किष्किन्धाकाण्ड के बारे में
राम वानरराज सुग्रीव और हनुमान से मित्रता करते हैं, बालि का वध कर सुग्रीव को किष्किन्धा का राज्य लौटाते हैं, और वानर चारों दिशाओं में सीता की खोज में निकलते हैं। हनुमान दक्षिण-दल का नेतृत्व करते हैं, जहाँ ज्ञात होता है कि सीता समुद्र-पार लंका में बंदी हैं।
पाठ कैसे करें
किष्किन्धाकाण्ड नीचे उसकी मूल संस्कृत में (देवनागरी में), सर्ग और श्लोक क्रम से दिया गया है। श्लोक-दर-श्लोक पढ़ें; विशेषकर सुन्दरकाण्ड का पाठ साहस और रक्षा हेतु किया जाता है।
मूल पाठ
मूल श्लोक
स ताम् पुष्करिणीम् गत्वा पद्म उत्पल झषाकुलाम् ।रामः सौमित्रि सहितो विललाप अकुलेन्द्रियः ॥४-१-१॥
तत्र दृष्ट्वैवा ताम् हर्षात् इन्द्रियाणि चकम्पिरे ।स कामवशम् आपन्नः सौमित्रिम् इदम् अब्रवीत् ॥४-१-२॥
सौमित्रे शोभते पम्पा वैदूर्य विमल उदका ।फुल्ल पद्म उत्पलवती शोभिता विविधैः द्रुमैः ॥४-१-३॥
सौमित्रे पश्य पम्पायाः काननम् शुभ दर्शनम् ।यत्र राजन्ति शैला वा द्रुमाः स शिखरा इव ॥४-१-४॥
माम् तु शोकाभि सन्तप्तम् आधयः पीडयन्ति वै ।भरतस्य च दुःखेन वैदेह्या हरणेन च ॥४-१-५॥
शोकार्तस्य अपि मे पम्पा शोभते चित्र कानना ।व्यवकीर्णा बहु विधैः पुष्पैः शीतोदका शिवा ॥४-१-६॥
नलिनैः अपि संछन्ना हि अत्यर्थ शुभ दर्शना ।सर्प व्याल अनुचरिता मृग द्विज समाकुला ॥४-१-७॥
अधिकम् प्रविभाति एतत् नील पीतम् तु शाद्वलम् ।द्रुमाणाम् विविधैः पुष्पैः परिस्तोमैः इव अर्पितम् ॥४-१-८॥
पुष्प भार समृद्धानि शिखराणि समन्ततः ।लताभिः पुष्पित अग्राभिः उपगूढानि सर्वतः ॥४-१-९॥
सुख अनिलोऽयम् सौमित्रे कालः प्रचुर मन्मथः ।गन्धवान् सुरभिर् मासो जात पुष्प फल द्रुमः ॥४-१-१०॥
पश्य रूपाणि सौमित्रे वनानाम् पुष्प शालिनाम् ।सृजताम् पुष्प वर्षाणि वर्षम् तोयमुचाम् इव ॥४-१-११॥
प्रस्तरेषु च रम्येषु विविधाः कानन द्रुमाः ।वायु वेग प्रचलिताः पुष्पैः अवकिरन्ति गाम् ॥४-१-१२॥
पतितैः पतमानैः च पादपस्थैः च मारुतः ।कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः ॥४-१-१३॥
विक्षिपन् विविधाः शाखा नगानाम् कुसुमोत्कटाः ।मारुतः चलित स्थानैः षट्पदैः अनुगीयते ॥४-१-१४॥
मत्त कोकिल सन्नादैः नर्तयन् इव पादपान् ।शैल कन्दर निष्क्रान्तः प्रगीत इव च अनिलः ॥४-१-१५॥
तेन विक्षिपता अत्यर्थम् पवनेन समन्ततः ।अमी संसक्त शाखाग्रा ग्रथिता इव पादपाः ॥४-१-१६॥
स एव सुख संस्पर्शो वाति चन्दन शीतलः ।गन्धम् अभ्यवहन् पुण्यम् श्रम अपनयो अनिलः ॥४-१-१७॥
अमी पवन विक्षिप्ता विनन्दन्ती इव पादपाः ।षट्पदैः अनुकूजद्भिः वनेषु मधु गन्धिषु ॥४-१-१८॥
गिरि प्रस्थेषु रम्येषु पुष्पवद्भिः मनोरमैः ।संसक्त शिखरा शैला विराजन्ति महाद्रुमैः ॥४-१-१९॥
पुष्प संछन्न शिखरा मारुतः उत्क्षेप चंचला ।अमी मधुकरोत्तंसाः प्रगीत इव पादपाः ॥४-१-२०॥
सुपुष्पितांस्तु पश्य एतान् कर्णिकारान् समन्ततः ।हाटक प्रति संच्छन्नान् नरान् पीतांबरान् इव ॥४-१-२१॥
अयम् वसन्तः सौमित्रे नाना विहग नादितः ।सीतया विप्रहीणस्य शोक सन्दीपनो मम ॥४-१-२२॥
माम् हि शोक समाक्रान्तम् संतापयति मन्मथः ।हृष्टम् प्रवदमानश्च समाह्वयति कोकिलः ॥४-१-२३॥
एष दाअत्यूहको हृष्टो रम्ये माम् वन निर्झरे ।प्रणदन् मन्मथाविष्टम् शोचयिष्यति लक्ष्मण ॥४-१-२४॥
श्रुत्वा एतस्य पुरा शब्दम् आश्रमस्था मम प्रिया ।माम् आहूय प्रमुदिता परमम् प्रत्यनन्दत ॥४-१-२५॥
एवम् विचित्राः पतगा नाना राव विराविणः ।वृक्ष गुल्म लताः पश्य संपतन्ति समन्ततः॥४-१-२६॥
विमिश्रा विहगाः पुंभिः आत्म व्यूह अभिनन्दिताः ।भृङ्गराज प्रमुदिताः सौमित्रे मधुर स्वराः ॥४-१-२७॥
अस्याः कूले प्रमुदिताः संघशः शकुनास्त्विह ।दात्यूहरति विक्रन्दैः पुंस्कोकिल रुतैः अपि ॥४-१-२८॥
स्वनन्ति पादपाः च इमे माम् अनङ्ग प्रदीपकाः ।अशोक स्तबक अङ्गारः षट्पद स्वन निस्वनः ॥४-१-२९॥
माम् हि पल्लव ताम्रार्चिः वसन्ताग्निः प्रधक्ष्यति ।न हि ताम् सूक्ष्मपक्ष्माक्षीम् सुकेशीम् मृदु भाषिणीम् ॥४-१-३०॥
अपश्यतो मे सौउमित्रे जीवितेऽस्ति प्रयोजनम् ।अयम् हि रुचिरः तस्याः कालो रुचिर काननः ॥४-१-३१॥
कोकिलाकुल सीमान्तः दयिताया मम अनघः ।मन्मध आयास संभूतो वसन्त गुण वर्धितः ॥४-१-३२॥
अयम् माम् धक्ष्यति क्षिप्रम् शोकाग्निः न चिरादिव ।अपश्यत ताम् वनिताम् पश्यतो रुचिर द्रुमान् ॥४-१-३३॥
मम अयम् आत्मप्रभवो भूयस्त्वम् उपयास्यति ।अदृश्यमाना वैदेही शोकम् वर्धयती इह मे ॥४-१-३४॥
दृश्यमानो वसन्तः च स्वेद संसर्ग दूषकः ।माम् हि सा मृगशाबाक्षी चिन्ता शोक बलात्कृतम् ॥४-१-३५॥
संतापयति सौमित्रे कृइरः चैत्र वनानिलः ।अमी मयूराः शोभन्ते प्रनृत्यन्तः ततः ततः ॥४-१-३६॥
स्त्वैः पक्षैः पवन उद्धूतैः गवाक्षैः स्फाटिकैः इव ।शिखिनीभिः परिवृतास्त एते मद मूर्छिताः ॥४-१-३७॥
मन्मथ अभिपरीतस्य मम मन्मथ वर्धनाः ।पश्य लक्ष्णम नृत्यन्तम् मयूरम् उपनृत्यति ॥४-१-३८॥
शिखिनी मन्मथ आर्तैः एषा भर्तारम् गिरि सानुनि ।ताम् एव मनसा रामाम् मयुरोऽपि अनुधावति ॥४-१-३९॥
वितत्य रुचिरौ पक्षौ रुतैः उपहसन् इव ।मयूरस्य वने नूनम् रक्षसा न हृता प्रिया ॥४-१-४०॥
तस्मात् नृत्यति रम्येषु वनेषु सह कान्तया ।मम त्वयम् विना वासः पुष्पमासे सुदुःसहः ॥४-१-४१॥
पश्य लक्ष्मण संरागः तिर्यक् योनिगतेषु अपि ।यदेषा शिखिनी कामात् भर्तारम् अभिवर्तते ॥४-१-४२॥
माम् अपि एवम् विशालाक्षी जानकी जात संभ्रमा ।मदनेन अभिवर्तेत यदि न अपहृता भवेत् ॥४-१-४३॥
पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे ।पुष्प भार समृद्धानाम् वनानाम् शिशिरात्यये ॥४-१-४४॥
रुचिराणि अपि पुष्पाणि पादपानाम् अतिश्रिया ।निष्फलानि महीम् यान्ति समम् मधुकरोत्करैः ॥४-१-४५॥
नदन्ति कावम् मुदिताः शकुना सङ्घशः कलम् ।आह्वयन्त इव अन्योन्यम् काम उन्मादकरा मम ॥४-१-४६॥
वसन्तो यदि तत्र अपि यत्र मे वसति प्रिया ।नूनम् परवशा सीता सा अपि शोच्यति अहम् यथा ॥४-१-४७॥
नूनम् न तु वसन्तः तम् देशम् स्पृशति यत्र सा ।कथम् हि असित पद्माक्षी वर्तयेत् सा मया विना ॥४-१-४८॥
अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया ।किम् करिष्यति सुश्रोणी सा तु निर् भर्त्सिता परैः ॥४-१-४९॥
श्यामा पद्म पलाशाक्षी मृदु भाषा च मेम् प्रिया ।नूनम् वसन्तम् आसाद्य परित्यक्ष्यति जीवितम् ॥४-१-५०॥
दृढम् हि हृदये बुधिः मम संप्रतिवर्तते ।न अलम् वर्तयितुम् सीता साध्वी मत् विरहम् गता ॥४-१-५१॥
मयि भावो हि वैदेह्याः तत्त्वतो विनिवेशितः ।मम अपि भावः सीतायाम् सर्वधा विनिवेशितः ॥४-१-५२॥
एष पुष्पवहो वायुः सुख स्पर्शो हिमावहः ।ताम् विचिन्तयतः कान्ताम् पावक प्रतिमो मम ॥४-१-५३॥
सदा सुखम् अहम् मन्ये यम् पुरा सह सीताया ।मारुतः स विना सीताम् शोक संजनओ मम ॥४-१-५४॥
ताम् विन अथ विहङ्गो असौ पक्षी प्रणदितः तदा ।वायसः पादपगतः प्रहृष्टम् अभि कूजति ॥४-१-५५॥
एष वै तत्र वैदेह्या विहगः प्रतिहारकः ।पक्षी माम् तु विशालाक्ष्याः समीपम् उपनेष्यति ॥४-१-५६॥
पश्य लक्ष्मण संनादम् वने मद विवर्धनम् ।पुष्पित अग्रेषु वृक्षेषु द्विजानाम् अवकूजताम् ॥४-१-५७॥
विक्षिप्ताम् पवनेन एताम् असौ तिलक मञ्जरीम् ।षट्पदः सहसा अभ्येति मद उद्धूताम् इव प्रियाम् ॥४-१-५८॥
कामिनाम् अयम् अत्यन्तम् अशोकः शोक वर्धनः ।स्तबकैः पवन उत्क्षिप्तैः तर्जयन् इव माम् स्थितः ॥४-१-५९॥
अमी लक्ष्मण दृश्यन्ते चूताः कुसुम शालिनः ।विभ्रम उत्सिक्त मनसः स अङ्गरागा नरा इव ॥४-१-६०॥
सौमित्रे पश्य पम्पायाः चित्रासु वन राजिषु ।किंनरा नरशार्दूल विचरन्ति ततः ततः ॥४-१-६१॥
इमानि शुभ गन्धीनि पश्य लक्ष्मण सर्वशः ।नलिनानि प्रकाशन्ते जले तरुण सूर्य वत् ॥४-१-६२॥
एषा प्रसन्न सलिला पद्म नील उत्पलायुता ।हंस कारण्डव आकीर्णा पम्पा सौगन्धिका युता ॥४-१-६३॥
जले तरुण सूर्याभैः षट्पद आहत केसरैः ।पन्कजैः शोभते पम्पा समन्तात् अभिसंवृता ॥४-१-६४॥
चक्रवाक युता नित्यम् चित्र प्रस्थ वनान्तरा ।मातंग मृग यूथैः च शोभते सलिल अर्थिभिः ॥४-१-६५॥
पवन आहत वेगाभिः ऊर्मिभिः विमले अंभसि ।पन्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥४-१-६६॥
पद्म पत्र विशालाक्षीम् सततम् प्रिय पन्कजाम् ।अपश्यतो मे वैदेहीम् जीवितम् न अभिरोचते ॥४-१-६७॥
अहो कामस्य वामत्वम् यो गताम् अपि दुर्लभाम् ।स्मारयिष्यति कल्याणीम् कल्याण तर वादिनीम् ॥४-१-६८॥
शक्यो धारयितुम् कामो भवेत् अभ्यागतो मया ।यदि भूयो वसन्तो माम् न हन्यात् पुष्पित द्रुमः ॥४-१-६९॥
यानि स्म रमणीयानि तया सह भवन्ति मे ।तानि एव अरमणीयानि जायन्ते मे तया विना ॥४-१-७०॥
पद्मकोश पलाशानि द्रष्टुम् दृष्टिः हि मन्यते ।सीताया नेत्र कोशाभ्याम् सदृशान् इति लक्ष्मण ॥४-१-७१॥
पद्म केसर संसृष्टो वृक्षान्तर विनिःसृतः ।निःश्वास इव सीताया वाति वायुः मनोहरः ॥४-१-७२॥
सौमित्रे पश्य पम्पाया दक्षिणे गिरि सानुषु ।पुष्पितान् कर्णिकारस्य यष्टिम् परम शोभिताम् ॥४-१-७३॥
अधिकम् शैल राजोऽयम् धातुभिः तु विभूषितः ।विचित्रम् सृजते रेणुम् वायु वेग विघट्टितम् ॥४-१-७४॥
गिरि प्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः ।निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥४-१-७५॥
पम्पा तीर रुहाः च इमे संसक्ता मधु गन्धिनः ।मालती मल्लिका पद्म करवीराः च पुष्पिताः ॥४-१-७६॥
केतक्यः सिन्धुवाराः च वासन्त्यः च सुपुष्पिताः ।माधव्यो गन्धपूर्णाः च कुंदगुल्माः च सर्वशः ॥४-१-७७॥
चिरिबिल्वा मधूकाः च वञ्जुला वकुलाः तथा ।चम्पकाः तिलकाः च एव नागवृक्षाः च पुष्पिताः ॥४-१-७८॥
पद्मकाः च एव शोभन्ते नील अशोकाः ।च पुष्पिताःलोध्राः च गिरि पृष्ठेषु सिंह केसर पिन्जराः ॥४-१-७९॥
अन्कोलाः च कुरण्टाः च पूर्णकाः पारिभद्रकाः ।चूताः पाटलयः च अपि कोविदाराः च पुष्पिताः ॥४-१-८०॥
मुचुकुंद अर्जुनाः च एव दृश्यन्ते गिरिसानुषुकेतक उद्दालकाः ।च एव शिरीषाः शिंशुपा धवाः ॥४-१-८१॥
शाल्मल्यः किंशुकाः च एव रक्ताः कुरवकाः तथा ।तिनिशा नक्तमालाः च चंदनाः स्यंदनाः तथा ॥४-१-८२॥
हिन्तालः तिलकाः च एव नाग वृक्षाः च पुष्पिताः ।पुष्पितान् पुष्पित अग्राभिः लताभिः परिवेष्टितान् ॥४-१-८३॥
द्रुमान् पश्य इह सौमित्रे पम्पाया रुचिरान् बहून् ।वात विक्षिप्त विटपान् यथा आसन्नान् द्रुमान् इमान् ॥४-१-८४॥
लताः समनुवर्तन्ते मत्ता इव वर स्त्रियः ।पादपात् पादपम् गच्छन् शैलात् शैलम् वनात् वनम् ॥४-१-८५॥
वाति न एक रस आस्वाद सम्मोदित इव अनिलः ।केचित् पर्याप्त कुसुमाः पादपा मधु गन्धिनः ॥४-१-८६॥
केचित् मुकुल संवीताः श्याम वर्णा इव आबभुः ।इदम् मृष्टम् इदम् स्वादु प्रफुल्लम् इदम् इत्यपि ॥४-१-८७॥
राग युक्तो मधुकरः कुसुमेषु आवलीयते।निलीय पुनर् उत्पत्य सहसा अन्यत्र गच्छति ।मधु लुब्धो मधुकरः पंपा तीर द्रुमेषु असौ ॥४-१-८८॥
इयम् कुसुम सन्घातैः उपस्तीर्णा सुखा कृता ।स्वयम् निपतितैः भूमिः शयन प्रस्तरैः इव ॥४-१-८९॥
विविधा विविधैः पुष्पैः तैः एव नगसानुषु ।विस्तेएर्णाः पीत रक्ताभा सौमित्रे प्रस्तराः कृताः ॥४-१-९०॥
हिमान्ते पश्य सौमित्रे वृक्षाणाम् पुष्प संभवम् ।पुष्प मासे हि तरवः संघर्षात् इव पुष्पिताः ॥४-१-९१॥
आह्वयन्त इव अन्योन्यम् नगाः षट्पद नादिताः ।कुसुमोत्तंस विटपाः शोभन्ते बहु लक्ष्मण ॥४-१-९२॥
एष कारण्डवः पक्षी विगाह्या सलिलम् शुभम् ।रमते कान्ताया सार्थम् कामम् उद्दीपयन् इव ॥४-१-९३॥
मंदकिन्यास्तु यदिदम् रूपम् एतन् मनोररम् ।स्थाने जगति विख्याता गुणाः तस्या मनोरमाः ॥४-१-९४॥
यदि दृश्येत सा साध्वी यदि च इह वसेम हि ।स्पृहयेयम् न शक्राय न अयोध्यायै रघूत्तम ॥४-१-९५॥
न हि एवम् रमणीयेषु शाद्वलेषु तया सह ।रमतो मे भवेत् चिन्ता न स्पृहा अन्येषु वा भवेत् ॥४-१-९६॥
अमी हि विविधैः पुष्पैः तरवो रुचिर च्छदाः ।कानने अस्मिन् विना कान्ताम् चित्तम् उत्पादयन्ति मे ॥४-१-९७॥
पश्य शीत जलाम् च इमाम् सौमित्रे पुष्कर आयुताम् ।चक्रवाक अनुचरिताम् कारण्डव निषेविताम् ॥४-१-९८॥
प्लवैः क्रौञ्चैः च संपूर्णाम् महा मृग निषेविताम् ।अधिकम् शोभते पम्पा विकूजद्भिः विहङ्गमैः ॥४-१-९९॥
दीपयन्ती इव मे कामम् विविधा मुदिता द्विजाः ।श्यामाम् चन्द्र मुखीम् स्मृत्वा प्रियाम् पद्म निभ ईक्षणाम् ॥४-१-१००॥
संक्षिप्त मार्गदर्शिका
प्रारंभ से पहले
भाव
भक्त जिन आशीर्वादों की प्रार्थना करते हैं
प्रश्न-उत्तर
प्रायः पूछे जाने वाले प्रश्न
वाल्मीकि रामायण का किष्किन्धाकाण्ड किस विषय में है?
राम वानरराज सुग्रीव और हनुमान से मित्रता करते हैं, बालि का वध कर सुग्रीव को किष्किन्धा का राज्य लौटाते हैं, और वानर चारों दिशाओं में सीता की खोज में निकलते हैं। हनुमान दक्षिण-दल का नेतृत्व करते हैं, जहाँ ज्ञात होता है कि सीता समुद्र-पार लंका में बंदी हैं।
वाल्मीकि रामायण क्या है?
वाल्मीकि रामायण श्री राम की मूल संस्कृत महाकाव्य है, जिसे महर्षि वाल्मीकि ने रचा और जो आदि काव्य (प्रथम काव्य) के रूप में पूजित है। इसमें सात काण्ड हैं: बाल, अयोध्या, अरण्य, किष्किन्धा, सुन्दर, युद्ध और उत्तर; यही तुलसीदास की रामचरितमानस सहित अनेक परवर्ती रामायणों का स्रोत है।
अपने नाम से राम पाठ या सेवा अर्पित करें
रक्षा और शांति हेतु अपने नाम-गोत्र में रामायण या सुंदरकांड पाठ करवाएँ। सेवा बुक करें, या सनातन साहित्य में आगे पढ़ें।







