About Kaanda 13
Kaanda 13 of the Atharvaveda (Shaunaka) — the Rohita (radiant Sun) hymns. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
How it is read
Kaanda 13 is given below in its original Sanskrit, in accented Devanagari. The Veda is preserved as shruti and recited in svadhyaya; read it reverently, sukta by sukta.
Original Text
The Verses
अध्यात्म-प्रकरणम्। १-६० ब्रह्मा। अध्यात्मं, रोहितादित्यदैवत्यम्, (३ मरुतः, २८-३१ अग्नीः, ३१ बहुदेवताः)। त्रिष्टुप्; ३-५, ९, १२, १५ जगती (१५ अतिजागतगर्भा परा); ८ भुरिक्, १७ पञ्चपदा ककुम्मती जगती; १३ अतिशाक्वरगर्भाऽतिजगती; १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्मा पङ्क्तिः; १८-१९ पञ्चपदा ककुम्मत्यतिजगती (१८ परशाक्वरा भुरिक्, १९ परातिजागता) ; २१ आर्षी निचृद्गायत्री; २२-२३, २७ प्रकृता; २६ विराट् परोष्णिक्; २८-३० (२८ भुरिक्), ३२, ३९-४०, ४५-५६, ५८ अनुष्टुप्; (५२, ५५ पथ्यापङ्क्तिः, ५५ ककुम्मती बृहतीगर्भा,) ; ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती; ३५ उपरिष्टाद्बृहती; ३६ निचृन्महाबृहती; ३७ परशाक्वरा विराडतिजगती; ४२ विराड् जगती; ४३ विराण्महाबृहती, ४४ परोष्णिक्, ५७ ककुम्मती; ५९-६० गायत्री। उ॒देहि॑ वाजि॒न् यो अ॒प्स्व॑१न्तरि॒दं रा॒ष्ट्रं प्र वि॑श सू॒नृता॑वत्। यो रोहि॑तो॒ विश्व॑मि॒दं ज॒जान॒ स त्वा॑ रा॒ष्ट्राय॒ सुभृ॑तं बिभर्तु ॥१॥ उद् वाज॒ आ ग॒न् यो अ॒प्स्व॑१न्तर्विश॒ आ रो॑ह॒ त्वद्यो॑नयो॒ याः । सोमं॒ दधा॑नो॒ऽप ओष॑धी॒र्गाश्च॑तुष्पदो द्वि॒पद॒ आ वे॑शये॒ह॥२॥ यू॒यमु॒ग्रा म॑रुतः पृश्निमातर॒ इन्द्रे॑ण यु॒जा प्र मृ॑णीत॒ शत्रू॑न्। आ वो॒ रोहि॑तः शृणवत् सुदानवस्त्रिष॒प्तासो॑ मरुतः स्वादुसंमुदः॥३॥ रुहो॑ रुरोह॒ रोहि॑त॒ आ रु॑रोह॒ गर्भो॒ जनी॑नां ज॒नुषा॑मु॒पस्थ॑म्। ताभिः॒ संर॑ब्ध॒मन्व॑विन्द॒न् षडु॒र्वीर्गा॒तुं प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाहाः॑ ॥४॥ आ ते॑ रा॒ष्ट्रमि॒ह रोहि॑तोऽहार्षी॒द् व्याऽस्थ॒न्मृधो॒ अभ॑यं ते अभूत्। तस्मै॑ ते॒ द्यावा॑पृथि॒वी रे॒वती॑भिः॒ कामं॑ दुहातामि॒ह शक्व॑रीभिः ॥५॥ रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान॒ तत्र॒ तन्तुं॑ परमे॒ष्ठी त॑तान । तत्र॑ शिश्रिये॒ऽज एक॑पा॒दोऽदृं॑ह॒द् द्यावा॑पृथि॒वी बले॑न ॥६॥ रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृंह॒त् तेन॒ स्वऽ स्तभि॒तं तेन॒ नाकः॑ । तेना॒न्तरि॑क्षं॒ विमि॑ता॒ रजां॑सि॒ तेन॑ दे॒वा अ॒मृत॒मन्व॑विन्दन्॥७॥ वि रोहि॑तो अमृशद् वि॒श्वरू॑पं समाकुर्वा॒णः प्र॒रुहो॒ रुह॑श्च । दिवं॑ रू॒ढ्वा म॑ह॒ता म॑हि॒म्ना सं ते॑ रा॒ष्ट्रम॑नक्तु॒ पय॑सा घृ॒तेन॑ ॥८॥ यास्ते॒ रुहः॑ प्र॒रुहो॒ यास्त॑ आ॒रुहो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्। तासां॒ ब्रह्म॑णा॒ पय॑सा ववृधा॒नो वि॒शि रा॒ष्ट्रे जा॑गृहि॒ रोहि॑तस्य ॥९॥ यस्ते॒ विश॒स्तप॑सः संबभू॒वुर्व॒त्सं गा॑य॒त्रीमनु॒ ता इ॒हागुः॑ । तास्त्वा वि॑शन्तु॒ मन॑सा शि॒वेन॒ संमा॑ता व॒त्सो अ॒भ्येऽतु॒ रोहि॑तः ॥१०॥ ऊ॒र्ध्वो रोहि॑तो॒ अधि॒ नाके॑ अस्था॒द् विश्वा॑ रू॒पाणि॑ ज॒नय॒न् युवा॑ क॒विः । ति॒ग्मेना॒ग्निर्ज्योति॑षा॒ वि भा॑ति तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥११॥ स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दा घृ॒ताहु॑तः॒ सोम॑पृष्ठः सु॒वीरः॑ । मा मा॑ हासीन्नाथि॒तो नेत् त्वा॒ जहा॑नि गोपो॒षं च॑ मे वीरपो॒षं च॑ धेहि ॥१२॥ रोहि॑तो य॒ज्ञस्य॑ जनि॒ता मुखं॑ च॒ रोहि॑ताय वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि । रोहि॑तं दे॒वा य॑न्ति सुमन॒स्यमा॑नाः॒ स मा॒ रोहैः॑ सामि॒त्यै रो॑हयतु ॥१३॥ रोहि॑तो य॒ज्ञं व्यदधाद् वि॒श्वक॑र्मणे॒ तस्मा॒त् तेजां॒स्युप॑ मे॒मान्यागुः॑ । वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ॥१४॥ आ त्वा॑ रुरोह बृह॒त्यू३त प॒ङ्क्तिरा क॒कुब् वर्च॑सा जातवेदः । आ त्वा॑ रुरोहोष्णिहाक्ष॒रो व॑षट्का॒र आ त्वा॑ रुरोह॒ रोहि॑तो॒ रेत॑सा स॒ह॥१५॥ अ॒यं व॑स्ते॒ गर्भं॑ पृथि॒व्या दिवं॑ वस्ते॒ऽयम॒न्तरि॑क्षम्। अ॒यं ब्र॒ध्नस्य॑ वि॒ष्टपि॒ स्वर्लो॒कान् व्याऽनशे ॥१६॥ वाच॑स्पते पृथि॒वी नः॑ स्यो॒ना स्यो॒ना योनि॒स्तल्पा॑ नः सु॒शेवा॑ । इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न् पर्य॒ग्निरायु॑षा॒ वर्च॑सा दधातु ॥१७॥ वाच॑स्पत ऋ॒तवः॒ पञ्च॒ ये नौ॑ वैश्वकर्म॒णाः परि॒ ये सं॑बभू॒वुः । इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न् परि॒ रोहि॑त॒ आयु॑षा॒ वर्च॑सा दधातु ॥१८॥ वाच॑स्पते सौमन॒सं मन॑श्च गो॒ष्ठे नो॒ गा ज॒नय॒ योनि॑षु प्र॒जाः । इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न् पर्य॒हमायु॑षा॒ वर्च॑सा दधातु ॥१९॥ परि॑ त्वा धात् सवि॒ता दे॒वो अ॒ग्निर्वर्च॑सा मि॒त्रावरु॑णाव॒भि त्वा॑ । सर्वा॒ अरा॑तीरव॒क्राम॒न्नेही॒दं रा॒ष्ट्रम॑करः सु॒नृता॑वत्॥२०॥ यं त्वा॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति रोहित । शु॒भा या॑सि रि॒णन्न॒पः ॥२१॥ अनु॑व्रता॒ रोहि॑णी॒ रोहि॑तस्य सू॒रिः सु॒वर्णा॑ बृह॒ती सु॒वर्चाः॑ । तया॒ वाजा॑न् वि॒श्वरू॑पां जयेम॒ तया॒ विश्वाः॒ पृत॑ना अ॒भि ष्या॑म ॥२२॥ इ॒दं सदो॒ रोहि॑णी॒ रोहि॑तस्या॒सौ पन्थाः॒ पृष॑ती॒ येन॒ याति॑ । तां ग॑न्ध॒र्वाः क॒श्यपा॒ उन्न॑यन्ति॒ तां र॑क्षन्ति क॒वयोऽप्र॑मादम्॥२३॥ सूर्य॒स्याश्वा॒ हर॑यः केतु॒मन्तः॒ सदा॑ वहन्त्य॒मृताः॑ सु॒खं रथ॑म्। घृ॒त॒पावा॒ रोहि॑तो॒ भ्राज॑मानो॒ दिवं॑ दे॒वः पृष॑ती॒मा वि॑वेश ॥२४॥ यो रोहि॑तो वृष॒भस्ति॒ग्मशृ॑ङ्गः॒ पर्य॒ग्निं परि॒ सूर्यं॑ ब॒भूव॑ । यो वि॑ष्ट॒भ्नाति॑ पृथि॒वीं दिवं॑ च॒ तस्मा॑द् दे॒वा अधि॒ सृष्टीः॑ सृजन्ते ॥२५॥ रोहि॑तो॒ दिव॒मारु॑हन्मह॒तः पर्य॑र्ण॒वात्। सर्वा॑ रुरोह॒ रोहि॑तो॒ रुहः॑ ॥२६॥ वि मि॑मीष्व॒ पय॑स्वतीं घृ॒ताचीं॑ दे॒वानां॑ धे॒नुरन॑पस्पृगे॒षा। इन्द्रः॒ सोमं॑ पिबतु॒ क्षेमो॑ अस्त्व॒ग्निः प्र स्तौ॑तु॒ वि मृधो॑ नुदस्व ॥२७॥ समि॑द्धो अ॒ग्निः स॑मिधा॒नो घृ॒तवृ॑द्धो घृ॒ताहु॑तः । अ॒भी॒षाड् वि॑श्वा॒षाड॒ग्निः स॒पत्ना॑न् हन्तु॒ ये मम॑ ॥२८॥ हन्त्वे॑ना॒न् प्र द॑ह॒त्वरि॒र्यो नः॑ पृत॒न्यति॑ । क्र॒व्यादा॒ग्निना॑ व॒यं स॒पत्ना॒न् प्र द॑हामसि ॥२९॥ अ॒वा॒चीना॒नव॑ ज॒हीन्द्र॒ वज्रे॑ण बाहु॒मान्। अधा॑ स॒पत्ना॒न् माम॒कान॒ग्नेस्तेजो॑भि॒रादि॑षि ॥३०॥ अग्ने॑ स॒पत्ना॒नध॑रान् पादया॒स्मद् व्य॒थया॑ सजा॒तमु॒त्पिपा॑नं बृहस्पते । इन्द्रा॑ग्नी॒ मित्रा॑वरुणा॒वध॑रे पद्यन्ता॒मप्र॑तिमन्यूयमानाः ॥३१॥ उ॒द्यंस्त्वं दे॑व सूर्य स॒पत्ना॒नव॑ मे जहि । अवै॑ना॒नश्म॑ना जहि॒ ते य॑न्त्वध॒मं तमः॑ ॥३२॥ व॒त्सो वि॒राजो॑ वृष॒भो म॑ती॒नामा रु॑रोह शु॒क्रपृ॑ष्ठो॒ऽन्तरि॑क्षम्। घृ॒तेना॒र्कम॒भ्यऽर्चन्ति व॒त्सं ब्रह्म॒ सन्तं॒ ब्रह्म॑णा वर्धयन्ति ॥३३॥ दिवं॑ च॒ रो॑ह पृथि॒वीं च॑ रोह रा॒ष्ट्रं च॒ रोह॒ द्रवि॑णं च रोह । प्र॒जां च॒ रोहा॒मृतं॑ च रोह॒ रोहि॑तेन त॒न्वं॑१ सं स्पृ॑शस्व ॥३४॥ ये दे॒वा रा॑ष्ट्रभृतो॒ऽभितो॒ यन्ति॒ सूर्य॑म्। तैष्टे॒ रोहि॑तः संविदा॒नो रा॒ष्ट्रं द॑धातु सुमन॒स्यमा॑नः ॥३५॥ उत् त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति । ति॒रः स॑मु॒द्रमति॑ रोचसेऽर्ण॒वम्॥३६॥ रोहि॑ते॒ द्यावा॑पृथि॒वी अधि॑ श्रि॒ते व॑सु॒जिति॑ गो॒जिति॑ संधना॒जिति॑ । स॒हस्रं॒ यस्य॒ जनि॑मानि स॒प्त च॑ वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ॥३७॥ य॒शा या॑सि प्र॒दिशो॑ दिश॑श्च य॒शाः प॑शू॒नामु॒त च॑र्षणी॒नाम्। य॒शाः पृ॑थि॒व्या अदि॑त्या उ॒पस्थे॒ऽहं भू॑यासं सवि॒तेव॒ चारुः॑ ॥३८॥ अ॒मुत्र॒ सन्नि॒ह वे॑त्थे॒तः संस्तानि॑ पश्यसि । इ॒तः प॑श्यन्ति रोच॒नं दि॒वि सूर्यं॑ विप॒श्चित॑म्॥३९॥ दे॒वो दे॒वान् म॑र्चयस्य॒न्तश्च॑रस्यर्ण॒वे। स॒मा॒नम॒ग्निमि॑न्धते॒ तं वि॑दुः क॒वयः॒ परे॑ ॥४०॥ अ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिब्र॑ती॒ गौरुद॑स्थात्। सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त् क्वऽस्वित् सूते न॒हि यू॒थे अ॒स्मिन्॥४१॥ एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पद्य॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ । स॒हस्रा॑क्षरा॒ भुव॑नस्य प॒ङ्क्तिस्तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति ॥४२॥ आ॒रोह॒न् द्याम॒मृतः॒ प्राव॑ मे॒ वचः॑ । उत् त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति ॥४३॥ वेद॒ तत् ते अमर्त्य॒ यत् त॑ आ॒क्रम॑णं दि॒वि। यत् ते॑ स॒धस्थं॑ पर॒मे व्योऽमन्॥४४॥ सूर्यो॒ द्यां सूर्यः॑ पृथि॒वीं सूर्य॒ आपोऽति॑ पश्यति । सूर्यो॑ भू॒तस्यैकं॒ चक्षु॒रा रु॑रोह॒ दिवं॑ म॒हीम्॥४५॥ उ॒र्वीरा॑सन् परि॒धयो॒ वेदि॒र्भूमि॑रकल्पत । तत्रै॒ताव॒ग्नी आध॑त्त हि॒मं घ्रं॒सं च॒ रोहि॑तः ॥४६॥ हि॒मं घ्रं॒सं चा॒धाय॒ यूपा॑न् कृ॒त्वा पर्व॑तान्। व॒र्षाज्या॑व॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥४७॥ स्व॒र्विदो॒ रोहि॑तस्य॒ ब्रह्म॑णा॒ग्निः समि॑ध्यते । तस्मा॑द् घ्रं॒सस्तस्मा॑द्धि॒मस्तस्मा॑द् य॒ज्ञोऽजायत ॥४८॥ ब्रह्म॑णा॒ग्नी वा॑वृधा॒नौ ब्रह्म॑वृद्धौ॒ ब्रह्मा॑हुतौ । ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥४९॥ स॒त्ये अ॒न्यः स॒माहि॑तो॒ऽप्स्व॑१न्यः समि॑ध्यते । ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥५०॥ यं वातः॑ परि॒ शुम्भ॑ति॒ यं वेन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑ । ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥५१॥ वेदिं॒ भूमिं॑ कल्पयि॒त्वा दिवं॑ कृ॒त्वा दक्षि॑णाम्। घ्रं॒सं तद॒ग्निं कृ॒त्वा च॒कार॒ विश्व॑मात्म॒न्वद् व॒र्षेणाज्ये॑न॒ रोहि॑तः ॥५२॥ व॒र्षमाज्यं॑ घ्रं॒सो अ॒ग्निर्वेदि॒र्भूमि॑रकल्पत । तत्रै॒वान् पर्व॑तान॒ग्निर्गी॒र्भिरू॒र्ध्वाँ अ॑कल्पयत्॥५३॥ गी॒र्भिरू॒र्ध्वान् क॑ल्पयि॒त्वा रोहि॑तो॒ भूमि॑मब्रवीत्। त्वयी॒दं सर्वं॑ जायतां॒ यद् भू॒तं यच्च॑ भा॒व्यऽम्॥५४॥ स य॒ज्ञः प्र॑थ॒मो भू॒तो भव्यो॑ अजायत । तस्मा॑द्ध जज्ञ इ॒दं सर्वं॒ यत् किं चे॒दं वि॒रोच॑ते॒ रोहि॑तेन॒ ऋषि॒णाभृ॑तम्॥५५॥ यश्च॒ गां प॒दा स्फु॒रति॑ प्र॒त्यङ् सूर्यं॑ च॒ मेह॑ति । तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोऽप॑रम्॥५६॥ यो मा॑भिच्छा॒यम॒त्येषि॒ मां चा॒ग्निं चा॑न्त॒रा। तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोऽप॑रम्॥५७॥ यो अ॒द्य दे॑व सूर्य॒ त्वां च॒ मां चा॑न्त॒राय॑ति । दु॒ष्वप्न्यं॒ तस्मिं॒छम॑लं दुरि॒तानि॑ च मृज्महे ॥५८॥ मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिनः॑ । मान्त स्थु॑र्नो॒ अरा॑तयः ॥५९॥ यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः । तमाहु॑तमशीमहि ॥६०॥
अध्यात्मम्। १-४६ ब्रह्म। अध्यात्मं, रोहितादित्यदैवत्यम्। त्रिष्टुप्; १, १२-१५, ३९-४१ अनुष्टुप्; २-३,८,४३ जगती; १० आस्तारपङ्क्तिः; ११ बृहतीगर्भा; १६-२४ आर्षी गायत्री; २५ ककुम्मत्यास्तारपङ्क्तिः; २६पुरोद्व्यतिजागता भुरिग्जगती; २७ विराड् जगती; २९ बार्हतगर्भाऽनुष्टुप्; ३० पञ्चपदोष्णिग्बृहतीगर्भाऽतिजगती; ३४ आर्षी पङ्क्तिः; ३७ पञ्चपदा विराड्-गर्भा जगता; ४४-४५ जगती (४४ चतुष्पदा पुरःशाक्वरा भुरिक्; ४५ अतिजागतगर्भा)। उद॑स्य के॒तवो॑ दि॒वि शु॒क्रा भ्राज॑न्त ईरते । आ॒दि॒त्यस्य॑ नृ॒चक्ष॑सा॒ महि॑व्रतस्य मी॒ढुषः॑ ॥१॥ दि॒शां प्र॒ज्ञानां॑ स्व॒रय॑न्तम॒र्चिषा॑ सुप॒क्षमा॒शुं प॒तय॑न्तमर्ण॒वे। स्तवा॑म सूर्यं॒ भुव॑नस्य गो॒पां यो र॒श्मिभि॒र्दिश॑ आ॒भाति॒ सर्वाः॑ ॥२॥ यत् प्राङ् प्र॒त्यङ् स्व॒धया॒ यासि॒ शीभं॒ नाना॑रूपे॒ अह॑नी॒ कर्षि॑ मा॒यया॑ । तदा॑दित्य॒ महि॒ तत् ते॒ महि॒ श्रवो॒ यदेको॒ विश्वं॒ परि॒ भूम॒ जाय॑से ॥३॥ वि॒प॒श्चितं॑ त॒रणिं॒ भ्राज॑मानं॒ वह॑न्ति॒ यं ह॒रितः॑ स॒प्त ब॒ह्वीः । स्रु॒ताद् यमत्त्रि॒र्दिव॑मुन्नि॒नाय॒ तं त्वा॑ पश्यन्ति परि॒यान्त॑मा॒जिम्॥४॥ मा त्वा॑ दभन् परि॒यान्त॑मा॒जिं स्व॒स्ति दु॒र्गां अति॑ याहि॒ शीभ॑म्। दिवं॑ च सूर्य पृथि॒वीं च॑ दे॒वी म॑होरा॒त्रे वि॒मिमा॑नो॒ यदेषि॑ ॥५॥ स्व॒स्ति ते॑ सूर्य च॒रसे॒ रथा॑य॒ येनो॒भावन्तौ॑ परि॒यासि॑ स॒द्यः । यं ते॒ वह॑न्ति ह॒रितो॒ वहि॑ष्ठाः श॒तमश्वा॒ यदि॑ वा स॒प्त ब॒ह्वीः ॥६॥ सु॒खं सूर्य॒ रथ॑मंशु॒मन्तं॑ स्यो॒नं सु॒वह्नि॒मधि॑ तिष्ठ वा॒जिन॑म्। यं ते॒ वह॑न्ति ह॒रितो॒ वहि॑ष्ठाः श॒तमश्वा॒ यदि॑ वा स॒प्त ब॒ह्वीः ॥७॥ स॒प्त सूर्यो॑ ह॒रितो॑ यात॑वे॒ रथे॒ हिर॑ण्यत्वचसो बृह॒तीर॑युक्त । अमो॑चि शु॒क्रो रज॑सः प॒रस्ता॑द् वि॒धूय॑ दे॒वस्तमो॒ दिव॒मारु॑हत्॥८॥ उत् के॒तुना॑ बृह॒ता दे॒व आग॒न्नपा॑वृ॒क् तमो॒ऽभि ज्योति॑रश्रैत्। दि॒व्यः सु॑प॒र्णः स वी॒रो व्यऽख्य॒ददि॑तेः पु॒त्रो भुव॑नानि॒ विश्वा॑ ॥९॥ उ॒द्यन् र॒श्मीना त॑नुषे॒ विश्वा॑ रु॒पाणि॑ पुष्यसि । उ॒भा स॑मु॒द्रौ क्रतु॑ना॒ वि भा॑सि॒ सर्वां॑ल्लो॒कान् प॑रि॒भूर्भ्राज॑मानः ॥१०॥ पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीड॑न्तौ॒ परि॑ यातोऽर्ण॒वम्। विश्वा॒न्यो भुव॑ना वि॒चष्टे॑ हैर॒ण्यैर॒न्यं ह॒रितो॑ वहन्ति ॥११॥ दि॒वि त्वात्त्रि॑रधारय॒त् सूर्या॒ मासा॑य॒ कर्त॑वे । स ए॑षि॒ सुधृ॑त॒स्तप॒न् विश्वा॑ भू॒ताव॒चाक॑शत्॥१२॥ उ॒भावन्तौ॒ सम॑र्षसि व॒त्सः सं॑मा॒तरा॑विव । न॒न्वे॒३तदि॒तः पु॒रा ब्रह्म॑ दे॒वा अ॒मी वि॑दुः ॥१३॥ यत् स॑मु॒द्रमनु॑ श्रि॒तं तत् सि॑षासति॒ सूर्यः॑ । अध्वा॑स्य॒ वित॑तो म॒हान् पूर्व॒श्चाप॑रश्च॒ यः ॥१४॥ तं समा॑प्नोति जू॒तिभि॒स्ततो॒ नाप॑ चिकित्सति । तेना॒मृत॑स्य भ॒क्षं दे॒वानां॒ नाव॑ रुन्धते ॥१५॥ उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म्॥१६॥ अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ । सूरा॑य वि॒श्वच॑क्षसे ॥१७॥ अदृ॑श्रन्नस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥१८॥ त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोचन ॥१९॥ प्र॒त्यङ् दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षीः । प्र॒त्यङ् विश्वं॒ स्वर्दृ॒शे॥२०॥ येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ । त्वं व॑रुण॒ पश्य॑सि ॥२१॥ वि द्यामे॑षि॒ रज॑स्पृ॒थ्वह॒र्मिमा॑नो अ॒क्तुभिः॑ । पश्य॒न् जन्मा॑नि सूर्य ॥२२॥ स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शं विचक्ष॒णम्॥२३॥ अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः । ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥२४॥ रोहि॑तो॒ दिव॒मारु॑ह॒त् तप॑सा तप॒स्वी। स योनि॒मैति॒ स उ॑ जायते॒ पुनः॒ स दे॒वाना॒मधि॑पतिर्बभूव ॥२५॥ यो वि॒श्वच॑र्षणिरु॒त वि॒श्वतो॑मुखो॒ यो वि॒श्वत॑स्पाणिरु॒त वि॒श्वत॑स्पृथः । सं बा॒हुभ्यां॒ भर॑ति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न् दे॒व एकः॑ ॥२६॥ एक॑पा॒द् द्विप॑दो॒ भूयो॒ वि च॑क्रमे॒ द्विपा॒त् त्रिपा॑दम॒भ्येऽति प॒श्चात्। द्विपा॑द्ध॒ षट्प॑दो॒ भूयो॒ वि च॑क्रमे॒ त एक॑पदस्त॒न्वं॑१ समा॑सते ॥२७॥ अत॑न्द्रो या॒स्यन् ह॒रितो॒ यदास्था॒द् द्वे रू॒पे कृ॑णुते॒ रोच॑मानः । के॒तु॒मानु॒द्यन्त्सह॑मानो॒ रजां॑सि॒ विश्वा॑ आदित्य प्र॒वतो॒ वि भा॑सि ॥२८॥ बण्म॒हां अ॑सि सूर्य॒ बडा॑दित्य म॒हां अ॑सि । म॒हांस्ते॑ मह॒तो म॑हि॒मा त्वमा॑दित्य म॒हां अ॑सि ॥२९॥ रोच॑से दि॒वि रोच॑से अ॒न्तरि॑क्षे॒ पत॑ङ्ग पृथि॒व्यां रोच॑से॒ रोच॑से अ॒प्स्व॑१न्तः । उ॒भा स॑मु॒द्रौ रुच्या॒ व्याऽपिथ दे॒वो दे॑वासि महि॒षः स्व॒र्जित्॥३०॥ अ॒र्वाङ् प॒रस्ता॒त् प्रय॑तो व्य॒ध्व आ॒शुर्वि॑प॒श्चित् प॒तय॑न् पत॒ङ्गः । विष्णु॒र्विचि॑त्तः॒ शव॑साधि॒तिष्ठ॒न् प्र के॒तुना॑ सहते॒ विश्व॒मेज॑त्॥३१॥ चि॒त्रश्चि॑कि॒त्वान् म॑हि॒षः सु॑प॒र्ण आ॑रो॒चय॒न् रोद॑सी अ॒न्तरि॑क्षम्। अ॒हो॒रा॒त्रे परि॒ सूर्यं॒ वसा॑ने॒ प्रास्य॒ विश्वा॑ तिरतो वी॒र्याऽणि ॥३२॥ ति॒ग्मो वि॒भ्राज॑न् त॒न्वं॑१ शिशा॑नोऽरंग॒मासः॑ प्र॒वतो॒ ररा॑णः । ज्योति॑ष्मान् प॒क्षी म॑हि॒षो व॑यो॒धा विश्वा॒ आस्था॑त् प्र॒दिशः॒ कल्प॑मानः ॥३३॥ चि॒त्रं दे॒वानां॑ के॒तुरनी॑कं॒ ज्योति॑ष्मान् प्र॒दिशः॒ सूर्य॑ उ॒द्यन्। दि॒वा॒क॒रोऽति॑ द्यु॒म्नैस्तमां॑सि॒ विश्वा॑तारीद् दुरि॒तानि॑ शु॒क्रः ॥३४॥ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒द् द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥३५॥ उ॒च्चा पत॑न्तमरु॒णं सु॑प॒र्णं मध्ये॑ दि॒वस्त॒रणिं॒ भ्राज॑मानम्। पश्या॑म त्वा सवि॒तारं॒ यमा॒हुरज॑स्रं॒ ज्योति॒र्यदवि॑न्द॒दत्त्रिः॑ ॥३६॥ दि॒वस्पृ॒ष्ठे धाव॑मानं सुप॒र्णमदि॑त्याः पु॒त्रं ना॒थका॑म॒ उप॑ यामि भी॒तः । स नः॑ सूर्य॒ प्र ति॑र दी॒र्घमायु॒र्मा रि॑षाम सुम॒तौ ते॑ स्याम ॥३७॥ स॒ह॒स्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्। स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न् याति॒ भुव॑नानि॒ विश्वा॑ ॥३८॥ रोहि॑तः का॒लो अ॑भव॒द् रोहि॒तोऽग्रे॑ प्र॒जाप॑तिः । रोहि॑तो य॒ज्ञानां॒ मुखं॒ रोहि॑तः॒ स्व॑१राभ॑रत्॥३९॥ रोहि॑तो लो॒को अ॑भव॒द् रोहि॒तोऽत्य॑तप॒द् दिव॑म्। रोहि॑तो र॒श्मिभि॒र्भूमिं॑ समु॒द्रमनु॒ सं च॑रत्॥४०॥ सर्वा॒ दिशः॒ सम॑चर॒द् रोहि॒तोऽधि॑पतिर्दि॒वः । दिवं॑ समु॒द्रमाद् भूमिं॒ सर्वं॑ भू॒तं वि र॑क्षति ॥४१॥ आ॒रोह॑न्छु॒क्रो बृ॑ह॒तीरत॑न्द्रो॒ द्वे रू॒पे कृ॑णुते॒ रोच॑मानः । चि॒त्रश्चि॑कि॒त्वान् म॑हि॒षो वात॑माया॒ याव॑तो लो॒कान॒भि यद् वि॒भाति॑ ॥४२॥ अ॒भ्य॑१न्यदे॑ति॒ पर्य॒न्यद॑स्यतेऽहोरा॒त्राभ्यां॑ महि॒षः कल्प॑मानः । सूर्यं॑ व॒यं रज॑सि क्षि॒यन्तं॑ गातु॒विदं॑ हवामहे॒ नाध॑मानाः ॥४३॥ पृ॒थि॒वी॒प्रो म॑हि॒षो नाध॑मानस्य गा॒तुरद॑ब्धचक्षुः॒ परि॒ विश्वं॑ ब॒भूव॑ । विश्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि ॥४४॥ पर्य॑स्य महि॒मा पृ॑थि॒वीं स॑मु॒द्रं ज्योति॑षा वि॒भ्राज॒न् परि॒ द्याम॒न्तरि॑क्षम्। सर्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि ॥४५॥ अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म्। य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥४६॥
अध्यात्मम्। १-२६ ब्रह्मा। अध्यात्मम्, रोहितादित्यदैवत्म्। त्रिष्टुप्; १ चतुरवसानाऽष्टपदाऽकृतिः; २-४ त्र्यव॰ षट्-पदा (२-३ अष्टिः, २ भुरिक् ४ अतिशाक्वरगर्भा धृतिः) ; ५-७ चतुर॰ सप्तपदा (५-६ शाक्वरातिशाक्वरगर्भा प्रकृतिः; ७ अनुष्टुब्गर्भाऽतिधृतिः) ; ८ त्र्यव॰ षट्प॰ अत्यष्टिः; ९-१९ चतुरव॰ (९-१२, १५, १७ सप्तपदा भुरिगतिधृतिः; १५ निचृत्, १७ कृतिः, १३-१४,१६,१८-१९ अष्टपदा (१३-१४ विकृतिः, १६, १८-१९ आकृतिः, १९ भुरिक्) ; २०, २२ त्र्यव॰ षट्प॰ अत्यष्टिः; २१, २३-२५ चतुरव॰ अष्टपदा (२४ सप्तपदा कृतिः, २३,२५ विकृतिः)। य इ॒मे द्यावा॑पृथि॒वी ज॒जान॒ यो द्रापिं॑ कृ॒त्वा भुव॑नानि॒ वस्ते॑ । यस्मि॑न् क्षि॒यन्ति॑ प्र॒दिशः॒ षडु॒र्वीर्याः प॑त॒ङ्गो अनु॑ वि॒चाक॑शीति॒ तस्य॑ दे॒वस्य॑। क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥१॥ यस्मा॒द् वाता॑ ऋतु॒था पव॑न्ते॒ यस्मा॑त् समु॒द्रा अधि॑ वि॒क्षर॑न्ति॒ तस्य॑ दे॒वस्य॑। क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥२॥ यो मा॒रय॑ति प्रा॒णय॑ति॒ यस्मा॑त् प्रा॒णन्ति॒ भुव॑नानि॒ विश्वा॒ तस्य॑ दे॒वस्य॑। क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥३॥ यः प्रा॒णेन॒ द्यावा॑पृथि॒वी त॒र्पय॑त्यपा॒नेन॑ समु॒द्रस्य॑ ज॒ठरं॒ यः पिप॑र्ति॒ तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥४॥ यस्मि॑न् विराट् प॑रमे॒ष्ठी प्र॒जाप॑तिर॒ग्निर्वै॑श्वान॒रः स॒ह प॒ङ्क्त्या श्रि॒तः । यः पर॑स्य प्रा॒णं प॑र॒मस्य॒ तेज॑ आद॒दे तस्य॑ दे॒वस्य॑। क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥५॥ यस्मि॒न् षडु॒र्वीः पञ्च॒ दिशो॒ अधि॑ श्रि॒ताश्चत॑स्र॒ आपो॑ य॒ज्ञस्य॒ त्रयो॒ऽक्षराः॑ । यो अ॑न्त॒रा रोद॑सी क्रु॒द्धश्चक्षु॒षैक्ष॑त॒ तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥६॥ यो अ॑न्ना॒दो अन्न॑पतिर्ब॒भूव॒ ब्रह्म॑ण॒स्पति॑रु॒त यः । भू॒तो भ॑वि॒ष्यद् भुव॑नस्य॒ यस्पति॒स्तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥७॥ अ॒हो॒रा॒त्रैर्विमि॑तं त्रिं॒शद॑ङ्गं त्रयोद॒शं मासं॒ यो नि॒र्मिमी॑ते॒ तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥८॥ कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत् पत॑न्ति । त आव॑वृत्र॒न्त्सद॑नादृ॒तस्य॒ तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वेपय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥९॥ यत् ते॑ च॒न्द्रं क॑श्यप रोच॒नाव॒द् यत् सं॑हि॒तं पु॑ष्क॒लं चि॒त्रभा॑नु। यस्मि॒न्त्सूर्या॒ आर्पि॑ताः स॒प्त सा॒कं तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥१०॥ बृ॒हदे॑न॒मनु॑ वस्ते पु॒रस्ता॑द् रथंत॒रं प्रति॑ गृह्णाति प॒श्चात्। ज्योति॒र्वसा॑ने॒ सद॒मप्र॑मा॒दं तस्य॑ दे॒वस्य॑। क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥११॥ बृ॒हद॒न्यतः॑ प॒क्ष आसी॑द् रथंत॒रम॒न्यतः॒ सब॑ले स॒ध्रीची॑ । यद् रोहि॑त॒मज॑नयन्त दे॒वास्तस्य॑ दे॒वस्य॑। क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥१२॥ स वरु॑णः सा॒यम॒ग्निर्भ॑वति॒ स मि॒त्रो भ॑वति प्रा॒तरु॒द्यन्। स स॑वि॒ता भू॒त्वान्तरि॑क्षेण याति॒ स इन्द्रो॑ भू॒त्वा त॑पति मध्य॒तो दिवं॒ तस्य॑ दे॒वस्य॑। क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥१३॥ स॒ह॒स्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्। स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न् याति॒ भुव॑नानि॒ विश्वा॒ तस्य॑ दे॒वस्य॑। क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥१४॥ अ॒यं स दे॒वो अ॒प्स्व॑१न्तः स॒हस्र॑मूलः पुरु॒शाको॒ अत्त्रिः॑ । य इ॒दं विश्वं॒ भुव॑नं ज॒जान॒ तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥१५॥ शु॒क्रं व॑हन्ति॒ हर॑यो रघु॒ष्यदो॑ दे॒वं दि॒वि वर्च॑सा॒ भ्राज॑मानम्। यस्यो॒र्ध्वा दिवं॑ त॒न्व॑१स्तप॑न्त्य॒र्वाङ् सु॒वर्णैः॑ पट॒रैर्वि भा॑ति॒ तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥१६॥ येना॑दि॒त्यान् ह॒रितः॑ स॒म्वह॑न्ति॒ येन॑ य॒ज्ञेन॑ ब॒हवो॒ यन्ति॑ प्रजा॒नन्तः॑ । यदेकं॒ ज्योति॑र्बहु॒धा वि॒भाति॒ तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥१७॥ स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा । त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुस्तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥१८॥ अ॒ष्ट॒धा यु॒क्तो व॑हति॒ वह्नि॑रु॒ग्रः पि॒ता दे॒वानां॑ जनि॒ता म॑ती॒नाम्। ऋ॒तस्य॒ तन्तुं॒ मन॑सा मि॒मानः॒ सर्वा॒ दिशः॑ पवते मात॒रिश्वा॒ तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥१९॥ सं॒यञ्चं॒ तन्तुं॑ प्र॒दिशोऽनु॒ सर्वा॑ अ॒न्तर्गा॑य॒त्र्याम॒मृत॑स्य॒ गर्भे॒ तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥२०॥ नि॒म्रुच॑स्ति॒स्रो व्युषो॑ ह ति॒स्रस्त्रीणि॒ रजां॑सि॒ दिवो॑ अ॒ङ्ग ति॒स्रः । वि॒द्मा ते॑ अग्ने त्रे॒धा ज॒नित्रं॑ त्रे॒धा दे॒वानां॑ जनि॑मानि विद्म॒ तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥२१॥ वि य और्णो॑त् पृथि॒वीं जाय॑मान॒ आ स॑मु॒द्रमदधाद॒न्तरि॑क्षे॒ तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥२२॥ त्वम॑ग्ने॒ क्रतु॑भिः के॒तुभि॑र्हि॒तो॒३र्कः समि॑द्ध॒ उद॑रोचथा दि॒वि। किम॒भ्याऽर्चन् म॒रुतः॒ पृश्नि॑मातरो॒ यद् रोहि॑त॒मज॑नयन्त दे॒वास्तस्य॑ दे॒वस्य॑। क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥२३॥ य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यो॒३स्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पद॒स्तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥२४॥ एक॑पा॒द् द्विप॑दो॒ भूयो॒ वि च॑क्रमे॒ द्विपा॒त् त्रिपा॑दम॒भ्येऽति प॒श्चात्। चतु॑ष्पाच्चक्रे॒ द्विप॑दामभिस्व॒रे सं॒पश्य॑न् प॒ङ्क्तिमु॑प॒तिष्ठमान॒स्तस्य॑ दे॒वस्य॑ । क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑ । उद् वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न्॥२५॥ कृ॒ष्णायाः॑ पु॒त्रो अर्जु॑नो॒ रात्र्या॑ व॒त्सोऽजायत । स ह॒ द्यामधि॑ रोहति॒ रुहो॑ रुरोह॒ रोहि॑तः ॥२६॥
अध्यात्मम्। (१-१३ प्रथमः पर्यायः।) १-११ प्राजापत्याऽनुष्टुप्; १२ विराड् गायत्री; १३आसुरी उष्णिक्। स ए॑ति सवि॒ता स्वऽर्दि॒वस्पृ॒ष्ठेऽव॒चाक॑शत्॥१॥ र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥२॥ स धा॒ता स वि॑ध॒र्ता स वा॒युर्नभ॒ उच्छ्रि॑तम्। र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥३॥ सोऽर्य॒मा स वरु॑णः॒ स रु॒द्रः स म॑हादे॒वः। र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥४॥ सो अ॒ग्निः स उ॒ सूर्यः॒ स उ॑ ए॒व म॑हाय॒मः। र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥५॥ तं व॒त्सा उप॑ तिष्ठ॒न्त्येक॑शीर्षाणो यु॒ता दश॑ । र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥६॥ प॒श्चात् प्राञ्च॒ आ त॑न्वन्ति॒ यदु॒देति॒ वि भा॑सति । र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥७॥ तस्यै॒ष मारु॑तो ग॒णः स ए॑ति शि॒क्याकृ॑तः ॥८॥ र॒श्मिभि॒र्नभ॒ आभृ॑तं महे॒न्द्र ए॒त्यावृ॑तः ॥९॥ तस्ये॒मे नव॒ कोशा॑ विष्ट॒म्भा न॑व॒धा हि॒ताः ॥१०॥ स प्र॒जाभ्यो॒ वि प॑श्यति॒ यच्च॑ प्रा॒णति॒ यच्च॒ न॥११॥ तमि॒दं निग॑तं॒ सहः॒ स ए॒ष एक॑ एक॒वृदेक॑ ए॒व॥१२॥ ए॒ते अ॑स्मिन् दे॒वा ए॑क॒वृतो॑ भवन्ति ॥१३॥
अध्यात्मम्। १४ भुरिक्साम्नी त्रिष्टुप्, १५ आसुरी पङ्क्तिः, १६, १९ प्राजापत्याऽनुष्टुप्, १७-१८ आसुरी गायत्री। की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च ॥१४॥ य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥१५॥ न द्वि॒तीयो॒ न तृ॒तीय॑श्चतु॒र्थो नाप्यु॑च्यते। य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥१६॥ न प॑ञ्च॒मो न षष्ठः स॑प्त॒मो नाप्यु॑च्यते। य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥१७॥ नाष्ट॒मो न न॑व॒मो द॑श॒मो नाप्यु॑च्यते । य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥१८॥ स सर्व॑स्मै॒ वि प॑श्यति॒ यच्च॑ प्रा॒णति॒ यच्च॒ न । य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥१९॥ तमि॒दं निग॑तं॒ सहः॒ स ए॒ष एक॑ एक॒वृदेक॑ ए॒व। य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥२०॥ सर्वे॑ अस्मिन् दे॒वा ए॑क॒वृतो॑ भवन्ति । य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥२१॥
अध्यात्मम्। २२,२४ भुरिक्प्राजापत्या त्रिष्टुप्, २३ आर्ची गायत्री, २५ एकपदाऽसुरी गायत्री, २६ आर्ची अनुष्टुप्, २७-२८ प्राजापत्याऽनुष्टुप्। ब्रह्म॑ च॒ तप॑श्च की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च । य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥२२॥ भू॒तं च॒ भव्यं॑ च श्र॒द्धा च॒ रुचि॑श्च स्व॒र्गश्च॑ स्व॒धा च॑। य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥२३॥ य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ ॥२४॥ स ए॒व मृ॒त्युः सो॒३ऽमृतं॒ सो॒३ऽभ्वं॑१ स रक्षः॑ ॥२५॥ स रु॒द्रो व॑सु॒वनि॑र्वसु॒देये॑ नमोवा॒के व॑षट्का॒रोऽनु॒ संहि॑तः ॥२६॥ तस्ये॒मे सर्वे॑ या॒तव॒ उप॑ प्र॒शिष॑मासते ॥२७॥ तस्या॒मू सर्वा॒ नक्ष॑त्रा॒ वशे॑ च॒न्द्रम॑सा स॒ह॥२८॥
अध्यात्मम्। २९, ३३, ३९-४०, ४५ आसुरी गायत्री, ३०, ३२,३५-३६, ४२ प्राजापत्याऽनुष्टुप्, ३१ विराट् गायत्री, ३४ साम्नी उष्णिक्, ३७-३८ साम्नी उष्णिगनुष्टुप्, ४१ साम्नी बृहती, ४३ आर्षी गायत्री, ४४ साम्नी अनुष्टुप्। स वा अह्नो॑ऽजायत॒ तस्मा॒दह॑रजायत ॥२९॥ स वै रात्र्या॑ अजायत॒ तस्मा॒द् रात्रि॑रजायत ॥३०॥ स वा अ॒न्तरि॑क्षादजायत॒ तस्मा॑द॒न्तरि॑क्षमजायत ॥३१॥ स वै वा॒योर॑जायत॒ तस्मा॑द् वा॒युर॑जायत ॥३२॥ स वै दि॒वोऽजायत॒ तस्मा॒द् द्यौरध्य॑जायत ॥३३॥ स वै दि॒ग्भ्योऽजायत॒ तस्मा॒द् दिशोऽजायन्त ॥३४॥ स वै भूमे॑रजायत॒ तस्मा॒द् भूमि॑रजायत ॥३५॥ स वा अ॒ग्नेर॑जायत॒ तस्मा॑द॒ग्निर॑जायत ॥३६॥ स वा अ॒द्भ्योऽजायत॒ तस्मा॒दापो॑ऽजायन्त ॥३७॥ स वा ऋ॒ग्भ्योऽजायत॒ तस्मा॒दृचो॑ऽजायन्त ॥३८॥ स वै य॒ज्ञाद॑जायत॒ तस्मा॑द् य॒ज्ञोऽजायत ॥३९॥ स य॒ज्ञस्तस्य॑ य॒ज्ञः स य॒ज्ञस्य॒ शिर॑स्कृ॒तम्॥४०॥ स स्त॑नयति॒ स वि द्यो॑तते॒ स उ॒ अश्मा॑नमस्यति ॥४१॥ पा॒पाय॑ वा भ॒द्राय॑ वा पुरु॑षा॒यासु॑राय वा ॥४२॥ यद् वा॑ कृ॒णोष्योष॑धी॒र्यद् वा॒ वर्ष॑सि भ॒द्रया॒ यद् वा॑ ज॒न्यमवी॑वृधः ॥४३॥ तावां॑स्ते मघवन् महि॒मोपो॑ ते त॒न्वः श॒तम्॥४४॥ उपो॑ ते॒ बध्वे॒ बद्धा॑नि॒ यदि॒ वासि॒ न्यर्बुदम्॥४५॥
अध्यात्मम्। ४६ आसुरी गायत्री, ४७ यवमध्या गायत्री, ४८ साम्नी उष्णिक्, ४९ निचृत्साम्नी बृहती, ५० प्राजापत्याऽनुष्टुप्, ५१ विराड् गायत्री। भूया॒निन्द्रो॑ नमु॒राद् भूया॑निन्द्रासि मृ॒त्युभ्यः॑ ॥४६॥ भूया॒नरा॑त्याः॒ शच्याः॒ पति॒स्त्वमि॑न्द्रासि वि॒भूः प्र॒भूरिति॒ त्वोपा॑स्महे व॒यम्॥४७॥ नम॑स्ते अस्तु पश्यत॒ पश्य॑ मा पश्यत ॥४८॥ अ॒न्नाद्ये॑न॒ यश॑सा॒ तेज॑सा ब्राह्मणवर्च॒सेन॑ ॥४९॥ अम्भो॒ अमो॒ महः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम्। नम॑स्ते॰ । अ॒न्नाद्ये॑न॒॰ ॥५०॥ अम्भो॑ अरु॒णं र॑ज॒तं रजः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम्। नम॑स्ते॰ । अ॒न्नाद्ये॑न॒॰॥५१॥
अध्यात्मम्। ५२-५३ प्राजापत्याऽनुष्टुप्, ५४ द्विपदार्षी गायत्री। उ॒रुः पृ॒थुः सु॒भूर्भुव॒ इति॒ त्वोपा॑स्महे व॒यम् । नम॑स्ते॰ । अ॒न्नाद्ये॑न॒॰ ॥५२॥ प्रथो॒ वरो॒ व्यचो॑ लो॒क इति॒ त्वोपा॑स्महे व॒यम्। नम॑स्ते॰ । अ॒न्नाद्ये॑न॒॰ ॥५३॥ भव॑द्वसुरि॒दद्व॑सुः सं॒यद्व॑सुरा॒यद्व॑सु॒रिति॒ त्वोपा॑स्महे व॒यम्॥५४॥ नम॑स्ते अस्तु पश्यत॒ पश्य॑ मा पश्यत ॥५५॥ अ॒न्नाद्ये॑न॒ यश॑सा॒ तेज॑सा ब्राह्मणवर्च॒सेन॑ ॥५६॥
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is Kaanda 13 of the Atharva Veda?
Kaanda 13 of the Atharvaveda (Shaunaka) — the Rohita (radiant Sun) hymns. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
What is the Atharva Veda?
The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
Offer a Vedic paath or seva in your name
Have a Vedic paath, havan or seva performed in your naam-gotra for peace and blessings. Book a seva, or read on in Sanatan Sahitya.








