट्पदा विराडष्टिः। का॒लादापः॒ सम॑भवन् का॒लाद् ब्रह्म॒ तपो॒ दिशः॑ । का॒लेनोदे॑ति॒ सूर्यः॑ का॒ले नि वि॑शते॒ पुनः॑ ॥१॥ का॒लेन॒ वातः॑ पवते का॒लेन॑ पृथि॒वी म॒ही। द्यौर्म॒ही का॒ल आहि॑ता ॥२॥ का॒लो ह॑ भू॒तं भव्यं॑ च पु॒त्रो अ॑जनयत् पु॒रा। का॒लादृचः॒ सम॑भव॒न् यजुः॑ का॒लाद॑जायत ॥३॥ का॒लो य॒ज्ञं समै॑रयद् दे॒वेभ्यो॑ भा॒गमक्षि॑तम्। का॒ले ग॑न्धर्वाप्स॒रसः॑ का॒ले लो॒काः प्रति॑ष्ठिताः ॥४॥ का॒लेऽयमङ्गि॑रा दे॒वोऽथ॑र्वा॒ चाधि॑ तिष्ठतः । इ॒मं च॑ लो॒कं प॑र॒मं च॑ लो॒कं पुण्यां॑श्च लो॒कान् विधृ॑तीश्च॒ पुण्याः॑ । सर्वां॑ल्लो॒कान॑भि॒जित्य॒ ब्रह्म॑णा का॒लः स ई॑यते पर॒मो नु दे॒वः ॥५॥
रायस्पोषप्राप्तिः। १-६ भृगुः। अग्निः। त्रिष्टुप्, २ आस्तारपङ्क्तिः, ५ त्र्यवसाना पञ्चपदा पुरस्ताज्ज्योतिष्मती। रात्रिं॑रात्रि॒मप्र॑यातं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॒स्मै। रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ॥१॥ या ते॒ वसो॒र्वात॒ इषुः॒ सा त॑ ए॒षा तया॑ नो मृड । रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ॥२॥ सा॒यंसा॑यं गृ॒हप॑तिर्नो अ॒ग्निः प्रा॒तःप्रा॑तः सौमन॒सस्य॑ दा॒ता। वसो॑र्वसोर्वसु॒दान॑ एधि व॒यं त्वेन्धा॑नास्त॒न्वं पुषेम ॥३॥ प्रा॒तःप्रा॑तर्गृ॒हप॑तिर्नो अ॒ग्निः सा॒यंसा॑यं सौमन॒सस्य॑ दा॒ता। वसो॑र्वसोर्वसु॒दान॑ ए॒धीन्धा॑नास्त्वा श॒तंहि॑मा ऋधेम ॥४॥ अप॑श्चा द॒ग्धान्न॑स्य भूयासम्। अ॒न्ना॒दायान्न॑पतये रु॒द्राय॒ नमो॑ अ॒ग्नये॑ । स॒भ्यः स॒भां मे॑ पाहि॒ ये च॑ स॒भ्याः स॑भा॒सदः॑ ॥५॥ त्वामि॑न्द्रा पुरुहूत॒ विश्व॒मायु॒र्व्यश्नवन्। अह॑रहर्ब॒लिमित् ते॒ हर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑ग्ने ॥६॥
दुःष्वप्ननाशनम्। १-६ यमः। दुःष्वप्ननाशनम्। त्रिष्टुप्। य॒मस्य॑ लो॒कादध्या ब॑भूविथ॒ प्रम॑दा॒ मर्त्या॒न् प्र यु॑नक्षि॒ धीरः॑ । ए॒का॒किना॑ स॒रथं॑ यासि वि॒द्वान्त्स्वप्नं॒ मिमा॑नो॒ असु॑रस्य॒ योनौ॑ ॥१॥ ब॒न्धस्त्वाग्रे॑ वि॒श्वच॑या अपश्यत् पु॒रा रात्र्या॒ जनि॑तो॒रेके॒ अह्नि॑ । ततः॑ स्वप्ने॒दमध्या ब॑भूविथ भि॒षग्भ्यो॑ रू॒पम॑प॒गूह॑मानः ॥२॥ बृ॒ह॒द्गावासु॑रे॒भ्योऽधि॑ दे॒वानुपा॑वर्तत महि॒मान॑मि॒च्छन्। तस्मै॒ स्वप्ना॑य दधु॒राधि॑पत्यं त्रयस्त्रिं॒शासः॒ स्वरानशा॒नाः ॥३॥ नैतां वि॑दुः पि॒तरो॒ नोत दे॒वा येषां॒ जल्पि॒श्चर॑त्यन्तरेदम्। त्रि॒ते स्वप्न॑मदधुरा॒प्त्ये नर॒ आदि॑त्यासो॒ वरु॑णे॒नानु॑शिष्टाः ॥४॥ यस्य॑ क्रू॒रमभ॑जन्त दु॒ष्कृतो॒ऽस्वप्ने॑न सु॒कृतः॒ पुण्य॒मायुः॑ । स्वर्मदसि पर॒मेण॑ ब॒न्धुना॑ त॒प्यमा॑नस्य॒ मन॒सोऽधि॑ जज्ञिषे ॥५॥ वि॒द्म ते॒ सर्वाः॑ परि॒जाः पु॒रस्ता॑द् वि॒द्म स्व॑प्न॒ यो अ॑धि॒पा इ॒हा ते॑ । य॒श॒श्विनो॑ नो॒ यश॑से॒ह पा॑ह्या॒राद् द्वि॒षेभि॒रप॑ याहि दू॒रम्॥६॥
दुःष्वप्ननाशनम्। १-५ यमः। दुःष्वप्ननाशनम्। १ अनुष्टुप्, २-३ त्रिष्टुप् (त्र्यवसाना), ४ षट्पदा उष्णिग्बृहतीगर्भा विराट् शक्वरी, ५ त्र्यवसाना पञ्चपदा परशाक्वरातिजगती। यथा॑ क॒लां यथा॑ श॒फं यथ॒र्णं सं॒नय॑न्ति । ए॒वा दु॒ष्वप्न्यं॒ सर्व॒मप्रि॑ये॒ सं न॑यामसि ॥१॥ सं राजा॑नो अगुः॒ समृ॒णाम्य॑गुः॒ सं कु॒ष्ठा अ॑गुः॒ सं क॒ला अ॑गुः । सम॒स्मासु॒ यद् दु॒ष्वप्न्यं॒ निर्द्वि॑ष॒ते दु॒ष्वप्न्यं॑ सुवाम ॥२॥ देवा॑नां पत्नीनां गर्भ॒ यम॑स्य कर॒ यो भ॒द्रः स्व॑प्न । स मम॒ यः पा॒पस्तद् द्वि॑ष॒ते प्र हि॑ण्मः । मा तृ॒ष्टाना॑मसि कृष्णशकु॒नेर्मुख॑म्॥३॥ तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स त्वं स्व॒प्नाश्व॑ इव का॒यमश्व॑ इव नीना॒हम्। अ॒ना॒स्मा॒कं दे॑वपी॒युं पिया॑रुं वप॒ यद॒स्मासु॑ दु॒ष्वप्न्यं॒ यद् गोषु॒ यच्च॑ नो गृ॒हे॥४॥ अ॒ना॒स्मा॒कस्तद् दे॑वपी॒युः पिया॑रुर्नि॒ष्कमि॑व॒ प्रति॑ मुञ्चताम्। नवा॑र॒त्नीनप॑मया अ॒स्माकं॒ ततः॒ परि॑ । दु॒ष्वप्न्यं॒ सर्वं॑ द्विष॒ते निर्द॑यामसि ॥५॥
यज्ञः। १-६ ब्रह्मा। यज्ञः, बहुदैवत्यम्। त्रिष्टुप्, २ पुरोऽनुष्टुप्, ३ चतुष्पदाऽतिशक्वरी, ५ भुरिक्। घृ॒तस्य॑ जू॒तिः सम॑ना॒ सदे॑वा संवत्स॒रं ह॒विषा॑ व॒र्धय॑न्ती । श्रोत्रं॒ चक्षुः॑ प्रा॒णोच्छि॑न्नो नो अ॒स्त्वच्छि॑न्ना व॒यमायु॑षो॒ वर्च॑सः ॥१॥ उपा॒स्मान् प्रा॒णो ह्व॑यता॒मुप॑ व॒यं प्रा॒णं ह॑वामहे । वर्चो॑ जग्राह पृथि॒व्य॑१न्तरि॑क्षं॒ वर्चः॒ सोमो॒ बृह॒स्पति॑र्विध॒त्ता॥२॥ वर्च॑सो॒ द्यावा॑पृथि॒वी सं॒ग्रह॑णी बभू॒वथु॒र्वर्चो॑ गृही॒त्वा पृ॑थि॒वीमनु॒ सं च॑रेम । य॒शसं॒ गावो॒ गोप॑ति॒मुप॑ तिष्ठन्त्याय॒तीर्यशो॑ गृही॒त्वा पृ॑थि॒वीमनु॒ सं च॑रेम ॥३॥ व्र॒जं कृ॑णुध्वं॒ स हि वो॑ नृ॒पाणो॒ वर्मा॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ । पुरः॑ कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा वः॑ सुस्रोच्चम॒सो दृं॑हता॒ तम्॥४॥ य॒ज्ञस्य॒ चक्षुः॒ प्रभृ॑ति॒र्मुखं॑ च वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि । इ॒मं य॒ज्ञं वित॑तं वि॒श्वक॑र्म॒णा दे॒वा य॑न्तु सुमन॒स्यमा॑नाः ॥५॥ ये दे॒वाना॑मृ॒त्विजो॒ ये च॑ य॒ज्ञिया॒ येभ्यो॑ ह॒व्यं क्रि॒यते॑ भाग॒धेय॑म्। इ॒मं य॒ज्ञं स॒ह पत्नी॑भि॒रेत्य॒ याव॑न्तो दे॒वास्त॑वि॒षा मा॑दयन्ताम्॥६॥
यज्ञः। १-३ ब्रह्मा। अग्निः। त्रिष्टुप्, १ गायत्री। त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा। त्वं य॒ज्ञेष्वीड्यः॑ ॥१॥ यद् वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः । अ॒ग्निष्टद् वि॒श्वादा पृ॑णातु वि॒द्वान्त्सोम॑स्य॒ यो ब्रा॑ह्म॒णां आ॑वि॒वेश॑ ॥२॥ आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तद॑नु॒प्रवो॑ढुम्। अ॒ग्निर्वि॒द्वान्त्स य॑जा॒त् स इद्धोता॒ सोऽध्व॒रान्त्स ऋ॒तून् क॑ल्पयाति ॥३॥
अङ्गानि। १-२ ब्रह्मा। वाक्, अङ्गानि च। १ पथ्याबृहती, २ ककुम्मती पुर उष्णिक्। वाङ् म॑ आ॒सन् न॒सोः प्रा॒णश्चक्षु॑र॒क्ष्णोः श्रोत्रं॒ कर्ण॑योः । अप॑लिताः॒ केशा॒ अशो॑णा॒ दन्ता॑ ब॒हु बा॒ह्वोर्बल॑म्॥१॥ ऊ॒र्वोरोजो॒ जङ्घ॑योर्ज॒वः पाद॑योः । प्र॒ति॒ष्ठा अरि॑ष्टानि मे॒ सर्वा॒त्मानि॑भृष्टः ॥२॥
पूर्णायुः। १ ब्रह्मा। ब्रह्मणस्पतिः। विराट् पथ्याबृहती। त॒नूस्त॒न्वा मे सहे द॒तः सर्व॒मायु॑रशीय । स्यो॒नं मे॑ सीद पु॒रुः पृ॑णस्व॒ पव॑मानः स्व॒र्गे॥१॥
सर्वप्रियत्वम्। १ ब्रह्मा। ब्रह्मणस्पतिः। अनुष्टुप्। प्रि॒यं मा॑ कृणु दे॒वेषु॑ प्रि॒यं राज॑सु मा कृणु । प्रि॒यं सर्व॑स्य॒ पश्य॑त उ॒त शू॒द्र उ॒तार्ये॑ ॥१॥
आयुर्वर्धनम्। १ ब्रह्मा। ब्रह्मणस्पतिः। विराडुपरिष्टाद्बृहती। उत् ति॑ष्ठ ब्रह्मणस्पते दे॒वान् य॒ज्ञेन॑ बोधय । आयुः॑ प्रा॒णं प्र॒जां प॒शून् की॒र्तिं यज॑मानं च वर्धय ॥१॥
दीर्घायुत्वम्। १-४ ब्रह्मा। अग्निः। अनुष्टुप्। अग्ने॑ स॒मिध॒माहा॑र्षं बृह॒ते जा॒तवे॑दसे । स मे॑ श्र॒द्धां च॑ मे॒धां च॑ जा॒तवे॑दाः॒ प्र य॑च्छतु ॥१॥ इ॒ध्मेन॑ त्वा जातवेदः स॒मिधा॑ वर्धयामसि । तथा॒ त्वम॒स्मान् व॑र्धय प्र॒जया॑ च॒ धने॑न च ॥२॥ यद॑ग्ने॒ यानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ । सर्वं॒ तद॑स्तु मे शि॒वं तज्जु॑षस्व यविष्ठ्य ॥३॥ ए॒तास्ते॑ अग्ने स॒मिध॒स्त्वमि॒द्धः स॒मिद् भव । आयु॑र॒स्मासु॑ धेह्यमृत॒त्वमा॑चा॒र्याय ॥४॥
अवनम्। १ ब्रह्मा। जातवेदाः, सूर्यश्च। जगती। हरिः॑ सुप॒र्णो दिव॒मारु॑हो॒ऽर्चिषा॒ ये त्वा॒ दिप्स॑न्ति॒ दिव॑मु॒त्पत॑न्तम्। अव॒ तां ज॑हि॒ हर॑सा जातवे॒दोऽबि॑भ्यदु॒ग्रोऽर्चिषा॒ दिव॒मा रो॑ह सूर्य ॥१॥
असुरक्षयणम्। १ ब्रह्मा। जातवेदाः सूर्यो वज्रश्च। अतिजगती। अयो॑जाला॒ असु॑रा मा॒यिनो॑ऽय॒स्मयैः॒ पाशै॑र॒ङ्किनो॒ ये चर॑न्ति । तांस्ते॑ रन्धयामि॒ हर॑सा जातवेदः स॒हस्र॑ऋष्टिः स॒पत्ना॑न् प्रमृ॒णन् पा॑हि॒ वज्रः॑ ॥१॥
दीर्घायुत्वम्। १-८ ब्रह्मा। सूर्यः। प्राजापत्या गायत्री। पश्ये॑म श॒रदः॑ श॒तम्॥१॥ जीवे॑म श॒रदः॑ श॒तम्॥२॥ बुध्ये॑म श॒रदः॑ श॒तम्॥३॥ रोहे॑म श॒रदः॑ श॒तम्॥४॥ पूषे॑म श॒रदः॑ श॒तम्॥५॥ भवे॑म श॒रदः॑ श॒तम्॥६॥ भूये॑म श॒रदः॑ श॒तम्॥७॥ भूय॑सीः श॒रदः॑ श॒तात्॥८॥
वेदोक्तं कर्म। १ ब्रह्मा। कर्म। अनुष्टुप्। अव्य॑सश्च॒ व्यच॑सश्च॒ बिलं॒ वि ष्या॑मि मा॒यया॑ । ताभ्या॑मु॒द्धृत्य॒ वेद॒मथ॒ कर्मा॑णि कृण्महे ॥१॥
आपः। १-४ ब्रह्मा। आपः। १ आसुर्यनुष्टुप्, २ साम्न्यनुष्टुप्, ३ आसुरी गायत्री, ४ साम्न्युष्णिक् ( १-४ एकावसाना)। जी॒वा स्थ॑ जी॒व्यासं॒ सर्व॒मायु॑र्जीव्यासम्॥१॥ उ॒प॒जी॒वा स्थोप॑ जीव्यासं॒ सर्व॒मायु॑र्जीव्यासम्॥२॥ सं॒जी॒वा स्थ॒ सं जी॑व्यासं॒ सर्व॒मायु॑र्जीव्यासम्॥३॥ जी॒व॒ला स्थ॑ जी॒व्यासं॒ सर्व॒मायु॑र्जीव्यासम्॥४॥
पूर्णायुः। १ ब्रह्मा। इन्द्रसूर्यादयः। त्रिपदा गायत्री। इन्द्र॒ जीव॒ सूर्य॒ जीव॒ देवा॒ जीवा॑ जी॒व्यास॑म॒हम्। सर्व॒मायु॑र्जीव्यासम्॥१॥
वेदमाता। १ ब्रह्मा। गायत्री। त्र्यवसाना पञ्चपदाऽतिजगती। स्तु॒ता मया॑ वर॒दा वे॑दमा॒ता प्र चो॑दयन्तां पावमा॒नी द्वि॒जाना॑म्। आयुः॑ प्रा॒णं प्र॒जां प॒शुं की॒र्तिं द्रवि॑णं ब्रह्मवर्च॒सम्। मह्यं॑ द॒त्त्वा व्र॑जत ब्रह्मलो॒कम्॥१॥
परमात्मा। १ भृग्वङ्गिराः ब्रह्मा। परमात्मा देवाश्च। त्रिष्टुप्। यस्मा॒त् कोशा॑दु॒दभ॑राम॒ वेदं॒ तस्मि॑न्न॒न्तरव॑ दध्म एनम्। कृ॒तमि॒ष्टं ब्रह्म॑णो वी॒र्येण॑ तेन॑ मा देवा॒स्तप॑सावते॒ह॥१॥
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is Kaanda 19 of the Atharva Veda?
Kaanda 19 of the Atharvaveda (Shaunaka) — longer and philosophical hymns of the later books. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
What is the Atharva Veda?
The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
Offer a Vedic paath or seva in your name
Have a Vedic paath, havan or seva performed in your naam-gotra for peace and blessings. Book a seva, or read on in Sanatan Sahitya.








