About Kaanda 10
Kaanda 10 of the Atharvaveda (Shaunaka) — longer hymns, ranging over health, household and social life and cosmic themes. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
How it is read
Kaanda 10 is given below in its original Sanskrit, in accented Devanagari. The Veda is preserved as shruti and recited in svadhyaya; read it reverently, sukta by sukta.
Original Text
The Verses
कृत्यादूषणम्। १-३२ प्रत्यङ्गिरसः। कृत्यादूषणम्। अनुष्टुप्, १ महाबृहती, २ विराण्नाम गायत्री, ९ पथ्यापङ्क्तिः, १२ पङ्क्तिः, १३ उरोबृहती, १५ चतुष्पदा विराड्-जगती, १७, २०, २४ प्रस्तारपङ्क्तिः (२० विराट्), १६, १८ त्रिष्टुप्, १९ चतुष्पदा जगती, २२ एकावसाना द्विपदार्ची उष्णिक्, २३ त्रिपदा भुरिग्विषमा गायत्री,२८ त्रिपदा गायत्री २९ मध्ये ज्योतिष्मती जगती, ३२ द्व्यनुष्टुब्गर्भा पञ्चपदातिजगती। यां क॒ल्पय॑न्ति वह॒तौ व॒धूमि॑व वि॒श्वरू॑पां॒ हस्त॑कृतां चिकि॒त्सवः॑ । सारादे॒त्वप॑ नुदाम एनाम्॥१॥ शी॒र्ष॒ण्वती॑ न॒स्वती॑ क॒र्णिनी॑ कृत्या॒कृता॒ संभृ॑ता वि॒श्वरू॑पा । सारादे॒त्वप॑ नुदाम एनाम्॥२॥ शू॒द्रकृ॑ता॒ राज॑कृता॒ स्त्रीकृ॑ता ब्र॒ह्मभिः॑ कृ॒ता। जा॒या पत्या॑ नु॒त्तेव॑ क॒र्तारं॒ बन्ध्वृ॑च्छतु ॥३॥ अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम्। यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥४॥ अघम॑स्त्वघ॒कृते॑ श॒पथः॑ शपथीय॒ते। प्र॒त्यक् प्र॑ति॒प्रहि॑ण्मो॒ यथा॑ कृत्या॒कृतं॒ हन॑त्॥५॥ प्र॒ती॒चीन॑ आङ्गिर॒सोऽध्य॑क्षो नः पु॒रोहि॑तः । प्र॒तीचीः॑ कृ॒त्या आ॒कृत्या॒मून् कृ॑त्या॒कृतो॑ जहि ॥६॥ यस्त्वो॒वाच॒ परे॒हीति॑ प्रति॒कूल॑मुदा॒य्यऽम्। तं कृ॑त्येऽभि॒निव॑र्तस्व॒ मास्मानि॑च्छो अना॒गसः॑ ॥७॥ यस्ते॒ परूं॑षि संद॒धौ रथ॑स्येव॒र्भुर्धि॒या। तं ग॑च्छ॒ तत्र॒ तेऽय॑न॒मज्ञा॑तस्ते॒ऽयं जनः॑ ॥८॥ ये त्वा॑ कृ॒त्वाले॑भि॒रे वि॑द्व॒ला अ॑भिचा॒रिणः॑ । शं॒भ्वि॒३दं कृ॑त्या॒दूष॑णं प्रतिव॒र्त्म पु॑नःस॒रं तेन॑ त्वा स्नपयामसि ॥९॥ यद् दु॒र्भगां॒ प्रस्न॑पितां मृ॒तव॑त्सामुपेयि॒म। अपै॑तु॒ सर्वं॒ मत् पा॒पं द्रवि॑णं॒ मोप॑ तिष्ठतु ॥१०॥ यत् ते॑ पि॒तृभ्यो॒ दद॑तो य॒ज्ञे वा॒ नाम॑ जगृ॒हुः । सं॒दे॒श्या॒३त् सर्व॑स्मात् पा॒पादि॒मा मु॑ञ्चन्तु॒ त्वौष॑धीः ॥११॥ दे॒वै॒न॒सात् पित्र्या॑न्नामग्रा॒हात् सं॑दे॒श्याऽदभि॒निष्कृ॑तात्। मु॒ञ्चन्तु॑ त्वा वी॒रुधो॑ वी॒र्येऽण॒ ब्रह्म॑ण ऋ॒ग्भिः पय॑स॒ ऋषी॑णाम्॥१२॥ यथा॒ वात॑श्च्या॒वय॑ति॒ भूम्या॑ रे॒णुम॒न्तरि॑क्षाच्चा॒भ्रम्। ए॒वा मत् सर्वं॑ दुर्भू॒तं ब्रह्म॑नुत्त॒मपा॑यति ॥१३॥ अप॑ क्राम॒ नान॑दती॒ विन॑द्धा गर्द॒भीव॑ । क॒र्तृन् न॑क्षस्वे॒तो नु॒त्ता ब्रह्म॑णा वी॒र्याऽवता ॥१४॥ अ॒यं पन्थाः॑ कृ॒त्येति॑ त्वा नयामोऽभि॒प्रहि॑तां॒ प्रति॑ त्वा॒ प्र हि॑ण्मः । तेना॒भि या॑हि भञ्ज॒त्यन॑स्वतीव वा॒हिनी॑ वि॒श्वरू॑पा कुरू॒टिनी॑ ॥१५॥ परा॑क् ते॒ ज्योति॒रप॑थं ते अ॒र्वाग॒न्यत्रा॒स्मदय॑ना कृणुष्व । परे॑णेहि नव॒तिं ना॒व्या॒३ अति॑ दु॒र्गाः स्रो॒त्या मा क्ष॑णिष्ठाः॒ परे॑हि ॥१६॥ वात॑ इव वृ॒क्षान् नि मृ॑णीहि पा॒दय॒ मा गामश्वं॒ पुरु॑ष॒मुच्छि॑ष एषाम्। क॒र्तॄन् नि॒वृत्ये॒तः कृ॑त्योऽप्रजा॒स्त्वाय॑ बोधय ॥१७॥ यां ते॑ ब॒र्हिषि॒ यां श्म॑शा॒ने क्षेत्रे॑ कृ॒त्यां व॑ल॒गं वा॑ निच॒ख्नुः । अ॒ग्नौ वा॑ त्वा॒ गार्ह॑पत्येऽभिचे॒रुः पाकं॒ सन्तं॒ धीर॑तरा अना॒गस॑म्॥१८॥ उ॒पाहृ॑त॒मनु॑बुद्धं॒ निखा॑तं॒ वैरं॑ त्सा॒र्यन्व॑विदाम॒ कर्त्र॑म्। तदे॑तु॒ यत॒ आभृ॑तं॒ तत्राश्व॑ इव॒ वि व॑र्ततां॒ हन्तु॑ कृत्या॒कृतः॑ प्र॒जाम्॥१९॥ स्वा॒य॒सा अ॒सयः॑ सन्ति नो गृ॒हे वि॒द्मा ते॑ कृत्ये यति॒धा परूं॑षि । उत्ति॑ष्ठै॒व परे॑ही॒तोऽज्ञा॑ते॒ किमि॒हेच्छ॑सि ॥२०॥ ग्री॒वास्ते॑ कृत्ये॒ पादौ॒ चापि॑ कर्त्स्यामि॒ निर्द्र॑व । इ॒न्द्रा॒ग्नी अ॒स्मान् र॑क्षतां॒ यौ प्र॒जानां॑ प्र॒जाव॑ती ॥२१॥ सोमो॒ राजा॑धि॒पा मृ॑डि॒ता च॑ भू॒तस्य॑ नः॒ पत॑यो मृडयन्तु ॥२२॥ भ॒वा॒श॒र्वाव॑स्यतां पाप॒कृते॑ कृत्या॒कृते॑ । दु॒ष्कृते॑ वि॒द्युतं॑ देवहे॒तिम्॥२३॥ यद्ये॒यथ॑ द्वि॒पदी॒ चतु॑ष्पदी कृत्या॒कृता॒ संभृ॑ता वि॒श्वरू॑पा । सेतो॒ष्टाप॑दी भू॒त्वा पुनः॒ परे॑हि दुच्छुने ॥२४॥ अ॒भ्य॑क्ताक्ता॒ स्वऽरंकृता॒ सर्वं॒ भर॑न्ती दुरि॒तं परे॑हि । जा॒नी॒हि कृ॑त्ये क॒र्तारं॑ दुहि॒तेव॑ पि॒तरं॒ स्वम्॥२५॥ परे॑हि कृत्ये॒ मा ति॑ष्ठो वि॒द्धस्ये॑व प॒दं न॑य । मृगः समृ॑ग॒युस्त्वं न त्वा॑ निक॑र्तुमर्हति ॥२६॥ उ॒त ह॑न्ति पूर्वा॒सिनं॑ प्रत्या॒दायाप॑र॒ इष्वा॑ । उ॒त पूर्व॑स्य निघ्न॒तो नि ह॒न्त्यप॑रः॒ प्रति॑ ॥२७॥ ए॒तद्धि शृ॒णु मे॒ वचोऽथे॑हि॒ यत॑ ए॒यथ॑ । यस्त्वा॑ च॒कार॒ तं प्रति॑ ॥२८॥ अ॒ना॒गो॒ह॒त्या वै भी॒मा कृ॑त्ये॒ मा नो॒ गामश्वं॒ पुरु॑षं वधीः । यत्र॑य॒त्रासि॒ निहि॑ता॒ तत॒स्त्वोत्था॑पयामसि प॒र्णाल्लघी॑यसी भव ॥२९॥ यदि॒ स्थ तम॒सावृ॑ता॒ जाले॑ना॒भिहि॑ता इव । सर्वाः॑ सं॒लुप्ये॒तः कृ॒त्याः पुनः॑ क॒र्त्रे प्र हि॑ण्मसि ॥३०॥ कृ॒त्या॒कृतो॑ वल॒गिनो॑ऽभिनिष्का॒रिणः॑ प्र॒जाम्। मृ॒णी॒हि कृ॑त्ये॒ मोच्छि॑षो॒ऽमून् कृ॑त्या॒कृतो॑ जहि ॥३१॥ यथा॒ सूर्यो॑ मु॒च्यते॒ तम॑स॒स्परि॒ रात्रिं॒ जहा॑त्यु॒षस॑श्च के॒तून्। ए॒वाहं सर्वं॑ दुर्भू॒तं कर्त्रं॑ कृत्या॒कृता॑ कृ॒तं ह॒स्तीव॒ रजो॑ दुरि॒तं ज॑हामि ॥३२॥
ब्रह्मप्रकाशनम्। १-३३ नारायणः। पार्ष्णिसूक्तम्, पुरुषः, ब्रह्मप्रकाशनम्। अनुष्टुप्, १-४,७-८ त्रिष्टुप्, ६, ११ जगती, २८ भुरिग्बृहती। केन॒ पार्ष्णी॒ आभृ॑ते॒ पूरु॑षस्य॒ केन॑ मां॒सं संभृ॑तं॒ केन॑ गु॒ल्फौ। केना॒ङ्गुलीः॒ पेश॑नीः॒ केन॒ खानि॒ केनो॑च्छ्ल॒ङ्खौ म॑ध्य॒तः कः प्र॑ति॒ष्ठाम्॥१॥ कस्मा॒न्नु गु॒ल्फावध॑रावकृण्वन्नष्ठी॒वन्ता॒वुत्त॑रौ॒ पुरु॑षस्य । जङ्घे॑ नि॒रऋत्य॒ न्यऽदधुः॒ क्वऽस्वि॒ज्जानु॑नोः सं॒धी क उ॒ तच्चि॑केत ॥२॥ चतु॑ष्टयं युज्यते॒ संहि॑तान्तं॒ जानु॑भ्यामू॒र्ध्वं शि॑थि॒रं कब॑न्धम्। श्रोणी॒ यदू॒रू क उ॒ तज्ज॑जान याभ्यां॒ कुसि॑न्धं॒ सुदृ॑ढं ब॒भूव॑ ॥३॥ कति॑ दे॒वाः क॑त॒मे त आ॑स॒न् य उरो॑ ग्री॒वाश्चि॒क्युः पुरु॑षस्य । कति॒ स्तनौ॒ व्यऽदधुः॒ कः क॑फो॒डौ कति॑ स्क॒न्धान् कति॑ पृ॒ष्टीर॑चिन्वन्॥४॥ को अ॑स्य बा॒हू सम॑भरद् वी॒र्यं करवा॒दिति॑ । अंसौ॒ को अ॑स्य॒ तद् दे॒वः कुसि॑न्धे॒ अध्या द॑धौ ॥५॥ कः स॒प्त खानि॒ वि त॑तर्द शी॒र्षाणि॒ कर्णा॑वि॒मौ नासि॑के॒ चक्ष॑णी॒ मुख॑म्। येषां॑ पुरु॒त्रा वि॑ज॒यस्य॑ म॒ह्ननि॒ चतु॑ष्पादो द्वि॒पदो॒ यन्ति॒ याम॑म्॥६॥ हन्वो॒र्हि जि॒ह्वामद॑धात् पुरू॒चीमधा॑ म॒हीमधि॑ शिश्राय॒ वाच॑म्। स आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तर॒पो वसा॑नः॒ क उ॒ तच्चि॑केत ॥७॥ म॒स्तिष्क॑मस्य यत॒मो ल॒लाटं॑ क॒काटि॑कां प्रथ॒मो यः क॒पाल॑म्। चि॒त्वा चित्यं॒ हन्वोः॒ पूरु॑षस्य॒ दिवं॑ रुरोह कत॒मः स दे॒वः ॥८॥ प्रि॒या॒प्रि॒याणि॑ बहु॒ला स्वप्नं॑ संबाधत॒न्द्यः॑ । आ॒न॒न्दानु॒ग्रो नन्दां॑श्च॒ कस्मा॑द् वहति॒ पूरु॑षः ॥९॥ आर्ति॒रव॑र्ति॒र्निरृ॑तिः॒ कुतो॒ नु पुरु॒षेऽम॑तिः । राद्धिः॒ समृ॑द्धि॒रव्यृ॑द्धिर्म॒तिरुदि॑तयः॒ कुतः॑ ॥१०॥ को अ॑स्मि॒न्नापो॒ व्यऽदधाद् विषू॒वृतः॑ पुरू॒वृतः॑ सिन्धु॒सृत्या॑य जा॒ताः । ती॒व्रा अ॑रु॒णा लोहि॑नीस्ताम्रधू॒म्रा ऊ॒र्ध्वा अवा॑चीः॒ पुरु॑षे ति॒रश्चीः॑ ॥११॥ को अ॑स्मिन् रू॒पम॑दधात् को म॒ह्मानं॑ च॒ नाम॑ च । गा॒तुं को अ॑स्मि॒न् कः के॒तुं कश्च॒रित्रा॑णि॒ पूरु॑षे ॥१२॥ को अ॑स्मिन् प्रा॒णम॑वयत् को अ॑पा॒नं व्या॒नमु॑ । स॒मा॒नम॑स्मि॒न् को दे॒वोऽधि॑ शिश्राय॒ पुरु॑षे ॥१३॥ को अ॑स्मिन् य॒ज्ञम॑दधा॒देको॑ दे॒वोऽधि॒ पुरु॑षे । को अ॑स्मिन्त्स॒त्यं कोऽनृ॑तं॒ कुतो॑ मृ॒त्यृः कुतो॒ऽमृत॑म्॥१४॥ को अ॑स्मै॒ वासः॒ पर्य॑दधा॒त् को अ॒स्यायु॑रकल्पयत्। बलं॒ को अ॑स्मै॒ प्राय॑च्छ॒त् को अ॑स्याकल्पयज्ज॒वम्॥१५॥ केनापो॒ अन्व॑तनुत॒ केनाह॑रकरोद् रु॒चे। उ॒षसं॒ केनान्वै॑न्द्ध॒ केन॑ सायंभ॒वं द॑दे ॥१६॥ को अ॑स्मि॒न् रेतो॒ न्यऽदधा॒त् तन्तु॒रा ता॑यता॒मिति॑ । मे॒धां को अ॑स्मि॒न्नध्यौ॑ह॒त् को बा॒णं को नृतो॑ दधौ ॥१७॥ केने॒मां भूमि॑मौर्णो॒त् केन॒ पर्य॑भव॒द् दिव॑म्। केना॒भि म॒ह्ना पर्व॑ता॒न् केन॒ कर्मा॑णि॒ पुरु॑षः ॥१८॥ केन॑ प॒र्जन्य॒मन्वे॑ति॒ केन॒ सोमं॑ विचक्ष॒णम्। केन॑ य॒ज्ञं च श्र॒द्धां च॒ केना॑स्मि॒न् निहि॑तं॒ मनः॑ ॥१९॥ केन॒ श्रोत्रि॑यमाप्नोति॒ केने॒मं प॑रमे॒ष्ठिन॑म्। केने॒मम॒ग्निं पूरु॑षः॒ केन॑ संवत्स॒रं म॑मे ॥२०॥ ब्रह्म॒ श्रोत्रि॑यमाप्नोति॒ ब्रह्मे॒मं प॑रमे॒ष्ठिन॑म्। ब्रह्मे॒मम॒ग्निं पूरु॑षो॒ ब्रह्म॑ संवत्स॒रं म॑मे ॥२१॥ केन॑ दे॒वाँ अनु॑ क्षियति॒ केन॒ दैव॑जनी॒र्विशः॑ । केने॒दम॒न्यन्नक्ष॑त्रं॒ केन॒ सत्क् क्ष॒त्रमु॑च्यते ॥२२॥ ब्रह्म॑ दे॒वाँ अनु॑ क्षियति॒ ब्रह्म॒ दैवजनी॒र्विशः॑ । ब्रह्मे॒दम॒न्यन्नक्ष॑त्रं॒ ब्रह्म॒ सत् क्ष॒त्रमु॑च्यते ॥२३॥ केने॒यं भूमि॒र्विहि॑ता॒ केन॒ द्यौरुत्त॑रा हि॒ता। केने॒दमू॒र्ध्वं ति॒र्यक् चा॒न्तरि॑क्षं॒ व्यचो॑ हि॒तम्॥२४॥ ब्रह्म॑णा॒ भूमि॒र्विहि॑ता॒ ब्रह्म॒ द्यौरुत्त॑रा हि॒ता। ब्रह्मे॒दमू॒र्ध्वं ति॒र्यक् चा॒न्तरि॑क्षं॒ व्यचो॑ हि॒तम्॥२५॥ मू॒र्धान॑मस्य सं॒सीव्याथ॑र्वा॒ हृद॑यं च॒ यत्। म॒स्तिष्का॑दू॒र्ध्वः प्रैर॑य॒त् पव॑मा॒नोऽधि॑ शीर्ष॒तः ॥२६॥ तद् वा अथ॑र्वणः॒ शिरो॑ देवको॒शः समु॑ब्जितः । तत् प्रा॒णो अ॒भि र॑क्षति॒ शिरो॒ अन्न॒मथो॒ मनः॑ ॥२७॥ ऊ॒र्ध्वो नु सृ॒ष्टा३स्ति॒र्यङ् नु सृ॒ष्टाः३ सर्वा॒ दिशः॒ पुरु॑ष॒ आ ब॑भूवाँ३ । पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ॥२८॥ यो वै तां ब्रह्म॑णो॒ वेदा॒मृते॒नावृ॑तां॒ पुर॑म्। तस्मै॒ ब्रह्म॑ च ब्रा॒ह्माश्च॒ चक्षुः॑ प्रा॒णं प्र॒जां द॑दुः ॥२९॥ न वै तं चक्षु॑र्जहाति॒ न प्रा॒णो ज॒रसः॑ पु॒रा। पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ॥३०॥ अ॒ष्टाच॑क्रा॒ नव॑द्वारा दे॒वानां॒ पूर॑यो॒ध्या। तस्यां॑ हिर॒ण्ययः॒ कोशः॑ स्व॒र्गो ज्योति॒षावृ॑तः ॥३१॥ तस्मि॑न् हिर॒ण्यये॒ कोशे॒ त्र्यऽरे॒ त्रिप्र॑तिष्ठिते । तस्मि॒न् यद् य॒क्षमा॑त्म॒न्वत् तद् वै ब्र॑ह्म॒विदो॑ विदुः ॥३२॥ प्र॒भ्राज॑मानां॒ हरि॑णीं॒ यश॑सा सं॒परी॑वृताम्। पुरं॑ हिर॒ण्ययीं॒ ब्रह्मा वि॑वे॒शाप॑राजिताम्॥३३॥
सपत्नत्क्षयणो वरणमणिः। १-२५ अथर्वा। वरणमणिः, वनस्पतिः चन्द्रमाः। अनुष्टुप्, २-३, ६ भुरिक् त्रिष्टुप्, ८, १३-१४ पथ्यापङ्क्तिः, ११, १६ भुरिक्, १५, १७-२५ षट्-पदा जगती। अ॒यं मे॑ वर॒णो म॒णिः स॑पत्न॒क्षय॑णो॒ वृषा॑ । तेना र॑भस्व॒ त्वं शत्रू॒न् प्र मृ॑णीहि दुरस्य॒तः ॥१॥ प्रैणा॑न्छृणीहि॒ प्र मृ॒णा र॑भस्व म॒णिस्ते॑ अस्तु पुरए॒ता पु॒रस्ता॑त्। अवा॑रयन्त वर॒णेन॑ दे॒वा अ॑भ्याचा॒रमसु॑राणां॒ श्वःश्वः॑ ॥२॥ अ॒यं म॒णिर्व॑र॒णो वि॒श्वभे॑षजः सहस्रा॒क्षो हरि॑तो हिर॒ण्ययः॑ । स ते॒ शत्रू॒नध॑रान् पादयाति॒ पूर्व॒स्तान् द॑भ्नुहि॒ ये त्वा॑ द्वि॒षन्ति॑ ॥३॥ अ॒यं ते॑ कृ॒त्यां वित॑तां॒ पौरु॑षेयाद॒यं भ॒यात्। अ॒यं त्वा॒ सर्व॑स्मात् पा॒पाद् व॑र॒णो वा॑रयिष्यते ॥४॥ व॒र॒णो वा॑रयाता अ॒यं दे॒वो वन॒स्पतिः॑ । यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन्॥५॥ स्वप्नं॑ सु॒प्त्वा यदि॒ पश्या॑सि पा॒पं मृ॒गः सृ॒तिं यति॒ धावा॒दजु॑ष्टाम्। प॒रिक्ष॒वाच्छ॒कुनेः॑ पापवा॒दाद॒यं म॒णिर्व॑र॒णो वा॑रयिष्यते ॥६॥ अरा॑त्यास्त्वा॒ निरृ॑त्या अभिचा॒रादथो॑ भ॒यात्। मृ॒त्योरोजी॑यसो व॒धाद् व॑र॒णो वा॑रयिष्यते ॥७॥ यन्मे॑ मा॒ता यन्मे॑ पि॒ता भ्रात॑रो॒ यच्च॑ मे स्वा यदेन॑श्चकृ॒मा व॒यम्। ततो॑ नो वारयिष्यते॒ऽयं दे॒वो वन॒स्पतिः॑ ॥८॥ व॒र॒णेन॒ प्रव्य॑थिता॒ भ्रातृ॑व्या मे॒ सब॑न्धवः । अ॒सूर्तं॒ रजो॒ अप्य॑गु॒स्ते य॑न्त्वध॒मं तमः॑ ॥९॥ अरि॑ष्टोऽहमरि॑ष्टगु॒रायु॑ष्मा॒न्त्सर्व॑पूरुषः । तं मा॒यं व॑र॒णो म॒णिः परि॑ पातु दि॒शोदि॑शः ॥१०॥ अ॒यं मे॑ वर॒ण उर॑सि॒ राजा॑ दे॒वो वन॒स्पतिः॑ । स मे॒ शत्रू॒न् वि बा॑धता॒मिन्द्रो॒ दस्यू॑नि॒वासु॑रान्॥११॥ इ॒मं बि॑भर्मि वर॒णमायु॑ष्मान्छ॒तशा॑रदः । स मे॑ रा॒ष्ट्रं च॑ क्ष॒त्रं च॑ प॒शूनोज॑श्च मे दधत्॥१२॥ यथा॒ वातो॒ वन॒स्पती॑न् वृ॒क्षान् भ॒नक्त्योज॑सा । ए॒वा स॒पत्ना॑न् मे भङ्ग्धि॒ पूर्वा॑न् जा॒तां उ॒ताप॑रान् वर॒णस्त्वा॒भि र॑क्षतु ॥१३॥ यथा॒ वात॑श्चा॒ग्निश्च॑ वृ॒क्षान् प्सा॒तो वन॒स्पती॑न्। ए॒वा स॒पत्ना॑न् मे प्साहि॒ पूर्वान् जा॒तां उ॒ताप॑रान् वर॒णस्त्वा॒भि र॑क्षतु ॥१४॥ यथा॒ वाते॑न॒ प्रक्षी॑णा वृ॒क्षाः शेरे॒ न्यऽर्पिताः । ए॒वा स॒पत्नां॒स्त्वं मम॒ प्र क्षि॑णीहि॒ न्यऽर्पय॒ पूर्वा॑न्जा॒तां उ॒ताप॑रान् वर॒णस्त्वा॒भि र॑क्षतु ॥१५॥ तांस्त्वं प्र च्छि॑न्द्धि वरण पु॒रा दि॒ष्टात् पु॒रायु॑षः । य ए॑नं प॒शुषु॒ दिप्स॑न्ति॒ ये चा॑स्य राष्ट्रदि॒प्सवः॑ ॥१६॥ यथा॒ सूर्यो॑ अति॒भाति॒ यथा॑स्मि॒न् तेज॒ आहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥१७॥ यथा॒ यश॑श्च॒न्द्रम॑स्यादि॒त्ये च॑ नृ॒चक्ष॑सि । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥१८॥ यथा॒ यशः॑ पृथि॒व्यां यथा॒स्मिन् जा॒तवे॑दसि । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥१९॥ यथा॒ यशः॑ क॒न्याऽयां॒ यथा॒स्मिन्त्संभृ॑ते॒ रथे॑ । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥२०॥ यथा॒ यशः॑ सोमपी॒थे म॑धुप॒र्के यथा॒ यशः॑ । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥२१॥ यथा॒ यशो॑ऽग्निहो॒त्रे व॑षट्का॒रे यथा॒ यशः॑ । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥२२॥ यथा॒ यशो॒ यज॑माने॒ यथा॒स्मिन् य॒ज्ञ आहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥२३॥ यथा॒ यशः॑ प्र॒जाप॑तौ॒ यथा॒स्मिन् प॑र॒मेष्ठिनि॑ । ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥२४॥ यथा॑ दे॒वेष्व॒मृतं॒ यथै॑षु स॒त्यमाहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु॒ तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा ॥२५॥
सर्पविषदूरीकरणम्। १-२६ गरुत्मान्। तक्षकः। अनुष्टुप्, १ पथ्यापङ्क्तिः, २ त्रिपदा यवमध्या गायत्री, ३-४ पथ्याबृहती, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिग्गायत्री, १६ त्रिपदा प्रतिष्ठागायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ त्र्यवसाना षट्-पदा बृहतीगर्भा ककुम्मती भुरिक् त्रिष्टुप्। इन्द्र॑स्य प्रथ॒मो रथो॑ दे॒वाना॒मप॑रो॒ रथो॒ वरु॑णस्य तृ॒तीय॒ इत्। अही॑नामप॒मा रथ॑ स्था॒णुमा॑र॒दथा॑र्षत्॥१॥ द॒र्भः शो॒चिस्त॒रूण॑क॒मश्व॑स्य॒ वारः॑ परु॒षस्य॒ वारः॑ । रथ॑स्य॒ बन्धु॑रम्॥२॥ अव॑ श्वेत प॒दा ज॑हि॒ पूर्वे॑ण॒ चा प॑रेण च । उ॒द॒प्लु॒तमि॑व॒ दार्वही॑नामर॒सं वि॒षं वारु॒ग्रम्॥३॥ अ॒रं॒घु॒षो नि॒मज्यो॒न्मज्य॒ पुन॑रब्रवीत्। उ॒द॒प्लु॒तमि॑व॒ दार्वही॑नामर॒सं वि॒षं वारु॒ग्रम्॥४॥ पै॒द्वो ह॑न्ति कस॒र्णीलं॑ पै॒द्वः श्वि॒त्रमु॒तासि॒तम्। पै॒द्वो र॑थ॒र्व्याः शिरः॒ सं बि॑भेद पृदा॒क्वाः॥५॥ पैद्व॒ प्रेहि॑ प्रथ॒मोऽनु॑ त्वा व॒यमेम॑सि । अही॒न् व्यऽस्यतात् प॒थो येन॑ स्मा व॒यमे॒मसि॑ ॥६॥ इ॒दं पै॒द्वो अ॑जायते॒दम॑स्य प॒राय॑णम्। इ॒मान्यर्व॑तः प॒दाहि॒घ्न्यो वा॒जिनी॑वतः ॥७॥ संय॑तं॒ न वि ष्प॑र॒द् व्यात्तं॒ न सं य॑मत्। अ॒स्मिन् क्षेत्रे॒ द्वावही॒ स्त्री च॒ पुमां॑श्च॒ तावु॒भाव॑र॒सा॥८॥ अ॒र॒सास॑ इ॒हाह॑यो॒ ये अन्ति॒ ये च॑ दूर॒के। घ॒नेन॑ हन्मि॒ वृश्चि॑क॒महिं॑ द॒ण्डेनाग॑तम्॥९॥ अ॒घा॒श्वस्ये॒दं भे॑ष॒जमु॒भयो॑ स्व॒जस्य॑ च । इन्द्रो॒ मेऽहि॑मघा॒यन्त॒महिं॑ पै॒द्वो अ॑रन्धयत्॥१०॥ पै॒द्वस्य॑ मन्महे व॒यं स्थि॒रस्य॑ स्थि॒रधा॑म्नः। इ॒मे प॒श्चा पृदा॑कवः प्र॒दीध्य॑त आसते ॥११॥ न॒ष्टास॑वो न॒ष्टवि॑षा ह॒ता इन्द्रे॑ण व॒ज्रिणा॑ । ज॒घानेन्द्रो॑ जघ्नि॒मा व॒यम्॥१२॥ ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः॒ पृदा॑कवः । दर्विं॒ करि॑क्रतं श्वि॒त्रं द॒र्भेष्व॑सि॒तं ज॑हि ॥१३॥ कै॒रा॒ति॒का कु॑मारि॒का स॒का ख॑नति भेष॒जम्। हि॒र॒ण्ययी॑भि॒रभ्रि॑भिर्गिरी॒णामुप॒ सानु॑षु॥१४॥ आयम॑ग॒न् युवा॑ भि॒षक् पृ॑श्नि॒हाप॑राजितः । स वै स्व॒जस्य॒ जम्भ॑न उ॒भयो॒र्वृश्चि॑कस्य च ॥१५॥ इन्द्रो॒ मेऽहि॑मरन्धयन्मि॒त्रश्च॒ वरु॑णश्च । वा॒ता॒प॒र्ज॒न्यो॒३भा॥१६॥ इन्द्रो॒ मेऽहि॑मरन्धय॒त् पृदा॑कुं च पृदा॒क्वम्। स्व॒जं तिर॑श्चिराजिं कस॒र्णीलं॒ दशो॑नसिम्॥१७॥ इन्द्रो॑ जघान प्रथ॒मं ज॑नि॒तार॑महे॒ तव॑ । तेषा॑मु तृ॒ह्यमा॑णानां॒ कः स्वि॒त् तेषा॑मस॒द् रसः॑ ॥१८॥ सं हि शी॒र्षाण्यग्र॑भं पौञ्जि॒ष्ठ इ॑व॒ कर्व॑रम्। सिन्धो॒र्मध्यं॑ प॒रेत्य॒ व्यऽनिज॒महे॑र्वि॒षम्॥१९॥ अही॑नां॒ सर्वे॑षां वि॒षं परा॑ वहन्तु॒ सिन्ध॑वः । ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः पृदा॑कवः ॥२०॥ ओष॑धीनाम॒हं वृ॑ण उ॒र्वरी॑रिव साधु॒या। नया॒म्यर्व॑तीरि॒वाहे॑ नि॒रैतु॑ ते वि॒षम्॥२१॥ यद॒ग्नौ सूर्ये॑ वि॒षं पृ॑थि॒व्यामोष॑धीषु॒ यत्। का॒न्दा॒वि॒षं क॒नक्न॑कं नि॒रैत्वैतु॑ ते वि॒षम्॥२२॥ ये अ॑ग्नि॒जा ओ॑षधि॒जा अही॑नां॒ ये अ॑प्सु॒जा वि॒द्युत॑ आबभू॒वुः । येषां॑ जा॒तानि॑ बहु॒धा म॒हान्ति॒ तेभ्यः॑ स॒र्पेभ्यो॒ नम॑सा विधेम ॥२३॥ तौदी॒ नामा॑सि क॒न्याऽघृ॒ताची॒ नाम॒ वा अ॑सि । अ॒ध॒स्प॒देन॑ ते प॒दमा द॑दे विष॒दूष॑णम्॥२४॥ अङ्गा॑दङ्गा॒त् प्र च्या॑वय॒ हृद॑यं परि॑ वर्जय । अधा॑ वि॒षस्य॒ यत् तेजो॑ऽवा॒चीनं॒ तदे॑तु ते ॥२५॥ आ॒रे अ॑भूद् विषम॑रौद् वि॒षे वि॒षम॑प्रा॒गपि॑ ।अ॒ग्निर्वि॒षमहे॒र्निर॑धा॒त् सोमो॒ निर॑णयीत्। दं॒ष्टार॒मन्व॑गाद् विषमहि॑रमृत ॥२६॥
विजयप्राप्तिः। १-२४ सिन्धुद्वीपः। आपः, चन्द्रमाः। अनुष्टुप्, १-५ त्रिपदा पुरोऽभिकृतिककुम्मतीगर्भा पङ्क्तिः, ६ चतुष्पदा जगतीगर्भा जगती, ७-१४ त्र्यवसाना पञ्चपदा विपरीतपादलक्ष्मा बृहती (११,१४ पथ्यापङ्क्तिः), १५-२१ चतुरवसाना दशपदा त्रैष्टुब्गर्भातिधृतिः, (१९-२० कृतिः, २४ त्रिपदा विराड् गायत्री) (१) इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ । जि॒ष्णवे॒ योगा॑य ब्रह्मयो॒गैर्वो॑ युनज्मि ॥१॥ इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ । जि॒ष्णवे॒ योगा॑य क्षत्रयो॒गैर्वो॑ युनज्मि ॥२॥ इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ । जि॒ष्णवे॒ योगा॑येन्द्रयो॒गैर्वो॑ युनज्मि ॥३॥ इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ । जि॒ष्णवे॒ योगा॑य सोमयो॒गैर्वो॑ युनज्मि ॥४॥ इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ । जि॒ष्णवे॒ योगा॑याप्सुयो॒गैर्वो युनज्मि ॥५॥ इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ । जि॒ष्णवे॒ योगा॑य॒ विश्वा॑नि मा भू॒तान्युप॑ तिष्ठन्तु यु॒क्ता म॑ आप स्थ ॥६॥ (२) अ॒ग्नेर्भा॒ग स्थ॑ । अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त । प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥७॥ इन्द्र॑स्य भा॒ग स्थ॑ । अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त । प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥८॥ सोम॑स्य भा॒ग स्थ। अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त । प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥९॥ वरु॑णस्य भा॒ग स्थ॑। अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त । प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥१०॥ मि॒त्रावरु॑णयोर्भा॒ग स्थ॑। अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त । प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥११॥ य॒मस्य॑ भा॒ग स्थ॑। अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त । प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥१२॥ पि॒तॄ॒णां भा॒ग स्थ॑। अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त । प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥१३॥ दे॒वस्य॑ सवि॒तुर्भा॒ग स्थ॑। अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त । प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥१४॥ (३) यो व॑ आपो॒ऽपां भा॒गो॒३प्स्व॑न्तर्य॑जु॒ष्योऽदेव॒यज॑नः । इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि । तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या॥१५॥ यो व॑ आपो॒ऽपामू॒र्मिर॒प्स्व॑१न्तर्य॑जु॒ष्योऽदेव॒यज॑नः । इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि । तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या॥१६॥ यो व॑ आ॒पोऽपां व॒त्त्सो॒ऽप्स्व॑१न्तर्य॑जु॒ष्योऽदेव॒यज॑नः । इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि । तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥१७॥ यो व॑ आपो॒ऽपां वृ॑ष॒भो॒ऽ३प्स्व॑न्तर्य॑जु॒ष्योऽदेव॒यज॑नः ॥ इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि । तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥१८॥ यो व॑ आपो॒ऽपां हि॑रण्यग॒र्भो॒३प्स्व॑न्तर्य॑जु॒ष्योऽदेव॒यज॑नः । इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि । तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥१९॥ यो व॑ आपो॒ऽपामश्मा॒ पृश्नि॑र्दि॒व्यो॒३प्स्व॑१न्तर्य॑जु॒ष्योऽदेव॒यज॑नः । इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि । तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥२०॥ यो व॑ आपो॒ऽपाम॒ग्नयो॒प्स्व॑१न्तर्य॑जु॒ष्योऽ देव॒यज॑नः । इ॒दं तानति॑ सृजामि॒ तान् माभ्यव॑निक्षि । तैस्तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥२१॥ (४) यद॑र्वा॒चीनं॑ त्रैहाय॒णादनृ॑तं॒ किं चो॑दि॒म। आपो॑ मा॒ तस्मा॒त् सर्व॑स्माद् दुरि॒तात् पा॒न्त्वंह॑सः ॥२२॥ स॒मु॒द्रं वः॒ प्र हि॑णोमि॒ स्वां योनि॒मपी॑तन । अरि॑ष्टाः॒ सर्व॑हायसो॒ मा च॑ नः॒ किं च॒नाम॑मत्॥२३॥ अ॒रि॒प्रा आपो॒ अप॑ रि॒प्रम॒स्मत्। प्रास्मदेनो॑ दुरि॒तं सु॒प्रती॑काः॒ प्र दु॒ष्वप्न्यं॒ प्र मलं॑ वहन्तु ॥२४॥ (५) ५-३५ (१-११) कौशिकः। विष्णुक्रमः, मन्त्रोक्ताः। २५-३५ त्र्यवसाना षट्-पदा यथाक्षरं शक्वर्यतिशक्वरी। विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा पृ॑थि॒वीसं॑शितो॒ऽग्निते॑जाः । पृ॒थि॒वीमनु॒ वि क्र॑मे॒ऽहं पृ॑थि॒व्यास्तं निर्भ॑जामो॒ यो॒३स्मा॑न् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ॥२५॥१॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हान्तरि॑क्षसंशितो वा॒युते॑जाः । अ॒न्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ऽहम॒न्तरि॑क्षा॒त् तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ॥२६॥२॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा द्यौसं॑शितः॒ सूर्य॑तेजाः । दिव॒मनु॒ वि क्र॑मे॒ऽहं दि॒वस्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु॥२७॥३॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा दिक्सं॑शितो॒ मन॑स्तेजाः । दिशोऽनु॒ वि क्र॑मे॒ऽहं दि॒ग्भ्यस्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु॥२८॥४॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हाशा॑संशितो॒ वात॑तेजाः । आशा॒ अनु॒ वि क्र॑मे॒ऽहमाशा॑भ्य॒स्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु॥२९॥५॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा ऋक्सं॑शितः॒ साम॑तेजाः । ऋचोऽनु॒ वि क्र॑मे॒ऽहमृ॒ग्भ्यस्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु॥३०॥६॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा य॒ज्ञसं॑शितो॒ ब्रह्म॑तेजाः । य॒ज्ञमनु॒ वि क्र॑मे॒ऽहं य॒ज्ञात् तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु॥३१॥७॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हौष॑धीसंशितः॒ सोम॑तेजाः । ओष॑धी॒रनु॒ वि क्र॑मे॒ऽहमोष॑धीभ्य॒स्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु॥३२॥८॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हाप्सुसं॑शितो॒ वरु॑णतेजाः । अ॒पोऽनु॒ वि क्र॑मे॒ऽहम॒द्भ्यस्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु॥३३॥९॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा कृ॒षिसं॑शि॒तोऽन्न॑तेजाः । कृ॒षिमनु॒ वि क्र॑मे॒ऽहं कृ॒ष्यास्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु॥३४॥१०॥ विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा प्रा॒णसं॑शितः॒ पुरु॑षतेजाः । प्रा॒णमनु॒ वि क्र॑मे॒ऽहं प्रा॒णात् तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु॥३५॥११॥ (६) ३६-४१ (१-६) ब्रह्मा। मन्त्रोक्ताः। ३६ मार्त्वी पञ्चपदातिशाक्वरातिजागतगर्भाष्टिः, ३७ विराट् पुरस्ताद्बृहती, ३८ पुर उष्णिक्, ३९, ४० आर्षी गायत्री, ४० विराड् विषमा गायत्री। जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्यऽष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः । इ॒दम॒हमा॑मुष्याय॒णस्या॒मुष्याः॑ पु॒त्रस्य॒ वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥३६॥१॥ सूर्य॑स्या॒वृत॑म॒न्वाव॑र्ते॒ दक्षि॑णा॒मन्वा॒वृत॑म्। सा मे॒ द्रवि॑णं यच्छतु॒ सा मे॑ ब्राह्मणवर्च॒सम्॥३७॥२॥ दिशो॒ ज्योति॑ष्मतीर॒भ्याव॑र्ते । ता मे॒ द्रवि॑णं यच्छन्तु॒ ता मे॑ ब्राह्मणवर्च॒सम्॥३८॥३॥ स॒प्त॒ऋ॒षीन॒भ्याव॑र्ते । ते मे॒ द्रवि॑णं यच्छन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम्॥३९॥४॥ ब्रह्मा॒भ्याव॑र्ते । तन्मे॒ द्रवि॑णं यच्छतु तन्मे॑ ब्राह्मणवर्च॒सम्॥४०॥५॥ ब्रा॒ह्म॒णाँ अ॒भ्याव॑र्ते । ते मे॒ द्रवि॑णं यच्छन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम्॥४१॥६॥ (७) ४२-५० (१-९) विहव्यः। प्राजापत्या अनुष्टुप्, ४४ त्रिपदा गायत्रीगर्भानुष्टुप्, ५० त्रिष्टुप्। यं व॒यं मृ॒गया॑महे॒ तं व॒धै स्तृ॑णवामहै । व्यात्ते॑ परमे॒ष्ठिनो॒ ब्रह्म॒णापी॑पदाम॒ तम्॥४२॥ वै॒श्वा॒न॒रस्य॒ दंष्ट्रा॑भ्यां हे॒तिस्तं सम॑धाद॒भि। इ॒यं तं प्सा॒त्वाहु॑तिः स॒मिद् दे॒वी सही॑यसी ॥४३॥ राज्ञो॒ वरु॑णस्य ब॒न्धोऽसि । सो॒३मुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रमन्ने॑ प्रा॒णे ब॑धान ॥४४॥ यत् ते॒ अन्नं॑ भुवस्पत आक्षि॒यति॑ पृथि॒वीमनु॑ । तस्य॑ न॒स्त्वं भु॑वस्पते सं॒प्रय॑च्छ प्रजापते ॥४५॥ अ॒पो दि॒व्या अ॑चायिषं॒ रसे॑न॒ सम॑पृक्ष्महि । पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥४६॥ सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा । वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात् स॒ह ऋषि॑भिः ॥४७॥ यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद् वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः । म॒न्योर्मन॑सः शर॒व्या॒३ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न्॥४८॥ परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न् परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि । परा॒र्चिषा॒ मूर॑देवां छृणीहि॒ परा॑सु॒तृपः॒ शोशु॑चतः शृणीहि ॥४९॥ अ॒पाम॑स्मै॒ वज्रं॒ प्र ह॑रामि॒ चतु॑र्भृष्टिं शीर्ष॒भिद्या॑य वि॒द्वान्। सो अ॒स्याङ्गा॑नि॒ प्र शृ॑णातु॒ सर्वा॒ तन्मे॑ दे॒वा अनु॑ जानन्तु॒ विश्वे॑ ॥५०॥
मणिबन्धनम्। १-३५ बृहस्पतिः। फालमणिः, वनस्पतिः, ३ आपः। अनुष्टुप्, १,४,२१ गायत्री, ५ षट्-पदा जगती, ६ सप्तपदा विराट् शक्वरी, ७-१० त्र्यवसाना अष्टपदाऽष्टिः (१० नवपदा धृतिः), ११, २०, २३-२७ पथ्यापङ्क्तिः १२-१७ त्र्यवसाना षट्-पदा शक्वरी, ३१ त्र्यवसाना षट्-पदा जगती, ३५ पञ्चपदा त्र्यनुष्टुब्गर्भा जगती। अ॒रा॒ती॒योर्भ्रातृ॑व्यस्य दु॒र्हार्दो॑ द्विष॒तः शिरः॑ । अपि॑ वृश्चा॒म्योज॑सा ॥१॥ वर्म॒ मह्य॑म॒यं म॒णिः फाला॑ज्जा॒तः क॑रिष्यति । पू॒र्णो म॒न्थेन॒ माग॑म॒द् रसे॑न स॒ह वर्च॑सा ॥२॥ यत् त्वा॑ शि॒क्वः प॒राव॑धी॒त् तक्षा॒ हस्ते॑न॒ वास्या॑ । आप॑स्त्वा॒ तस्म॑ज्जीव॒लाः पु॒नन्तु॒ शुच॑यः॒ शुचि॑म्॥३॥ हिर॑ण्यस्रग॒यं म॒णिः श्र॒द्धां य॒ज्ञं महो॒ दध॑त्। गृ॒हे व॑सतु॒ नोऽति॑थिः ॥४॥ तस्मै॑ घृ॒तं सुरां॒ मध्वन्न॑मन्नं क्षदामहे । स नः॑ पि॒तेव॑ पु॒त्रेभ्यः॒ श्रेयः॑श्रेयश्चिकित्सतु॒ भूयो॑भूयः॒ श्वःश्वो॑ दे॒वेभ्यो॒ म॒णिरेत्य॑ ॥५॥ यमब॑ध्ना॒द् बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से । तम॒ग्निः प्रत्य॑मुञ्चत॒ सो अ॑स्मै दुह॒ आज्यं॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥६॥ यमब॑ध्ना॒द् बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से । तमिन्द्रः॒ प्रत्य॑मुञ्च॒तौज॑से वी॒र्याऽय॒ कम्। सो अ॑स्मै॒ बल॒मिद् दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥७॥ यमब॑ध्ना॒द् बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से । तं सोमः॒ प्रत्य॑मुञ्चत म॒हे श्रोत्रा॑य॒ चक्ष॑से । सो अ॑स्मै॒ वर्च॒ इद् दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥८॥ यमब॑ध्ना॒द् बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से । तं सूर्यः॒ प्रत्य॑मुञ्चत॒ तेने॒मा अ॑जय॒द् दिशः॑ । सो अ॑स्मै॒ भूति॒मिद् दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥९॥ यमब॑ध्ना॒द् बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से । तं बिभ्र॑च्च॒न्द्रमा॑ म॒णिमसु॑राणां॒ पुरो॑ऽजयद् दान॒वानां॑ हिर॒ण्ययीः॑ । सो अ॑स्मै॒ श्रिय॒मिद् दु॑हे॒ भूयो॑भूयः॒ श्वः॒श्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥१०॥ यमब॑ध्ना॒द् बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑ । सो अ॑स्मै वा॒जिन॑ दुहे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥११॥ यमब॑ध्ना॒द् बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑ । तेने॒मां म॒णिना॑ कृ॒षिम॒श्विना॑व॒भि र॑क्षतः । स भि॒षग्भ्यां॒ महो॑ दुहे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥१२॥ यमब॑ध्ना॒द् बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑ । तं बिभ्र॑त् सवि॒ता म॒णिं तेने॒दम॑जय॒त् स्वः । सो अ॑स्मै सू॒नृतां॑ दुहे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥१३॥ यमब॑ध्ना॒द् बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑ । तमापो॒ बिभ्र॑तीर्म॒णिं सदा॑ धाव॒न्त्यक्षि॑ताः । स आ॑भ्यो॒ऽमृत॒मिद् दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥१४॥ यमब॑ध्ना॒द् बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑ ।तं राजा॒ वरु॑णो म॒णिं प्रत्य॑मुञ्चत शं॒भुव॑म्। सो अ॑स्मै स॒त्यमिद् दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥१५॥ यमब॑ध्ना॒द् बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑ । तं दे॒वा बिभ्र॑तो म॒णिं सर्वां॑ल्लो॒कान् यु॒धाज॑यन्। स ए॑भ्यो॒ जिति॒मिद् दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥१६॥ यमब॑ध्ना॒द् बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑ । तमि॒मं दे॒वता॑ म॒णिं प्रत्य॑मुञ्चन्त शं॒भुव॑म्। स आ॑भ्यो॒ विश्व॒मिद् दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥१७॥ ऋ॒तव॒स्तम॑बध्नतार्त॒वास्तम॑बध्नत । सं॒व॒त्स॒रस्तं ब॒द्ध्वा सर्वं॑ भू॒तं वि र॑क्षति ॥१८॥ अ॒न्त॒र्दे॒शा अ॑बध्नत प्र॒दिश॒स्तम॑बध्नत । प्र॒जाप॑तिसृष्टो म॒णिर्द्वि॑ष॒तो मेऽध॑राँ अकः ॥१९॥ अथ॑र्वाणो अबध्नताथर्व॒णा अ॑बध्नत । तौर्मे॒दिनो॒ अङ्गि॑रसो॒ दस्यू॑नां बिभिदुः॒ पुर॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥२०॥ तं धा॒ता प्रत्य॑मुञ्चत॒ स भू॒तं व्यऽकल्पयत्। तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥२१॥ यमब॑ध्ना॒द् बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑म॒द् रसे॑न स॒ह वर्च॑सा ॥२२॥ यमब॑ध्ना॒द् बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑मत् स॒ह गोभि॑रजा॒विभि॒रन्ने॑न प्र॒जया॑ स॒ह॥२३॥ यमब॑ध्ना॒द् बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑मत् स॒ह व्री॑हिय॒वाभ्यां॒ मह॑सा॒ भूत्या॑ स॒ह॥२४॥ यमब॑ध्ना॒द् बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑म॒न्मधो॑र्घृ॒तस्य॒ धार॑या की॒लाले॑न म॒णिः स॒ह॥२५॥ यमब॑ध्ना॒द् बृह॒स्पति॑र्दे॒वेभ्यो॑ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑मदू॒र्जया॒ पय॑सा स॒ह द्रवि॑णेन श्रि॒या स॒ह॥२६॥ यमब॑ध्ना॒द् बृह॒स्पति॑र्दे॒वेभ्यो॑ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑म॒त् तेज॑सा॒ त्विष्या॑ स॒ह यश॑सा की॒र्त्याऽ स॒ह॥२७॥ यमब॑ध्ना॒द् बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑मत् सर्वा॑भि॒र्भूति॑भिः स॒ह॥२८॥ तमि॒मं दे॒वता॑ म॒णिं मह्यं॑ ददतु॒ पुष्ट॑ये । अ॒भि॒भुं क्ष॑त्र॒वर्ध॑नं सपत्न॒दम्भ॑नं म॒णिम्॥२९॥ ब्रह्म॑णा॒ तेज॑सा स॒ह प्रति॑ मुञ्चामि मे शि॒वम्। अ॒स॒प॒त्नः स॑पत्न॒हा स॒पत्ना॒न् मेऽध॑रां अकः ॥३०॥ उत्त॑रं द्विष॒तो माम॒यं म॒णिः कृ॑णोतु देव॒जाः । यस्य॑ लो॒का इ॒मे त्रयः॒ पयो॑ दु॒ग्धमु॒पास॑ते । स मा॒यमधि॑ रोहतु म॒णिः श्रैष्ठ्या॑य मूर्ध॒तः ॥३१॥ यं दे॒वाः पि॒तरो॑ मनु॒ष्याऽ उप॒जीव॑न्ति सर्व॒दा। स मा॒यमधि॑ रोहतु म॒णिः श्रैष्ठ्या॑य मूर्ध॒तः ॥३२॥ यथा॒ बीज॑मु॒र्वरा॑यां कृ॒ष्टे फाले॑न॒ रोह॑ति । ए॒वा मयि॑ प्र॒जा प॒शवोऽन्न॑मन्नं॒ वि रो॑हतु ॥३३॥ यस्मै॑ त्वा यज्ञवर्धन॒ मणे॑ प्र॒त्यमु॑चं शि॒वम्। तं त्वं श॑तदक्षिण॒ मणे॒ श्रैष्ठ्या॑य जिन्वतात्॥३४॥ ए॒तमि॒ध्मं स॒माहि॑तं जुषा॒णो अग्ने॒ प्रति॑ हर्य॒ होमैः॑ । तस्मि॑न् विदेम सुम॒तिं स्व॒स्ति प्र॒जां चक्षुः॑ प॒शून्त्समि॑द्धे जा॒तवे॑दसि॒ ब्रह्म॑णा ॥३५॥
सर्वाधारवर्णनम्। १-४४ अथर्वा। स्कम्भः आत्मा वा। त्रिष्टुप्, १ विराड् जगती, २, ८ भुरिक्, ७, १३ परोष्णिक्,१०, १४, १६, १८-१९ उपरिष्टाद् बृहती, ११-१२, १५, २०, २२, ३९ उपरिष्टाज्ज्योतिर्जगती, १७ त्र्यवसाना षट्-पदा जगती, २१ बृहतीगर्भानुष्टुप्, २३-३०, ३७, ४० अनुष्टुप् , ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद्विराड्बृहती, ३३ पराविराडनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ४२-४३ त्रिष्टुप्, ४१ आर्षी त्रिपदा गायत्री, ४४ एका॰ आर्च्यनुष्टुप्। कस्मि॒न्नङ्गे॒ तपो॑ अ॒स्याधि॑ तिष्ठति॒ कस्मि॒न्नङ्ग॑ ऋ॒तम॒स्याध्याहि॑तम्। क्वऽ व्र॒तं क्वऽ श्र॒द्धास्य॑ तिष्ठति॒ कस्मि॒न्नङ्गे॑ स॒त्यम॑स्य॒ प्रति॑ष्ठितम्॥१॥ कस्मा॒दङ्गाद् दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त् पवते मात॒रिश्वा॑ । कस्मा॒दङ्गा॒द् वि मि॑मी॒तेऽधि॑ च॒न्द्रमा॑ म॒ह स्क॒म्भस्य॒ मिमा॑नो॒ अङ्ग॑म्॥२॥ कस्मि॒न्नङ्गे॑ तिष्ठति॒ भूमि॑रस्य॒ कस्मि॒न्नङ्गे॑ तिष्ठत्य॒न्तरि॑क्षम्। कस्मि॒न्नङ्गे॑ तिष्ठ॒त्याहि॑ता॒ द्यौः कस्मि॒न्नङ्गे॑ तिष्ठ॒त्युत्त॑रं दि॒वः ॥३॥ क्व॑१ प्रेप्स॑न् दीप्यत ऊ॒र्ध्वो अ॒ग्निः क्व॑१प्रेप्स॑न् पवते मात॒रिश्वा॑ । यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्या॒वृतः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥४॥ क्वाऽर्धमा॒साः क्वऽ यन्ति॒ मासाः॑ संवत्स॒रेण॑ स॒ह सं॑विदा॒नाः । यत्र॒ यन्त्यृ॒तवो॒ यत्रा॑र्त॒वाः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥५॥ क्व॑१प्रेप्स॑न्ती युव॒ती विरू॑पे अहोरा॒त्रे द्र॑वतः संविदा॒ने। यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्यापः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥६॥ यस्मि॑न्त्स्त॒ब्ध्वा प्र॒जाप॑तिर्लो॒कान्त्सर्वाँ॒ अधा॑रयत्। स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥७॥ यत् प॑र॒ममव॒मं यच्च॑ मध्य॒मं प्र॒जाप॑तिः ससृ॒जे वि॒श्वरू॑पम्। किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॒ यन्न प्रावि॑श॒त् किय॒त् तद् ब॑भूव ॥८॥ किय॑ता स्क॒म्भः प्र वि॑वेश भू॒तं कियद् भवि॒ष्यद॒न्वाश॑येऽस्य । एकं॒ यदङ्ग॒मकृ॑णोत् सहस्र॒धा किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॑ ॥९॥ यत्र॑ लो॒कांश्च॒ कोशां॒श्चापो॒ ब्रह्म॒ जना॑ वि॒दुः । अस॑च्च॒ यत्र॒ सच्चा॒न्त स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥१०॥ यत्र॒ तपः॑ परा॒क्रम्य॑ व्र॒तं धा॒रय॒त्युत्त॑रम्। ऋ॒तं च॒ यत्र॑ श्र॒द्धा चापो॒ ब्रह्म॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑देव सः ॥११॥ यस्मि॒न् भूमि॑र॒न्तरि॑क्षं॒ द्यौर्यस्मि॒न्नध्याहि॑ता । यत्रा॒ग्निश्च॒न्द्रमाः॒ सूर्यो॒ वात॒स्तिष्ठ॒न्त्यार्पि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥१२॥ यस्य॒ त्रय॑स्त्रिंशद् दे॒वा अङ्गे॒ सर्वे॑ स॒माहि॑ताः । स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥१३॥ यत्र॒ ऋष॑यः प्रथम॒जा ऋचः॒ साम॒ यजु॑र्म॒ही। ए॒क॒र्षिर्यस्मि॒न्नार्पि॑तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥१४॥ यत्रा॒मृतं॑ च मृ॒त्युश्च॒ पुरु॒षेऽधि॑ स॒माहि॑ते । स॒मु॒द्रो यस्य॑ ना॒ड्यः॑१ पुरु॒षेऽधि॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥१५॥ यस्य॒ चत॑स्रः प्र॒दिशो॑ ना॒ड्य॑१स्तिष्ठ॑न्ति प्रथ॒माः । य॒ज्ञो यत्र॒ परा॑क्रान्तः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥१६॥ ये पुरु॑षे॒ ब्रह्म॑ वि॒दुस्ते वि॑दुः परमे॒ष्ठिन॑म्। यो वेद॑ परमे॒ष्ठिनं॒ यश्च॒ वेद॑ प्र॒जाप॑तिम्। ज्ये॒ष्ठं ये ब्राह्म॑णं वि॒दुस्ते स्क॒म्भम॑नु॒संवि॑दुः ॥१७॥ यस्य॒ शिरो॑ वैश्वान॒रश्चक्षु॒रङ्गि॑र॒सोऽभ॑वन्। अङ्गा॑नि॒ यस्य॑ या॒तवः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥१८॥ यस्य॒ ब्रह्म॒ मुख॑मा॒हुर्जि॒ह्वां म॑धुक॒शामु॒त। वि॒राज॒मूधो॒ यस्या॒हुः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥१९॥ यस्मा॒दृचो॑ अ॒पात॑क्ष॒न् यजु॒र्यस्मा॑द॒पाक॑षन्। सामा॑नि॒ यस्य॒ लोमा॑न्यथर्वाङ्गि॒रसो॒ मुखं॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥२०॥ अ॒स॒च्छा॒खां प्र॒तिष्ठ॑न्तीं पर॒ममि॑व॒ जना॑ विदुः । उ॒तो सन्म॑न्य॒न्तेऽव॑रे॒ ये ते॒ शाखा॑मु॒पास॑ते ॥२१॥ यत्रा॑दि॒त्याश्च॑ रु॒द्राश्च॒ वस॑वश्च स॒माहि॑ताः । भू॒तं च॒ यत्र॒ भव्यं॑ च॒ सर्वे॑ लो॒काः प्रति॑ष्ठिताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥२२॥ यस्य॒ त्रय॑स्त्रिंशद् दे॒वा नि॒धिं रक्ष॑न्ति सर्व॒दा। नि॒धिं तम॒द्य को वे॑द॒ यं दे॑वा अभि॒रक्ष॑थ ॥२३॥ यत्र॑ दे॒वा ब्र॑ह्म॒विदो॒ ब्रह्म॑ ज्ये॒ष्ठमु॒पास॑ते । यो वै तान् वि॒द्यात् प्र॒त्यक्षं॒ स ब्र॒ह्मा वेदि॑ता स्यात्॥२४॥ बृ॒हन्तो॒ नाम॒ ते दे॒वा येऽस॑तः॒ परि॑ जज्ञि॒रे। एकं॒ तदङ्गं॑ स्क॒म्भस्यास॑दाहुः प॒रो जनाः॑ ॥२५॥ यत्र॑ स्क॒म्भः प्र॑ज॒नयन् पुरा॒णं व्यव॑र्तयत्। एकं॒ तदङ्गं॑ स्क॒म्भस्य॑ पुरा॒णम॑नु॒संवि॑दुः ॥२६॥ यस्य॒ त्रय॑स्त्रिंशद् दे॒वा अङ्गे॒ गात्रा॑ विभेजि॒रे। तान् वै त्रय॑स्त्रिंशद् दे॒वानेके॑ ब्रह्म॒विदो॑ विदुः ॥२७॥ हि॒र॒ण्य॒ग॒र्भं प॑र॒मम॑नत्यु॒द्यं जना॑ विदुः । स्क॒म्भस्तदग्रे॒ प्रासि॑ञ्च॒द्धिर॑ण्यं लो॒के अ॑न्त॒रा॥२८॥ स्क॒म्भे लो॒काः स्क॒म्भे तपः॑ स्क॒म्भेऽध्यृ॒तमाहि॑तम्। स्कम्भ॑ त्वा वेद प्र॒त्यक्ष॒मिन्द्रे॒ सर्वं॑ स॒माहि॑तम्॥२९॥ इन्द्रे॑ लो॒का इन्द्रे॒ तप॒ इन्द्रेऽध्यृ॒तमाहि॑तम्। इन्द्रं॑ त्वा वेद प्र॒त्यक्षं॑ स्क॒म्भे सर्वं॒ प्रति॑ष्ठितम्॥३०॥ नाम॒ नाम्ना॑ जोहवीति पु॒रा सूर्या॑त् पु॒रोषसः॑ । यद॒जः प्र॑थ॒मं सं॑ब॒भूव॒ स ह॒ तत् स्व॒राज्य॑मियाय॒ यस्मा॒न्नान्यत् पर॒मस्ति॑ भू॒तम्॥३१॥ यस्य॒ भूमिः॑ प्र॒मान्तरि॑क्षमु॒तोदर॑म्। दिवं॒ यश्च॒क्रे मू॒र्धानं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥३२॥ यस्य॒ सूर्य॒श्चक्षु॑श्च॒न्द्रमा॑श्च॒ पुन॑र्णवः । अ॒ग्निं यश्च॒क्र आ॒स्यं॑ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥३३॥ यस्य॒ वातः॑ प्राणापा॒नौ चक्षु॒रङ्गि॑र॒सोऽभ॑वन्। दिशो॒ यश्च॒क्रे प्र॒ज्ञानी॒स्तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥३४॥ स्क॒म्भो दा॑धार॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे स्क॒म्भो दा॑धारो॒र्व॑१न्तरि॑क्षम्। स्क॒म्भो दा॑धार प्र॒दिशः॒ षडु॒र्वीः स्क॒म्भ इ॒दं विश्वं॒ भुव॑न॒मा वि॑वेश ॥३५॥ यः श्रमा॒त् तप॑सो जा॒तो लो॒कान्त्सर्वा॑न्त्समान॒शे। सोमं॒ यश्च॒क्रे केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥३६॥ क॒थं वातो॒ नेल॑यति क॒थं न र॑मते॒ मनः॑ । किमापः॑ स॒त्यं प्रेप्स॑न्ती॒र्नेल॑यन्ति क॒दा च॒न॥३७॥ म॒हद् य॒क्षं भुव॑नस्य॒ मध्ये॒ तप॑सि क्रा॒न्तं स॑लि॒लस्य॑ पृ॒ष्ठे। तस्मि॑न्छ्रयन्ते॒ य उ॒ के च॑ दे॒वा वृ॒क्षस्य॒ स्कन्धः॑ प॒रित॑ इव॒ शाखाः॑ ॥३८॥ यस्मै॒ हस्ता॑भ्यां॒ पादा॑भ्यां वा॒चा श्रोत्रे॑ण॒ चक्षु॑षा । यस्मै॑ दे॒वाः सदा॑ ब॒लिं प्र॒यच्छ॑न्ति॒ विमि॒तेऽमि॑तं स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥३९॥ अप॒ तस्य॑ ह॒तं तमो॒ व्यावृ॑त्तः॒ स पा॒प्मना॑ । सर्वा॑णि॒ तस्मि॒न् ज्योतीं॑षि॒ यानि॒ त्रीणि॑ प्र॒जाप॑तौ ॥४०॥ यो वे॑त॒सं हि॑र॒ण्ययं॒ तिष्ठ॑न्तं सलि॒ले वेद॑ । स वै गुह्यः॑ प्र॒जाप॑तिः ॥४१॥ त॒न्त्रमेके॑ युव॒ती विरू॑पे अभ्या॒क्रामं॑ वयतः॒ षण्म॑यूखम्। प्रान्या तन्तूं॑स्ति॒रते॑ ध॒त्ते अ॒न्या नाप॑ वृञ्जाते॒ न ग॑मातो॒ अन्त॑म्॥४२॥ तयो॑र॒हं प॑रि॒नृत्य॑न्त्योरिव॒ न वि जा॑नामि यत॒रा प॒रस्ता॑त्। पुमा॑नेनद् वय॒त्युद्गृ॑णन्ति॒ पुमा॑नेन॒द् वि ज॑भा॒राधि॒ नाके॑ ॥४३॥ इ॒मे म॒यूखा॒ उप॑ तस्तभु॒र्दिवं॒ सामा॑नि चक्रु॒स्तस॑राणि॒ वात॑वे ॥४४॥
ज्येष्ठब्रह्मवर्णनम्। १-४४ कुत्सः। आत्मा। त्रिष्टुप्, १ उपरिष्टाद्विराड्बृहती, २ बृहतीगर्भानुष्टुप्, ५ भुरिगनुष्टुप्, ६, १४, १९-२१, २३, २५, २९, ३१-३४, ३७-३८, ४१, ४३ अनुष्टुप्, ७ पराबृहती, १० अनुष्टुब्गर्भा, ११ जगती, १२ पुरोबृहती त्रिष्टुब्गर्भाऽऽर्षी पङ्क्तिः, १५, २७ भुरिग्बृहती, २२ पुर उष्णिक्, २६ द्व्युष्णिग्गर्भानुष्टुप्, ३० भुरिक्, ३९ बृहतीगर्भा, ४२ विराड् गायत्री। यो भू॒तं च॒ भव्यं॑ च॒ सर्वं॒ यश्चा॑धि॒तिष्ठ॑ति । स्व॑१र्यस्य॑ च॒ केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥१॥ स्क॒म्भेने॒मे विष्ट॑भिते॒ द्यौश्च॒ भूमि॑श्च तिष्ठतः । स्क॒म्भ इ॒दं सर्व॑मात्म॒न्वद् यत् प्रा॒णन्नि॑मि॒षच्च॒ यत्॥२॥ ति॒स्रो ह॑ प्र॒जा अ॑त्या॒यमा॑य॒न् न्य॑१न्या अ॒र्कम॒भितो॑ऽविशन्त । बृ॒हन् ह॑ तस्थौ॒ रज॑सो वि॒मानो॒ हरि॑तो॒ हरि॑णी॒रा वि॑वेश ॥३॥ द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत । तत्राह॑ता॒स्त्रीणि॑ श॒तानि॑ श॒ङ्कवः॑ ष॒ष्टिश्च॒ खीला॒ अवि॑चाचला॒ ये॥४॥ इ॒दं स॑वित॒र्वि जा॑नीहि॒ षड् य॒मा एक॑ एक॒जः । तस्मि॑न् हापि॒त्वमि॑छन्ते॒ य ए॑षा॒मेक॑ एक॒जः ॥५॥ आ॒विः सन्निहि॑तं॒ गुहा॒ जर॒न्नाम॑ म॒हत् प॒दम्। तत्रे॒दं सर्व॒मार्पि॑त॒मेज॑त् प्रा॒णत् प्रति॑ष्ठितम्॥६॥ एक॑चक्रं वर्तत॒ एक॑नेमि स॒हस्रा॑क्षरं॒ प्र पु॒रो नि प॒श्चा । अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क्व॑१तद् ब॑भूव ॥७॥ प॒ञ्च॒वा॒ही व॑ह॒त्यग्र॑मेषां॒ प्रष्ट॑यो यु॒क्ता अ॑नु॒संव॑हन्ति । अया॑तमस्य ददृ॒शे न या॒तं परं॒ नेदी॒योऽव॑रं॒ दवी॑यः ॥८॥ ति॒र्यग्बि॑लश्चम॒स ऊ॒र्ध्वबु॑ध्न॒स्तस्मि॒न् यशो॒ निहि॑तं वि॒श्वरू॑पम्। तदा॑सत॒ ऋष॑यः स॒प्त सा॒कं ये अ॒स्य गो॒पा म॑ह॒तो ब॑भू॒वुः ॥९॥ या पु॒रस्ता॑द् यु॒ज्यते॒ या च॑ प॒श्चाद् या वि॒श्वतो॑ यु॒ज्यते॒ या च॑ स॒र्वतः॑ । यया॑ य॒ज्ञः प्राङ् ता॒यते॒ तां त्वा॑ पृछामि कत॒मा सर्चाम्॥१०॥ यदेज॑ति॒ पत॑ति॒ यच्च॒ तिष्ठ॑ति प्रा॒णदप्रा॑णन्निमि॒षच्च॒ यद् भुव॑त्। तद् दा॑धार पृथि॒वीं वि॒श्वरू॑पं॒ तत् सं॒भूय॑ भ॒वत्येक॑मे॒व॥११॥ अ॒न॒न्तं वित॑तं पुरु॒त्रान॒न्तमन्त॑वच्चा॒ सम॑न्ते । ते ना॑कपा॒लश्च॑रति विचि॒न्वन् वि॒द्वान् भू॒तमु॒त भव्य॑मस्य ॥१२॥ प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तरदृ॑श्यमानो बहु॒धा वि जा॑यते । अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क॑त॒मः स के॒तुः ॥१३॥ ऊ॒र्ध्वं भर॑न्तमुद॒कं कु॒म्भेने॑वोदहा॒र्यऽम्। पश्य॑न्ति॒ सर्वे॒ चक्षु॑षा॒ न सर्वे॒ मन॑सा विदुः ॥१४॥ दू॒रे पू॒र्णेन॑ वसति दू॒र ऊ॒नेन॑ हीयते । म॒हद् य॒क्षं भुव॑नस्य॒ मध्ये॒ तस्मै॑ ब॒लिं रा॑ष्ट्र॒भृतो॑ भरन्ति ॥१५॥ यतः॒ सूर्यः॑ उ॒देत्यस्तं॒ यत्र॑ च॒ गच्छ॑ति । तदे॒व म॑न्ये॒ऽहं ज्ये॒ष्ठं तदु॒ नात्ये॑ति॒ किं च॒न॥१६॥ ये अ॒र्वाङ् मध्य॑ उ॒त वा॑ पुरा॒णं वेदं॑ वि॒द्वांस॑म॒भितो॒ वद॑न्ति । आ॒दि॒त्यमे॒व ते परि॑ वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ त्रि॒वृतं॑ च हं॒सम्॥१७॥ स॒ह॒स्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्। स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न् याति॒ भुव॑नानि॒ विश्वा॑ ॥१८॥ स॒त्येनो॒र्ध्वस्त॑पति॒ ब्रह्म॑णा॒र्वाङ् वि प॑श्यति । प्रा॒णेन॑ ति॒र्यङ् प्राण॑ति॒ यस्मि॑न् ज्ये॒ष्ठमधि॑ श्रि॒तम्॥१९॥ यो वै ते वि॒द्याद॒रणी॒ याभ्यां॑ निर्म॒थ्यते॒ वसु॑ । स वि॒द्वान् ज्ये॒ष्ठं म॑न्येत॒ स वि॑द्या॒द् ब्राह्म॑णं म॒हत्॥२०॥ अ॒पादग्रे॒ सम॑भव॒त् सो अग्रे॒ स्व॑१राभ॑रत्। चतु॑ष्पाद् भू॒त्वा भोग्यः॒ सर्व॒माद॑त्त॒ भोज॑नम्॥२१॥ भोग्यो॑ भव॒दथो॒ अन्न॑मदद् ब॒हु। यो दे॒वमु॑त्त॒राव॑न्तमु॒पासा॑तै सना॒तन॑म्॥२२॥ स॒ना॒तन॑मेनमाहुरु॒ताद्य स्या॒त् पुन॑र्णवः । अ॒हो॒रा॒त्रे प्र जा॑येते अ॒न्यो अ॒न्यस्य॑ रू॒पयोः॑ ॥२३॥ श॒तं स॒हस्र॑म॒युतं॒ न्यऽर्बुदमसंख्ये॒यं स्वम॑स्मि॒न् निवि॑ष्टम्। तद॑स्य घ्नन्त्यभि॒पश्य॑त ए॒व तस्मा॑द् दे॒वो रो॑चत ए॒ष ए॒तत्॥२४॥ बाला॒देक॑मणीय॒स्कमु॒तैकं॒ नेव॑ दृश्यते । ततः॒ परि॑ष्वजीयसी दे॒वता॒ सा मम॑ प्रि॒या॥२५॥ इ॒यं क॑ल्या॒ण्य॑१जरा॒ मर्त्य॑स्या॒मृता॑ गृ॒हे। यस्मै॑ कृ॒ता शये॒ स यश्च॒कार॑ ज॒जार॒ सः ॥२६॥ त्वं स्त्री त्वं पुमा॑नसि॒ त्वं कु॑मा॒र उ॒त वा॑ कुमा॒री॥ त्वं जी॒र्णो द॒ण्डेन॑ वञ्चसि॒ त्वं जा॒तो भ॑वसि वि॒श्वतो॑मुखः ॥२७॥ उ॒तैषां॑ पि॒तोत वा॑ पु॒त्र ए॑षामु॒तैषां॑ ज्ये॒ष्ठ उ॒त वा॑ कनि॒ष्ठः । एको॑ ह दे॒वो मन॑सि॒ प्रवि॑ष्टः प्रथ॒मो जा॒तः स उ॒ गर्भे॑ अ॒न्तः ॥२८॥ पू॒र्णात् पू॒र्णमुद॑चति पू॒र्णं पू॒र्णेन॑ सिच्यते । उ॒तो तद॒द्य वि॑द्याम॒ यत॒स्तत् प॑रिषि॒च्यते॑ ॥२९॥ ए॒षा स॒नत्नी॒ सन॑मे॒व जा॒तैषा पु॑रा॒णी परि॒ सर्वं॑ बभूव । म॒ही दे॒व्यु॑१षसो॑ विभा॒ती सैके॑नैकेन मिष॒ता वि च॑ष्टे ॥३०॥ अवि॒र्वै नाम॑ दे॒वत॒र्तेना॑स्ते॒ परी॑वृता । तस्या॑ रू॒पेणे॒मे वृ॒क्षा हरि॑ता॒ हरि॑तस्रजः ॥३१॥ अन्ति॒ सन्तं॒ न ज॑हा॒त्यन्ति॒ सन्तं॒ न प॑श्यति । दे॒वस्य॑ पश्य॒ काव्यं॒ न म॑मार॒ न जी॑र्यति ॥३२॥ अ॒पू॒र्वेणे॑षि॒ता वाच॒स्ता व॑दन्ति यथाय॒थम्। वद॑न्ती॒र्यत्र गच्छ॑न्ति॒ तदा॑हु॒र्ब्राह्म॑णं म॒हत्॥३३॥ यत्र॑ दे॒वाश्च॑ मनु॒ष्याऽश्चा॒रा नाभा॑विव श्रि॒ताः । अ॒पां त्वा॒ पुष्पं॑ पृच्छामि॒ यत्र॒ तन्मा॒यया॑ हि॒तम्॥३४॥ ये भि॒र्वात॑ इषि॒तः प्र॒वाति॒ ये दद॑न्ते॒ पञ्च॒ दिशः॑ स॒ध्रीचीः॑ । य आहु॑तिम॒त्यम॑न्यन्त दे॒वा अ॒पां ने॒तारः॑ कत॒मे त आ॑सन्॥३५॥ इ॒मामे॑षां पृथि॒वीं वस्त॒ एको॒ऽन्तरि॑क्षं॒ पर्ये॑को॑ बभूव । दिव॑मेषां ददते॒ यो वि॑ध॒र्ता विश्वा॒ आशाः॒ प्रति॑ रक्ष॒न्त्येके॑ ॥३६॥ यो वि॒द्यात् सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः । सूत्रं॒ सूत्र॑स्य॒ यो वि॒द्याद् स वि॑द्या॒द् ब्राह्म॑णं म॒हत्॥३७॥ वेदा॒हं सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः । सूत्रं॒ सूत्र॑स्या॒हं वे॒दाथो॒ यद् ब्राह्म॑णं म॒हत्॥३८॥ यद॑न्त॒रा द्यावा॑पृथि॒वी अ॒ग्निरैत् प्र॒दह॑न् विश्वदा॒व्यः । यत्राति॑ष्ठ॒न्नेक॑पत्नीः प॒रस्ता॒त् क्वेऽवासीन्मात॒रिश्वा॑ त॒दानी॑म्॥३९॥ अ॒प्स्वाऽसीन्मात॒रिश्वा॒ प्रवि॑ष्टः॒ प्रवि॑ष्टा दे॒वाः स॑लि॒लान्या॑सन्॥ बृ॒हन् ह॑ तस्थौ॒ रज॑सो वि॒मानः॒ पव॑मानो ह॒रित॒ आ वि॑वेश ॥४०॥ उत्त॑रेणेव गाय॒त्रीम॒मृतेऽधि॒ वि च॑क्रमे । साम्ना॒ ये साम॑ संवि॒दुर॒जस्तद् द॑दृशे॒ क्वऽ॥४१॥ नि॒वेश॑नः सं॒गम॑नो॒ वसू॑नां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा । इन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम्॥४२॥ पु॒ण्डरी॑कं॒ नव॑द्वारं त्रि॒भिर्गु॒णेभि॒रावृ॑तम्। तस्मि॒न् यद् य॒क्षमा॑त्म॒न्वत् तद् वै ब्र॑ह्म॒विदो॑ विदुः ॥४३॥ अ॒का॒मो धीरो॑ अ॒मृतः॑ स्वयं॒भू रसे॑न तृ॒प्तो न कुत॑श्च॒नोनः॑ । तमे॒व वि॒द्वान् न बि॑भाय मृ॒त्योरा॒त्मानं॒ धीर॑म॒जरं॒ युवा॑नम्॥४४॥
शतौदना गौः। १-२७ अथर्वा। शतौदना। अनुष्टुप्, १ त्रिष्टुप्, १२ पथ्यापङ्क्तिः, २५ द्व्युष्णिग्गर्भाऽनुष्टुप्, २६ पञ्चपदा बृहत्यनुष्टुबुष्णिग्गर्भा जगती, २७ पञ्चपदातिजागतानुष्टब्गर्भा शक्वरी। अ॒घा॒य॒तामपि॑ नह्या॒ मुखा॑नि स॒पत्ने॑षु॒ वज्र॑मर्पयै॒तम्। इन्द्रे॑ण द॒त्ता प्र॑थ॒मा श॒तौद॑ना भ्रातृव्य॒घ्नी यज॑मानस्य गा॒तुः ॥१॥ वेदि॑ष्टे॒ चर्म॑ भवतु ब॒र्हिर्लोमा॑नि॒ यानि॑ ते । ए॒षा त्वा॑ रश॒नाग्र॑भी॒द् ग्रावा॑ त्वै॒षोऽधि॑ नृत्यतु ॥२॥ बाला॑स्ते॒ प्रोक्ष॑णीः सन्तु जी॒ह्वा सं मा॑र्ष्ट्वघ्न्ये । शु॒द्धा त्वं य॒ज्ञिया॑ भू॒त्वा दिवं॒ प्रेहि॑ शतौदने ॥३॥ यः श॒तौद॑नां॒ पच॑ति काम॒प्रेण॒ स क॑ल्पते । प्री॒ता ह्यऽस्य॒र्त्विजः॒ सर्वे॒ यन्ति॑ यथाय॒थम्॥४॥ स स्व॒र्गमा रो॑हति॒ यत्रा॒दस्त्रि॑दि॒वं दि॒वः । अ॒पू॒पना॑भिं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम्॥५॥ स तांल्लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः । हिर॑ण्यज्योतिषं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम्॥६॥ ये ते॑ देवि शमि॒तारः॑ प॒क्तारो॒ ये च॑ ते॒ जनाः॑ । ते त्वा॒ सर्वे॑ गोप्स्यन्ति॒ मैभ्यो॑ भैषीः शतौदने ॥७॥ वस॑वस्त्वा दक्षिण॒त उ॑त्त॒रान्म॒रुत॑स्त्वा । आ॒दि॒त्याः प॒श्चाद् गो॑प्स्यन्ति॒ साग्नि॑ष्टो॒ममति॑ द्रव ॥८॥ दे॒वाः पि॒तरो॑ मनु॒ष्याऽ गन्धर्वाप्स॒रस॑श्च॒ ये। ते त्वा॒ सर्वे॑ गोप्स्यन्ति॒ साति॑रा॒त्रमति॑ द्रव ॥९॥ अ॒न्तरि॑क्षं॒ दिवं॒ भूमि॑मादि॒त्यान् म॒रुतो॒ दिशः॑ । लो॒कान्त्स सर्वा॑नाप्नोति॒ यो ददा॑ति श॒तौद॑नाम्॥१०॥ घृ॒तं प्रो॒क्षन्ती॑ सु॒भगा॑ दे॒वी दे॒वान् ग॑मिष्यति । प॒क्तार॑मघ्न्ये॒ मा हिं॑सी॒र्दिवं॒ प्रेहि॑ शतौदने ॥११॥ ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये ये चे॒मे भूम्या॒मधि॑ । तेभ्य॒स्त्वं धु॑क्ष्व सर्व॒दा क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥१२॥ यत् ते॒ शिरो॒ यत् ते॒ मुखं॒ यौ कर्णौ॒ ये च॑ ते॒ हनू॑ । आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥१३॥ यौ त॒ ओष्ठौ॒ ये नासि॑के॒ ये शृङ्गे॒ ये च॒ तेऽक्षि॑णी । आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥१४॥ यत् ते क्लो॒मा यद्धृद॑यं पुरी॒तत् स॒हक॑ण्ठिका । आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥१५॥ यत् ते॒ यकृ॒द् ये मत॑स्ने यदा॒न्त्रं याश्च॑ ते॒ गुदाः॑ । आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥१६॥ यस्ते॑ प्ला॒शिर्यो व॑नि॒ष्ठुर्यौ कु॒क्षी यच्च॒ चर्म॑ ते । आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥१७॥ यत् ते॑ म॒ज्जा यदस्थि॒ यन्मां॒सं यच्च॒ लोहि॑तम्। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥१८॥ यौ ते॑ बा॒हू ये दो॒षणी॒ यावंसौ॒ या च॑ ते क॒कुत्। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥१९॥ यास्ते॑ ग्री॒वा ये स्क॒न्धा याः पृ॒ष्टीर्याश्च॒ पर्श॑वः । आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥२०॥ यौ त॑ उ॒रू अ॑ष्ठी॒वन्तौ॒ ये श्रोणी॒ या च॑ ते भ॒सत्। आ॑मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥२१॥ यत् ते॒ पुच्छं॒ ये ते॒ बाला॒ यदूधो॒ ये च॑ ते॒ स्तनाः॑ । आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥२२॥ यास्ते॒ जङ्घाः॒ याः कुष्ठि॑का ऋ॒च्छरा॒ ये च॑ ते श॒फाः । आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥२३॥ यत् ते॒ चर्म॑ शतौदने॒ यानि॒ लोमा॑न्यघ्न्ये । आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥२४॥ क्रो॒डौ ते॑ स्तां पुरो॒डाशा॒वाज्ये॑ना॒भिघा॑रितौ । तौ प॒क्षौ दे॑वि कृ॒त्वा सा प॒क्तारं दिवं॑ वह ॥२५॥ उ॒लूख॑ले॒ मुस॑ले॒ यश्च॒ चर्म॑णि यो वा॒ शूर्पे॑ तण्डु॒लः कणः॑ । यं वा॒ वातो॑ मात॒रिश्वा॒ पव॑मानो म॒माथा॒ग्निष्टद्धोता॒ सुहु॑तं कृणोतु ॥२६॥ अ॒पो दे॒वी र्मधु॑मतीर्घृत॒श्चुतो॑ ब्र॒ह्मणां॒ हस्ते॑षु प्रपृ॒थक् सा॑दयामि । यत् का॑म इ॒दम॑भिषि॒ञ्चामि॑ वो॒ऽहं तन्मे॒ सर्वं॒ सं प॑द्यतां व॒यं स्या॑म॒ पत॑यो रयी॒णाम्॥२७॥
वशा गौः। १-३४ कश्यपः। वशा। अनुष्टुप्, १ ककुम्मती, ५ पञ्चपदा॰ स्कन्धोग्रीवी बृहती, ६, ८, १० विराट्, २३ बृहती, २४ उपरिष्टाद् बृहती, २६ आस्तारपङ्क्तिः, २७ शंकुमती, २९ त्रिपदा विराड् गायत्री, ३१ उष्णिग्गर्भा, ३२ विराट् पथ्याबृहती। नम॑स्ते॒ जाय॑मानायै जा॒ताया॑ उ॒त ते॒ नमः॑ । बाले॑भ्यः श॒फेभ्यो॑ रू॒पाया॑घ्न्ये ते॒ नमः॑ ॥१॥ यो वि॒द्यात् स॒प्त प्र॒वतः॑ स॒प्त वि॒द्यात् प॑रा॒वतः॑ । शिरो॑ य॒ज्ञस्य॒ यो वि॒द्यात् स व॒शां प्रति॑ गृह्णीयात्॥२॥ वेदा॒हं स॒प्त प्र॒वतः॑ स॒प्त वे॑द परा॒वतः॑ । शिरो॑ य॒ज्ञस्या॒हं वे॑द॒ सोमं॑ चास्यां विचक्ष॒णम्॥३॥ यया॒ द्यौर्यया॑ पृथि॒वी ययापो॑ गुपि॒ता इ॒माः। व॒शां स॒हस्र॑धारां॒ ब्रह्म॑णा॒च्छाव॑दामसि ॥४॥ श॒तं कं॒साः श॒तं दो॒ग्धारः॑ श॒तं गो॒प्तारो॒ अधि॑ पृ॒ष्ठे अ॑स्याः । ये दे॒वास्तस्यां॑ प्रा॒णन्ति॒ ते व॒शां वि॑दुरेक॒धा॥५॥ य॒ज्ञ॒प॒दीरा॑क्षीरा स्व॒धाप्रा॑णा म॒हीलु॑का । व॒शा प॒र्जन्य॑पत्नी दे॒वाँ अप्ये॑ति॒ ब्रह्म॑णा ॥६॥ अनु॑ त्वा॒ग्निः प्रावि॑श॒दनु॒ सोमो॑ वशे त्वा । ऊध॑स्ते भद्रे प॒र्जन्यो॑ वि॒द्युत॑स्ते॒ स्तना॑ वशे ॥७॥ अ॒पस्त्वं धु॑क्षे प्रथ॒मा उ॒र्वरा॒ अप॑रा वशे । तृ॒तीयं॑ रा॒ष्ट्रं धु॒क्षेऽन्नं॑ क्षी॒रं व॑शे॒ त्वम्॥८॥ यदा॑दि॒त्यैर्हू॒यमा॑नो॒पाति॑ष्ठ ऋतवरि । इन्द्रः॑ स॒हस्रं॒ पात्रा॒न्त्सोमं॑ त्वापाययद् वशे ॥९॥ यद॒नूचीन्द्र॒मैरात् त्व॑ ऋष॒भोऽह्वयत्। तस्मा॑त् ते वृत्र॒हा पयः॑ क्षी॒रं क्रु॒द्धोऽहरद् वशे ॥१०॥ यत् ते॑ क्रु॒द्धो धन॑पति॒रा क्षी॒रमह॑रद् वशे । इ॒दं तद॒द्य नाक॑स्त्रि॒षु पात्रे॑षु रक्षति ॥११॥ त्रि॒षु पात्रे॑षु॒ तं सोम॒मा दे॒व्यऽहरद् व॒शा। अथ॑र्वा॒ यत्र॑ दीक्षि॒तो ब॒र्हिष्यास्त॑ हिर॒ण्यये॑ ॥१२॥ सं हि सोमे॒नाग॑त॒ समु॒ सर्वे॑ण प॒द्वता॑ । व॒शा स॑मु॒द्रमध्य॑ष्ठाद् गन्धर्वैः क॒लिभिः॑ स॒ह॥१३॥ सं हि वाते॒नाग॑त॒ समु॒ सर्वैः॑ पत॒त्रिभिः॑ । व॒शा स॑मु॒द्रे प्रानृ॑त्य॒दृचः॒ सामा॑नि॒ बिभ्र॑ती ॥१४॥ सं हि सूर्ये॒णाग॑त॒ समु॒ सर्वे॑ण॒ चक्षु॑षा । व॒शा स॑मु॒द्रमत्य॑ख्यद् भ॒द्रा ज्योतीं॑षि॒ बिभ्र॑ती ॥१५॥ अ॒भीवृ॑ता॒ हिर॑ण्येन॒ यदति॑ष्ठ ऋतावरि । अश्वः॑ समु॒द्रो भू॒त्वाध्य॑स्कन्दद् वशे त्वा ॥१६॥ तद् भ॒द्राः सम॑गच्छन्त व॒शा देष्ट्र्यथो॑ स्व॒धा। अथ॑र्वा॒ यत्र॑ दीक्षि॒तो ब॒र्हिष्यास्त॑ हिर॒ण्यये॑ ॥१७॥ व॒शा मा॒ता रा॑ज॒न्यऽस्य व॒शा मा॒ता स्व॑धे॒ तव॑ । व॒शाया॑ य॒ज्ञ आयु॑धं॒ तत॑श्चि॒त्तम॑जायत ॥१८॥ ऊ॒र्ध्वो बि॒न्दुरुद॑चर॒द् ब्रह्म॑णः॒ ककु॑दा॒दधि॑ । तत॒स्त्वं ज॑ज्ञिषे वशे॒ ततो॒ होता॑जायत ॥१९॥ आ॒स्नस्ते॒ गाथा॑ अभवन्नु॒ष्णिहा॑भ्यो॒ बलं॑ वशे । पा॒ज॒स्याऽज्जज्ञे य॒ज्ञ स्तने॑भ्यो र॒श्मय॒स्तव॑ ॥२०॥ ई॒र्माभ्या॒मय॑नं जा॒तं सक्थि॑भ्यां च वशे॒ तव॑ । आ॒न्त्रेभ्यो॑ जज्ञिरे अ॒त्रा उ॒दरा॒दधि॑ वी॒रुधः॑ ॥२१॥ यदु॒दरं॒ वरु॑णस्यानु॒प्रावि॑शथा वशे । तत॑स्त्वा ब्र॒ह्मोद॑ह्वय॒त् स हि ने॒त्रमवे॒त् तव॑ ॥२२॥ सर्वे॒ गर्भा॑दवेपन्त॒ जाय॑मानादसू॒स्वः । स॒सूव॒ हि तामा॒हुव॒शेति॒ ब्रह्म॑भिः क्लृप्तः स ह्यऽस्या॒ बन्धुः॑ ॥२३॥ युध॒ एकः॒ सं सृ॑जति॒ यो अ॑स्या॒ एक॒ इद् व॒शी। तरां॑सि य॒ज्ञा अ॑भव॒न् तर॑सां॒ चक्षु॑रभवद् व॒शा॥२४॥ व॒शा य॒ज्ञं प्रत्य॑गृह्णाद् व॒शा सूर्य॑मधारयत्। व॒शाया॑म॒न्तर॑विशदोद॒नो ब्र॒ह्मणा॑ स॒ह॥२५॥ व॒शामे॒वामृत॑माहुर्व॒शां मृ॒त्युमुपा॑सते । व॒शेदं सर्व॑मभवद् दे॒वा म॑नु॒ष्या॒३ असु॑राः पि॒तर॒ ऋष॑यः ॥२६॥ य ए॒वं वि॒द्यात् स व॒शां प्रति॑ गृह्णीयात्। तथा॑ हि य॒ज्ञः सर्व॑पाद् दु॒हे दा॒त्रेऽन॑पस्फुरन्॥२७॥ ति॒स्रो जि॒ह्वा वरु॑णस्या॒न्तर्दी॑द्यत्या॒सनि॑ । तासां॒ या मध्ये॒ राज॑ति॒ सा व॒शा दु॑ष्प्रति॒ग्रहा॑ ॥२८॥ च॒तु॒र्धा रेतो॑ अभवद् व॒शायाः॑ । आप॒स्तुरी॑यम॒मृतं॒ तुरी॑यं य॒ज्ञस्तुरी॑यं प॒शव॒स्तुरी॑यम्॥२९॥ व॒शा द्यौर्व॒शा पृ॑थि॒वी व॒शा विष्णुः॑ प्र॒जाप॑तिः । व॒शाया॑ दु॒ग्धम॑पिबन्त्सा॒ध्या वस॑वश्च॒ ये ॥३०॥ व॒शाया॑ दु॒ग्धं पी॒त्वा सा॒ध्या वस॑वश्च॒ ये । ते वै ब्र॒ध्नस्य॑ वि॒ष्टपि॑ पयो॑ अस्या॒ उपा॑सते ॥३१॥ सोम॑मेना॒मेके॑ दुह्रे घृ॒तमेक॒ उपा॑सते । य ए॒वं वि॒दुषे॑ व॒शां द॒दुस्ते ग॒तास्त्रि॑दि॒वं दि॒वः ॥३२॥ ब्रा॒ह्म॒णेभ्यो॑ व॒शां द॒त्त्वा सर्वां॑ल्लो॒कान्त्सम॑श्नुते । ऋ॒तं ह्य॒ऽस्या॒मार्पि॑त॒मपि॒ ब्रह्माथो तपः॑ ॥३३॥ व॒शां दे॒वा उप॑ जीवन्ति व॒शां म॑नु॒ष्याऽउ॒त। व॒शेदं सर्व॑मभव॒द् याव॒त् सूर्यो॑ वि॒पश्य॑ति ॥३४॥
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is Kaanda 10 of the Atharva Veda?
Kaanda 10 of the Atharvaveda (Shaunaka) — longer hymns, ranging over health, household and social life and cosmic themes. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
What is the Atharva Veda?
The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
Offer a Vedic paath or seva in your name
Have a Vedic paath, havan or seva performed in your naam-gotra for peace and blessings. Book a seva, or read on in Sanatan Sahitya.








