About Kaanda 1
Kaanda 1 of the Atharvaveda (Shaunaka) — shorter hymns for healing, protection, long life and well-being. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
How it is read
Kaanda 1 is given below in its original Sanskrit, in accented Devanagari. The Veda is preserved as shruti and recited in svadhyaya; read it reverently, sukta by sukta.
Original Text
The Verses
मेधाजननम्। १-४ अथर्वा। वाचस्पतिः। अनुष्टुप्, ४ चतुष्पदा विराडुरोबृहती। ये॑ त्रिषप्ताः प॑रि॒य॑न्ति वि॑श्वा रू॒पाणि॒ बिभ्र॑तः । वा॒चस्प॒तिर्बला॒ तेषां॑ तन्वो॒ अ॒द्य द॑धातु मे ॥१॥ पु॑नरे॑हि वचस्पते दे॒वेन॒ म॑नसा स॒ह। वसो॑ष्पते॒ नि र॑मय॒ मय्ये॒वास्तु॒ मयि॑ श्रु॒तम्॥२॥ इ॒हैवाभि॑ वि त॑नू॒भे आर्त्नी॑ इव॒ ज्य॑या । वा॒चस्पति॒र्नि य॑च्छतु॒ मय्ये॒वा॑स्तु॒ मयि॑ श्रु॒तम्॥३॥ उ॑पहूतो वा॒चस्पति॒रुपा॒स्मान् वा॒चस्प॑तिर्ह्वयताम्। सं श्रु॒तेन॑ गमेमहि॒ मा श्रु॒तेन॒ वि रा॑धिषि ॥४॥
रोगोपशमनम्। अथर्वा। पर्जन्यः(१,४ पृथिवी, ३ इन्द्रः,(चन्द्रमाश्च))। अनुष्टुप्, ३ त्रिपदा विराण्नाम गायत्री। वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॒ भू॑रिधायसम्। वि॒द्मो ष्व॑स्य मा॒तरं॑ पृथि॒वीं भूरि॑वर्पसम्॥१॥ ज्याऽके॒ परि॑ णो न॒माश्मा॑नं त॒न्वं कृधि । वी॒डुर्वरी॒योऽरा॑ती॒रप॒ द्वेषां॒स्याऽकृ॑धि ॥२॥ वृ॒क्षं यद्गावः॑ परिषस्वजा॒ना अ॑नुस्फु॒रं श॒रमर्च॑न्त्यृ॒भुम्। शरु॑म॒स्मद्या॑वय दि॒द्युमि॑न्द्र ॥३॥ यथा॒ द्यां च॑ पृथि॒वीं चा॒न्तस्तिष्ठ॑ति॒ तेज॑नम्। ए॒वा रोगं॑ चास्रा॒वं चा॒न्तस्ति॑ष्ठतु॒ मुञ्ज॒ इत्॥४॥
मूत्रमोचनम्। १-९ अथर्वा। १ पर्जन्यः, २ मित्रः, ३ वरुणः, ४ चन्द्रः, ५ सूर्यः, (१-९ मूत्रमोचनम्)। अनुष्टुप्, १-५ पथ्यापङ्क्तिः। वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॑ श॒तवृ॑ष्ण्यम् । तेना॑ ते त॒न्वे॒३शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥१॥ वि॒द्मा श॒रस्य॑ पि॒तरं॑ मि॒त्रं श॒तवृ॑ष्ण्यम् । ते॑ना ते त॒न्वे॒३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥२॥ वि॒द्मा श॒रस्य॑ पि॒तरं॒ वरु॑णं श॒तवृ॑ष्ण्यम् । तेना॑ ते त॒न्वे॒३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥३॥ वि॒द्मा श॒रस्य॑ पि॒तरं॑ च॒न्द्रं श॒तवृ॑ष्ण्यम् । तेना॑ ते त॒न्वे॒३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥४॥ वि॒द्मा श॒रस्य॑ पि॒तरं॒ सूर्यं॑ श॒तवृ॑ष्ण्यम् । तेना॑ ते त॒न्वे॒३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥५॥ यदा॒न्त्रेषु॑ गवी॒न्योर्यद्व॒स्तावधि॒ संश्रु॑तम् । ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम्॥६॥ प्र ते॑ भिनद्मि॒ मेह॑नं॒ वर्त्रं॑ वेश॒न्त्या इ॑व । ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम्॥७॥ विषि॑तं ते वस्तिबि॒लं स॑मु॒द्रस्यो॑द॒धेरि॑व । ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम्॥८॥ यथे॑षु॒का प॒राप॑त॒दव॑सृ॒ष्टाधि॒ धन्व॑नः । ए॒वा ते॒ मूत्रं॑ मुच्यतां ब॒हिर्बालिति॑ सर्व॒कम्॥९॥
अपां भेषजम्। १-४ सिन्धुद्वीपः।(अपांनपात्, सोमः,) आपः। गायत्री, ४ पुरस्ताद् बृहती। अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम्। पृ॒ञ्च॒तीर्म॑धु॑ना॒ पयः॑ ॥१॥ अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह। ता नो॑ हिन्वन्त्वध्व॒रम्॥२॥ अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिब॑न्ति नः । सिन्धु॑भ्यः॒ कर्त्वं॑ ह॒विः ॥३॥ अ॒प्स्व॑१न्तर॒मृत॑म॒प्सु भे॑ष॒जम्। अ॒पामु॒त प्रश॑स्तिभि॒रश्वा॒ भव॑थ वा॒जिनो॒ गावो॑ भवथ वा॒जिनीः॑ ॥४॥
अपां भेषजम्। १-४ सिन्धुद्वीपः।(अपांनपात्, सोमः,) आपः। गायत्री, ४ वर्धमाना। आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥१॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥२॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥३॥ ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम्। अ॒पो या॑चामि भेष॒जम्॥४॥
अपां भेषजम्। १-४ सिन्धुद्वीपः।(अथर्वा कृतिर्वा)। (अपांनपात्,) आपः, २ आपः सोमोऽग्निश्च। गायत्री, ४ पथ्यापङ्क्तिः। शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥१॥ अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा।अ॒ग्निं च॑ वि॒श्वशं॑ भुवम्॥२॥ आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३ म॑म । ज्योक् च॒ सूर्यं॑ दृ॒शे॑॥३॥ शं न॒ आपो॑ धन्व॒न्या॒३ शमु॑ सन्त्वनू॒प्याः । शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः शि॒वा नः॑ सन्तु॒ वार्षि॑कीः॥४॥
यातुधाननाशनम्। १-७ चातनः। अग्निः (जातवेदाः), ३ अग्नीन्द्रौ। अनुष्टुप्, ५ त्रिष्टुप्। स्तु॒वा॒नम॑ग्न॒ आ व॑ह यातु॒धानं॑ किमी॒दिन॑म्। त्वं हि दे॑व वन्दि॒तो ह॒न्ता दस्यो॑र्ब॒भूवि॑थ ॥१॥ आज्य॑स्य परमेष्ठिन् जात॑वेद॒स्तनू॑वशिन्। अग्ने॑ तौ॒लस्य॒ प्राशा॑न यातु॒धाना॒न् वि ला॑पय ॥२॥ वि ल॑पन्तु यातु॒धाना॑ अ॒त्त्रिणो॒ ये कि॑मी॒दिनः॑ । अथे॒दम॑ग्ने नो ह॒विरिन्द्र॑श्च प्रति॑ हर्यतम्॥३॥ अ॒ग्नि पूर्व॒ आ र॑भतां॒ प्रेन्द्रो॑ नुदतु बाहु॒मा॑न्। ब्रवी॑तु॒ सर्वो॑ यातु॒मान॒यम॒स्मीत्येत्य॑ ॥४॥ पश्या॑म ते वी॒र्यं॒ जातवेदः॒ प्र णो॑ ब्रूहि यातु॒धाना॑न् नृचक्षः । त्वया॒ सर्वे॒ परि॑तप्ताः पु॒रस्तात्त आ य॑न्तु प्रब्रुवा॒णा उपे॒दम्॥५॥ आ र॑भस्व जातवेदो॒ऽस्माकार्था॑य जज्ञिषे । दू॒तो नो॑ अग्ने भू॒त्वा या॑तु॒धाना॒न् वि ला॑पय ॥६॥ त्व॑मग्ने यातु॒धाना॒नुप॑बद्धाँ इ॒हा व॑ह । अथै॑षा॒मिन्द्रो॒ वज्रे॒णापि॑ शी॒र्षाणि॑ वृश्चतु ॥७॥
यातुधाननाशनम्। १-४ चातनः। १-२ बृहस्पतिः, अग्नीषोमौ च, ३-४ अग्निः (जातवेदाः)। १-३ अनुष्टुप्, ४ बार्हतगर्भा त्रिष्टुप्। इ॒दं ह॒विर्या॑तु॒धाना॑न् न॒दी फेन॑मि॒वा व॑हत्। य इ॒दं स्त्री पुमा॒नक॑रि॒ह स स्तु॑वतां॒ जनः॑ ॥१॥ अ॒यं स्तु॑वा॒न आग॑मदि॒मं स्म॒ प्रति॑ हर्यत । बृह॑स्पते॒ वशे॑ ल॒ब्ध्वाग्नी॑षोमा॒ वि वि॑ध्यतम्॥२॥ या॒तु॒धान॑स्य सोमप ज॒हि प्र॒जां नय॑स्व च । नि स्तु॑वा॒नस्य॑ पातय॒ पर॒मक्ष्यु॒ताव॑रम्॥३॥ यत्रै॑षामग्ने॒ जनि॑मानि॒ वेत्थ॒ गुहा॑ स॒ताम॒त्त्रिणां॑ जातवेदः । तांस्त्वं ब्रह्म॑णा वावृधा॒नो ज॒ह्येऽषां शत॒तर्ह॑मग्ने ॥४॥
विजयाय प्रार्थना। १-४ अथर्वा। १ वसवः, इन्द्रः, पूषा, वरुणः, मित्रः, अग्निः, आदित्याः, विश्वेदेवाः, २ देवाः, सूर्यः, अग्निः, हिरण्यं, ३-४ अग्निः (जातवेदाः)। त्रिष्टुप्। अ॒स्मिन् वसु॒ वस॑वो धारय॒न्त्विन्द्रः॑ पू॒षा वरु॑णो मि॒त्रो अ॒ग्निः । इ॒ममा॑दि॒त्या उ॒त॒ विश्वे॑ च दे॒वा उत्त॑रस्मि॒न् ज्योति॑षि धारयन्तु ॥१॥ अ॒स्य दे॑वाः प्र॒दिशि॒ ज्यो॑तिरस्तु॒ सूर्यो॑ अ॒ग्निरु॒त वा॒ हिर॑ण्यम्। स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम्॥२॥ येनेन्द्रा॑य स॒मभ॑रः॒ पयां॑स्युत्त॒मेन॒ ब्रह्म॑णा जातवेदः । तेन॒ त्वम॑ग्न इ॒ह व॑र्धये॒मं स॑जा॒तानां॒ श्रैष्ठ्य॒ आ धे॑ह्येनम्॥३॥ ऐषां॑ य॒ज्ञमु॒त वर्चो॑ ददे॒ऽहं रा॒यस्पोष॑मु॒त चि॒त्तान्य॑ग्ने । स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम्॥४॥
पाप -विमोचनम्। १-४ अथर्वा। १ असुरः, २-४ वरुणः। त्रिष्टुप्, ३ ककुम्मती अनुष्टुप्, ४ अनुष्टुप्। अ॒यं दे॒वाना॒मसु॑रो॒ वि रा॑जति॒ वशा॒ हि स॒त्या वरु॑णस्य॒ राज्ञः॑ । तत॒स्परि॒ ब्रह्म॑णा॒ शाश॑दान उ॒ग्रस्य॑ म॒न्योरुदि॒मं न॑यामि ॥१॥ नम॑स्ते राजन् वरुणास्तु म॒न्यवे॒ विश्वं॒ ह्यु॒ऽग्र निचि॒केषि॑ द्रु॒ग्धम् । स॒हस्र॑म॒न्यान् प्र सु॑वामि सा॒कं श॒तं जी॑वाति श॒रद॒स्तवा॒यम्॥२॥ यदु॒वक्थानृ॑तं जि॒ह्वया॑ वृजि॒नं ब॒हु। राज्ञ॑स्त्वा स॒त्यध॑र्मणो मु॒ञ्चामि॒ वरु॑णाद॒हम्॥३॥ मु॒ञ्चामि॑ त्वा वैश्वान॒राद॑र्ण॒वान्म॑ह॒तस्परि॑ । स॒जा॒तानु॑ग्रे॒हा व॑द॒ ब्रह्म॒ चाप॑ चिकीहि नः ॥४॥
नारी–सुखप्रसूतिः। १-६ अथर्वा। पूषा, अर्यमा, वेधाः, दिशः, देवाः। पङ्क्तिः, २ अनुष्टुप्, ३ चतुष्पदोष्णिग्गर्भा ककुम्मत्यनुष्टुप्, ४-६ पथ्यापङ्क्तिः। वष॑ट् ते पूषन्न॒स्मिन्त्सू॑तावर्य॒मा होता॑ कृणोतु वे॒धाः । सिस्र॑तां॒ नार्यृ॒तप्र॑जाता॒ वि पर्वा॑णि जिहतां॒ सूत॒वा उ॑ ॥१॥ चत॑स्रो दि॒वः प्र॒दिश॒श्चत॑स्रो॒ भूम्या॒ उ॒त। दे॒वा गर्भं॒ समै॑रय॒न् तं व्यू॑र्णुवन्तु॒ सूत॑वे ॥२॥ सू॒षा व्यू॑र्णोतु॒ वि योनिं॑ हापयामसि । श्र॒थया॑ सूषणे॒ त्वमव॒ त्वं बि॑ष्कले सृज ॥३॥ नेव॑ मां॒से न पीव॑सि॒ नेव॑ म॒ज्जस्वाह॑तम्। अवै॑तु॒ पृश्नि॒ शेव॑लं॒ शुने॑ ज॒राय्वत्त॒वेऽव॑ ज॒रायु॑ पद्यताम्॥४॥ वि ते॑ भिनद्मि॒ मेह॑नं॒ वि योनिं॒ वि ग॒वीनि॑के । वि मा॒तरं॑ च पु॒त्रं च॒ वि कु॑मा॒रं ज॒रायु॒णाव॑ ज॒रायु॑ पद्यताम्॥५॥ यथा॒ वातो॒ यथा॒ मनो॒ यथा॒ पत॑न्ति प॒क्षि॑णः॑ । ए॒वा त्वं द॑शमास्य सा॒कं ज॒रायु॑णा प॒ताव॑ ज॒रायु॑ पद्यताम्॥६॥
यक्ष्मनाशनम्। १-४ भृग्वङ्गिराः। यक्ष्मनाशनम्। जगती(त्रिष्टुप्), ४ अनुष्टुप्। ज॒रा॒यु॒जः प्र॑थ॒म उ॒स्रियो॒ वृषा॒ वात॑भ्रजा स्त॒नय॑न्नेति वृ॒ष्ट्या। स नो॑ मृडाति त॒न्व ऋजु॒गो रु॒जन् य एक॒मोज॑स्त्रे॒धा वि॑चक्र॒मे॥१॥ अङ्गे॑ अङ्गे शो॒चिषा॑ शिश्रिया॒णं न॑म॒स्यन्त॑स्त्वा ह॒विषा॑ विधेम । अ॒ङ्कान्त्स॑म॒ङ्कान् ह॒विषा॑ विधेम॒ यो अग्र॑भी॒त् पर्वा॑स्या॒ ग्रभी॑ता ॥२॥ मु॒ञ्च शी॑र्ष॒क्त्या उ॒त का॒स ए॑नं॒ परु॑ष्परुरावि॒वेशा॒ यो अ॑स्य । यो अ॑भ्र॒जा वा॑त॒जा यश्च॒ शुष्मो॒ वन॒स्पती॑न्त्सचतां॒ पर्व॑तांश्च ॥३॥ शं मे॒ पर॑स्मै॒ गात्रा॑य॒ शम॒स्त्वव॑राय मे । शं मे॑ च॒तुर्भ्यो॒ अङ्गे॑भ्यः॒ शम॑स्तु त॒न्वे॒३मम॑ ॥४॥
विद्युत्। १-४ भृग्वङ्गिराः। विद्युत्। अनुष्टुप्, ३ चतुष्पाद्विराड् जगती, ४ त्रिष्टुप्परा बृहतीगर्भा पङ्क्तिः। नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे । नम॑स्ते अ॒स्त्वश्म॑ने॒ येना॑ दू॒डाशे॒ अस्य॑सि ॥१॥ नम॑स्ते प्रवतो नपा॒द्यत॒स्तपः॑ स॒मूह॑सि । मृ॒डया॑ नस्त॒नूभ्यो॒ मय॑स्तो॒केभ्य॑स्कृधि ॥२॥ प्रव॑तो नपा॒न्नम॑ ए॒वास्तु॒ तुभ्यं॒ नम॑स्ते हे॒तये॒ तपु॑षे च कृण्मः । वि॒द्म ते॒ धाम॑ पर॒मं गुहा॒ यत् स॑मु॒द्रे अ॒न्तर्नि॑हि॑तासि॒ नाभिः॑ ॥३॥ यां त्वा॑ दे॒वा असृ॑जन्त॒ विश्व॒ इषुं॑ कृण्वा॒ना अस॑नाय धृ॒ष्णुम्। सा नो॑ मृड वि॒दथे॑ गृणा॒ना तस्यै॑ ते॒ नमो॑ अस्तु देवि ॥४॥
कुलपा कन्या १-४ भृग्वङ्गिराः ।(वरुणो), यमो (वा)। अनुष्टुप्, १ ककुम्मती अनुष्टुप्, ३ चतुष्पाद्विराट्। भग॑मस्या॒ वर्च॒ आदि॒ष्यधि॑ वृ॒क्षादि॑व॒ स्रज॑म्। म॒हाबु॑ध्न इव॒ पर्व॑तो॒ ज्योक् पि॒तृष्वा॑स्ताम्॥१॥ ए॒षा ते॑ राजन् क॒न्या व॒धूर्नि धू॑यतां यम । सा मा॒तुर्ब॑ध्यतां गृ॒हेऽथो॒ भ्रातु॒रथो॑ पि॒तुः ॥२॥ ए॒षा ते॑ कुल॒पा रा॑ज॒न् तामु॑ ते॒ परि॑ दद्मसि । ज्योक् पि॒तृष्वा॑साता॒ आ शी॒र्ष्णः स॒मोप्या॑त्॥३॥ असि॑तस्य ते॒ ब्रह्म॑णा क॒श्यप॑स्य॒ गय॑स्य च । अ॒न्तः॒को॒शमि॑व जा॒मयोऽपि॑ नह्यामि ते॒ भग॑म्॥४॥
पुष्टिकर्म। १-४ अथर्वा। सिन्धवः,(वाताः, पतत्रिणः)। अनुष्टुप्, १-२ भुरिक्पथ्या पङ्क्तिः। सं सं स्र॑वन्तु॒ सिन्ध॑वः॒ सं वाताः॒ सं प॑त॒त्रिणः॑ । इ॒मं य॒ज्ञं प्र॒दिवो॑ मे जुषन्तां संस्रा॒व्येण ह॒विषा॑ जुहोमि ॥१॥ इ॒हैव हव॒मा या॑त म इ॒ह सं॑स्रावणा उ॒तेमं व॑र्धयता गिरः । इ॒हैतु॒ सर्वो॒ यः प॒शुर॒स्मिन् ति॑ष्ठतु॒ या र॒यिः ॥२॥ ये न॒दीनां॑ सं॒स्रव॒न्त्युत्सा॑सः॒ सद॒मक्षि॑ताः । तेभि॑र्मे॒ सर्वैः॑ संस्रा॒वैर्धनं॒ सं स्रा॑वयामसि ॥३॥ ये स॒र्पिषः॑ सं॒स्रव॑न्ति क्षी॒रस्य॑ चोद॒कस्य॑ च । तेभि॑र्मे॒ सर्वैः॑ संस्रा॒वैर्धनं॒ सं स्रा॑वयामसि ॥४॥
शत्रुबाधनम्। १-४ चातनः। १ अग्निः, २ इन्द्रः, वरुणः, (२-४ दधत्यं सीसम्)। अनुष्टुप्, ४ ककुम्मती अनुष्टुप्। येऽमावा॒स्यां॒३ रात्रि॑मु॒दस्थु॑र्व्रा॒जम॒त्त्रिणः॑ । अ॒ग्निस्तु॒रीयो॑ यातु॒हा सो अ॒स्मभ्य॒मधि॑ ब्रवत्॥१॥ सीसा॒याध्या॑ह॒ वरु॑णः॒ सीसा॑या॒ग्निरुपा॑वति । सीसं॑ म॒ इन्द्रः॒ प्राय॑च्छ॒त् तद॒ङ्ग या॑तु॒चात॑नम्॥२॥ इ॒दं विष्क॑न्धं सहत इ॒दं बा॑धते अ॒त्त्रिणः॑ । अ॒नेन॒ विश्वा॑ ससहे॒ या जा॒तानि॑ पिशा॒च्याः ॥३॥ यदि॑ नो॒ गां हंसि॒ यद्यश्वं॒ यदि॒ पूरु॑षम्। तं त्वा॒ सीसे॑न विध्यामो॒ यथा॒ नोऽसो॒ अवी॑रहा ॥४॥
रुधिरस्रावनिवृत्तये धमनीबन्धनम्। १-४ ब्रह्मा। योषितः धमन्यश्च। अनुष्टुप्, १ भुरिगनुष्टुप्, ४ त्रिपदार्षी गायत्री। अ॒मूर्या यन्ति॑ यो॒षितो॑ हि॒रा लोहि॑तवाससः । अ॒भ्रात॑र इव जा॒मय॒स्तिष्ठ॑न्तु ह॒तव॑र्चसः ॥१॥ तिष्ठा॑वरे॒ तिष्ठ॑ पर उ॒त त्वं ति॑ष्ठ मध्यमे । क॒नि॒ष्ठि॒का च॒ तिष्ठ॑ति॒ तिष्ठा॒दिद्ध॒मनि॑र्म॒ही॥२॥ श॒तस्य॑ ध॒मनी॑नां स॒हस्र॑स्य हि॒राणा॑म्। अस्थु॒रिन्म॑ध्य॒मा इ॒माः सा॒कमन्ता॑ अरंसत ॥३॥ परि॑ वः॒ सिक॑तावती ध॒नूर्बृ॑ह॒त्यऽक्रमीत्।तिष्ठ॑ते॒लय॑ता॒ सु क॑म्॥४॥
अलक्ष्मीनाशनम्। १-४ द्रविणोदाः। विनायकः(२ सविता, वरुणः, मित्रः, अर्यमा, देवाः, ३ सविता)। १ विराडुपरिष्टाद् बृहती, २ निचृज्जगती, ३ विराडास्तार पङ्क्तिस्त्रिष्टुप्, ४ अनुष्टुप्। निर्ल॒क्ष्म्यं ऽ लला॒म्यं॑१ निररा॑तिं सुवामसि । अथ॒ या भ॒द्रा तानि॑ नः प्र॒जाया॒ अरा॑तिं नयामसि ॥१॥ निरर॑णिं सवि॒ता सा॑विषक् प॒दोर्निर्हस्त॑यो॒र्वरु॑णो मि॒त्रो अ॑र्य॒मा। निर॒स्मभ्य॒मनु॑मती॒ ररा॑णा॒ प्रेमां दे॒वा अ॑साविषुः॒ सौभ॑गाय ॥२॥ यत् त॑ आ॒त्मनि॑ त॒न्वां ऽ घो॒रमस्ति॒ यद्वा॒ केशे॑षु प्रति॒चक्ष॑णे वा । सर्वं॒ तद्वा॒चाप॑ हन्मो व॒यं दे॒वस्त्वा॑ सवि॒ता सू॑दयतु ॥३॥ रिश्य॑पदीं॒ वृष॑दतीं गोषे॒धां वि॑ध॒मामु॒त। वि॒ली॒ढ्यं ऽ लला॒म्यं॑१ ता अ॒स्मन्ना॑शयामसि ॥४॥
शत्रुनिवारणम्। १-४ ब्रह्मा। ईश्वरः, (१ इन्द्रः, २ दैवीः मनुष्येषवः, ३ रुद्रः, ४ देवाः)। अनुष्टुप्, २ पुरस्ताद् बृहती, ३ पथ्यापङ्क्तिः। मा नो॑ विदन् विव्या॒धिनो॒ मो अ॑भिव्या॒धिनो॑ विदन्। आ॒राच्छ॑र॒व्या ऽ अ॒स्मद्विषू॑चीरिन्द्र पातय ॥१॥ विष्व॑ञ्चो अ॒स्मच्छर॑वः पतन्तु॒ ये अ॒स्ता ये चा॒स्याः । दैवी॑र्मनुष्येषवो॒ ममा॒मित्रान् वि वि॑ध्यत ॥२॥ यो नः॒ स्वो यो अर॑णः सजा॒त उ॒त निष्ट्यो॒ यो अ॒स्माँ अ॑भि॒दास॑ति । रु॒द्रः श॑रव्य ऽ यै॒तान् ममा॒मित्रा॒न् वि वि॑ध्यतु ॥३॥ यः स॒पत्नो॒ योऽस॑पत्नो॒ यश्च॑ द्वि॒षन् छपा॑ति नः । दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम्॥४॥
शत्रुनिवारणम्। १-४ अथर्वा। १ सोमः, मरुतः, २ मित्रावरुणौ, ३ वरुणः ४ इन्द्रः। अनुष्टुप्, त्रिष्टुप्। अदा॑रसृद् भवतु देव सोमा॒स्मिन् य॒ज्ञे म॑रुतो मृ॒डता॑ नः । मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद् वृजि॒ना द्वेष्या॒ या॥१॥ यो अ॒द्य सेन्यो॑ व॒धोऽघा॒यूना॑मु॒दीर॑ते । यु॒वं तं मि॑त्रावरुणाव॒स्मद्या॑वयतं॒ परि॑ ॥२॥ इ॒तश्च॒ यद॒मुत॑श्च॒ यद् व॒धं व॑रुण यावय । वि म॒हच्छर्म॑ यच्छ॒ वरी॑यो यावया व॒धम्॥३॥ शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रसा॒हो अ॑स्तृ॒तः । न यस्य॑ ह॒न्यते॒ सखा॒ न जी॒यते॑ क॒दा च॒न॥४॥
शत्रुनिवारणम्। १-४ अथर्वा। इन्द्रः। अनुष्टुप्। स्वस्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो॑ व॒शी। वृषेन्द्रः॑ पु॒र ए॑तु नः सोम॒पा अ॑भयंक॒रः ॥१॥ वि न॑ इन्द्र॒ मृधो॑ जहि नीचा॒ य॑च्छ पृतन्य॒तः । अ॒ध॒मं ग॑मया॒ तमो॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥२॥ वि रक्षो॒ वि मृधो॑ जहि वि वृ॒त्रस्य॒ हनू॑ रुज । वि म॒न्युमि॑न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ॥३॥ अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो व॒धम्। वि महच्छर्म॑ यच्छ॒ वरी॑यो यावया व॒धम्॥४॥
हृद्रोग-कामिला-नाशनम्। १-४ ब्रह्मा। सूर्यो, हरिमा हृद्रोगश्च। अनुष्टुप्। अनु॒ सूर्य॒मुद॑यतां हृद्दयो॒तो ह॑रि॒मा च॑ ते । गो रोहि॑तस्य॒ वर्णे॑न॒ तेन॑ त्वा॒ परि॑ दध्मसि ॥१॥ परि॑ त्वा॒ रोहि॑तै॒र्वर्णै॑र्दीर्घायु॒त्वाय॑ दध्मसि । यथा॒यम॑र॒पा अस॒दथो॒ अह॑रितो॒ भुव॑त्॥२॥ या रोहि॑णीर्देव॒त्या॒३ गावो॒ या उ॒त रोहि॑णीः । रू॒पंरू॑पं वयो॑वय॒स्ताभि॑ष्ट्वा॒ परि॑ दध्मसि ॥३॥ शुके॑षु ते हरि॒माणं॑ रोप॒णाका॑सु दध्मसि । अथो॒ हारि॑द्रवेषु ते हरि॒माणं॒ नि द॑ध्मसि ॥४॥
शत्रुनिवारणम्। १-४ अथर्वा। वनस्पतिः(असिक्निः)। अनुष्टुप्। न॒क्तं॒जा॒तास्यो॑षधे॒ रामे॒ कृष्णे॒ असि॑क्नि च । इ॒दं र॑जनि रजय कि॒लासं॑ पलि॒तं च॒ यत्॥१॥ कि॒लासं॑ च पलि॒तं च॒ निरि॒तो ना॑शया॒ पृष॑त्। आ त्वा॒ स्वो वि॑शतां॒ वर्णः॒ परा॑ शु॒क्लानि॑ पातय ॥२॥ असि॑तं ते प्र॒लय॑नमा॒स्थान॒मसि॑तं॒ तव॑ । असि॑क्न्यस्योषधे॒ निरि॒तो ना॑शया॒ पृष॑त्॥३॥ अ॒स्थि॒जस्य॑ कि॒लास॑स्य तनू॒जस्य॑ च॒ यत् त्व॒चि। दूष्या॑ कृ॒तस्य॒ ब्रह्म॑णा॒ लक्ष्म॑ श्वे॒तम॑नीनशम्॥४॥
शत्रुनिवारणम्। १-४ ब्रह्मा। आसुरी वनस्पतिः। अनुष्टुप्, २ निचृत्पथ्यापङ्क्तिः। सु॒प॒र्णो जा॒तः प्र॑थ॒मस्तस्य॒ त्वं पि॒त्तमा॑सिथ । तदा॑सु॒री यु॒धा जि॒ता रू॒पं च॑क्रे॒ वन॒स्पती॑न्॥१॥ आ॒सु॒री च॑क्रे प्रथ॒मेदं कि॑लासभेष॒जमि॒दं कि॑लास॒नाश॑नम्। अनी॑नशत् कि॒लासं॒ सरू॑पामकर॒त् त्वच॑म्॥२॥ सरू॑पा॒ नाम॑ ते मा॒ता सरू॑पो॒ नाम॑ ते पि॒ता। स॒रू॒प॒कृत् त्वमो॑षधे॒ सा सरू॑पमि॒दं कृ॑धि ॥३॥ श्या॒मा स॑रूपं॒कर॑णी पृथि॒व्या अध्युद्भृ॑ता । इ॒दमू॒ षु प्र सा॑धय॒ पुना॑ रू॒पाणि॑ कल्पय ॥४॥
ज्वर-नाशनम्। १-४ भृग्वङ्गिराः । यक्ष्मनाशनोऽग्निः। त्रिष्टुप्,२-३ विराड् गर्भा, ४पुरोऽनुष्टुप्। यद॒ग्निरापो॒ अद॑हत् प्र॒विश्य॒ यत्राकृ॑ण्वन् धर्म॒धृतो॒ नमां॑सि । तत्र॑ त आहुः पर॒मं ज॒नित्रं॒ स नः॑ संवि॒द्वान् परि॑ वृङ्ग्धि तक्मन्॥१॥ यद्य॒र्चि॑र्यदि॒ वासि॑ शो॒चिः श॑कल्ये॒षि यदि॑ वा ते ज॒नित्र॑म्। ह्रूडु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान् परि॑ वृङ्ग्धि तक्मन्॥२॥ यदि॑ शो॒को यदि॑ वाभिशो॒को यदि॑ वा॒ राज्ञो॒ वरु॑ण॒स्यासि॑ पु॒त्रः । ह्रू॒डु॒र्नामा॑सि हरितस्य देव॒ स नः॑ संवि॒द्वान् परि॑ वृङ्ग्धि तक्मन्॥३॥ नमः॑ शी॒ताय॑ त॒क्मने॒ नमो॑ रू॒राय॑ शो॒चिषे॑ कृणोमि । यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येति॒ तृती॑यकाय॒ नमो॑ अस्तु त॒क्मने॑ ॥४॥
शर्मप्राप्तिः। १-४ ब्रह्मा। १ देवाः, २ इन्द्रः, भगः, सविता, ३-४ मरुतः। गायत्री, २ त्रिपदा एकावसाना साम्नी त्रिष्टुप्, ४ एकावसाना पादनिचृत्। आ॒रे॒३साव॒स्मद॑स्तु हे॒तिर्दे॑वासो असत्। आ॒रे अश्मा॒ यमस्य॑थ ॥१॥ सखा॒साव॒स्मभ्य॑मस्तु रा॒तिः सखेन्द्रो॒ भगः॑ सवि॒ता चि॒त्ररा॑धाः ॥२॥ यू॒यं नः॑ प्रवतो नपा॒न्मरु॑तः॒ सूर्य॑त्वचसः । शर्म॑ यच्छाथ स॒प्रथाः॑ ॥३॥ सु॒षू॒दत॑ मृ॒डत॑ मृ॒डया॑ नस्त॒नूभ्यो॒ मय॑स्तो॒केभ्य॑स्कृधि॑॥४॥
स्वस्त्ययनम्। १-४ अथर्वा(स्वस्त्ययनकामः)। (चन्द्रमाः,) इन्द्रणी (च)। अनुष्टुप्, १ पथ्यापङ्क्तिः। अ॒मूः पा॒रे पृ॑दा॒क्व ऽ स्त्रिष॒प्ता निर्ज॑रायवः । तासां॑ ज॒रायु॑भिर्व॒यम॒क्ष्या॒वपि॑ व्ययामस्यघा॒योः प॑रिप॒न्थिनः॑ ॥१॥ विषू॑च्येतु कृन्त॒ती पिना॑कमिव॒ बिभ्र॑ती । विष्व॑क् पुन॒र्भुवा॒ मनोऽस॑मृद्धा अघा॒यवः॑ ॥२॥ न ब॒हवः॒ सम॑शक॒न् नार्भ॒का अ॒भि दा॑धृषुः । वे॒णोरद्गा॑ इवा॒भितोऽस॑मृद्धा अघा॒यवः॑ ॥३॥ प्रेतं॑ पादौ॒ प्र स्फु॑रतं॒ वह॑तं पृण॒तो गृ॒हान्। इ॒न्द्रा॒ण्येऽतु प्रथ॒माजी॒तामु॑षिता पु॒रः ॥४॥
रक्षोघ्नम्। १-४ चातनः। १-२ अग्निः, ३-४ यातुधानीः। अनुष्टुप्, ३ विराट् पथ्याबृहती, ४ पथ्यापङ्क्तिः। उप॒ प्रागा॑द् दे॒वो अ॒ग्नी र॑क्षो॒हामी॑व॒चात॑नः । दह॒न्नप॑ द्वया॒विनो॑ यातु॒धाना॑न् किमी॒दिनः॑ ॥१॥ प्रति॑ दह यातु॒धाना॒न् प्रति॑ देव किमी॒दिनः॑ । प्र॒तीचीः॑ कृष्णवर्तने॒ सं द॑ह यातुधा॒न्यः ॥२॥ या श॒शाप॒ शप॑नेन॒ याघं मूर॑माद॒धे। या रस॑स्य॒ हर॑णाय जा॒तमा॑रे॒भे तो॒कम॑त्तु॒ सा॥३॥ पु॒त्रम॑त्तु यातुधा॒नीः स्वसा॑रमु॒त न॒प्त्यऽम्। अधा॑ मि॒थो वि॑के॒श्यो॒३वि घ्न॑तां यातुधा॒न्यो॒३वि तृ॑ह्यन्तामरा॒य्यः ॥४॥
राष्ट्राभिवर्धनम्, सपत्नक्षयणं च। १-६ वसिष्ठः। ब्रह्मणस्पतिः, अभीवर्तमणिः। अनुष्टुप्। अ॒भी॒व॒र्तेन॑ म॒णिना॒ येनेन्द्रो॑ अभिवावृ॒धे॑। तेना॒स्मान् ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्धय ॥१॥ अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः । अभि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो नो॑ दुर॒स्यति॑ ॥२॥ अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृधत्। अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥३॥ अ॒भी॒व॒र्तो अ॑भिभ॒वः स॑पत्न॒क्षय॑णो म॒णिः । रा॒ष्ट्राय॒ मह्यं॑ बध्यतां स॒पत्ने॑भ्यः परा॒भुवे॑ ॥४॥ उद॒सौ सूर्यो॑ अगा॒दुदि॒दं मा॑म॒कं वचः॑ । यथा॒हं श॑त्रु॒होऽसा॑न्यसपत्नः सपत्नहा॑॥५॥ स॒प॒त्न॒क्षय॑णो॒ वृषा॒भिरा॑ष्ट्रो विषास॒हिः । यथा॒हमे॒षां वी॒राणां॑ वि॒राजा॑नि॒ जन॑स्य च ॥६॥
दीर्घायुःप्राप्तिः। १-४ अथर्वा (आयुष्कामः)। विश्वेदेवाः (१ वसवः, आदित्याः, १-४ देवाः)। त्रिष्टुप्, ३ शाक्वरगर्भा विराड् जगती। विश्वे॑ देवा॒ वस॑वो॒ रक्ष॑ते॒ममु॒तादि॑त्या जागृ॒त यू॒यम॒स्मिन्। मेमं सना॑भिरु॒त वा॒न्यना॑भि॒र्मेमं प्राप॒त् पौरु॑षेयो व॒धो यः ॥१॥ ये वो॑ देवाः पि॒तरो॒ ये च॑ पु॒त्राः सचे॑तसो मे शृणुते॒दमु॒क्तम्। सर्वे॑भ्यो वः॒ प॑रि ददाम्ये॒तं स्व॒स्त्येऽनं ज॒रसे॑ वहाथ ॥२॥ ये दे॑वा दि॒वि ष्ठ ये पृ॑थि॒व्यां ये अ॒न्तरि॑क्ष॒ ओष॑धीषु प॒शुष्व॒प्स्व॑१न्तः । ते कृ॑णुत ज॒रस॒मायु॑र॒स्मै श॒तम॒न्यान् परि॑ वृणक्तु मृ॒त्यून्॥३॥ येषां॑ प्रया॒जा उ॒त वा॑नुया॒जा हु॒तभा॑गा अहु॒ताद॑श्च दे॒वाः । येषां॑ वः॒ पञ्च॑ प्र॒दिशो॒ विभ॑क्ता॒स्तान् वो अ॒स्मै स॑त्र॒सदः॑ कृणोमि ॥४॥
पाशमोचनम्। १-४ ब्रह्मा। आशापालाः,(वास्तोष्पतिः)। अनुष्टुप्, ३ विराट् त्रिष्टुप्, ४ परानुष्टुप् त्रिष्टुप्। आशा॑नामाशापा॒लेभ्य॑श्च॒तुर्भ्यो॑ अ॒मृते॑भ्यः । इ॒दं भू॒तस्याध्य॑क्षेभ्यो वि॒धेम॑ ह॒विषा॑ व॒यम्॥१॥ य आशा॑नामाशापा॒लाश्च॒त्वार॒ स्थन॑ देवाः । ते नो॒ निरृ॑त्याः॒ पाशे॑भ्यो मु॒ञ्चतांह॑सो अंहसः ॥२॥ अस्रा॑मस्त्वा ह॒विषा॑ यजा॒म्यश्लो॑णस्त्वा घृ॒तेन॑ जुहोमि । य आशा॑नामाशापा॒लस्तु॒रीयो॑ दे॒वः स नः॑ सुभू॒तमेह व॑क्षत्॥३॥ स्व॒स्ति मा॒त्र उ॒त पि॒त्रे नो॑ अस्तु स्व॒स्ति गोभ्यो॒ जग॑ते॒ पुरु॑षेभ्यः । विश्वं॑ सुभू॒तं सु॑वि॒दत्रं॑ नो अस्तु॒ ज्योगे॒व दृ॑शेम॒ सूर्य॑म्॥४॥
महद्ब्रह्म। १-४ ब्रह्मा। द्यावापृथिवी। अनुष्टुप्, २ ककुम्मत्यनुष्टुप्। इ॒दं ज॑नासो वि॒दथ॑ म॒हद् ब्रह्म॑ वदिष्यति । न तत् पृ॑थिव्यां नो दि॒वि येन॑ प्रा॒णन्ति॑ वी॒रुधः॑ ॥१॥ अ॒न्तरि॑क्ष आसां॒ स्थाम॑ श्रान्त॒सदा॑मिव । आ॒स्थान॑म॒स्य भू॒तस्य॑ वि॒दुष्टद् वे॒धसो॒ न वा॑ ॥२॥ यद् रोद॑सी॒ रेज॑माने॒ भूमि॑श्च नि॒रत॑क्षतम्। आ॒र्द्रं तद॒द्य स॑र्व॒दा स॑मु॒द्रस्ये॑व स्रो॒त्याः ॥३॥ विश्व॑म॒न्याम॑भी॒वार॒ तद॒न्यस्या॒मधि॑श्रि॒तम्। दि॒वे च॑ वि॒श्ववे॑दसे पृथि॒व्यै चा॑करं॒ नमः॑ ॥४॥
आपः। १-४ शन्तातिः।(चन्द्रमाः) आपः(च)। त्रिष्टुप्। हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः स॑वि॒ता यास्व॒ग्निः । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥१॥ यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नाम्। या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥२॥ यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥३॥ शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे । घृत॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ शं स्यो॒ना भवन्तु ॥४॥
मधुविद्या। १-५ अथर्वा।मधुवनस्पतिः। अनुष्टुप्। इ॒यं वी॒रुन्मधु॑जाता॒ मधु॑ना त्वा खनामसि । मधो॒रधि॒ प्रजा॑तासि॒ सा नो॒ मधु॑मतस्कृधि ॥१॥ जि॒ह्वाया॒ अग्रे॒ मधु॑ मे जिह्वामू॒ले म॒धूल॑कम्। ममेदह॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥२॥ मधु॑मन्मे नि॒क्रम॑णं॒ मधु॑मन्मे प॒राय॑णम्। वा॒चा व॑दामि॒ मधु॑मद् भू॒यासं॒ मधु॑संदृशः ॥३॥ मधो॑रस्मि॒ मधु॑तरो म॒दुघा॒न्मधु॑मत्तरः । मामित् किल॒ त्वं वनाः॒ शाखां॒ मधु॑मतीमिव ॥४॥ परि॑ त्वा परित॒त्नुने॒क्षुणा॑गा॒मवि॑द्विषे । यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥५॥
दीर्घायुःप्राप्तिः। १-४ अथर्वा(आयुष्कामः)। हिरण्यम्, इन्द्राग्नी, विश्वे देवाः। जगती, ४ अनुष्टुब्गर्भा चतुष्पदा त्रिष्टुप्। यदाब॑ध्नन् दाक्षाय॒णा हिर॑ण्यं श॒तानी॑काय सुमन॒स्यमा॑नाः । तत् ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥१॥ नैनं॒ रक्षां॑सि॒ न पि॑शा॒चाः स॑हन्ते दे॒वाना॒मोजः॑ प्रथम॒जं ह्ये॒तत्। यो बिभ॑र्ति दाक्षाय॒णं हिर॑ण्यं॒ स जी॒वेषु॑ कृणुते दी॒र्घमायुः॑ ॥२॥ अ॒पां तेजो॒ ज्योति॒रोजो॒ बलं॑ च॒ वन॒स्पती॑नामु॒त वी॒र्याऽणि । इन्द्र॑ इवेन्द्रि॒याण्यधि॑ धारयामो अ॒स्मिन् तद् दक्ष॑माणो बिभर॒द्धिर॑ण्यम्॥३॥ समा॑नां मा॒सामृ॒तुभि॑ष्ट्वा व॒यं सं॑वत्स॒रस्य॒ पय॑सा पिपर्मि । इ॒न्द्रा॒ग्नी विश्वे॑ दे॒वास्तेऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥४॥
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is Kaanda 1 of the Atharva Veda?
Kaanda 1 of the Atharvaveda (Shaunaka) — shorter hymns for healing, protection, long life and well-being. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
What is the Atharva Veda?
The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
Offer a Vedic paath or seva in your name
Have a Vedic paath, havan or seva performed in your naam-gotra for peace and blessings. Book a seva, or read on in Sanatan Sahitya.








