About Kaanda 12
Kaanda 12 of the Atharvaveda (Shaunaka) — longer hymns, ranging over health, household and social life and cosmic themes. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
How it is read
Kaanda 12 is given below in its original Sanskrit, in accented Devanagari. The Veda is preserved as shruti and recited in svadhyaya; read it reverently, sukta by sukta.
Original Text
The Verses
भूमिसूक्तम्। १-६३ अथर्वा। भूमिः।त्रिष्टुप्, २ भुरिक्, ४-६, १०,३८ त्र्यवसाना षट्-पदा जगती, ७ प्रस्तारपङ्क्तिः, ८, ११ त्र्यवo षट्o विराडष्टिः, ९ परानुष्टुप्, १२-१३, १५ पञ्चपदा शक्वरी (१२-१३ त्र्यवo), १४ महाबृहती, १६, २१ एकावo साम्नी त्रिष्टुप्, १८ त्र्यवo षट्o त्रिष्टुबनुष्टुब्गर्भातिशक्वरी, १९, २० पुरोबृहती (२० विराट्) २२ त्र्यवo षट्o विराडतिजगती, २३ पञ्चपदा विराडतिजगती, २४ पञ्चo अनुष्टुब्गर्भा जगती, २५ त्र्यवo सप्तo उष्णिगनुष्टुब्गर्भा शक्वरी, २६-२८, ३३, ३५, ३९-४१, ५०,५३-५४, ५६, ५९, ६३ अनुष्टुप् (५३ पुरोबार्हता), ३० विराड् गायत्री, ३२ पुरस्ताज्ज्योतिः, ३४ त्र्यवo षट्o त्रिष्टुब्बृहतीगर्भातिजगती, ३६ विपरीतपादलक्ष्मा पङ्क्तिः ३७ त्र्यवo पञ्चo शक्वरी, ४१ षट्o ककुम्मती शक्वरी, ४२ स्वराडनुष्टुप्, ४३ विराडास्तारपङ्क्तिः, ४४-४५, ४९ जगती, ४६ षट् पo अनुष्टुब्गर्भा परा शक्वरी, ४७ षट् पo उष्णिगनुष्टुब्गर्भा परातिशक्वरी, ४८ पुरोऽनुष्टुप्, ५१ त्र्यवo षट्o अनुष्टुब्गर्भा ककुम्मती शक्वरी, ५२ पञ्च॰ अनुष्टुब्गर्भा परातिजगती, ५७ पुरोतिजागता जगती, ५८ पुरस्ताद् बृहती, ६१ पुरोबार्हता, ६३ परा विराट्। स॒त्यं बृ॒हदृ॒तमु॒ग्रं दी॒क्षा तपो॒ ब्रह्म॑ य॒ज्ञः पृ॑थि॒वीं धा॑रयन्ति । सा नो॑ भू॒तस्य॒ भव्य॑स्य॒ पत्न्यु॒रुं लो॒कं पृ॑थि॒वी नः॑ कृणोतु ॥१॥ अ॒सं॒बा॒धं ब॑ध्य॒तो मा॑न॒वानां॒ यस्या॑ उ॒द्वतः॑ प्र॒वतः॑ स॒मं ब॒हु। नाना॑वीर्या॒ ओष॑धी॒र्या बिभ॑र्ति पृथि॒वी नः॑ प्रथतां॒ राध्य॑तां नः ॥२॥ यस्यां॑ समु॒द्र उ॒त सिन्धु॒रापो॒ यस्या॒मन्नं॑ कृ॒ष्टयः॑ संबभू॒वुः । यस्या॑मि॒दं जिन्व॑ति प्रा॒णदेज॒त् सा नो॒ भूमिः॑ पूर्व॒पेये॑ दधातु ॥३॥ यस्या॒श्चत॑स्रः प्र॒दिशः॑ पृथि॒व्या यस्या॒मन्नं कृ॒ष्टयः॑ संबभू॒वुः । या बिभ॑र्ति बहु॒धा प्रा॒णदेज॒त् सा नो॒ भूमि॒र्गोष्वप्यन्ने॑ दधातु ॥४॥ यस्यां॒ पूर्वे॑ पूर्वज॒ना वि॑चक्रि॒रे यस्यां॑ दे॒वा असु॑रान॒भ्यव॑र्तयन्। गवा॒मश्वा॑नां॒ वय॑सश्च वि॒ष्ठा भगं॒ वर्चः॑ पृथि॒वी नो॑ दधातु ॥५॥ वि॒श्वं॒भ॒रा व॑सु॒धानी॑ प्रति॒ष्ठा हिर॑ण्यवक्षा॒ जग॑तो नि॒वेश॑नी । वै॒श्वा॒न॒रं बिभ्र॑ती॒ भूमि॑र॒ग्निमिन्द्र॑ऋषभा॒ द्रवि॑णे नो दधातु ॥६॥ यां रक्ष॑न्त्यस्व॒प्ना वि॑श्व॒दानीं॑ दे॒वा भूमिं॑ पृथि॒वीमप्र॑मादम्। सा नो॒ मधु॑ प्रि॒यं दु॑हा॒मथो॑ उक्षतु॒ वर्च॑सा ॥७॥ यार्ण॒वेऽधि॑ सलि॒लमग्र॒ आसी॒द् यां मा॒याभि॑र॒न्वच॑रन् मनी॒षिणः॑ । यस्या॒ हृद॑यं पर॒मे व्योऽमन्त्स॒त्येनावृ॑तम॒मतं॑ पृथि॒व्याः। सा नो॒ भूमि॒स्त्विषिं॒ बलं॑ रा॒ष्ट्रे द॑धातूत्त॒मे॥८॥ यस्या॒मापः॑ परिच॒राः स॑मा॒नीर॑होरा॒त्रे अप्र॑मादं॒ क्षर॑न्ति । सा नो॒ भूमि॒र्भूरि॑धारा॒ पयो॑ दुहा॒मथो॑ उक्षतु॒ वर्च॑सा ॥९॥ याम॒श्विना॒वमि॑मातां॒ विष्णु॒र्यस्यां॑ विचक्र॒मे। इन्द्रो॒ यां च॒क्र आ॒त्मने॑ऽनमि॒त्रां शची॒पतिः॑ । सा नो॒ भूमि॒र्वि सृ॑जतां मा॒ता पु॒त्राय॑ मे॒ पयः॑ ॥१०॥ गि॒रय॑स्ते॒ पर्व॑ता हि॒मव॒न्तोऽर॑ण्यं ते पृथिवि स्यो॒नम॑स्तु । ब॒भ्रुं कृ॒ष्णां रोहि॑णीं वि॒श्वरू॑पां ध्रु॒वां भूमिं॑ पृथि॒वीमिन्द्र॑गुप्ताम्। अजी॒तोऽह॑तो॒ अक्ष॒तोऽध्य॑ष्ठां पृथि॒वीम॒हम्॥११॥ यत् ते॒ मध्यं॑ पृथिवि॒ यच्च॒ नभ्यं॒ यास्त॒ ऊर्ज॑स्त॒न्वः संबभू॒वुः । ता सु॑ नो धेह्य॒भि नः॑ पवस्व मा॒ता भूमिः॑ पु॒त्रो अ॒हं पृ॑थि॒व्याः। प॒र्जन्यः॑ पि॒ता स उ॑ नः पिपर्तु ॥१२॥ यस्यां॒ वेदिं॑ परिगृ॒ह्णन्ति॒ भूम्यां॒ यस्यां॑ य॒ज्ञं त॒न्वते॑ वि॒श्वक॑र्माणः । यस्यां॑ मी॒यन्ते॒ स्वर॑वः पृथि॒व्यामू॒र्ध्वाः शु॒क्रा आहु॑त्याः पु॒रस्ता॑त्। सा नो॒ भूमि॑र्वर्धय॒द् वर्ध॑माना ॥१३॥ यो नो॒ द्वेष॑त् पृथिवि॒ यः पृ॑त॒न्याद् योऽभि॒दासा॒न्मन॑सा॒ यो व॒धेन॑ । तं नो॑ भूमे रन्धय पूर्वकृत्वरि ॥१४॥ त्वज्जा॒तास्त्वयि॑ चरन्ति॒ मर्त्या॒स्त्वं बि॑भर्षि द्वि॒पद॒स्त्वं चतु॑ष्पदः । तवे॒मे पृ॑थिवि॒ पञ्च॑ मान॒वा येभ्यो॒ ज्योति॑र॒मृतं॒ मर्त्ये॑भ्य उ॒द्यन्त्सूर्यो॑ र॒श्मिभि॑रात॒नोति॑ ॥१५॥ ता नः॑ प्र॒जाः सं दु॑ह्रतां सम॒ग्रा वा॒चो मधु॑ पृथिवि धेहि॒ मह्य॑म्॥१६॥ वि॒श्व॒स्वं मा॒तर॒मोष॑धीनां ध्रु॒वां भूमिं॑ पृथि॒वीं धर्म॑णा धृ॒ताम्। शि॒वां स्यो॒नामनु॑ चरेम वि॒श्वहा॑ ॥१७॥ महत् स॒धस्थं॑ मह॒ती ब॑भूविथ म॒हान् वेग॑ ए॒जथु॑र्वे॒पथु॑ष्टे । म॒हांस्त्वेन्द्रो॑ रक्ष॒त्यप्र॑मादम्। सा नो॑ भूमे॒ प्र रो॑चय॒ हिर॑ण्यस्येव सं॒दृशि॒ मा नो॑ द्विक्षत॒ कश्च॒न॥१८॥ अ॒ग्निर्भूम्या॒मोष॑धीष्व॒ग्निमापो॑ बिभ्रत्य॒ग्निरश्म॑सु । अ॒ग्निर॒न्तः पुरु॑षेषु॒ गोष्वश्वे॑ष्व॒ग्नयः॑ ॥१९॥ अ॒ग्निर्दि॒व आ त॑पत्य॒ग्नेर्दे॒वस्यो॒र्व॑१न्तरि॑क्षम्। अ॒ग्निं मर्ता॑स इन्धते हव्य॒वाहं॑ घृत॒प्रिय॑म्॥२०॥ अ॒ग्निवा॑साः पृथि॒व्यऽसित॒ज्ञूस्त्विषी॑मन्तं॒ संशि॑तं मा कृणोतु ॥२१॥ भूम्यां॑ दे॒वेभ्यो॑ ददति य॒ज्ञं ह॒व्यमरं॑कृतम्। भूम्यां॑ मनु॒ष्याऽ जीवन्ति स्व॒धयान्ने॑न॒ मर्त्याः॑ । सा नो॒ भूमिः॑ प्रा॒णमायु॑र्दधातु ज॒रद॑ष्टिं मा पृथि॒वी कृ॑णोतु ॥२२॥ यस्ते॑ ग॒न्धः पृ॑थिवि संब॒भूव॒ यं बिभ्र॒त्योष॑धयो॒ यमापः॑ । यं ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च भेजि॒रे तेन॑ मा सुर॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न॥२३॥ यस्ते॑ ग॒न्धः पुष्क॑रमावि॒वेश॒ यं सं॑ज॒भ्रुः सू॒र्याया॑ विवा॒हे। अम॑र्त्याः पृथिवि ग॒न्धमग्रे॒ तेन॑ मा सुर॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न॥२४॥ यस्ते॑ ग॒न्धः पुरु॑षेषु स्त्री॒षु पुं॒सु भगो॒ रुचिः॑ । यो अश्वे॑षु वी॒रेषु॒ यो मृ॒गेषू॒त ह॒स्तिषु॑ । क॒न्याऽयां॒ वर्चो॒ यद् भू॑मे॒ तेना॒स्मां अपि॒ सं सृ॑ज॒ मा नो॑ द्विक्षत॒ कश्च॒न॥२५॥ शि॒ला भूमि॒रश्मा॑ पां॒सुः सा भूमिः॒ संधृ॑ता धृ॒ता। तस्यै॒ हिर॑ण्यवक्षसे पृथि॒व्या अ॑करं॒ नमः॑ ॥२६॥ यस्यां॑ वृ॒क्षा वा॑नस्प॒त्या ध्रु॒वास्तिष्ठ॑न्ति वि॒श्वहा॑ । पृ॒थि॒वीं वि॒श्वधा॑यसं धृ॒ताम॒च्छाव॑दामसि ॥२७॥ उ॒दीरा॑णा उ॒तासी॑ना॒स्तिष्ठ॑न्तः प्र॒क्राम॑न्तः । प॒द्भ्यां द॑क्षिणस॒व्याभ्यां॒ मा व्य॑थिष्महि॒ भूम्या॑म्॥२८॥ वि॒मृग्व॑रीं पृथि॒वीमा व॑दामि क्ष॒मां भूमिं॒ ब्रह्म॑णा वावृधा॒नाम्। ऊर्जं॑ पु॒ष्टं बिभ्र॑तीमन्नभा॒गं घृ॒तं त्वा॒भि नि षी॑देम भूमे ॥२९॥ शु॒द्धा न॒ आप॑स्त॒न्वेऽ क्षरन्तु॒ यो नः॒ सेदु॒रप्रि॑ये॒ तं नि द॑ध्मः । प॒वित्रे॑ण पृथिवि॒ मोत् पु॑नामि ॥३०॥ यास्ते॒ प्राचीः॑ प्र॒दिशो॒ या उदी॑ची॒र्यास्ते॑ भूमे अध॒राद् याश्च॑ प॒श्चात्। स्यो॒नास्ता मह्यं॒ चर॑ते भवन्तु॒ मा नि प॑प्तं॒ भुव॑ने शिश्रिया॒णः ॥३१॥ मा नः॑ प॒श्चान्मा पु॒रस्ता॑न्नुदिष्ठा॒ मोत्त॒राद॑ध॒रादु॒त। स्व॒स्ति भू॑मे नो भव॒ मा वि॑दन् परिप॒न्थिनो॒ वरी॑यो यावया व॒धम्॥३२॥ याव॑त् तेऽभि वि॒पश्या॑मि॒ भूमे॒ सूर्ये॑ण मे॒दिना॑ । ताव॑न्मे॒ चक्षु॒र्मा मे॒ष्टोत्त॑रामुत्तरां॒ समा॑म्॥३३॥ यच्छया॑नः प॒र्याव॑र्ते॒ दक्षि॑णं स॒व्यम॒भि भू॑मे पा॒र्श्वम् । उ॒त्ता॒नास्त्वा॑ प्र॒तीचीं॒ यत् पृ॒ष्टीभि॑रधि॒शेम॑हे । मा हिं॑सी॒स्तत्र॑ नो भूमे॒ सर्व॑स्य प्रतिशीवरि ॥३४॥ यत् ते भूमे वि॒खना॑मि क्षि॒प्रं तदपि॑ रोहतु । मा ते॒ मर्म॑ विमृग्वरि॒ मा ते॒ हृद॑यमर्पिपम्॥३५॥ ग्री॒ष्मस्ते॑ भूमे व॒र्षाणि॑ श॒रद्धे॑म॒न्तः शिशि॑रो वस॒न्तः । ऋ॒तव॑स्ते॒ विहि॑ता हाय॒नीर॑होरा॒त्रे पृ॑थिवि नो दुहाताम्॥३६॥ याप॑ स॒र्पं वि॒जमा॑ना वि॒मृग्व॑री॒ यस्या॒मास॑न्न॒ग्नयो॒ ये अ॒प्स्व॑न्तः । परा॒ दस्यू॒न् दद॑ती देवपी॒यूनिन्द्रं॑ वृणा॒ना पृ॑थि॒वी न वृ॒त्रम्। श॒क्राय॑ दध्रे वृष॒भाय॒ वृष्णे॑ ॥३७॥ यस्यां॑ सदोहविर्धा॒ने यूपो॒ यस्यां॑ निमी॒यते॑ । ब्र॒ह्माणो॒ यस्या॒मर्च॑न्त्यृ॒ग्भिः साम्ना॑ यजु॒र्विदः॑। यु॒ज्यन्ते॒ यस्या॑मृ॒त्विजः॒ सोम॒मिन्द्रा॑य॒ पात॑वे ॥३८॥ यस्यां॒ पूर्वे॑ भूत॒कृत॒ ऋष॑यो॒ गा उ॑दानृ॒चुः । स॒प्त स॒त्रेण॑ वे॒धसो॑ य॒ज्ञेन॒ तप॑सा स॒ह॥३९॥ सा नो॒ भूमि॒रा दि॑शतु॒ यद्धनं॑ का॒मया॑महे । भगो॑ अनु॒प्रयु॑ङ्क्ता॒मिन्द्र॑ एतु पुरोग॒वः ॥४०॥ यस्यां॒ गाय॑न्ति॒ नृत्य॑न्ति॒ भूम्यां॒ मर्त्या॒ व्यैऽलबाः । यु॒ध्यन्ते॒ यस्या॑माक्र॒न्दो यस्यां॒ वद॑ति दुन्दु॒भिः । सा नो॒ भूमिः॒ प्र णु॑दतां स॒पत्ना॑नसप॒त्नं मा॑ पृथि॒वी कृ॑णोतु ॥४१॥ यस्या॒मन्नं॑ व्रीहिय॒वौ यस्या॑ इ॒माः पञ्च॑ कृ॒ष्टयः॑ । भूम्यै॑ प॒र्जन्य॑पत्न्यै॒ नमो॑ऽस्तु व॒र्षमे॑दसे ॥४२॥ यस्याः॒ पुरो॑ दे॒वकृ॑ताः॒ क्षेत्रे॒ यस्या॑ विकु॒र्वते॑ । प्र॒जाप॑तिः पृथि॒वीं वि॒श्वग॑र्भा॒माशा॑माशां॒ रण्यां॑ नः कृणोतु ॥४३॥ नि॒धिं बिभ्र॑ती बहु॒धा गुहा॒ वसु॑ म॒णिं हिर॑ण्यं पृथि॒वी द॑दातु मे । वसू॑नि नो वसु॒दा रास॑माना दे॒वी द॑धातु सुमन॒स्यमा॑ना ॥४४॥ जनं॒ बिभ्र॑ती बहु॒धा विवा॑चसं॒ नाना॑धर्माणं पृथि॒वी य॑थौक॒सम्। स॒हस्रं॒ धारा॒ द्रवि॑णस्य मे दुहां ध्रु॒वेव॑ धे॒नुरन॑पस्फुरन्ती ॥४५॥ यस्ते॑ स॒र्पो वृश्चि॑कस्तृ॒ष्टदं॑श्मा हेम॒न्तज॑ब्धो भृम॒लो गुहा॒ शये॑ । क्रिमि॒र्जिन्वत् पृथिवि॒ यद्य॒देज॑ति प्रा॒वृषि॑ तन्नः॒ सर्प॒न्मोप॑ सृप॒द् यच्छि॒वं तेन॑ नो मृड ॥४६॥ ये ते॒ पन्था॑नो ब॒हवो॑ ज॒नाय॑ना॒ रथ॑स्य॒ वर्त्मान॑सश्च॒ यात॑वे । यैः सं॒चर॑न्त्यु॒भये॑ भद्रपा॒पास्तं पन्था॑नं जयेमानमि॒त्रम॑तस्क॒रं यच्छि॒वं तेन॑ नो मृड ॥४७॥ म॒ल्वं बिभ्र॑ती गुरु॒भृद् भ॑द्रपा॒पस्य॑ नि॒धनं॑ तिति॒क्षुः । व॒रा॒हेण॑ पृथि॒वी सं॑विदा॒ना सू॑क॒राय॒ वि जि॑हीते मृ॒गाय॑ ॥४८॥ ये त आ॑र॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ताः सिं॒हा व्या॒घ्राः पु॑रु॒षाद॒श्चर॑न्ति । उ॒लं वृकं॑ पृथिवि दुच्छुना॑मि॒त ऋ॒क्षीकां॒ रक्षो॒ अप॑ बाधया॒स्मत्॥४९॥ ये ग॑न्ध॒र्वा अ॑प्स॒रसो॒ ये चा॒रायाः॑ किमी॒दिनः॑ । पि॒शा॒चान्त्सर्वा॒ रक्षां॑सि॒ तान॒स्मद् भू॑मे यावय ॥५०॥ यां द्वि॒पादः॑ प॒क्षिणः॑ सं॒पत॑न्ति हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि । यस्यां॒ वातो॑ मात॒रिश्वेय॑ते॒ रजां॑सि कृ॒ण्वंश्च्या॒वयं॑श्च वृ॒क्षान्। वात॑स्य प्र॒वामु॑प॒वामनु॑ वात्य॒र्चिः ॥५१॥ यस्यां॑ कृ॒ष्णम॑रु॒णं च॒ संहि॑ते अहोरा॒त्रे विहि॑ते॒ भूम्या॒मधि॑ । व॒र्षेण॒ भूमिः॑ पृथि॒वी वृ॒तावृ॑ता॒ सा नो॑ दधातु भ॒द्रया॑ प्रि॒ये धाम॑निधामनि ॥५२॥ द्यौश्च॑ म इ॒दं पृ॑थि॒वी चा॒न्तरि॑क्षं च मे॒ व्यचः॑ । अ॒ग्निः सूर्य॒ आपो॑ मे॒धां विश्वे॑ दे॒वाश्च॒ सं द॑दुः ॥५३॥ अ॒हम॑स्मि॒ सह॑मान॒ उत्त॑रो॒ नाम॒ भूम्या॑म्। अ॒भी॒षाड॑स्मि विश्वा॒षाडाशा॑माशां विषास॒हिः ॥५४॥ अ॒दो यद् दे॑वि॒ प्रथ॑माना पु॒रस्ता॑द् दे॒वैरु॒क्ता व्यस॑र्पो महि॒त्वम्। आ त्वा॑ सुभू॒तम॑विशत् त॒दानी॒मक॑ल्पयथाः प्र॒दिश॒श्चत॑स्रः ॥५५॥ ये ग्रामा॒ यदर॑ण्यं॒ याः स॒भा अधि॒ भूम्या॑म्। ये सं॑ग्रा॒माः समि॑तय॒स्तेषु॒ चारु॑ वदेम ते ॥५६॥ अश्व॑ इव॒ रजो॑ दुधुवे॒ वि तान् जना॒न् य आक्षि॑यन् पृथि॒वीं यादजा॑यत । म॒न्द्राग्रेत्व॑री॒ भुव॑नस्य गो॒पा वन॒स्पती॑नां॒ गृभि॒रोष॑धीनाम्॥५७॥ यद् वदा॑मि॒ मधु॑म॒त् तद् व॑दामि॒ यदीक्षे॒ तद् व॑नन्ति मा । त्विषी॑मानस्मि जूति॒मानवा॒न्यान् ह॑न्मि॒ दोध॑तः ॥५८॥ श॒न्ति॒वा सु॑र॒भिः स्यो॒ना की॒लालो॑ध्नी॒ पय॑स्वती । भूमि॒रधि॑ ब्रवीतु मे पृथि॒वी पय॑सा स॒ह॥५९॥ याम॒न्वैच्छद्ध॒विषा॑ वि॒श्वक॑र्मा॒न्तर॑र्ण॒वे रज॑सि॒ प्रवि॑ष्टाम्। भु॒जि॒ष्यं॑१ पात्रं॒ निहि॑तं॒ गुहा॒ यदा॒विर्भोगे॑ अभवन्मातृ॒मद्भ्यः॑ ॥६०॥ त्वम॑स्या॒वप॑नी॒ जना॑ना॒मदि॑तिः काम॒दुघा॑ पप्रथा॒ना। यत् त॑ ऊ॒नं तत् त॒ आ पू॑रयाति प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ॥६१॥ उ॒प॒स्थास्ते॑ अनमी॒वा अ॑य॒क्ष्मा अ॒स्मभ्यं॑ सन्तु पृथिवि॒ प्रसू॑ताः । दी॒र्घं न॒ आयुः॑ प्रति॒बुध्य॑माना व॒यं तुभ्यं॑ बलि॒हृतः॑ स्याम ॥६२॥ भूमे॑ मात॒र्नि धे॑हि मा भ॒द्रया॒ सुप्र॑तिष्ठितम्। सं॒वि॒दा॒ना दि॒वा क॑वे श्रि॒यां मा॑ धेहि॒ भूत्या॑म्॥६३॥
१-५५ भृगुः। अग्निः, मन्त्रोक्ताः, २१-३३ मृत्युः। त्रिष्टुप्, २, ५, १२-२०, ३४-३६, ३८-४१- ४३, ५१, ५४ अनुष्टुप् (१६ ककुम्मती पराबृहती, १८ निचृत् ४० पुरस्तात् ककुम्मती), ३ आस्तारपङ्क्तिः, ६ भुरिगार्षी पङ्क्तिः, ७, ४५ जगती, ८, ४८-४९ भुरिक्, ९ अनुष्टुब्गर्भा विपरीतपादलक्ष्मा पङ्क्तिः, ३७ पुरस्ताद्बृहती, ४२ त्रिपदा एकावसाना भुरिगार्ची गायत्री, ४४ एकावसाना द्विपदाऽर्ची बृहती, ४६ एकावसाना द्विपदा साम्नी त्रिष्टुप्, ४७ पञ्चपदा बार्हतवैराजगर्भा जगती, ५० उपरिष्टाद्विराड् बृहती ५२ पुरस्ताद्विराड् बृहती, ५५ बृहतीगर्भा। न॒डमा रो॑ह॒ न ते॒ अत्र॑ लो॒क इ॒दं सीसं॑ भाग॒धेयं॑ त॒ एहि॑ । यो गोषु॒ यक्ष्मः॒ पुरु॑षेषु॒ यक्ष्म॒स्तेन॒ त्वं सा॒कम॑ध॒राङ् परे॑हि ॥१॥ अ॒घ॒शं॒स॒दुः॒शं॒साभ्यां॑ क॒रेणा॑नुक॒रेण॑ च । यक्ष्मं॑ च॒ सर्वं॒ तेने॒तो मृ॒त्युं च॒ निर॑जामसि ॥२॥ निरि॒तो मृ॒त्युं निरृ॑तिं॒ निररा॑तिमजामसि । यो नो॒ द्वेष्टि॒ तम॑द्ध्यग्ने अक्रव्या॒द् यमु॑ द्वि॒ष्मस्तमु॑ ते॒ प्र सु॑वामसि ॥३॥ यद्य॒ग्निः क्र॒व्याद् यदि॑ वा व्या॒घ्र इ॒मं गो॒ष्ठं प्र॑वि॒वेशान्यो॑काः । तं माषा॑ज्यं कृ॒त्वा प्र हि॑णोमि दू॒रं स ग॑च्छत्वप्सु॒षदोऽप्य॒ग्नीन्॥४॥ यत् त्वा॑ क्रु॒द्धाः प्र॑च॒क्रुर्म॒न्युना॒ पुरु॑षे मृ॒ते। सु॒कल्प॑मग्ने॒ तत् त्व॒या पुन॒स्त्वोद् दी॑पयामसि ॥५॥ पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ पुन॑र्ब्र॒ह्मा वसु॑नीतिरग्ने । पुन॑स्त्वा॒ ब्रह्म॑ण॒स्पति॒राधा॑द् दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥६॥ यो अ॒ग्निः क्र॒व्यात् प्र॑वि॒वेश॑ नो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम्। तं ह॑रामि पितृय॒ज्ञाय॑ दू॒रं स घ॒र्ममि॑न्धां पर॒मे स॒धस्थे॑ ॥७॥ क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः । इ॒हायमित॑रो जा॒तवे॑दा दे॒वो दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्॥८॥ क्र॒व्याद॑म॒ग्निमि॑षि॒तो ह॑रामि॒ जना॑न् दृं॒हन्तं॒ वज्रे॑ण मृ॒त्युम्। नि तं शा॑स्मि॒ गार्ह॑पत्येन वि॒द्वान् पि॑तृ॒णां लो॒केऽपि॑ भा॒गो अ॑स्तु ॥९॥ क्र॒व्याद॑म॒ग्निं श॑शमा॒नमु॒क्थ्यं॑१ हि॑णोमि प॒थिभिः॑ पितृ॒याणैः॑ । मा दे॑व॒यानैः॒ पुन॒रा गा॒ अत्रै॒वैधि॑ पि॒तृषु॑ जागृहि॒ त्वम्॥१०॥ समि॑न्धते॒ संक॑सुकं स्व॒स्तये॑ शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः । जहा॑ति रि॒प्रमत्येन॑ एति॒ समि॑द्धो अ॒ग्निः सु॒पुना॑ पुनाति ॥११॥ दे॒वो अ॒ग्निः संक॑सुको दि॒वस्पृ॒ष्ठान्यारु॑हत्। मु॒च्यमा॑नो॒ निरेण॒सोऽमो॑ग॒स्मां अश॑स्त्याः ॥१२॥ अ॒स्मिन् व॒यं संक॑सुके अ॒ग्नौ रि॒प्राणि॑ मृज्महे । अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षि तारिषत्॥१३॥ संक॑सुको॒ विक॑सुको निरृ॒थो यश्च॑ निस्व॒रः । ते ते॒ यक्ष्मं॒ सवे॑दसो दू॒राद् दू॒रम॑नीनशन्॥१४॥ यो नो॒ अश्वे॑षु वी॒रेषु॒ यो नो॒ गोष्व॑जा॒विषु॑ । क्र॒व्यादं॒ निर्णु॑दामसि॒ यो अ॒ग्निर्ज॑न॒योप॑नः ॥१५॥ अन्ये॑भ्यस्त्वा॒ पुरु॑षेभ्यो॒ गोभ्यो॒ अश्वे॑भ्यस्त्वा । निः क्र॒व्यादं॑ नुदामसि॒ यो अ॒ग्निर्जी॑वित॒योप॑नः ॥१६॥ यस्मि॑न् दे॒वा अमृ॑जत॒ यस्मि॑न् मनु॒ष्याऽ उ॒त। तस्मि॑न् घृत॒स्तावो॑ मृ॒ष्ट्वा त्वम॑ग्ने॒ दिवं॑ रुह ॥१७॥ समि॑द्धो अग्न आहुत॒ स नो॒ माभ्यप॑क्रमीः । अत्रै॒व दी॑दिहि॒ द्यवि॒ ज्योक् च॒ सूर्यं॑ दृ॒शे॥१८॥ सीसे॑ मृड्ढ्वं न॒डे मृ॑ड्ढ्वम॒ग्नौ संक॑सुके च॒ यत्। अथो॒ अव्यां॑ रा॒मायां॑ शी॒र्षक्तिमु॑प॒बर्ह॑णे ॥१९॥ सीसे॒ मलं॑ सादयि॒त्वा शी॑र्ष॒क्तिमु॑प॒बर्ह॑णे । अव्या॒मसि॑क्न्यां मृ॒ष्ट्वा शु॒द्धा भ॑वत य॒ज्ञियाः॑ ॥२०॥ परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्त॑ ए॒ष इत॑रो देव॒याना॑त्। चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमी॒हेमे वी॒रा ब॒हवो॑ भवन्तु ॥२१॥ इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द् भ॒द्रा दे॒वहु॑तिर्नो अ॒द्य। प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥२२॥ इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम्। श॒तं जीव॑न्तः श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥२३॥ आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ स्थ। तान् व॒स्त्वष्टा॑ सु॒जनि॑मा स॒जोषाः॒ सर्व॒मायु॑र्नयतु॒ जीव॑नाय ॥२४॥ यथाहा॑न्यनुपूर्वं भव॑न्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒कम्। यथा॒ न पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयै॒षाम्॥२५॥ अश्म॑न्वती रीयते॒ सं र॑भध्वं वी॒रय॑ध्वं॒ प्र त॑रता सखायः । अत्रा॑ जहीत॒ ये अस॑न् दु॒रेवा॑ अनमी॒वानुत्त॑रेमा॒भि वाजा॑न्॥२६॥ उत् ति॑ष्ठता॒ प्र त॑रता सखा॒योऽश्म॑न्वती न॒दी स्य॑न्दत इ॒यम्। अत्रा॑ जहीत॒ ये अस॒न्नशि॑वाः शि॒वान्त्स्यो॒नानुत्त॑रेमा॒भि वाजा॑न्॥२७॥ वै॒श्व॒दे॒वीं वर्च॑स॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः । अ॒ति॒क्राम॑न्तो दुरि॒ता प॒दानि॑ श॒तं हिमाः॒ सर्व॑वीरा मदेम ॥२८॥ उ॒दी॒चीनैः॑ प॒थिभि॑र्वायु॒मद्भि॑रति॒क्राम॒न्तोऽव॑रान् प॑रेभिः । त्रिः स॒प्त कृत्व॒ ऋष॑यः॒ परे॑ता मृ॒त्युं प्रत्यौ॑हन् पद॒योप॑नेन ॥२९॥ मृ॒त्योः प॒दं यो॒पय॑न्त॒ एत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः । आसी॑ना मृ॒त्युं नु॑दता स॒धस्थेऽथ॑ जी॒वासो॑ वि॒दथ॒मा व॑देम ॥३०॥ इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्। अ॒न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ॥३१॥ व्याक॑रोमि ह॒विषा॒हमे॒तौ तौ ब्रह्म॑णा॒ व्य॑१हं क॑ल्पयामि । स्व॒धां पि॒तृभ्यो॑ अ॒जरां॑ कृ॒णोमि॑ दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ॥३२॥ यो नो॑ अ॒ग्निः पि॑तरो हृ॒त्स्व॑१न्तरा॑वि॒वेशा॒मृतो॒ मर्त्ये॑षु । मय्य॒हं तं परि॑ गृह्णामि दे॒वं मा सो अ॒स्मान् द्वि॑क्षत॒ मा व॒यं तम्॥३३॥ अ॒पा॒वृत्य॒ गार्ह॑पत्यात् क्र॒व्यादा॒ प्रेत॑ दक्षि॒णा। प्रि॒यं पि॒तृभ्य॑ आ॒त्मने॑ ब्र॒ह्मभ्यः॑ कृणुता प्रि॒यम्॥३४॥ द्वि॒भा॒ग॒ध॒नमा॒दाय॒ प्र क्षि॑णा॒त्यव॑र्त्या । अ॒ग्निः पु॒त्रस्य॑ ज्ये॒ष्ठस्य॒ यः क्र॒व्यादनि॑राहितः ॥३५॥ यत् कृ॒षते॒ यद् व॑नु॒ते यच्च॑ व॒स्नेन॑ वि॒न्दते॑ । सर्वं॒ मर्त्य॑स्य॒ तन्नास्ति॑ क्र॒व्याच्चेदनि॑राहितः ॥३६॥ अ॒य॒ज्ञि॒यो ह॒तव॑र्चा भवति॒ नैने॑न ह॒विरत्त॑वे । छि॒नत्ति॑ कृ॒ष्या गोर्धना॒द् यं क्र॒व्याद॑नु॒वर्त॑ते ॥३७॥ मुहु॒र्गृध्यैः॒ प्र व॑द॒त्यार्तिं मर्त्यो॒ नीत्य॑ । क्र॒व्याद् यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान् वि॒ताव॑ति ॥३८॥ ग्राह्या॑ गृ॒हाः सं सृ॑ज्यन्ते स्त्रि॒या यन्म्रि॒यते॒ पतिः॑ । ब्र॒ह्मैव वि॒द्वाने॒ष्यो॒३ यः क्र॒व्यादं॑ निरा॒दध॑त्॥३९॥ यद् रि॒प्रं शम॑लं चकृ॒म यच्च॑ दुष्कृ॒तम्। आपो॑ मा॒ तस्मा॑च्छुम्भन्त्व॒ग्नेः संक॑सुकाच्च॒ यत्॥४०॥ ता अ॑ध॒रादुदी॑ची॒राव॑वृत्रन् प्रजान॒तीः प॒थिभि॑र्देव॒यानैः॑ । पर्व॑तस्य वृष॒भस्याधि॑ पृ॒ष्ठे नवा॑श्चरन्ति स॒रितः॑ पुरा॒णीः ॥४१॥ अग्ने॑ अक्रव्या॒न्निः क्र॒व्यादं॑ नु॒दा दे॑व॒यज॑नं वह ॥४२॥ इ॒मं क्र॒व्यादा वि॑वेशा॒यं क्र॒व्याद॒मन्व॑गात्। व्या॒ग्रौ कृ॒त्वा ना॑ना॒नं तं ह॑रामि शिवाप॒रम्॥४३॥ अ॒न्त॒र्धिर्दे॒वानां॑ परि॒धिर्म॑नु॒ष्याऽणाम॒ग्निर्गार्ह॑पत्य उ॒भया॑नन्त॒रा श्रि॒तः ॥४४॥ जी॒वाना॒मायुः॒ प्र ति॑र॒ त्वम॑ग्ने पितॄ॒णां लो॒कमपि॑ गच्छन्तु॒ ये मृ॒ताः । सु॒गा॒र्ह॒प॒त्यो वि॒तप॒न्नरा॑तिमुषामु॑षां॒ श्रेय॑सीं धेह्य॒स्मै॥४५॥ सर्वा॑नग्ने॒ सह॑मानः स॒पत्ना॒नैषा॒मूर्जं॑ र॒यिम॒स्मासु॑ धेहि ॥४६॥ इ॒ममिन्द्रं॒ वह्निं॒ पप्रि॑म॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद् दुरि॒ताद॑व॒द्यात्। तेनाप॑ हत॒ शरु॑मा॒पत॑न्तं॒ तेन॑ रु॒द्रस्य॒ परि॑ पाता॒स्ताम्॥४७॥ अ॒न॒ड्वाहं॑ प्ल॒वम॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद् दुरि॒ताद॑व॒द्यात्। आ रो॑हत सवि॒तुर्नाव॑मे॒तां ष॒ड्भिरु॒र्वीभि॒रम॑तिं तरेम ॥४८॥ अ॒हो॒रा॒त्रे अन्वे॑षि॒ बिभ्र॑त् क्षे॒म्यस्तिष्ठ॑न् प्र॒तर॑णः सु॒वीरः॑ । अना॑तुरान्त्सु॒मन॑सस्तल्प॒ बिभ्र॒ज्ज्योगे॒व नः॒ पुरु॑षगन्धिरेधि ॥४९॥ ते दे॒वेभ्य॒ आ वृ॑श्चन्ते पा॒पं जी॑वन्ति सर्व॒दा। क्र॒व्याद् यान॒ग्निर॑न्ति॒कादश्व॑ इवानु॒वप॑ते न॒डम्॥५०॥ येऽश्र॒द्धा ध॑नका॒म्या क्र॒व्यादा॑ स॒मास॑ते । ते वा अ॒न्येषां॑ कु॒म्भीं प॒र्याद॑धति सर्व॒दा॥५१॥ प्रेव॑ पिपतिषति॒ मन॑सा॒ मुहु॒रा व॑र्तते॒ पुनः॑ । क्र॒व्याद् यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान् वि॒ताव॑ति ॥५२॥ अविः॑ कृ॒ष्णा भा॑ग॒धेयं पशू॒नां सीसं॑ क्रव्या॒दपि॑ च॒न्द्रं त॑ आहुः । माषाः॑ पि॒ष्टा भा॑ग॒धेयं॑ ते ह॒व्यम॑रण्या॒न्या गह्व॑रं सचस्व ॥५३॥ इ॒षीकां॒ जर॑तीमि॒ष्ट्वा ति॒ल्पिञ्जं॒ दण्ड॑नं न॒डम्। तमिन्द्र॑ इ॒ध्मं कृ॒त्वा य॒मस्या॒ग्निं नि॒राद॑धौ ॥५४॥ प्र॒त्यञ्च॑म॒र्कं प्र॑त्यर्पयि॒त्वा प्र॑वि॒द्वान् पन्थां॒ वि ह्याऽवि॒वेश॑ । परा॒मीषा॒मसू॑न् दि॒देश॑ दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ॥५५॥
स्वर्गैदनः। १-६० यमः। स्वर्गः, ओदनः, अग्निः। त्रिष्टुप्, १, ४२-४३, ४७ भुरिक्, ८, १२, २१-२२, २४ जगती, १३, १७ स्वराडार्षी पङ्क्तिः, ३४ विराड् गर्भा, ३९ अनुष्टुब्गर्भा, ४४ परा बृहती, ५५-६० त्र्यवसाना सप्तपदा शङ्कुमत्यतिजागतशाक्वरातिशाक्वरधा-र्त्यगर्भातिधृतिः (५५, ५७-६० कृतिः),। पुमा॑न् पुं॒सोऽधि॑ तिष्ठ॒ चर्मे॑हि॒ तत्र॑ ह्वयस्व यत॒मा प्रि॒या ते । याव॑न्ता॒वग्रे॑ प्रथ॒मं स॑मे॒यथु॒स्तद् वां॒ वयो॑ यम॒राज्ये॑ समा॒नम्॥१॥ ताव॑द् वां॒ चक्षु॒स्तति॑ वी॒र्याऽणि॒ ताव॒त् तेज॑स्तति॒धा वाजि॑नानि । अ॒ग्निः शरी॑रं सचते य॒दैधोऽधा॑ प॒क्वान्मि॑थुना॒ सं भ॑वाथः ॥२॥ सम॑स्मिंल्लो॒के समु॑ देव॒याने॒ सं स्मा॑ स॒मेतं॑ यम॒राज्ये॑षु । पू॒तौ प॒वित्रै॒रुप॒ तद्ध्व॑येथां॒ यद्य॒द् रेतो॒ अधि॑ वां संब॒भूव॑ ॥३॥ आप॑स्पुत्रासो अ॒भि सं वि॑शध्वमि॒मं जी॒वं जी॑वधन्याः स॒मेत्य॑ । तासां॑ भजध्वम॒मृतं॒ यमा॒हुर्यमो॑द॒नं पच॑ति वां॒ जनि॑त्री ॥४॥ यं वां॑ पि॒ता पच॑ति॒ यं च॑ मा॒ता रि॒प्रान्निर्मु॑क्त्यै॒ शम॑लाच्च वा॒चः । स ओ॑द॒नः श॒तधा॑रः स्व॒र्ग उ॒भे व्याऽप नभ॑सी महि॒त्वा॥५॥ उ॒भे नभ॑सी उ॒भयां॑श्च लो॒कान् ये यज्व॑नाम॒भिजि॑ताः स्व॒र्गाः । तेषां॒ ज्योति॑ष्मा॒न् मधु॑मा॒न् यो अग्रे॒ तस्मि॑न् पु॒त्रैर्ज॒रसि॒ सं श्र॑येथाम्॥६॥ प्राचीं॑प्राचीं प्र॒दिश॒मा र॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते । यद् वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दंपती॒ सं श्र॑येथाम्॥७॥ दक्षि॑णां॒ दिश॑म॒भि नक्ष॑माणौ प॒र्याव॑र्तेथाम॒भि पात्र॑मे॒तत्। तस्मि॑न् वां य॒मः पि॒तृभिः॑ संविदा॒नः प॒क्वाय॒ शर्म॑ बहु॒लं नि य॑च्छात्॥८॥ प्र॒तीची॑ दि॒शामि॒यमिद् वरं॒ यस्यां॒ सोमो॑ अधि॒पा मृ॑डि॒ता च॑ । तस्यां॑ श्रयेथां सु॒कृतः॑ सचेथा॒मधा॑ प॒क्वान्मि॑थुना॒ सं भ॑वाथः ॥९॥ उत्त॑रं रा॒ष्ट्रं प्र॒जयो॑त्त॒राव॑द् दि॒शामुदी॑ची कृणवन्नो॒ अग्र॑म्। पाङ्क्तं॒ छन्दः॒पुरु॑षो बभूव॒ विश्वै॑र्विश्वा॒ङ्गैः स॒ह सं भ॑वेम ॥१०॥ ध्रु॒वेयं वि॒राण्नमो॑ अस्त्व॒स्यै शि॒वा पु॒त्रेभ्य॑ उ॒त मह्य॑मस्तु । सा नो॑ देव्यदिते विश्ववार॒ इर्य॑ इव गो॒पा अ॒भि र॑क्ष प॒क्वम्॥११॥ पि॒तेव॑ पु॒त्रान॒भि सं स्व॑जस्व नः शि॒वा नो॒ वाता॑ इ॒व वा॑न्तु॒ भूमौ॑ । यमो॑द॒नं पच॑तो दे॒वते॑ इ॒ह तं न॒स्तप॑ उ॒त स॒त्यं च॑ वेत्तु ॥१२॥ यद्य॑त् कृ॒ष्णः श॑कु॒न एह ग॒त्वा त्सर॒न् विष॑क्तं॒ बिल॑ आस॒साद॑ । यद् वा॑ दा॒स्या॒३र्द्रह॑स्ता सम॒ङ्क्त उ॒लूख॑लं॒ मुस॑लं शुम्भतापः ॥१३॥ अ॒यं ग्रावा॑ पृ॒थुबु॑ध्नो वयो॒धाः पू॒तः प॒वित्रै॒रप॑ हन्तु॒ रक्षः॑ । आ रो॑ह॒ चर्म॒ महि॒ शर्म॑ यच्छ॒ मा दंप॑ती॒ पौत्र॑म॒घं नि गा॑ताम्॥१४॥ वन॒स्पतिः॑ स॒ह दे॒वैर्न॒ आग॒न् रक्षः॑ पिशा॒चाँ अ॑प॒बाध॑मानः । स उच्छ्र॑यातै॒ प्र व॑दाति॒ वाचं॒ तेन॑ लो॒काँ अ॒भि सर्वा॑न् जयेम ॥१५॥ स॒प्त मेधा॑न् प॒शवः॑ पर्य॑गृह्ण॒न् य ए॑षां॒ ज्योति॑ष्मां उ॒त यश्च॒कर्श॑ । त्रय॑स्त्रिंशद् दे॒वता॒स्तान्त्स॑चन्ते॒ स नः॑ स्व॒र्गम॒भि ने॑ष लो॒कम्॥१६॥ स्व॒र्गं लो॒कम॒भि नो॑ नयासि॒ सं जा॒यया॑ स॒ह पु॒त्रैः स्या॑म । गृ॒ह्णामि॒ हस्त॒मनु॒ मैत्वत्र॒ मा न॑स्तारी॒न्निरृ॑ति॒र्मो अरा॑तिः ॥१७॥ ग्राहिं॑ पा॒प्मान॒मति॒ तां अ॑याम॒ तमो॒ व्यऽस्य॒ प्र व॑दासि व॒ल्गु। वा॒न॒स्प॒त्य उद्य॑तो॒ मा जि॑हिंसी॒र्मा त॑ण्डु॒लं वि श॑रीर्देव॒यन्त॑म्॥१८॥ वि॒श्वव्य॑चा घृ॒तपृ॑ष्ठो भवि॒ष्यन्त्सयो॑निर्लो॒कमुप॑ याह्ये॒तम्। व॒र्षवृ॑द्ध॒मुप॑ यच्छ॒ शूर्पं॒ तुषं॑ प॒लावा॒नप॒ तद् वि॑नक्तु ॥१९॥ त्रयो॑ लो॒काः संमि॑ता॒ ब्राह्म॑णेन॒ द्यौरे॒वासौ पृ॑थि॒व्य॑१न्तरि॑क्षम्। अं॒शून् गृ॑भी॒त्वान्वार॑भेथा॒मा प्या॑यन्तां॒ पुन॒रा य॑न्तु॒ शूर्प॑म्॥२०॥ पृथ॑ग् रू॒पाणि॑ बहु॒धा प॑शू॒नामेक॑रूपो भवसि॒ सं समृ॑द्ध्या । ए॒तां त्वचं॒ लोहि॑नीं॒ तां नु॑दस्व॒ ग्रावा॑ शुम्भाति मल॒ग इ॑व॒ वस्त्रा॑ ॥२१॥ पृ॒थि॒वीं त्वा॑ पृथि॒व्यामा वे॑शयामि त॒नूः स॑मा॒नी विकृ॑ता त ए॒षा। यद्य॑द् द्यु॒त्तं लि॑खि॒तमर्प॑णेन॒ तेन॒ मा सु॑स्रो॒र्ब्रह्म॒णापि॒ तद् व॑पामि ॥२२॥ जनि॑त्रीव॒ प्रति॑ हर्यासि सू॒नुं सं त्वा॑ दधामि पृथि॒वीं पृ॑थि॒व्या। उ॒खा कु॒म्भी वेद्यां॒ मा व्य॑थिष्ठा यज्ञायु॒धैराज्ये॒नाति॑षक्ता ॥२३॥ अ॒ग्निः पच॑न् रक्षतु त्वा पु॒रस्ता॒दिन्द्रो॑ रक्षतु दक्षिण॒तो म॒रुत्वा॑न्। वरु॑णस्त्वा दृंहाद्ध॒रुणे॑ प्र॒तीच्या॑ उत्त॒रात् त्वा॒ सोमः॒ सं द॑दातै ॥२४॥ पू॒ताः प॒वित्रैः॑ पवन्ते अ॒भ्राद् दिवं॑ च॒ यन्ति॑ पृथि॒वीं च॑ लो॒कान्। ता जी॑व॒ला जी॒वध॑न्याः प्रति॒ष्ठाः पात्र॒ आसि॑क्ताः॒ पर्य॒ग्निरि॑न्धाम्॥२५॥ आ य॑न्ति दि॒वः पृ॑थि॒वीं स॑चन्ते॒ भूम्याः॑ सचन्ते॒ अध्य॒न्तरि॑क्षम्। शु॒द्धाः स॒तीस्ता उ॒ शुम्भ॑न्त ए॒व ता नः॑ स्व॒र्गम॒भि लो॒कं न॑यन्तु ॥२६॥ उ॒तेव॑ प्र॒भ्वीरु॒त संमि॑तास उ॒त शु॒क्राः शु॒च॑यश्चा॒मृता॑सः । ता ओ॑द॒नं दंप॑तिभ्यां॒ प्रशि॑ष्टा आपः॒ शिक्ष॑न्तीः पचता सुनाथाः ॥२७॥ संख्या॑ता स्तो॒काः पृ॑थि॒वीं स॑चन्ते प्राणापा॒नैः संमि॑ता॒ ओष॑धीभिः । असं॑ख्याता ओ॒प्यमा॑नाः सु॒वर्णाः॒ सर्वं॒ व्याऽपुः॒ शुच॑यः शुचि॒त्वम्॥२८॥ उद्यो॑धन्त्य॒भि व॑ल्गन्ति त॒प्ताः फेन॑मस्यन्ति बहु॒लांश्च॑ बि॒न्दून्। योषे॑व दृ॒ष्ट्वा पति॒मृत्वि॑यायै॒तैस्त॑ण्डु॒लैर्भ॑वता॒ समा॑पः ॥२९॥ उत्था॑पय॒ सीद॑तो बु॒ध्न ए॑नान॒द्भिरा॒त्मान॑म॒भि सं स्पृ॑शन्ताम्। अमा॑सि॒ पात्रै॑रुद॒कं यदे॒तन्मि॒तास्त॑ण्डु॒लाः प्र॒दिशो॒ यदी॒माः ॥३०॥ प्र य॑च्छ॒ पर्शुं॑ त्व॒रया ह॑रौ॒समहिं॑सन्त॒ ओष॑धीर्दान्तु॒ पर्व॑न्। यासां॒ सोमः॒ परि॑ रा॒ज्यं ब॒भूवाम॑न्युता नो वी॒रुधो॑ भवन्तु ॥३१॥ नवं॑ ब॒र्हिरो॑द॒नाय॑ स्तृणीत प्रि॒यं हृ॒दश्चक्षु॑षो व॒ल्ग्वऽस्तु । तस्मि॑न् दे॒वाः स॒ह दै॒वीर्वि॑शन्त्वि॒मं प्राश्न॑न्त्वृ॒तुभि॑र्नि॒षद्य॑ ॥३२॥ वन॑स्पते स्ती॒र्णमा सी॑द ब॒र्हिर॑ग्निष्टो॒भैः संमि॑तो दे॒वता॑भिः । त्वष्ट्रे॑व रू॒पं सुकृ॑तं॒ स्वधि॑त्यै॒ना ए॒हाः परि॒ पात्रे॑ ददृश्राम्॥३३॥ ष॒ष्ट्यां श॒रत्सु॑ निधि॒पा अ॒भीच्छा॒त् स्वःऽ प॒क्वेना॒भ्यश्नवातै । उपै॑नं जीवान् पि॒तर॑श्च पु॒त्रा ए॒तं स्व॒र्गं ग॑म॒यान्त॑म॒ग्नेः ॥३४॥ ध॒र्ता ध्रि॑यस्व ध॒रुणे॑ पृथि॒व्या अच्यु॑तं त्वा दे॒वता॑श्च्यावयन्तु । तं त्वा॒ दंप॑ती॒ जीव॑न्तौ जी॒वपु॑त्रा॒वुद् वा॑सयातः॒ पर्य॑ग्नि॒धाना॑त्॥३५॥ सर्वा॑न्त्स॒मागा॑ अभि॒जित्य॑ लो॒कान् याव॑न्तः॒ कामाः॒ सम॑तीतृप॒स्तान्। वि गा॑हेथामा॒यव॑नं च॒ दर्वि॒रेक॑स्मि॒न् पात्रे॒ अध्युद्ध॑रैनम्॥३६॥ उप॑ स्तृणीहि प्र॒थय॑ पु॒रस्ता॑द् घृ॒तेन॒ पात्र॑म॒भि घा॑रयै॒तत्। वा॒श्रेवो॒स्रा तरु॑णं स्तन॒स्युमि॒मं दे॑वासो अभि॒हिङ्कृ॑णोत ॥३७॥ उपा॑स्तरी॒रक॑रो लो॒कमे॒तमु॒रुः प्र॑थता॒मस॑मः स्व॒र्गः । तस्मिं॑छ्रयातै महि॒षः सु॑प॒र्णो दे॒वा ए॑नं दे॒वता॑भ्यः॒ प्र॑च्यछान्॥३८॥ यद्य॑ज्जा॒या पच॑ति॒ त्वत् प॒रःप॑रः॒ पति॑र्वा जाये॒ त्वत् ति॒रः । सं तत् सृ॑जेथां स॒ह वां॒ तद॑स्तु संपा॒दय॑न्तौ स॒ह लो॒मेक॑म्॥३९॥ याव॑न्तो अ॒स्याः पृ॑थि॒वीं सच॑न्ते अ॒स्मत् पु॒त्राः परि॒ ये सं॑बभू॒वुः । सर्वां॒स्तां उप॒ पात्रे॑ ह्वयेथां॒ नाभिं॑ जाना॒नाः शिश॑वः स॒माया॑न्॥४०॥ वसो॒र्या धारा॒ मधु॑ना॒ प्रपी॑ना घृ॒तेन॑ मि॒श्रा अ॒मृत॑स्य॒ नाभ॑यः । सर्वा॒स्ता अव॑ रुन्धे स्व॒र्गः ष॒ष्ट्यां श॒रत्सु॑ निधि॒पा अ॒भीच्छात्॥४१॥ नि॒धिं नि॑धि॒पा अ॒भ्येऽनमिच्छा॒दनी॑श्वरा अ॒भितः॑ सन्तु॒ ये॒३न्ये। अ॒स्माभि॑र्द॒त्तो निहि॑तः स्व॒र्गस्त्रि॒भिः काण्डै॒स्त्रीन्त्स्व॒र्गान॑रुक्षत्॥४२॥ अ॒ग्नी रक्ष॑स्तपतु॒ यद् विदे॑वं क्र॒व्याद् पि॑शा॒च इ॒ह मा प्र पा॑स्त । नु॒दाम॑ एन॒मप॑ रुध्मो अ॒स्मदा॑दि॒त्या ए॑न॒मङ्गि॑रसः सचन्ताम्॥४३॥ आ॒दि॒त्येभ्यो॒ अङ्गि॑रोभ्यो॒ मध्वि॒दं घृ॒तेन॑ मि॒श्रं प्रति॑ वेदयामि । शु॒द्धह॑स्तौ ब्राह्म॒णस्यानि॑हत्यै॒तं स्व॒र्गं सु॑कृता॒वपी॑तम्॥४४॥ इ॒दं प्राप॑मुत्त॒मं काण्ड॑मस्य॒ यस्मा॑ल्लो॒कात् प॑रमे॒ष्ठी स॒माप॑ । आ सि॑ञ्च स॒र्पिर्घृ॒तव॒त् सम॑ङ्ग्ध्ये॒ष भा॒गो अङ्गि॑रसो नो॒ अत्र॑ ॥४५॥ स॒त्याय॑ च॒ तप॑से दे॒वता॑भ्यो नि॒धिं शे॑व॒धिं परि॑ दद्म ए॒तम्। मा नो॑ द्यू॒तेऽव गा॒न्मा समि॑त्यां॒ मा स्मा॒न्यस्मा॒ उत् सृ॑जता पु॒रा मत्॥४६॥ अ॒हं प॑चाम्य॒हं द॑दामि॒ ममेदु॒ कर्म॑न्क॒रुणेऽधि॑ जा॒या। कौमा॑रो लो॒को अ॑जनिष्ट पु॒त्रो॒३न्वार॑भेथां॒ वय॑ उत्त॒राव॑त्॥४७॥ न किल्बि॑ष॒मत्र॒ नाधा॒रो अस्ति॒ न यन्मि॒त्रैः स॒मम॑मान॒ एति॑ । अनू॑नं॒ पात्रं॒ निहि॑तं न ए॒तत् प॒क्तारं॑ प॒क्वः पुन॒रा वि॑शाति ॥४८॥ प्रि॒यं प्रि॒याणां॑ कृणवाम॒ तम॒स्ते य॑न्तु यत॒मे द्वि॒षन्ति॑ । धे॒नुर॑न॒ड्वान् वयो॑वय आ॒यदे॒व पौरु॑षेय॒मप॑ मृ॒त्युं नु॑दन्तु ॥४९॥ सम॒ग्नयो॑ विदुर॒न्यो अ॒न्यं य ओष॑धीः॒ सच॑ते॒ यश्च॒ सिन्धू॑न्। याव॑न्तो दे॒वा दि॒व्या॒३तप॑न्ति॒ हिर॑ण्यं॒ ज्योतिः॒ पच॑तो बभूव ॥५०॥ ए॒षा त्व॒चां पुरु॑षे॒ सं ब॑भू॒वान॑ग्नाः॒ सर्वे॑ प॒शवो॒ ये अ॒न्ये। क्ष॒त्रेणा॒त्मानं॒ परि॑ धापयाथोऽमो॒तं वासो॒ मुख॑मोद॒नस्य॑ ॥५१॥ यद॒क्षेषु॒ वदा॒ यत् समि॑त्यां॒ यद् वा॒ वदा॒ अनृ॑तं वित्तका॒म्या। स॒मा॒नं तन्तु॑म॒भि सं॒वसा॑नौ॒ तस्मि॒न्त्सर्वं॒ शम॑लं सादयाथः ॥५२॥ व॒र्षं व॑नु॒ष्वापि॑ गच्छ दे॒वांस्त्व॒चो धू॒मं पर्युत् पा॑तयासि । वि॒श्वव्य॑चा घृ॒तपृ॑ष्ठो भवि॒ष्यन्त्सयो॑निर्लो॒कमुप॑ याह्ये॒तम्॥५३॥ त॒न्वं स्व॒र्गो ब॑हु॒धा वि च॑क्रे॒ यथा॑ वि॒द आ॒त्मन्न॒न्यव॑र्णाम्। अपा॑जैत् कृ॒ष्णां रुश॑तीं पुना॒नो या लोहि॑नी॒ तां ते॑ अ॒ग्नौ जु॑होमि ॥५४॥ प्राच्यै॑ त्वा दि॒शे॒३ग्नयेऽधि॑पतयेऽसि॒ताय॑ रक्षि॒त्र आ॑दि॒त्यायेषु॑मते । ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑ । दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ॥५५॥ दक्षि॑णायै त्वा दि॒श इन्द्रा॒याधि॑पतये॒ तिर॑श्चिराजये रक्षि॒त्रे य॒मायेषु॑मते । ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑ । दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ प॒क्वेन॑ स॒ह सं भ॑वेम ॥५६॥ प्र॒तीच्यै॑ त्वा दि॒शे वरु॑णा॒याधि॑पतये॒ पृदा॑कवे रक्षि॒त्रेऽन्ना॒येषु॑मते । ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑ । दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ॥५७॥ उदी॑च्यै त्वा दि॒शे सोमा॒याधि॑पतये स्व॒जाय॑ रक्षि॒त्रेऽशन्या इषु॑मत्यै । ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑ । दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ॥५८॥ ध्रु॒वायै॑ त्वा दि॒शे विष्ण॒वेऽधि॑पतये क॒ल्माष॑ग्रीवाय रक्षि॒त्र ओष॑धीभ्य॒ इषु॑मतीभ्यः । ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑ । दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ॥५९॥ ऊ॒र्ध्वायै॑ त्वा दि॒शे बृह॒स्पत॒येऽधि॑पतये श्वि॒त्राय॑ रक्षि॒त्रे व॒र्षायेषु॑मते । ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑ । दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ प॒क्वेन॑ स॒ह सं भ॑वेम ॥६०॥
वशा गौः। १-५३ कश्यपः। वशा। अनुष्टुप्, ७ भुरिक्, २० विराट्, ३१ उष्णिग्बृहतीगर्भा, ४२ बृहतीगर्भा। ददा॒मीत्ये॒व ब्रू॑या॒दनु॑ चैना॒मभु॑त्सत । व॒शां ब्र॒ह्मभ्यो॒ याच॑द्भ्य॒स्तत् प्र॒जाव॒दप॑त्यवत्॥१॥ प्र॒जया॒ स वि क्री॑णीते प॒शुभि॒श्चोप॑ दस्यति । य आ॑र्षे॒येभ्यो॒ याच॑द्भ्यो दे॒वानां॒ गां न दित्स॑ति ॥२॥ कू॒टया॑स्य॒ सं शी॑र्यन्ते श्लो॒णया॑ का॒टम॑र्दति । ब॒ण्डया॑ दह्यन्ते गृ॒हाः का॒णया॑ दीयते॒ स्वम्॥३॥ वि॒लो॒हि॒तो अ॑धि॒ष्ठाना॑च्छ॒क्नो वि॑न्दति॒ गोप॑तिम्। तथा॑ व॒शायाः॒ संवि॑द्यं दुरद॒भ्ना ह्यु॑१च्यसे॑ ॥४॥ प॒दोर॑स्या अधि॒ष्ठाना॑द् वि॒क्लिन्दु॒र्नाम॑ विन्दति । अ॒ना॒म॒नात् सं शी॑र्यन्ते॒ या मुखे॑नोप॒जिघ्र॑ति ॥५॥ यो अ॑स्याः॒ कर्णा॑वास्कु॒नोत्या स दे॒वेषु॑ वृश्चते । लक्ष्म॑ कुर्व॒ इति॒ मन्य॑ते॒ कनी॑यः कृणुते॒ स्वम्॥६॥ यद॑स्याः॒ कस्मै॑ चि॒द् भोगा॑य॒ बाला॒न् कश्चि॑त् प्रकृ॒न्तति॑ । ततः॑ किशो॒रा म्रि॑यन्ते व॒त्सांश्च॒ घातु॑को॒ वृकः॑ ॥७॥ यद॑स्या गोप॑तौ स॒त्या लोम॒ ध्वाङ्क्षो॒ अजी॑हिडत्। ततः॑ कुमा॒रा म्रि॑यन्ते॒ यक्ष्मो॑ विन्दत्यनाम॒नात्॥८॥ यद॑स्याः॒ पल्पू॑लनं॒ शकृ॑द् दा॒सी स॒मस्य॑ति । ततोऽप॑रूपं जायते॒ तस्मा॒दव्ये॑ष्य॒देन॑सः ॥९॥ जाय॑माना॒भि जा॑यते दे॒वान्त्सब्रा॑ह्मणान् व॒शा। तस्मा॑द् ब्र॒ह्मभ्यो॒ देयै॒षा तदा॑हुः॒ स्वस्य॒ गोप॑नम्॥१०॥ य ए॑नां व॒निमा॒यन्ति॒ तेषां॑ दे॒वकृ॑ता व॒शा। ब्र॒ह्म॒ज्येयं॒ तद॑ब्रुव॒न् य ए॑नां निप्रिया॒यते॑ ॥११॥ य आ॑र्षे॒येभ्यो॒ याच॑द्भ्यो दे॒वानां॒ गां न दित्स॑ति । आ स दे॒वेषु॑ वृश्चते ब्राह्म॒णानां॑ च म॒न्यवे॑ ॥१२॥ यो अ॑स्य॒ स्याद् व॑शाभो॒गो अ॒न्यामि॑च्छेत॒ तर्हि॒ सः । हिंस्ते॒ अद॑त्ता॒ पुरु॑षं याचि॒तां च॒ न दित्स॑ति ॥१३॥ यथा॑ शेव॒धिर्निहि॑तो ब्राह्म॒णानां॒ तथा॑ व॒शा। तामे॒तद॒च्छाय॑न्ति यस्मि॒न् कस्मिंश्च॒ जाय॑ते ॥१४॥ स्वमे॒तद॒च्छाय॑न्ति॒ यद् व॒शां ब्रा॑ह्म॒णा अ॒भि। यथै॑नान॒न्यस्मि॑न् जिनी॒यादे॒वास्या॑ नि॒रोध॑नम्॥१५॥ चरे॑दे॒वा त्रै॑हाय॒णा दवि॑ज्ञातगदा स॒ती। व॒शां च॑ वि॒द्यान्ना॑रद ब्राह्म॒णास्तर्ह्ये॒ष्याः ॥१६॥ य ए॑ना॒मव॑शा॒माह॑ दे॒वानां॒ निहि॑तं नि॒धिम्। उ॒भौ तस्मै॑ भवाश॒र्वौ प॑रि॒क्रम्येषु॑मस्यतः ॥१७॥ यो अ॑स्या॒ ऊधो॒ न वेदाथो॑ अस्या॒ स्तना॑नु॒त। उ॒भये॑नै॒वास्मै॑ दुहे॒ दातुं॒ चे दश॑कद् व॒शाम्॥१८॥ दु॒र॒द॒भ्नैन॒मा श॑ये याचि॒तां च॒ न दित्स॑ति । नास्मै॒ कामाः॒ समृ॑ध्यन्ते॒ यामद॑त्त्वा॒ चिकी॑र्षति ॥१९॥ दे॒वा व॒शाम॑याच॒न् मुखं॑ कृ॒त्वा ब्राह्म॑णम्। तेषां॒ सर्वे॑षा॒मद॑द॒द्धेडं॒ न्येऽति॒ मानु॑षः ॥२०॥ हेडं॑ पशू॒नां न्येऽति ब्राह्म॒णेभ्योऽद॑दद् व॒शाम्। दे॒वानां॒ निहि॑तं भा॒गं मर्त्य॒श्चेन्नि॑प्रिया॒यते॑ ॥२१॥ यद॒न्ये श॒तं याचे॑युर्ब्राह्म॒णा गोप॑तिं व॒शाम्। अथै॑नां दे॒वा अ॑ब्रुवन्ने॒वं ह॑ वि॒दुषो॑ व॒शा॥२२॥ य ए॒वं वि॒दुषेऽद॒त्त्वाथा॒न्येभ्यो॒ दद॑द् व॒शाम्। दु॒र्गा तस्मा॑ अधि॒ष्ठाने॑ पृथि॒वी स॒हदे॑वता ॥२३॥ दे॒वा व॒शाम॑याच॒न् यस्मि॒न्नग्रे॒ अजा॑यत । तामे॒तां वि॑द्या॒न्नार॑दः स॒ह दे॒वैरुदा॑जत ॥२४॥ अ॒न॒प॒त्यमल्प॑पशुं व॒शा कृ॑णोति॒ पूरु॑षम्। ब्रा॒ह्म॒णैश्च॑ याचि॒तामथै॑नां निप्रिया॒यते॑ ॥२५॥ अ॒ग्नीषोमा॑भ्यां॒ कामा॑य मि॒त्राय॒ वरु॑णाय च । तेभ्यो॑ याचन्ति ब्राह्म॒णास्तेष्वा वृ॑श्च॒तेऽद॑दत्॥२६॥ याव॑दस्या॒ गोप॑ति॒र्नोप॑शृणु॒यादृचः॑ स्व॒यम्। चरे॑दस्य॒ ताव॒द् गोषु॒ नास्य॑ श्रु॒त्वा गृ॒हे व॑सेत्॥२७॥ यो अ॑स्या॒ ऋच॑ उप॒श्रुत्याथ॒ गोष्वची॑चरत्। आयु॑श्च॒ तस्य॒ भूतिं॑ च दे॒वा वृ॑श्चन्ति हीडि॒ताः ॥२८॥ व॒शा चर॑न्ती बहु॒धा दे॒वानां॒ निहि॑तो नि॒धिः । आ॒विष्कृ॑णुष्व रू॒पाणि॑ य॒दा स्थाम॒ जिघां॑सति ॥२९॥ आ॒विरा॒त्मानं॑ कृणुते य॒दा स्थाम॒ जिघांसति । अथो॑ ह ब्र॒ह्मभ्यो॑ व॒शा या॒ञ्च्याय॑ कृणुते॒ मनः॑ ॥३०॥ मन॑सा॒ सं क॑ल्पयति॒ तद् दे॒वां अपि॑ गच्छति । ततो॑ ह ब्र॒ह्माणो॑ व॒शामु॑प॒प्रय॑न्ति॒ याचि॑तुम्॥३१॥ स्व॒धा॒का॒रेण॑ पि॒तृभ्यो॑ य॒ज्ञेन॑ दे॒वता॑भ्यः । दाने॑न राज॒न्योऽ व॒शाया॑ मा॒तुर्हेडं॒ न ग॑च्छति ॥३२॥ व॒शा मा॒ता रा॑ज॒न्यऽस्य॒ तथा॒ संभू॑तमग्र॒शः । तस्या॑ आहु॒रन॑र्पणं॒ यद् ब्र॒ह्मभ्यः॑ प्रदी॒यते॑ ॥३३॥ यथाज्यं॒ प्रगृ॑हीतमालु॒म्पेत् स्रु॒चो अ॒ग्नये॑ । ए॒वा ह॑ ब्र॒ह्मभ्यो॑ व॒शा म॒ग्नय॒ आ वृ॑श्च॒तेऽद॑दत्॥३४॥ पु॒रो॒डाश॑वत्सा सु॒दुघा॑ लो॒के॑ऽस्मा॒ उप॑ तिष्ठति । सास्मै॒ सर्वा॒न् कामा॑न् व॒शा प्र॑द॒दुषे॑ दुहे ॥३५॥ सर्वा॒न् कामा॑न् यम॒राज्ये॑ व॒शा प्र॑द॒दुषे॑ दुहे । अथा॑हु॒र्नार॑कं लो॒कं नि॑रुन्धा॒नस्य॑ याचि॒ताम्॥३६॥ प्र॒वी॒यमा॑ना चरति क्रु॒द्धा गोप॑तये व॒शा। वे॒हतं मा॒ मन्य॑मानो मृ॒त्योः पाशे॑षु बध्यताम्॥३७॥ यो वे॒हतं॒ मन्य॑मानो॒ऽमा च॒ पच॑ते व॒शाम्। अप्य॑स्य पु॒त्रान् पौत्रां॑श्च या॒चय॑ते॒ बृह॒स्पतिः॑ ॥३८॥ म॒हदे॒षाव॑ तपति॒ चर॑न्ती॒ गोषु॒ गौरपि॑ । अथो॑ ह॒ गोप॑तये व॒शाद॑दुषे वि॒षं दु॑हे ॥३९॥ प्रि॒यं प॑शू॒नां भ॑वति॒ यद् ब्र॒ह्मभ्यः॑ प्रदी॒यते॑ । अथो॑ व॒शाया॒स्तत् प्रि॒यं यद् दे॑व॒त्रा ह॒विः स्यात्॥४०॥ या व॒शा उ॒दक॑ल्पयन् दे॒वा य॒ज्ञादु॒देत्य॑ । तासां॑ विलि॒प्त्यं भी॒मामु॒दाकु॑रुत नार॒दः ॥४१॥ तां दे॒वा अ॑मीमांसन्त व॒शेया३मव॒शेति॑ । ताम॑ब्रवीन्नार॒द ए॒षा व॒शानां॑ व॒शत॒मेति॑ ॥४२॥ कति॒ नु व॒शा ना॑रद॒ यास्त्वं वेत्थ मनुष्य॒जाः । तास्त्वा॑ पृच्छामि वि॒द्वांसं॒ कस्या॒ नाश्नी॑या॒दब्रा॑ह्मणः ॥४३॥ वि॒लि॒प्त्या बृ॑हस्पते॒ या च॑ सू॒तव॑शा व॒शा। तस्या॒ नाश्नी॑या॒दब्रा॑ह्मणो॒ या आ॒शंसे॑त॒ भूत्या॑म्॥४४॥ नम॑स्ते अस्तु नारदानु॒ष्ठु वि॒दुषे॑ व॒शा। क॒त॒मासां॑ भी॒मत॑मा॒ यामद॑त्त्वा परा॒भवे॑त्॥४५॥ वि॒लि॒प्ती या बृ॑हस्प॒तेऽथो॑ सू॒तव॑शा व॒शा। तस्या॒ नाश्नी॑या॒दब्रा॑ह्मणो॒ य आ॒शंसे॑त॒ भूत्या॑म्॥४६॥ त्रीणि॒ वै व॑शाजा॒तानि॑ विलि॒प्ती सू॒तव॑शा व॒शा। ताः प्र यच्छेद् ब्र॒ह्मभ्यः॒ सोऽनाव्र॒स्कः प्र॒जाप॑तौ ॥४७॥ ए॒तद् वो॑ ब्राह्मणा ह॒विरिति॑ मन्वीत याचि॒तः । व॒शां चेदे॑नं॒ याचे॑यु॒र्या भी॒माद॑दुषो गृ॒हे॥४८॥ दे॒वा व॒शां पर्य॑वद॒न् न नो॑ऽदा॒दिति॑ हीडि॒ताः । ए॒ताभि॑रृ॒ग्भिर्भे॒दं तस्मा॒द् वै स परा॑भवत्॥४९॥ उ॒तैनां॑ भे॒दो नाद॑दाद् व॒शामिन्द्रे॑ण याचि॒तः । तस्मा॒त् तं दे॒वा आग॒सोऽवृ॑श्चन्नहमुत्त॒रे॥५०॥ ये व॒शाया॒ अदा॑नाय॒ वद॑न्ति परिरा॒पिणः॑ । इन्द्र॑स्य म॒न्यवे॑ जा॒ल्मा आ वृ॑श्चन्ते॒ अचि॑त्त्या ॥५१॥ ये गोप॑तिं परा॒णीयाथा॒हुर्मा द॑दा॒ इति॑ । रु॒द्रस्या॒स्तां ते हे॒तिं परि॑ य॒न्त्यचि॑त्त्या ॥५२॥ यदि॑ हु॒तं यद्यहु॑ताम॒मा च॒ पच॑ते व॒शाम्। दे॒वान्त्सब्रा॑ह्मणानृ॒त्वा जि॒ह्मो लो॒कान्निरृ॑च्छति ॥५३॥
ब्रह्मगवी। १-७२ (कश्यपः?) अथर्वाचार्यः। ब्रह्मगवी। (सप्त पर्यायाः) (१-६) १ प्राजापत्याऽनुष्टुप्, २,६ भुरिक् साम्यनुष्टुप्, ३ चतुष्पदा स्वराडुष्णिक्, ४ आसुर्यनुष्टुप्, ५ साम्नी पङ्क्तिः। श्रमे॑ण॒ तप॑सा सृ॒ष्टा ब्रह्म॑णा वि॒त्तर्ते श्रि॒ता॥१॥ स॒त्येनावृ॑ता श्रि॒या प्रावृ॑ता॒ यश॑सा॒ परी॑वृता ॥२॥ स्व॒धया॒ परि॑हिता श्र॒द्धया॒ पर्यू॑ढा दी॒क्षया॑ गु॒प्ता य॒ज्ञे प्रति॑ष्ठिता लो॒को नि॒धन॑म्॥३॥ ब्रह्म॑ पदवा॒यं ब्रा॑ह्म॒णोऽधि॑पतिः ॥४॥ तामा॒ददा॑नस्य ब्रह्मग॒वीं जि॑न॒तो ब्रा॑ह्म॒णं क्ष॒त्रिय॑स्य ॥५॥ अप॑ क्रामति सू॒नृता॑ वी॒र्यं॑१ पुण्या॑ ल॒क्ष्मीः ॥६॥ (2) (७-११) ७-९ आर्च्यनुष्टुप् (७ भुरिक्), १० उष्णिक्, (७-१७ एकपदा), ११ आर्ची निचृत्पङ्क्तिः। ओज॑श्च॒ तेज॑श्च॒ सह॑श्च॒ बलं॑ च॒ वाक् चे॑न्द्रि॒यं च॒ श्रीश्च॒ धर्म॑श्च ॥७॥ ब्रह्म॑ च क्ष॒त्रं च॑ रा॒ष्ट्रं च॒ विश॑श्च॒ त्विषि॑श्च॒ यश॑श्च॒ वर्च॑श्च॒ द्रवि॑णं च ॥८॥ आयु॑श्च रू॒पं च॒ नाम॑ च की॒र्तिश्च॑ प्रा॒णश्चा॑पा॒नश्च॒ चक्षु॑श्च॒ श्रोत्रं॑ च ॥९॥ पय॑श्च॒ रस॒श्चान्नं॑ चा॒न्नाद्यं॑ च॒र्तं च॑ स॒त्यं चे॒ष्टं च॑ पू॒र्तं च॑ प्र॒जा च॑ प॒शव॑श्च ॥१०॥ तानि॒ सर्वा॒ण्यप॑ क्रामन्ति ब्रह्मग॒वीमा॒ददा॑नस्य जिन॒तो ब्रा॑ह्म॒णं क्ष॒त्रिय॑स्य ॥११॥ (3) (१२-२७) १२ विराड् विषमा गायत्री, १३ आसुर्यनुष्टुप्, १४, २५ साम्नी उष्णिक्, १५ गायत्री, १६-१७, १९-२० प्राजापत्याऽनुष्टुप्, १८ याजुषी जगती, २१,२५ साम्न्यनुष्टुप्, २२ साम्नी बृहती, २३ याजुषी त्रिष्टुप्, २४ आसुरी गायत्री, २७ आर्च्युष्णिक्। सैषा भी॒मा ब्र॑ह्मग॒व्य॑१घवि॑षा सा॒क्षात् कृ॒त्या कूल्ब॑ज॒मावृ॑ता ॥१२॥ सर्वा॑ण्यस्यां घो॒राणि॒ सर्वे॑ च मृ॒त्यवः॑ ॥१३॥ सर्वा॑ण्यस्यां क्रू॒राणि॒ सर्वे॑ पुरुषव॒धाः ॥१४॥ सा ब्र॑ह्म॒ज्यं दे॑वपी॒युं ब्र॑ह्मग॒व्याऽदी॒यमा॑ना मृ॒त्योः पद्वी॑श॒ आ द्य॑ति ॥१५॥ मे॒निः श॒तव॑धा॒ हि सा ब्र॑ह्म॒ज्यस्य॒ क्षिति॒र्हि सा॥१६॥ तस्मा॒द् वै ब्रा॑ह्म॒णानां॒ गौर्दु॑रा॒धर्षा॑ विजान॒ता॥१७॥ वज्रो॒ धाव॑न्ती वैश्वान॒र उद्वी॑ता ॥१८॥ हे॒तिः श॒फानु॑त्खि॒दन्ती॑ महादे॒वो॒३ऽपेक्ष॑माणा ॥१९॥ क्षु॒रप॑वि॒रीक्ष॑माणा॒ वाश्य॑माना॒भि स्फू॑र्जति ॥२०॥ मृ॒त्युर्हि॑ङ्कृण्व॒त्यु॑१ग्रो दे॒वः पुच्छं॑ प॒र्यस्य॑न्ती ॥२१॥ स॒र्व॒ज्या॒निः कर्णौ॑ वरीव॒र्जय॑न्ती राजय॒क्ष्मो मेह॑न्ती ॥२२॥ मे॒निर्दु॒ह्यमा॑ना शीर्ष॒क्तिर्दु॒ग्धा॥२३॥ से॒दिरु॑प॒तिष्ठ॑न्ती मिथोयो॒धः परा॑मृष्टा ॥२४॥ श॒र॒व्या॒३ मुखे॑ऽपिन॒ह्यमा॑न॒ ऋति॑र्ह॒न्यमा॑ना ॥२५॥ अ॒घवि॑षा नि॒पत॑न्ती॒ तमो॒ निप॑तिता ॥२६॥ अ॒नु॒गच्छ॑न्ती प्रा॒णानुप॑ दासयति ब्रह्मग॒वी ब्र॑ह्म॒ज्यस्य॑ ॥२७॥ (4) (२८-३८) आसुरी गायत्री, २९, ३७ आसुर्यनुष्टुप्, ३० साम्न्यनुष्टुप्, ३१ याजषी त्रिष्टुप्, ३२ साम्नी गायत्री, ३३-३४ साम्नी बृहती, ३५ भुरिक्साम्न्यनुष्टुप्, ३६ साम्न्युष्णिक्, ३८ प्रतिष्ठा गायत्री। वैरं॑ विकृ॒त्यमा॑ना॒ पौत्रा॑द्यं विभा॒ज्यमा॑ना ॥२८॥ दे॒व॒हे॒तिर्ह्रि॒यमा॑णा॒ व्यृद्धिर्हृ॒ता॥२९॥ पा॒प्माधि॑धी॒यमा॑ना॒ पारु॑ष्यमवधी॒यमाना ॥३०॥ वि॒षं प्र॒यस्य॑न्ती त॒क्मा प्रय॑स्ता ॥३१॥ अ॒घं प॒च्यमा॑ना दु॒ष्वप्न्यं॑ प॒क्वा॥३२॥ मू॒ल॒बर्ह॑णी पर्याक्रि॒यमा॑णा॒ क्षितिः॑ प॒र्याकृ॑ता ॥३३॥ असं॑ज्ञा ग॒न्धेन॒ शुगु॑द्ध्रि॒यमा॑णाशीवि॒ष उद्धृ॑ता ॥३४॥ अभू॑तिरुपह्रि॒यमा॑णा॒ परा॑भूति॒रुप॑हृता ॥३५॥ श॒र्व क्रु॒द्धः पि॒श्यमा॑ना॒ शिमि॑दा पिशि॒ता॥३६॥ अव॑र्तिर॒श्यमा॑ना॒ निरृ॑तिरशि॒ता॥३७॥ अ॒शि॒ता लो॒काच्छि॑नत्ति ब्रह्मग॒वी ब्र॑ह्म॒ज्यम॒स्माच्चा॒मुष्मा॑च्च ॥३८॥ (5) (३९-४६) ३९ साम्नी पङ्क्तिः, ४० याजुष्यनुष्टुप्, ४१, ४६ भुरिक् साम्न्यनुष्टुप्, ४२ आसुरी बृहती, ४३ साम्नी बृहती, ४४ पिपीलिकमध्याऽनुष्टुप्, ४५ आर्ची बृहती। तस्या॑ आ॒हन॑नं कृ॒त्या मे॒निरा॒शस॑नं वल॒ग ऊब॑ध्यम्॥३९॥ अ॒स्व॒गता॒ परि॑ह्णुता ॥४०॥ अ॒ग्निः क्र॒व्याद् भू॒त्वा ब्र॑ह्मग॒वी ब्र॑ह्म॒ज्यं प्र॒विश्या॑त्ति ॥४१॥ सर्वा॒स्याङ्गा॒ पर्वा॒ मूला॑नि वृश्चति ॥४२॥ छि॒नत्त्य॑स्य पितृब॒न्धु परा॑ भावयति मातृब॒न्धु॥४३॥ वि॒वा॒हां ज्ञा॒तीन्त्सर्वा॒नपि॑ क्षापयति ब्रह्मग॒वी ब्र॑ह्म॒ज्यस्य॑ क्ष॒त्रिये॒णापु॑नर्दीयमाना ॥४४॥ अ॒वा॒स्तुमे॑न॒मस्व॑ग॒मप्र॑जसं करोत्यपरापर॒णो भ॑वति क्षी॒यते॑ ॥४५॥ य ए॒वं वि॒दुषो॑ ब्राह्म॒णस्य॑ क्ष॒त्रियो॒ गामा॑द॒त्ते॥४६॥ (6) (४७-६१) ४७, ४९, ५१-५३, ५७-५९, ६१ प्राजापत्याऽनुष्टुप्, ४८ आर्च्यनुष्टुप्, ५० साम्नी बृहती, ५४-५५ प्राजापत्योष्णिक्, ५६ आसुरी गायत्री, ६० गायत्री। क्षि॒प्रं वै तस्या॒हन॑ने॒ गृध्राः॑ कुर्वत ऐल॒बम्॥४७॥ क्षि॒प्रं वै तस्या॒दह॑नं॒ परि॑ नृत्यन्ति के॒शनी॑राघ्ना॒नाः पा॒णिनोर॑सि कुर्वा॒णाः पा॒पमै॑ल॒बम्॥४८॥ क्षि॒प्रं वै तस्य॒ वास्तु॑षु॒ वृकाः॑ कुर्वत ऐल॒बम्॥४९॥ क्षि॒प्रं वै तस्य॑ पृच्छन्ति॒ यत् तदासी॑३दि॒दं नु ता३दिति॑ ॥५०॥ छि॒न्ध्या च्छि॑न्धि॒ प्र छि॒न्ध्यपि॑ क्षापय क्षा॒पय॑ ॥५१॥ आ॒ददा॑नमाङ्गिरसि ब्रह्म॒ज्यमुप॑ दासय ॥५२॥ वै॒श्व॒दे॒वी ह्यु॑१च्यसे॑ कृ॒त्या कूल्ब॑ज॒मावृ॑ता ॥५३॥ ओष॑न्ती स॒मोष॑न्ती॒ ब्रह्म॑णो॒ वज्रः॑ ॥५४॥ क्षु॒रप॑विर्मृ॒त्युर्भू॒त्वा वि धा॑व॒ त्वम्॥५५॥ आ द॑त्से जिन॒तां वर्च॑ इ॒ष्टं पू॒र्तं चा॒शिषः॑ ॥५६॥ आ॒दाय॑ जी॒तं जी॒ताय॑ लो॒के॒३ऽमुष्मि॒न् प्र य॑च्छसि ॥५७॥ अघ्न्ये॑ पद॒वीर्भ॑व ब्राह्म॒णस्या॒भिश॑स्त्या ॥५८॥ मे॒निः श॑र॒व्याऽ भवा॒घाद॒घवि॑षा भव ॥५९॥ अघ्न्ये॒ प्र शिरो॑ जहि ब्रह्म॒ज्यस्य॑ कृ॒ताग॑सो देवपी॒योर॑रा॒धसः॑ ॥६०॥ त्वया॒ प्रमू॑र्णं मृदि॒तम॒ग्निर्द॑हतु दु॒श्चित॑म्॥६१॥ (7) (६२-७३) ६२-६४, ६६,६८-७० प्राजापत्याऽनुष्टुप्, ६५ गायत्री, ६७ प्राजापत्या गायत्री, ७१ आसुरी पङ्क्तिः, ७२ प्राजापत्या त्रिष्टुप् ७३ आसुर्युष्णिक्। वृ॒श्च प्र वृ॑श्च॒ सं वृ॑श्च॒ दह॒ प्र द॑ह॒ सं द॑ह ॥६२॥ ब्र॒ह्म॒ज्यं दे॑व्यघ्न्य॒ आ मूला॑दनु॒संद॑ह ॥६३॥ यथाया॑द् यमसाद॒नात् पा॑पलो॒कान् प॑रा॒वतः॑ ॥६४॥ ए॒वा त्वं दे॑व्यघ्न्ये ब्रह्म॒ज्यस्य॑ कृ॒ताग॑सो देवपी॒योर॑रा॒धसः॑ ॥६५॥ वज्रे॑ण श॒तप॑र्वणा ती॒क्ष्णेन॑ क्षु॒रभृ॑ष्टिना ॥६६॥ प्र स्क॒न्धान् प्र शिरो॑ जहि ॥६७॥ लोमा॑न्यस्य॒ सं छि॑न्धि॒ त्वच॑मस्य॒ वि वे॑ष्टय ॥६८॥ मां॒सान्य॑स्य शातय॒ स्नावा॑न्यस्य॒ सं वृ॑ह ॥६९॥ अस्थी॑न्यस्य पीडय म॒ज्जान॑मस्य॒ निर्ज॑हि ॥७०॥ सर्वा॒स्याङ्गा॒ पर्वा॑णि॒ वि श्र॑थय ॥७१॥ अ॒ग्निरे॑नं क्र॒व्यात् पृ॑थि॒व्या नु॑दता॒मुदो॑षतु वा॒युर॒न्तरि॑क्षान्मह॒तो व॑रि॒म्णः ॥७२॥ सूर्य॑ एनं दि॒वः प्र णु॑दतां॒ न्योऽषतु ॥७३॥
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is Kaanda 12 of the Atharva Veda?
Kaanda 12 of the Atharvaveda (Shaunaka) — longer hymns, ranging over health, household and social life and cosmic themes. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
What is the Atharva Veda?
The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
Offer a Vedic paath or seva in your name
Have a Vedic paath, havan or seva performed in your naam-gotra for peace and blessings. Book a seva, or read on in Sanatan Sahitya.








