About Kaanda 15
Kaanda 15 of the Atharvaveda (Shaunaka) — the Vratya hymns. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
How it is read
Kaanda 15 is given below in its original Sanskrit, in accented Devanagari. The Veda is preserved as shruti and recited in svadhyaya; read it reverently, sukta by sukta.
Original Text
The Verses
अध्यात्म-प्रकरणम्। १-८ अथर्वा। अध्यात्मं, व्रात्यः। १ साम्नी पङ्क्तिः; २ द्विपदा साम्नी बृहती; ३ एकपदा यजुर्ब्राह्म्यनुष्टुप्; ४ एकपदा विराड् गायत्री; ५ साम्नी अनुष्टुप्; ६ त्रिपदा प्राजापत्या बृहती, ७ आसुरी पङ्क्तिः; ८ त्रिपदा अनुष्टुप्। व्रात्य॑ आसी॒दीय॑मान ए॒व स प्र॒जाप॑तिं॒ समैरयत्॥१॥ स प्र॒जाप॑तिः सु॒वर्ण॑मा॒त्मन्न॑पश्य॒त् तत् प्राज॑नयत्॥२॥ त देक॑मभव॒त् तल्ल॒लाम॑मभव॒त् तन्म॒हद॑भव॒त् तज्ज्ये॒ष्ठम॑भव॒त् तद् ब्रह्मा॑भव॒त् तत् तपो॑ऽभव॒त् तत् स॒त्यम॑भव॒त् तेन॒ प्राजा॑यत ॥३॥ सोऽवर्धत॒ स म॒हान॑भव॒त् स म॑हादे॒वोऽभवत्॥४॥ स दे॒वाना॑मी॒शां पर्यै॒त् स ईशा॑नोऽभवत्॥५॥ स ए॑कव्रा॒त्योऽभव॒त् स धनु॒राद॑त्त॒ तदे॒वेन्द्र॑ ध॒नुः ॥६॥ नील॑मस्यो॒दरं॒ लोहि॑तं पृ॒ष्ठम्॥७॥ नीले॑नै॒वाप्रि॑यं॒ भ्रातृ॑व्यं॒ प्रोर्णो॑ति॒ लोहि॑तेन द्वि॒षन्तं॑ विध्य॒तीति॑ ब्रह्मवा॒दिनो॑ वदन्ति ॥८॥
१-३२ अथर्वा। अध्यात्मं, व्रात्यः। १, ६, ९, १७, २५, ३० साम्न्यनुष्टुप्; २, १८, २६ साम्नी त्रिष्टुप्; ३ द्विपदाऽर्षी पङ्क्तिः ४, २०, २८ द्विपदा ब्राह्मी गायत्री; ५, १३ २१, २९, द्विपदाऽर्ची गायत्री; १४ साम्नी पङ्क्तिः २२ आसुरी गायत्री; ७, १५, २३, ३१ पदपङ्क्तिः; ८, १६, २४, ३२ त्रिपदा प्राजापत्या त्रिष्टुप्; १० एकपदा उष्णिक्; ११ द्विपदाऽर्षी भुरिक् त्रिष्टुप् १२ आर्षी पराऽनुष्टुप्; १९ द्विपदा विराडार्षी पङ्क्तिः; २७ निचृदार्षी पङ्क्तिः। स उद॑तिष्ठ॒त् स प्राचीं॒ दिश॒मनु॒ व्यऽचलत्॥१॥ तं बृ॒हच्च॑ रथंत॒रं चा॑दि॒त्याश्च॒ विश्वे॑ च दे॒वा अ॑नु॒व्य॒ऽ चलन्॥२॥ बृ॒ह॒ते च॒ वै स र॑थंत॒राय॑ चादि॒त्येभ्य॑श्च॒ विश्वे॑भ्यश्च दे॒वेभ्य॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥३॥ बृ॒ह॒तश्च॒ वै स र॑थंत॒रस्य॑ चादि॒त्यानां॑ च॒ विश्वे॑षां च दे॒वानां॑ प्रियं धाम॑ भवति॒ तस्य॒ प्राच्यां॑ दि॒शि॥४॥ श्र॒द्धा पुं॑श्च॒ली मि॒त्रो मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ॥५॥ भू॒तं च॑ भवि॒ष्यच्च॑ परिष्क॒न्दौ मनो॑ विप॒थम्॥६॥ मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः॥७॥ की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑ ॥८॥ स उद॑तिष्ठ॒त् स दक्षि॑णां॒ दिश॒मनु॒ व्यऽचलत्॥९॥ तं य॑ज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ य॒ज्ञश्च॒ यज॑मानश्च प॒शव॑श्चानु॒व्यऽचलन्॥१०॥ य॒ज्ञा॒य॒ज्ञिया॑य च॒ वै स वा॑मदे॒व्याय॑ च य॒ज्ञाय॑ च॒ यज॑मानाय च प॒शुभ्य॒श्चा वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥११॥ य॒ज्ञा॒य॒ज्ञिय॑स्य च॒ वै स वा॑मदे॒व्यस्य॑ च य॒ज्ञस्य॑ च॒ यज॑मानस्य च पशू॒नां च॑ प्रि॒यं धाम॑ भवति॒ तस्य॒ दक्षि॑णायां दि॒शि॥१२॥ उ॒षाः पुं॑श्च॒ली मन्त्रो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः॥१३॥ अ॒मा॒वा॒स्याऽ च पौर्णमा॒सी च॑ परिष्क॒न्दौ मनो॑ विप॒थम्॥१४॥ मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वा॒तः सार॑थी रे॒ष्मा प्र॑तो॒दः ॥१५॥ की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥१६ स उद॑तिष्ठ॒त् स प्र॒तीचीं॒ दिश॒मनु॒ व्यऽचलत्॥१७॥ तं वै॑रू॒पं च॑ वैरा॒जं चाप॑श्च॒ वरु॑णश्च॒ राजा॑नु॒व्यऽचलन्॥१८॥ वै॒रू॒पाय॑ च॒ वै स वै॑रा॒जाय॑ चा॒द्भ्यश्च॒ वरु॑णाय च॒ राज्ञ॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥१९॥ वै॒रू॒पस्य॑ च॒ वै स वै॑रा॒जस्य॑ चा॒पां च॒ वरु॑णस्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्य॑ प्र॒तीच्यां॑ दि॒शी ॥२०॥ इ॒रा पुं॑श्च॒ली हसो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ॥२१॥ अह॑श्च॒ रात्री॑ च परिष्क॒न्दौ मनो॑ विप॒थम्॥२२॥ मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः॥२३॥ की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑ ॥२४॥ स उद॑तिष्ठ॒त् स उदी॑चीं॒ दिश॒मनु॒ व्यऽ चलत्॥२५॥ तं श्यै॒तं च॑ नौध॒सं च॑ सप्त॒र्षय॑श्च॒ सोम॑श्च॒ राजा॑नु॒व्यऽचलन्॥२६॥ श्यै॒ताय॑ च॒ वै स नौ॑ध॒साय॑ च सप्त॒र्षिभ्य॑श्च॒ सोमा॑य च॒ राज्ञ॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॑ व्रात्य॑मुप॒वद॑ति ॥२७॥ श्यै॒तस्य॑ च॒ वै स नौ॑ध॒सस्य॑ च सप्तर्षी॒णां च॒ सोम॑स्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्योदी॑च्यां दि॒शि॥२८॥ वि॒द्युत् पुं॑श्च॒ली स्त॑नयि॒त्नुर्मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः॥२९॥ श्रु॒तं च॒ विश्रु॑तं च परिष्क॒न्दौ मनो॑ विप॒थम्॥३०॥ मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः॥३१॥ की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑ ॥३२॥
१-११ अथर्वा। अध्यात्मं, व्रात्यः। १ पिपीलिकमध्या गायत्री; २ साम्नी उष्णिक्; ३ याजुषी जगती; ४ द्विपदाऽर्च्युष्णिक्; ५ आर्ची बृहती; ६ आसुर्यनुष्टुप्; ७ साम्नी गायत्री; ८ आसुरी पङ्क्तिः; ९ आसुरी जगती; १० प्राजापत्या त्रिष्टुप्; ११ विराड् गायत्री। स सं॑वत्स॒रमू॒र्ध्वोऽतिष्ठ॒त् तं दे॒वा अ॑ब्रुव॒न् व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑ ॥१॥ सो॑ऽब्रवीदास॒न्दीं मे॒ सं भ॑र॒न्त्विति॑ ॥२॥ तस्मै॒ व्रात्या॑यास॒न्दीं सम॑भरन्॥३॥ तस्या॑ ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ॥४॥ बृ॒हच्च॑ रथंत॒रं चा॑नू॒च्ये॒३ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्च्ये॥५॥ ऋचः॒ प्राञ्च॒स्तन्त॑वो॒ यजूं॑षि ति॒र्यञ्चः॑ ॥६॥ वेद॑ आ॒स्तर॑णं॒ ब्रह्मो॑प॒बर्ह॑णम्॥७॥ सामा॑सा॒द उ॑द्गी॒थोऽपश्र॒यः ॥८॥ तामा॑स॒न्दीं व्रात्य॒ आरो॑हत्॥९॥ तस्य॑ देवज॒नाः प॑रिष्क॒न्दा आस॑न्त्संक॒ल्पाः प्र॑हा॒य्या॒३ विश्वा॑नि भू॒तान्यु॑प॒सदः॑ ॥१०॥ विश्वा॑न्ये॒वास्य॑ भू॒तान्यु॑प॒सदो॑ भवन्ति॒ य ए॒वं वेद॑ ॥११॥
१-१८ अथर्वा। अध्यात्मं, व्रात्यः। १, १३, १६ दैवी जगती; ४, ७, १० प्राजापत्या गायत्री; २, ८ आर्ची अनुष्टुप्; ३, १२ द्विपदा प्राजापत्या जगती; ५ प्राजापत्या पङ्क्तिः, ६ आर्ची गायत्री, ९ भौमार्ची त्रिष्टुप्, ११ साम्नी त्रिष्टुप्, १४ प्राजापत्या बृहती; १५, १८ द्विपदाऽर्ची पङ्क्तिः १७ आर्ची उष्णिक्। तस्मै॒ प्राच्या॑ दि॒शः ॥१॥ वा॒स॒न्तौ मासौ॑ गो॒प्तारा॒वकु॑र्वन् बृ॒हच्च॑ रथंत॒रं चा॑नुष्ठा॒तारौ॑ ॥२॥ वा॒स॒न्तावे॑नं॒ मासौ॒ प्राच्या॑ दि॒शो गो॑पायतो बृ॒हच्च॑ रथंत॒रं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ॥३॥ तस्मै॒ दक्षि॑णाया दि॒शः ॥४॥ ग्रैष्मौ॒ मासौ॑ गो॒प्तारा॒वकु॑र्वन् यज्ञाय॒ज्ञियं॑ च वामदेव्यं चा॑नुष्ठा॒तारौ॑ ॥५॥ ग्रैष्मा॑वेनं॒ मासौ॒ दक्षि॑णाया दि॒शो गो॑पायतो यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ॥६॥ तस्मै॑ प्र॒तीच्या॑ दि॒शः ॥७॥ वार्षि॑कौ॒ मासौ॑ गो॒प्तारा॒वकु॑र्वन् वैरू॒पं च॑ वैरा॒जं चा॑नुष्ठा॒तारौ॑ ॥८॥ वार्षि॑कावेनं॒ मासौ॑ प्र॒तीच्या॑ दि॒शो गो॑पायतो वैरू॒पं च॑ वैरा॒जं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ॥९॥ तस्मा॒ उदी॑च्या दि॒शः ॥१०॥ शा॒र॒दौ मासौ॑ गो॒प्तारा॒वकु॑र्वंछ्यै॒तं च॑ नौध॒सं चा॑नुष्ठा॒तारौ॑ ॥११॥ शा॒र॒दावे॑नं॒ मासा॒वुदी॑च्या दि॒शो गो॑पायतः श्यै॒तं च॑ नौध॒सं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ॥१२॥ तस्मै॑ ध्रु॒वाया॑ दि॒शः ॥१३॥ है॒म॒नौ मासौ॑ गो॒प्तारा॒वकु॑र्व॒न् भूमिं॑ चा॒ग्निं चा॑नुष्ठा॒तारौ॑ ॥१४॥ है॒म॒नावे॑नं॒ मासौ॑ ध्रु॒वाया॑ दि॒शो गो॑पायतो॒ भूमि॑श्चा॒ग्निश्चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ॥१५॥ तस्मा॑ ऊ॒र्ध्वाया॑ दि॒शः ॥१६॥ शै॒शि॒रौ मासौ॑ गो॒प्तारा॒वकु॑र्व॒न् दिवं॑ चादि॒त्यं चा॑नुष्ठा॒तारौ॑ ॥१७॥ शै॒शि॒रावे॑नं॒ मासा॑वू॒र्ध्वाया॑ दि॒शो गो॑पायतो॒ द्यौश्चा॑दि॒त्यश्चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ॥१८॥
१-२१ अथर्वा। रुद्रः। १ त्रिपदा समविषमा गायत्री; २ त्रिपदा भुरिगार्ची त्रिष्टुप्; ३,६, ९,१२,१५,१८,२१ द्विपदा प्राजापत्याऽनुष्टुप्; ४ त्रिपदा स्वराट् प्राजापत्या पङ्क्तिः; ५,८,११,१७ त्रिपदा ब्राह्मी गायत्री; ७, १०, १६ त्रिपदा ककुप्; १३, १९ भुरिग् विषमा गायत्री; १४ निचृद्ब्राह्मी गायत्री; २० विराट्। तस्मै॒ प्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद् भ॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन्॥१॥ भ॒व ए॑नमिष्वा॒सः प्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥२॥ नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑ ॥३॥ तस्मै॒ दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाच्छ॒र्वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन्॥४॥ श॒र्व ए॑नमिश्वा॒सो दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥५॥ नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑॥६॥ तस्मै॑ प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शात् प॑शु॒पति॑मिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन्॥७॥ प॒शु॒पति॑रेनमिष्वा॒सः प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥८॥ नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑ ॥९॥ तस्मा॒ उदी॑च्या दि॒शो अ॑न्तर्दे॒शाद॒ग्रं दे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन्॥१०॥ उ॒ग्र ए॑नं दे॒व इ॑ष्वा॒स उदी॑च्या दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑न॥११॥ नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑ ॥१२॥ तस्मै॑ ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद् रु॒द्रमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन्॥१३॥ रु॒द्र ए॑नमिष्वा॒सो ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शादनु॑ष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥१४॥ नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑ ॥१५॥ तस्मा॑ ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शान्म॑हादे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन्॥१६॥ म॒हा॒दे॒व ए॑नमिष्वा॒स ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥१७॥ नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑ ॥१८॥ तस्मै॒ सर्वे॑भ्यो अन्तर्दे॒शेभ्य॒ ईशा॑नमिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन्॥१९॥ ईशा॑न एनमिष्वा॒सः सर्वे॑भ्यो अन्तर्दे॒शेभ्यो॑ऽनुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो न भ॒वो नेशा॑नः॥२०॥ नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑ ॥२१॥
१-२७ अथर्वा। अध्यातमं, व्रात्यः। १,४ आसुरी पङ्क्तिः; ७, १०, १३, १६, २५ आसुरी बृहती; २२-३३ परोष्णिक्; २,१७ आर्ची पङ्क्तिः; १९ आर्च्युष्णिक्; ५, ११ साम्नी त्रिष्टुप्; ८ साम्नी पङ्क्तिः; १४,२४ आर्ची त्रिष्टुप्; २० साम्नयनुष्टुप्; २६ आर्च्यनुष्टुप्; ३ आर्षी पङ्क्तिः; ६, १२ निचृद्बहती; ९ प्राजापत्या त्रिष्टुप्; १५, १८ विराट् जगती; २१ आर्ची बृहती; २७ विराड् बृहती। स ध्रु॒वां दिश॒मनु॒ व्यऽचलत्॥१॥ तं भूमि॑श्चा॒ग्निश्चौष॑धयश्च॒ वन॒स्पत॑यश्च वानस्प॒त्याश्च॑ वी॒रुध॑श्चानु॒व्यऽचलन्॥२॥ भूमे॑श्च॒ वै सो॒३ग्नेश्चौष॑धीनां च॒ वन॒स्पती॑नां च वानस्प॒त्यानां॑ । च वी॒रुधां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥३॥ स ऊ॒र्ध्वां दिश॒मनु॒ व्यऽचलत्॥४॥ तमृ॒तं च॑ स॒त्यं च॒ सूर्य॑श्च च॒न्द्रश्च॒ नक्ष॑त्राणि चानु॒व्यचलन्॥५॥ ऋ॒तस्य॑ च॒ वै स स॒त्यस्य॑ च॒ सूर्य॑स्य च च॒न्द्रस्य॑ च॒ नक्ष॑त्राणां च । प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥६॥ स उत्त॒मां दिश॒मनु॒ व्यऽचलत्॥७॥ तमृच॑श्च॒ सामा॑नि च॒ यजूं॑षि च॒ ब्रह्म॑ चानु॒व्यऽचलन्॥८॥ ऋ॒चां च॒ वै स साम्नां॑ च॒ यजु॑षां च॒ ब्रह्म॑णश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥९॥ स बृ॑ह॒तीं दिश॒मनु॒ व्यऽचलत्॥१०॥ तमि॑तिहा॒सश्च॑ पुरा॒णं च॒ गाथा॑श्च नाराशं॒सीश्चा॑नु॒व्यऽचलन्॥११॥ इ॒ति॒हा॒सस्य॑ च॒ वै स पु॑रा॒णस्य॑ च॒ गाथा॑नां च नाराशं॒सीनां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥१२॥ स प॑र॒मां दिश॒मनु॒ व्यऽचलत्॥१३॥ तमा॑हव॒नीय॑श्च॒ गार्ह॑पत्यश्च दक्षिणा॒ग्निश्च॑ य॒ज्ञश्च॒ यज॑मानश्च प॒शव॑श्चानु॒व्यऽचलन्॥१४॥ आ॒ह॒व॒नीय॑स्य च॒ वै स गार्ह॑पत्यस्य च दक्षिणा॒ग्नेश्च॑ य॒ज्ञस्य॑ च॒ यज॑मानस्य च प॒शूनां च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥१५॥ सोऽना॑दिष्टां॒ दिश॒मनु॒ व्यऽचलत्॥१६॥ तमृ॒तव॑श्चार्त॒वाश्च॒ लोका॑श्च लौ॒क्याश्च॒ मासा॑श्चार्धमा॒साश्चा॑होरा॒त्रे चा॑नु॒व्यऽचलन्॥१७॥ ऋ॒तू॒नां च॒ वै स आ॑र्त॒वानां॑ च॒ लोका॑नां च लौ॒क्यानां॑ च॒ मासा॑नां चार्धमा॒सानां॑ चाहोरा॒त्रयो॑श्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥१८॥ सोऽना॑वृत्तां॒ दिश॒मनु॒ व्यचल॒त् ततो॒ नाव॒र्त्स्यन्न॑मन्यत ॥१९॥ तं दिति॒श्चादि॑ति॒श्चेडा॑ चेन्द्रा॒णी चानु॒व्यऽचलन्॥२०॥ दिते॑श्च॒ वै सोऽदि॑ते॒श्चेडा॑याश्चेन्द्रा॒ण्याश्च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥२१॥ स दिशोऽनु॒ व्यऽचलत् ॥२२॥ तं वि॒राडनु॒ व्यऽचल॒त् सर्वे॑ च दे॒वाः सर्वा॑श्च दे॒वताः॑ ॥२३॥ वि॒राज॑श्च॒ वै स सर्वे॑षां च दे॒वानां॒ सर्वा॑सां च दे॒वतानां प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥२४॥ स सर्वा॑नन्तर्दे॒शाननु॒ व्यऽचलत्॥२५॥ तं प्र॒जाप॑तिश्च परमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चा॑नु॒व्यऽचलन्॥२६॥ प्र॒जाप॑तेश्च॒ वै प॑रमे॒ष्ठिन॑श्च पि॒तुश्च॑ पिताम॒हस्य॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥२६॥
१-५ अथर्वा। अध्यात्मं, व्रात्यः। १ त्रिपदा निचृद् गायत्री; २ एकपदा विराड् बृहती; ३ विराडुष्णिक्; ४ एकपदा गायत्री; ५ पङ्क्तिः। स म॑हि॒मा सद्रु॑र्भू॒त्वान्तं॑ पृथि॒व्या अ॑गच्छ॒त् स स॑मु॒द्रोऽभवत्॥१॥ तं प्र॒जाप॑तिश्च परमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चाप॑श्च श्र॒द्धा च॑ व॒र्षं भू॒त्वानु॒व्यऽवर्तयन्त ॥२॥ ऐन॒मापो॑ गच्छ॒त्यैनं॑ श्र॒द्धा ग॑च्छ॒त्यैनं॑ व॒र्षं ग॑च्छति॒ य ए॒वं वेद॑ ॥३॥ तं श्र॒द्धा च॑ य॒ज्ञश्च॑ लो॒कश्चान्नं॑ चा॒न्नाद्यं॑ च भू॒त्वाभि॑प॒र्याव॑र्तन्त ॥४॥ ऐनं॑ श्र॒द्धा ग॑च्छत्यैनं य॒ज्ञो ग॑च्छ॒त्यैनं॑ लो॒को ग॑च्छ॒त्यैन॒मन्नं॑ गच्छ॒त्यैन॑म॒न्नाद्यं॑ गच्छति॒ य ए॒वं वेद॑ ॥५॥
१-३ अथर्वा। अध्यात्मं, व्रात्यः। १ साम्नी उष्णिक्, २ प्राजापत्याऽनुष्टुप्, ३ आर्ची पङ्क्तिः। सोऽरज्यत॒ ततो॑ राज॒न्योऽजायत ॥१॥ स विशः॒ सब॑न्धू॒नन्न॑म॒न्नाद्य॑म॒भ्युद॑तिष्ठत्॥२॥ वि॒शां च॒ वै स सब॑न्धूनां॒ चान्न॑स्य चा॒न्नाद्य॑स्य च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥३॥
१-३ अथर्वा। अध्यात्मं, व्रात्यः।१ आसुरी जगती, २ आर्ची गायत्री, ३ आर्ची पङ्क्तिः। स विशोऽनु॒ व्यऽचलत्॥१॥ तं स॒भा च॒ समि॑तिश्च॒ सेना॑ च॒ शुरा॑ चानु॒व्यऽचलन्॥२॥ स॒भाया॑श्च॒ वै स समि॑तेश्च॒ सेना॑याश्च॒ सुरा॑याश्च॒ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥३॥
१-११ अथर्वा। अध्यात्मं, व्रात्यः। १ द्विपदा साम्नी बृहती, २ त्रिपदाऽर्ची पङ्क्तिः, ३ द्विपदा प्राजापत्या पङ्क्तिः, ४ त्रिपदा वर्धमाना गायत्री, ५ त्रिपदा साम्नी बृहती, ६,८,१० द्विपदा आसुरी गायत्री, ७, ९ साम्नी उष्णिक्, ११ आसुरी बृहती। तद् यस्यै॒वं वि॒द्वान् व्रात्यो॒ राज्ञोऽति॑थिर्गृ॒हाना॒गच्छे॑त्॥१॥ श्रेयां॑समेनमा॒त्मनो॑ मानये॒त् तथा॑ क्ष॒त्राय॒ ना वृ॑श्चते॒ तथा॑ रा॒ष्ट्राय॒ ना वृ॑श्चते ॥२॥ अतो॒ वै ब्रह्म॑ च क्ष॒त्रं चोद॑तिष्ठतां॒ ते अ॑ब्रूतां॒ कं प्र वि॑शा॒वेति॑ ॥३॥ अतो॒ वै बृह॒स्पति॑मे॒व ब्रह्म॒ प्रा वि॑श॒त्विन्द्रं॑ क्ष॒त्रं तथा॒ वा इति॑ ॥४॥ अतो॒ वै बृह॒स्पति॑मे॒व ब्रह्म॒ प्रावि॑श॒दिन्द्रं॑ क्ष॒त्रम् ॥५॥ इ॒यं वा उ॑ पृथि॒वी बृह॒स्पति॒र्द्यौरे॒वेन्द्रः॑ ॥६॥ अ॒यं वा उ॑ अ॒ग्निर्ब्रह्मा॒सावा॑दि॒त्यः क्ष॒त्रम्॥७॥ ऐनं॒ ब्रह्म॑ गच्छति ब्रह्मवर्च॒सी भ॑वति ॥८॥ यः पृ॑थि॒वीं बृह॒स्पति॑म॒ग्निं ब्रह्म॒ वेद॑ ॥९॥ ऐन॑मिन्द्रि॒यं ग॑च्छतीन्द्रि॒यवा॑न् भवति ॥१०॥ य आ॑दि॒त्यं क्ष॒त्रं दिव॒मिन्द्रं॒ वेद॑ ॥११॥
१-११ अथर्वा। अध्यात्मं, व्रात्यः। १ दैवी पङ्क्तिः, २ द्विपदा पूर्वात्रिष्टुबतिशक्वरी, ३-६, ८, १० निचृदाऽर्ची बृहती (१० भुरिक्), ७,९ द्विपदा प्राजापत्या बृहती, ११ द्विपदाऽर्च्यनुष्टुप्। तद् यस्यै॒वं वि॒द्वान् व्रात्योऽति॑थिर्गृ॒हाना॒गछे॑त्॥१॥ स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द् व्रात्य॒ क्वाऽवात्सी॒र्व्रात्यो॑द॒कं व्रात्य॑ त॒र्पय॑न्तु॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॑स्तु॒ व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॑स्तु॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ ॥२॥ यदे॑न॒माह॒ व्रात्य॒ क्वाऽवात्सी॒रिति॑ प॒थ ए॒व तेन॑ देव॒याना॒नव॑ रुन्द्धे ॥३॥ यदे॑न॒माह॒ व्रात्यो॑द॒कमित्य॒प ए॒व तेनाव॑ रुन्द्धे ॥४॥ यदे॑न॒माह॒ व्रात्य॑ त॒र्पय॒न्त्विति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते ॥५॥ यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॒स्त्विति॑ प्रि॒यमे॒व तेनाव॑ रुन्द्धे ॥६॥ ऐनं॑ प्रि॒यं ग॑च्छति प्रि॒यः प्रि॒यस्य॑ भवति॒ य ए॒वं वेद॑ ॥७॥ यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॒स्त्विति॒ वश॑मे॒व तेनाव॑ रुन्द्धे ॥८॥ ऐनं॒ वशो॑ ग॑च्छति व॒शी व॒शिनां॑ भवति॒ य ए॒वं वेद॑ ॥९॥ यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ निका॒ममे॒व तेनाव॑ रुन्द्धे ॥१०॥ ऐनं॑ निका॒मो ग॑च्छति निका॒मे नि॑का॒मस्य॑ भवति॒ य ए॒वं वेद॑ ॥११॥
१-११ अथर्वा। अध्यात्मं, व्रात्यः। १ त्रिपदा गायत्री, २ प्राजापत्याबृहती, ३-४ भुरिक्प्राजापत्याऽनुष्टुप् (४ साम्नी), ५-६, ९-१० आसुरी गायत्री, ८ विराड् गायत्री, ७,११ त्रिपदा प्राजापत्या त्रिष्टुप्। तद् यस्यै॒वं वि॒द्वान् व्रात्य॒ उद्धृ॑तेष्व॒ग्निष्वधि॑श्रितेऽग्निहो॒त्रेऽति॑थिर्गृ॒हाना॒गच्छे॑त्॥१॥ स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द् व्रात्याति॑ सृज हो॒ष्यामीति॑ ॥२॥ स चा॑तिसृ॒जेज्जु॑हु॒यान्न चा॑तिसृ॒जेन्न जु॑हुयात्॥३॥ स य ए॒वं वि॒दुषा॒ व्रात्ये॒नाति॑सृष्टो जु॒होति॑ ॥४॥ प्र पि॑तृ॒याणं॒ पन्थां॑ जानाति॒ प्र दे॑व॒यान॑म्॥५॥ न दे॒वेष्वा वृ॑श्चते हु॒तम॑स्य भवति ॥६॥ पर्य॑स्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नाति॑सृष्टो जु॒होति॑ ॥७॥ अथ॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नान॑तिसृष्टो जु॒होति॑ ॥८॥ न पि॑तृ॒याणं॒ पन्थां॑ जानाति॒ न दे॑व॒यान॑म्॥९॥ आ दे॒वेषु॑ वृश्चते अहु॒तम॑स्य भवति ॥१०॥ नास्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नान॑तिसृष्टो जु॒होति॑ ॥११॥
१-१४ अथर्वा। अध्यात्मं, व्रात्यः। १ साम्नी उष्णिक्, २ ६ प्राजापत्याऽनुष्टुप्, ३, ५, ७ आसुरी गायत्री, ४, ८ साम्नी बृहती, ९ द्विपदा निचृद्गायत्री, १० द्विपदा विरीड् गायत्री, ११ प्राजापत्या पङ्क्तिः, १२ आसुरी जगती, १३ सतः पङ्क्तिः, १४ अक्षरपङ्क्तिः। तद् यस्यै॒वं वि॒द्वान् व्रात्य॒ एकां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥१॥ ये पृ॑थि॒व्यां पुन्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥२॥ तद् यस्यै॒वं वि॒द्वान् व्रात्यो॑ द्वि॒तीयां॑ रात्रि॒मतिथि॑र्गृ॒हे वस॑ति ॥३॥ ये॒३न्तरि॑क्षे॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥४॥ तद् यस्यै॒वं वि॒द्वान् व्रात्य॑स्तृ॒तीयां॒ रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥५॥ ये दि॒वि पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥६॥ तद् यस्यै॒वं वि॒द्वान् व्रात्य॑श्चतु॒र्थीं रात्रि॒मति॑थिर्गृ॒हे वस॑ति ॥७॥ ये पुण्या॑नां॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥८॥ तद् यस्यै॒वं वि॒द्वान् व्रात्योऽप॑रिमिता॒ रात्री॒रति॑थिर्गृ॒हे वस॑ति ॥९॥ य ए॒वाप॑रिमिताः॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे ॥१०॥ अथ॒ यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गृ॒हाना॒गच्छे॑त्॥११॥ कर्षे॑देनं॒ न चै॑नं कर्षे॑त्॥१२॥ अ॒स्यै दे॒वता॑या उद॒कं या॑चामी॒मां दे॒वतां॑ वासय इ॒मामि॒मां दे॒वतां॒ परि॑ वेवे॒ष्मीत्ये॑नं॒ परि॑ वेविष्यात्॥१३॥ तस्या॑मे॒वास्य॒ तद् दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ॥१४॥
१-२४ अथर्वा। अध्यात्मं, व्रात्यः। १ त्रिपदा अनुष्टुप्, २, ४, ६, ८, १०, १२, १४, १६, १८, २०, २२, २४ द्विपदा आसुरी गायत्री (१२, १४, १६, १८ भुरिक् प्राजापत्या अनुष्टुप्), ३, ९ पुर उष्णिक्, ५ अनुष्टुप्, ७ प्रस्तारपङ्क्तिः, ११ स्वराड् गायत्री, १३ ,१५ आर्ची पङ्क्तिः १९ भुरिङ्नागी गायत्री, २१ प्राजापत्या त्रिष्टुप्। स यत् प्राचीं॒ दिश॒मनु॒ व्यच॑ल॒न्मारु॑तं॒ शर्धो॑ भू॒त्वानु॒व्यचल॒न्मनो॑ऽन्ना॒दं कृ॒त्वा॥१॥ मन॑सान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥२॥ स यद् दक्षि॑णां॒ दिश॒मनु॒ व्यच॑ल॒दिन्द्रो भू॒त्वानु॒व्यऽचल॒द् बल॑मन्ना॒दं कृ॒त्वा॥३॥ बले॑नान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥४॥ स यत् प्र॒तीचीं॒ दिश॒मनु॒ व्यच॑ल॒द् वरु॑णो॒ राजा॑ भू॒त्वानु॒व्यऽचलद॒पोऽन्ना॒दीः कृ॒त्वा॥५॥ अ॒द्भिर॑न्ना॒दिभि॒रन्न॑मत्ति॒ य ए॒वं वेद॑ ॥६॥ स यदुदी॑चीं॒ दिश॒मनु॒ व्यच॑ल॒द् सोमो॒ राजा॑ भू॒त्वानु॒व्यऽचलत् सप्त॒र्षिभि॑र्हु॒त आहु॑तिमन्ना॒दीं कृ॒त्वा॥७॥ आहु॑त्यान्ना॒द्यान्न॑मत्ति॒ य ए॒वं वेद॑ ॥८॥ स यद् ध्रु॒वां दिश॒मनु॒ व्यच॑ल॒द् विष्णु॑र्भू॒त्वानु॒व्यऽचलद् वि॒राज॑मन्ना॒दीं कृ॒त्वा॥९॥ वि॒राजा॑न्ना॒द्यान्न॑मत्ति॒ य ए॒वं वेद॑ ॥१०॥ स यत् प॒शूननु॒ व्यच॑लद् रु॒द्रो भू॒त्वानु॒व्यऽचल॒दोष॑धीरन्ना॒दीः कृ॒त्वा॥११॥ ओष॑धीभिरन्ना॒दीभि॒रन्न॑मत्ति॒ य ए॒वं वेद॑ ॥१२॥ स यत् पि॒तॄननु॒ व्यच॑लद् य॒मो राजा॑ भू॒त्वानु॒व्यऽचलत् स्वधाका॒रम॑न्ना॒दं कृ॒त्वा॥१३॥ स्व॒धा॒का॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥१४॥ स यन्म॑नु॒ष्या॒३ननु॒ व्यच॑लद॒ग्निर्भू॒त्वानु॒व्यऽचलत् स्वाहाका॒रम॑न्ना॒दं कृ॒त्वा॥१५॥ स्वा॒हा॒का॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥१६॥ स यदू॒र्ध्वां दिश॒मनु॒ व्यच॑ल॒द् बृह॒स्पति॑र्भू॒त्वानु॒व्यऽचलद् वषट्का॒रम॑न्ना॒दं कृ॒त्वा॥१७॥ व॒ष॒ट्का॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥१८॥ स यद् दे॒वाननु॒ व्यच॑ल॒दीशा॑नो भू॒त्वानु॒व्यऽचलन्म॒न्युम॑न्ना॒दं कृ॒त्वा॥१९॥ म॒न्युना॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥२०॥ स यत् प्र॒जा अनु॒ व्यच॑लत् प्र॒जाप॑तिर्भू॒त्वानु॒व्यऽचलत् प्रा॒णम॑न्ना॒दं कृत्वा॑॥२१॥ प्रा॒णेना॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥२२॥ स यत् सर्वा॑नन्तर्दे॒शाननु॒ व्यच॑लत् परमे॒ष्ठी भू॒त्वानु॒व्यऽचल॒द् ब्रह्मा॑न्ना॒दं कृ॒त्वा॥२३॥ ब्रह्म॑णान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥२४॥
११-९ अथर्वा। अध्यात्मं, व्रात्यः। १ दैवी पङ्क्तिः, २ आसुरी बृहती, ३, ४, ७-८ प्राजापत्याऽनुष्टुप् (४,७-८ भुरिक्), ५-६ द्विपदा साम्नी बृहती, ९ विराड् गायत्री। तस्य॒ व्रात्य॑स्य ॥१॥ स॒प्त प्रा॒णाः स॒प्तापा॒नाः स॒प्त व्या॒नाः ॥२॥ तस्य॒ व्रात्य॑स्य । योऽस्य प्रथ॒मः प्रा॒ण ऊ॒र्ध्वो नामा॒यं सो अ॒ग्निः ॥३॥ तस्य॒ व्रात्य॑स्य ।योऽस्य द्वि॒तीयः॑ प्रा॒णः प्रौढो॒ नामा॒सौ स आ॑दि॒त्यः ॥४॥ तस्य॒ व्रात्य॑स्य ।योऽस्य तृ॒तीयः॑ प्रा॒णो॒३ऽभ्यूऽढो॒ नामा॒सौ स च॒न्द्रमाः॑ ॥५॥ तस्य॒ व्रात्य॑स्य ।योऽस्य चतु॒र्थः प्रा॒णो वि॒भूर्नामा॒यं स पव॑मानः ॥६॥ तस्य॒ व्रात्य॑स्य ।योऽस्य पञ्च॒मः प्रा॒णो योनि॒र्नाम॒ ता इ॒मा आपः॑ ॥७॥ तस्य॒ व्रात्य॑स्य । योऽस्य ष॒ष्ठः प्रा॒णः प्रि॒यो नाम॒ त इ॒मे प॒शवः॑ ॥८॥ तस्य॒ व्रात्य॑स्य ।योऽस्य सप्त॒मः प्रा॒णोऽप॑रिमितो॒ नाम॒ ता इ॒माः प्र॒जाः ॥९॥
१-७ अथर्वा। अध्यात्मं, व्रात्यः। १,३ साम्नी उष्णिक्, २,४-५ प्राजापत्या उष्णिक्, ६ याजुषी त्रिष्टुप्, ७ आसुरी गायत्री। तस्य॒ व्रात्य॑स्य ।योऽस्य प्रथ॒मोऽपा॒नः सा पौ॑र्णमा॒सी॥१॥ तस्य॒ व्रात्य॑स्य ।योऽस्य द्वि॒तीयो॑ऽपा॒नः साष्ट॑का ॥२॥ तस्य॒ व्रात्य॑स्य ।योऽस्य तृ॒तीयो॑ऽपा॒नः सामा॑वा॒स्या॥३॥ तस्य॒ व्रात्य॑स्य । योऽस्य चतु॒र्थोऽपा॒नः सा श्र॒द्धा॥४॥ तस्य॒ व्रात्य॑स्य । योऽस्य पञ्च॒मोऽपा॒नः सा दी॒क्षा॥५॥ तस्य॒ व्रात्य॑स्य । योऽस्य ष॒ष्ठोऽपा॒नः स य॒ज्ञः ॥६॥ तस्य॒ व्रात्य॑स्य । योऽस्य सप्त॒मोऽपा॒नस्ता इ॒मा दक्षि॑णाः ॥७॥
१-१० अथर्वा। अध्यात्मं, व्रात्यः। १, ५ प्राजापत्या उष्णिक्, २, ७ आसुरी अनुष्टुप्, ३ याजुषी पङ्क्तिः, ४ साम्नी उष्णिक्, ६ याजुषी त्रिष्टुप्, ८ त्रिपदा प्रतिष्ठाऽर्ची पङ्क्तिः, ९ द्विपदा साम्नी त्रिष्टुप्, १० साम्नी अनुष्टुप्। तस्य॒ व्रात्य॑स्य । योऽस्य प्रथ॒मो व्या॒नः सेयं भूमिः॑ ॥१॥ तस्य॒ व्रात्य॑स्य । योऽस्य द्वि॒तीयो॑ व्या॒नस्तद॒न्तरि॑क्षम्॥२॥ तस्य॒ व्रात्य॑स्य । योऽस्य तृ॒तीयो॑ व्या॒नः सा द्यौः ॥३॥ तस्य॒ व्रात्य॑स्य ।योऽस्य चतु॒र्थो व्या॒नस्तानि॒ नक्ष॑त्राणि ॥४॥ तस्य॒ व्रात्य॑स्य । योऽस्य पञ्च॒मो व्या॒नस्त ऋ॒तवः॑ ॥५॥ तस्य॒ व्रात्य॑स्य । योऽस्य ष॒ष्ठो व्या॒नस्त आ॑र्त॒वाः ॥६॥ तस्य॒ व्रात्य॑स्य । योऽस्य सप्त॒मो व्या॒नः स सं॑वत्स॒रः ॥७॥ तस्य॒ व्रात्य॑स्य । स॒मा॒नमर्थं॒ परि॑ यन्ति दे॒वाः सं॑वत्स॒रं वा ए॒तदृ॒तवो॑ऽनु॒परि॑यन्ति॒ व्रात्यं॑ च ॥८॥ तस्य॒ व्रात्य॑स्य । यदा॑दि॒त्यम॑भिसंवि॒शन्त्य॑मावा॒स्यां चै॒व तत् पौ॑र्णमा॒सीं च॑ ॥९॥ तस्य॒ व्रात्य॑स्य । एकं॒ तदे॑षाममृत॒त्वमित्याहु॑तिरे॒व॥१०॥
अध्यात्म-प्रकरणम्। १-५ अथर्वा। अध्यात्मं, व्रात्यः। १ दैवी पङ्क्तिः, २-३ आर्ची बृहती, ४ आर्ची अनुष्टुप्, ५ साम्नी उष्णिक्। तस्य॒ व्रात्य॑स्य ॥१॥ यद॑स्य॒ दक्षि॑ण॒मक्ष्य॒सौ स आ॑दि॒त्यो यद॑स्य स॒व्यमक्ष्य॒सौ स च॒न्द्रमाः॑ ॥२॥ योऽस्य॒ दक्षि॑णः॒ कर्णो॒ऽयं सो अ॒ग्निर्योऽस्य स॒व्यः कर्णो॒ऽयं स पव॑मानः ॥३॥ अ॒हो॒रा॒त्रे नासि॑के॒ दिति॒श्चादि॑तिश्च शीर्षकपा॒ले सं॑वत्स॒रः शिरः॑ ॥४॥ अह्ना॑ प्र॒त्यङ् व्रात्यो॒ रात्र्या॒ प्राङ् नमो॒ व्रात्या॑य ॥५॥
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is Kaanda 15 of the Atharva Veda?
Kaanda 15 of the Atharvaveda (Shaunaka) — the Vratya hymns. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
What is the Atharva Veda?
The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
Offer a Vedic paath or seva in your name
Have a Vedic paath, havan or seva performed in your naam-gotra for peace and blessings. Book a seva, or read on in Sanatan Sahitya.








