About Vajasaneyi Kanva Samhita
The Kanva recension of the Shukla Yajurveda — the yajus for the same great sacrifices. The Yajurveda is the Veda of the yajus — the sacrificial formulae recited by the adhvaryu priest as the rites are performed. This is the Shukla (White) Yajurveda, the Vajasaneyi Samhita, whose final adhyaya is the Ishavasya Upanishad.
How it is read
Vajasaneyi Kanva Samhita is given below in its original Sanskrit, in accented Devanagari. The Veda is preserved as shruti and recited in svadhyaya; read it reverently, adhyaya by adhyaya.
Original Text
The Verses
अथ द्वितीयोऽध्यायः । कृष्णो॑स्याखरे॒ष्ठो॒ऽग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ वेदि॑रसि ब॒र्हिषे॑ त्वा॒ जुष्टां॒ प्रोक्षा॑मि । ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ जुष्टं॒ प्रोक्षा॑मि ॥१॥ अदि॑त्यै॒ व्युन्द॑नमसि॒ विष्णो॑ स्तु॒पो॑ऽसि । ऊर्णं॑ म्रदसं त्वा स्तृणामि स्वास॒स्थां दे॒वेभ्यः॑ ॥२२॥॥ भुव॑पतये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑ । भू॒तानां॒ पत॑ये॒ स्वाहा॑। ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः॒ परि॑दधातु॒ विश्व॒स्यारि॑ष्ट्यै ॥३३॥॥ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ळ ई॑ळि॒तः । इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट्यै। यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ळ ई॑ळि॒तः । मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा॒ विश्व॒स्यारि॑ष्ट्यै। यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ळ ई॑ळि॒तः ॥४॥ ४ वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्त॒ समि॑धीमहि । अग्ने॑ बृ॒हन्त॑मध्व॒रे ॥५॥ ५ स॒मिद॑सि । सूर्य॑स्त्वा पु॒रस्ता॑त् पातु॒ कस्या॑श्चिद॒भिश॑स्त्यै । स॒वि॒तुर्बा॒हू स्थः॑ ॥६॥६॥ ऊर्णं॑ म्रदसं त्वा स्तृणामि स्वास॒स्थं दे॒वेभ्यः॑ । आ त्वा॒ वस॑वो रु॒द्रा आ॑दि॒त्याः स॑दन्तु ॥७॥ ७ घृ॒ताच्य॑सि जु॒हूर्नाम॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒ये सद॑सि सीद । घृ॒ताच्य॑स्युप॒भृन्नाम॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒ये सद॑सि सी॑द । घृ॒ताच्य॑सि ध्रु॒वा नाम॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒ये सद॑सि सीद । प्रि॒येण॒ धाम्ना॑ प्रि॒ये सद॑सि सीद ॥८॥ ८ (५८) ध्रु॒वा अ॑सदन्नृ॒तस्य॒ योनौ॒ ता वि॑ष्णो पाहि । पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां य॑ज्ञ॒न्य॑म् ॥९॥(१) ९ अग्ने॑ वाजजि॒द्वाजं॑ त्वा सरि॒ष्यन्तं॑ वाज॒जित॒ सम्मा॑र्ज्मि । नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यः॑ सु॒यमे॑ मे भूयास्तम् ॥१॥ १० अस्क॑न्नम॒द्याज्यं॑ दे॒वेभ्यः॒ संभ्रि॑यासम् । अङ्घ्रि॑णा विष्णो॒ मा त्वाव॑क्रमिषम् ॥२१॥१॥ वसु॑मतीमग्ने ते छा॒यामुप॑स्थेषं॒ विष्णोः॒ स्थान॑मसि । इ॒त इन्द्रो॑ वी॒र्य॑मकृणोदू॒र्ध्वो॑ऽध्व॒र आस्था॑त् ॥३१॥२॥ अग्ने॒ वेर्हो॒त्रं वेर्दू॒त्य॑म् । अव॑तां त्वां॒ द्यावा॑पृथि॒वी अव॒ त्वं द्यावा॑पृथि॒वी ॥४॥ १३ स्वि॒ष्ट॒कृद्दे॒वेभ्य॒ इन्द्र॒ आज्ये॑न ह॒विषा॒ भू॒त् स्वाहा॑ । सं ज्योति॑षा॒ ज्योतिः॑ ॥५॥१४॥ अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम् । अमी॑ मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत ॥६॥ १५ उप॑हूता पृथि॒वी मा॒तोप॒ मां पृ॑थि॒वी मा॒ता ह्व॑यताम् । अ॒ग्निराग्नी॑ध्रा॒त् स्वाहा॑ ॥७॥ १६ उप॑हूतो॒ द्यौष्पि॒तोप॒ मां द्यौ॑ष्पि॒ता ह्व॑यताम् । अ॒ग्निराग्नी॑ध्रा॒त् स्वा॑हा ॥८॥ १७ मयी॒दमिन्द्र॑ इन्द्रि॒यं द॑धात्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम् । अ॒स्माक॑ सन्त्वा॒शिषः॑ स॒त्या नः॑ सन्त्वा॒शिषः॑ । अग्ने॑ वाजजि॒द्वाजं॑ त्वा ससृ॒वासं॑ वाज॒जित॒ सम्मार्ज्मि॥९॥(२) १८ देव॑ सवितरे॒तं त्वा॑ वृणते॒ बृह॒स्पतिं॑ ब्र॒ह्माण॑म्। तद॒हं मन॑से॒ प्रब्र॑वीमि॥१॥ १९ मनो॑ गा॒यत्र्यै गा॑य॒त्री त्रि॒ष्टुभे॑ त्रि॒ष्टुब्जग॑त्यै॒ जग॑त्यनु॒ष्टु॒भे॑। अ॒नु॒ष्टप्प्र॒जाप॑तये प्र॒जाप॑ति॒र्विश्वे॑भ्यो दे॒वेभ्यः॑॥२॥ २० ब्रह॒स्पति॑र्दे॒वानां॑ ब्र॒ह्माहं म॑नु॒ष्या॑णाम् । भूर्भुवः॒ स्व॒र्निर॑स्तः पा॒प्मेदम॒हं बृह॒स्पतेः॒ सद॑सि सीदामि॥३॥ २१ मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रती॑क्षे । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । प्रति॑गृह्णामि पृथि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्यदि॑त्या उ॒पस्थे॑। दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ॥४॥ २२ आद॑दे॒ऽग्नेष्ट्वा॒स्ये॑न॒ प्राश्ना॑मि॒ बृह॒स्पते॒र्मुखे॑न । या अ॒प्स्व॒न्तर्दे॒वता॒स्ता इ॒द श॑मयन्तु॥५॥ २३ स्वाहा॑कृतं ज॒ठरा॒मिन्द्र॑स्य गछ। घ॒सिना॑ मे॒ मा संपृ॑क्था ऊ॒र्ध्व मे॒ नाभेः॑ सीद॥६॥ २४ इन्द्र॑स्य त्वा ज॒ठरे॑ सादयामि। प्र॒जाप॑तेर्भा॒गो॒स्यूर्ज॑स्वा॒न् पय॑स्वान्॥७॥ २५ प्रा॒णा॒पा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पाह्युदानव्या॒नौ मे॑ पाहि। ऊर्ग॒स्यूर्जं॒ मयि॑ धे॒ह्यक्षि॑तिरसि॒ मा मे॑ क्षेष्ठा अ॒मुत्रा॒मुष्मिं॑ल्लो॒क इ॒ह च॑ ॥८॥ २६ ए॒षा ते॑ अग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि ॥९॥ २७ (७७) ए॒तत् ते॑ देव सवितर्य॒ज्ञं प्राहु॒र्बृह॒स्पत॑ये ब्र॒ह्मणे॑ । तेन॑ य॒ज्ञम॑व॒ तेन॑ य॒ज्ञप॑तिं॒ तेन॒ माम॑व ॥१०॥॥२८॥ मनो॒ज्योति॑र्जुषता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नोतु । अरि॑ष्टं य॒ज्ञ समि॒मं द॑धातु॒ विश्वे॑ दे॒वास॑ इ॒ह मा॑दयन्ता॒मों प्रति॑ष्ठ ॥११॥॥(३) २९ अ॒ग्नीषोम॑यो॒रुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि । अ॒ग्नीषोमौ॒ तमप॑नुदतां॒ यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि । इ॒न्द्रा॒ग्न्योरुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि । इ॒न्द्रा॒ग्नी तमप॑नुदतां॒ यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ॥१॥ ३० वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वादि॒त्येभ्य॑स्त्वा । संजा॑नाथां द्यावापृथिवी मि॒त्रावरु॑णौ त्वा॒ वृष्ट्या॑वताम् ॥२॥ ३१ व्यन्तु॒ वयो॑रि॒प्तो रिहा॑णा म॒रुतां॒ पृष॑तीं गछ। व॒शा पृश्नि॑र्भू॒त्वा दिवं॑ गछ॒ ततो॑ नो॒ वृष्टि॒माव॑ह ॥३॥ ३२ च॒क्षु॒ष्पा अ॑सि॒ चक्षु॑र्मे पाहि ।यं प॑रि॒धिं प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र्गु॒ह्यमा॑नः॥४॥ ३३ तं त॑ ए॒तमनु॒ जोषं॑ भराम्ये॒ष नेत्त्वद॑पचे॒तया॑तै । अ॒ग्नेः प्रि॒यं पाथोऽपी॑तम् ॥५॥ ३४ स॒ स्र॒वभा॑गा स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठाः प॑रि॒धय॑श्च दे॒वाः । इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्व॒ स्वाहा॒ वाट् । घृ॒ताची॑ स्थो॒ धुर्यौ॑ पात सु॒म्ने स्थः॑ सु॒म्ने मां॑ धत्तम् ॥६॥ (४) ३५ अग्ने॑ऽदब्धायोऽशीतम पा॒हि मा॑ दि॒द्योः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै । अ॒वि॒षं नः॑ पि॒तुं कृ॑णु सु॒षदा॒ योनौ॒ स्वाहा॒ वाट् ॥१॥ ३६ अ॒ग्नये॑ संवे॒शप॑तये॒ स्वाहा॒ सर॑स्वत्यै यशोभ॒गिन्यै॒ स्वाहा॑ । उ॒लूख॑ले॒ मुस॑ले॒ यच्च॒ शूर्प॑ आशि॒श्लेष॑ दृ॒षदि॒ यत् क॒पाले॑॥२॥ ३७ उत्प्रुषो॑ वि॒प्रुषः॒ सं जु॑होमि स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॒ स्वाहा। आप्या॑यतां ध्रु॒वा ह॒विषा॑ घृ॒तेन॑ य॒ज्ञं य॑ज्ञं॒ प्रति॑ देव॒यद्भयः॑॥ सू॒र्याया॒ ऊधो॒ अदि॑त्या उ॒पस्थ॑ उ॒रुधा॑रा पृथि॒वी य॒ज्ञे अ॒स्मिन्॥३३॥॥८॥ देवा॑ गातुविदो गा॒तुमि॒त्त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मं दे॑व य॒ज्ञ स्वाहा॒ वाते॑ धाः ॥४॥ ३९ संब॒र्हिर॑ङ्क्ता ह॒विषा॑ घृ॒तेन॒ समा॑दित्यै॒र्वसु॑भिः॒ सं म॒रुद्भिः॑ । समिन्द्रो॑ वि॒श्वदे॑वेभिरङ्क्तां दि॒व्यं नभो॑ गच्छतु॒ यत् स्वाहा॑ ॥५॥ ४० कस्त्वा॒ विमु॑ञ्चति॒ स त्वा॒ विमु॑ञ्चति॒ कस्मै॑ त्वा॒ विमु॑ञ्चति॒ तस्मै त्वा॒ विमु॑ञ्चति । पोषा॑य॒ रक्ष॑सां भा॒गो॑ऽसि ॥६॥ ४१ वे॒षो॑ऽस्युपवे॒षो द्वि॑ष॒तो ग्री॒वा उप॑वेविढ्ढि । वेशां॑ अग्ने सुभग धारये॒ह॥७॥ ४२ (९२) ऋ॒द्धाः क॑र्म॒ण्या॒ अन॑पायिनो॒ यथास॑न्॥ जु॒होमि॑ त्वा सुभग॒ सौभ॑गाय पुरू॒तमं॑ पुरुहूत श्रव॒स्यन् ॥८॥(५) ४३ सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ स शि॒वेन॑ । त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोनु॑मार्ष्टु त॒न्वो॒ यद्विलि॑ष्टम् ॥१॥ ४४ यज्ञ॒ शं च॑ त॒ उप॑ च । शि॒वे मे॒ संति॑ष्ठ॒स्वारि॑ष्टे मे॒ संति॑ष्ठस्व॒ स्वि॑ष्टे मे॒ संति॑ष्ठस्व॥२॥ ४५ दि॒वि विष्णु॒र्व्य॑क्रस्त॒ जाग॑तेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तः। यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः । अ॒न्तरि॑क्षे॒ विष्णु॒र्व्य॑क्रस्त॒ त्रैष्टु॑भेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तः । यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः । पृ॒थि॒व्यां विष्णु॒र्व्य॑क्रस्त गाय॒त्रेण॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तः । यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥३॥ ४६ अ॒स्मादन्ना॑द॒स्यै प्र॑ति॒ष्ठाया॒ अग॑न्म॒ स्वः॑ । सं ज्योति॑षाभूम ॥४॥४॥७॥ स्व॒यं॒भूर॑सि॒ श्रेष्ठो॑ र॒श्मिर्व॑र्चो॒दा अ॑सि॒ वर्चो॑ मे देहि । सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ॥५॥ ४८ अग्ने॑ गृहपते सुगृहप॒तिर॒हं त्वया॑ गृ॒हप॑त्या भूयासम्। सु॒गृ॒ह॒प॒तिस्त्वं मया॑ गृ॒हप॑त्या भूयाः ॥६॥ ४९ अ॒स्थू॒रि णो॒ गार्ह॑पत्यानि सन्तु श॒त हिमाः॑ । ति॒ग्मेन॑ न॒स्तेज॑सा॒ सशि॑शाधि॒ सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ॥७॥ ५० उ॒रुवि॑ष्णो॒ विक्र॑मस्वो॒रुक्षया॑य नस्कृधि । घृ॒तं घृ॑तयोने पिब॒ प्र-प्र॑ य॒ज्ञप॑तिं तिर ॥८॥ ५१ ततो॑ऽसि॒ तंतु॑र॒स्यनु॑ मा तनुहि । अ॒स्मिन्य॒ज्ञे॒स्या सा॑धु कृ॒त्याया॑म॒स्मिन्नन्ने॒ऽस्मिँल्लो॒के॥९॥५॥२ इ॒दं मे॒ कर्मे॒दं वी॒र्यं॑ पु॒त्रो॑ऽनु॒ संत॑नोतु। अग्ने॑ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधि । इ॒दम॒हं य ए॒वास्मि॒ स ए॒वास्मि॑ ॥१०॥॥(६) ५३ अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वाहा॒ सोमा॑य पितृ॒मते॒ स्वाहा॑ । अप॑हता॒ असु॑रा॒ रक्षा॑ सि वेदि॒षदः॑ ॥१॥ ५४ ये रू॒पाणि॑ प्रतिमु॒ञ्चमा॑ना॒ असु॑राः॒ सन्तः॑ स्व॒धया॒ चर॑न्ति । प॒रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टाँल्लो॒कात् प्रणु॑दात्य॒स्मात् ॥२॥ ५५ अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम् । अमी॑मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत ॥३॥ ५६ नमो॑ वः पितरः॒ शुष्मा॑य॒ नमो॑ वः पितर॒स्तप॑से। नमो॑ वः पितरो॒ यज्जी॒वं तस्मै॒ नमो॑ वः पितरो॒ रसाय॑। नमो॑ वः पितरो घो॒राय॑ म॒न्यवे॑ स्व॒धायै॑ वः पितरो॒ नमः॑। ए॒तद्वः॑ पितरो॒ वासो॑ गृ॒हान्नः॑ पितरो दत्त॥४॥ ५७ (१०७) उदायु॑षा स्वा॒युषोत्पर्जन्य॑स्य॒ धाम॑भिः। उद॑स्थाम॒मृताँ॒ अनु॥५॥ ५८ आध॑त्त पितरो॒ गर्भं॑ कुमा॒रं पुष्क॑रस्रजम् । यथे॒ह पुरु॒षोऽस॑त् ॥६॥ ५९ ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृ॒तं पयः॑ की॒लालं॑ परि॒स्रुत॑म् । स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥७॥(७) ६० ॥इति शुक्लयजुः काण्वसंहितायां द्वितीयोऽध्यायः॥२॥
“अथ तृतीयोऽध्यायः। स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आस्मि॑न् ह॒व्या जु॑होतन ॥१॥ १ सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन । अ॒ग्नये॑ जा॒तवे॑दसे ॥२॥ २ तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि । बृ॒हछो॑चा यविष्ट्य ॥३॥ ३ उप॑ त्वाग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत । जु॒षस्व॑ स॒मिधो॒ मम॑ ॥४॥ ४ भूर्भुवः॒ स्व॒र्द्यौरि॑व भू॒म्ना भूमि॑रिव वरि॒म्णा । तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठे॒ग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे ॥५॥ ५ आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्वः॑ ॥६॥ ६ अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन् महि॒षो दिव॑म् ॥७॥ ७ त्रि॒ शद्धाम॒ विरा॑जति॒ वाक् प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥८॥ (१) ८ अ॒ग्निर्ज्यो॑तिषं त्वा वायु॒मतीं॑ प्रा॒णव॑तीम्। स्व॒र्ग्या॑स्व॒र्गायोप॑दधामि॒ भास्व॑तीम्। अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॑ ॥१॥ ९ सूर्य॑ ज्योतिषं त्वा वायु॒मतीं॑ प्रा॒णव॑तीम्। स्व॒र्ग्या॑स्व॒र्गायोप॑दधामि॒ भास्व॑तीम्। सूर्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहा॑ ॥२॥ १० स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जू रात्र्येन्द्र॑वत्या । जु॒षा॒णो अ॒ग्निर्वे॑तु॒ स्वाहा॑ ॥३१॥१॥ स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जूरु॒षसेन्द्र॑वत्या । जु॒षा॒णः सूर्यो॑ वेतु॒ स्वाहा॑ ॥४॥ १२ इ॒ह पुष्टिं॒ पुष्टि॑पतिर्दधात्वि॒ह प्र॒जा र॑मयतु प्र॒जाप॑तिः। अ॒ग्नये॑ गृ॒हप॑तये रयि॒मते॒ पुष्टि॑पतये॒ स्वाहा॑। अ॒ग्नये॑ऽन्ना॒दायान्न॑पतये॒ स्वाहा॑॥५॥ १३ अ॒न॒मि॒त्रं मे॑ अध॒राग॑नमि॒त्रमुद॑क्कृधि । इन्द्रा॑नमि॒त्रं प॒श्चान्मे॑नमि॒त्रं पु॒रस्कृ॑धि॥६॥१४॥ (१२४) इन्द्रः॑ प॒श्चादिन्द्रः॑ पु॒रस्ता॒दिन्द्रो॑ अ॒स्माँ३ अ॒भिपा॑तु वि॒श्वतः॑। इन्द्रो॒ जिघा॑सतां॒ मना॑सि विषू॒चीना॒ व्य॑स्यतात्॥७॥१५॥ स॒मिद॑सि॒ समि॑द्धो मे अग्ने दीदिहि । स॒मे॒द्धा ते॑ अग्ने दीद्यासम्॥८॥(२) १६ उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥१॥ १७ अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पा रेता॑सि जिन्वति ॥२॥ १८ उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ । उ॒भा दा॒तारा॑ इ॒षा र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥३॥ १९ अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॒हाथा॑ नो वर्धया र॒यिम् ॥४॥ २० अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं वि॒शेवि॑शे ॥५॥ २१ अ॒स्य प्र॒त्नामनु॒ द्युत॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पयः॑ सहस्र॒सामृषि॑म् ॥६॥ २२ त॒नू॒पा अ॑ग्नेऽसि त॒न्वं॑ मे पाह्यायु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे देहि । व॒र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि ॥७॥ २३ अग्ने॒ यन्मे॑ त॒न्वा॑ ऊ॒नं तन्म॒ आपृ॑ण । इन्धा॑नास्त्वा श॒त हिमा॑ द्यु॒मन्त॒ समि॑धीमहि ॥८॥ २४ वय॑स्वन्तो वय॒स्कृत॒ सह॑स्वन्तः सह॒स्कृत॑म् । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम् ॥९॥ २५ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय । सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथाः॒ समृषी॑णा स्तु॒तेन॑ ॥१०॥॥ २६ सं प्रि॒येण॒ धाम्ना॒ सम॒हमायु॑षा॒ सं वर्च॑सा॒ सं प्र॒जया॒ स रा॒यस्पोषे॑ण ग्मिषीय । अन्ध॒ स्थान्धो॑ वो भक्षीय॒ मह॑ स्थ॒ महो॑ वो भक्षीय ॥११॥॥ २७ ऊर्ज॒ स्थोर्जं॑ वो भक्षीय रा॒यस्पोष॑ स्थ रा॒यस्पोषं॑ वो भक्षीय । रेव॑ती॒ रम॑ध्वम॒स्मिन् योना॑ अ॒स्मिन् गोष्ठे॒ऽस्मिन् क्षये॒ऽस्मिँल्लो॒के॒ ॥१२॥ २८ इ॒हैव स्ते॒तो माप॑गात । स॒ हि॒तासि॑ विश्वरू॒प्यू॒र्जा मावि॑श गौप॒त्येन॑ ॥१३॥ २९ उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् । नमो॒ भर॑न्त॒ एम॑सि ॥१४॥ ३० राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मान॒ स्वे दमे॑ ॥१५॥ ३१ स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑ ॥१६॥ ३२ अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ । वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑म र॒यिं दाः॑ ॥१७॥ ३३ (१४३) तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः । स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः सम॑स्मात् ॥१८॥ ३४ इळ॒ एह्यदि॑त॒ एहि॑ काम्या॒ एहि॑ । मयि॑ वः काम॒धर॑णं भूयात् ॥१९॥ ३५ सो॒मान॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जः ॥२०॥॥ ३६ यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्ध॑नः । स नः॑ सिषक्तु॒ यस्तु॒रः ॥२१॥॥ ३७ मा नः॒ श सो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य । रक्षा॑ णो ब्रह्मणस्पते ॥२२॥॥ ३८ महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॒रा॒धर्षं॒ वरु॑णस्य ॥२३॥ ३९ न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घश॑ सः ॥२४॥ ४० ते हि पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य । ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ॥२५॥ ४१ क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उ॒पोपेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥२६॥ ४२ तत् स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥२७॥ ४३ परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ३ अ॑श्नोतु वि॒श्वतः॑ । येन॒ रक्ष॑सि दा॒शुषः॑ ।। समि॑द्धो मा॒सम॑र्धय प्र॒जया॑ च॒ धने॑न च ॥२८॥ (३) ४४ भूर्भुवः॒ स्वः॑ सुप्र॒जाः प्र॒जया॑ भूयासम् । सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑ ॥१॥ ४५ नर्य॑ प्र॒जां मे॑ पाहि॒ शस्य॑ प॒शून् मे॑ पाहि । आग॑न्म वि॒श्ववे॑दसम॒स्मभ्यं॑ वसु॒वित्त॑मम् ॥२४॥६॥ अग्ने॑ सम्राळ॒भि द्यु॒म्नम॒भि सह॒ आय॑च्छस्व । अ॒यम॒ग्निर्गृ॒हप॑ति॒र्गार्ह॑पत्यः प्र॒जावान्वसु॒वित्त॑म ॥३॥ ४७ अग्ने॑ गृहपते॒ऽभि द्यु॒म्नम॒भि सह॒ आय॑च्छस्व । गृहा॒ मा बि॑भीत॒ मा वे॑पध्व॒मूर्जं॒ बिभ्र॑त॒ एम॑सि ॥४॥ ४८ ऊर्जं॒ बिभ्र॑द्वः सु॒मनाः॑ सुमे॒धा गृ॒हानैमि॒ मन॑सा॒ मोद॑मानः । येषा॑म॒ध्येति॑ प्र॒वस॒न्येषु॑ सौमन॒सो ब॒हुः ॥५॥ ४९ गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः । उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वयः॑ ॥६॥ ५० अथो॒ अन्न॑स्य की॒लाल॒ उप॑हूतो गृ॒हेषु॑ नः । क्षेमा॑य वः॒ शान्त्यै॒ प्रप॑द्ये । शि॒व श॒ग्म शं॒योः शं॒योः ॥७॥ (४) ५१ प्र॒घा॒सिनो॑ हवामहे म॒रुत॑श्च रि॒शाद॑सः । क॒र॒म्भेण॑ स॒जोष॑सः ॥१॥ ५२ यद् ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॒ये । यदेन॑श्चकृ॒मा व॒यमि॒दं तदव॑यजामहे॒ स्वाहा॑ ॥२५॥३ मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु देवै॒रस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः । म॒हश्चि॒द्यस्य॑ मी॒ळहुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥३॥ ५४ (१६४) अक्र॒न् कर्म॑ कर्म॒कृतः॑ स॒ह वा॒चा म॑यो॒भुवा॑ । दे॒वेभ्यः॒ कर्म॑ कृ॒त्वास्तं॒ प्रेत॑ सचाभुवः ॥४॥ ५५ अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पुणः । अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ॥५॥ (५) ५६ पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त । व॒स्नेव॒ विक्री॑णावहा॒ इष॒मूर्ज शतक्रतो ॥१॥ ५७ दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते॑ दधौ । नि॒हारं॑ निह॑रामि ते नि॒हारं॒ निह॑रासि मे॒ स्वाहा॑ ॥२॥ (६) ५८ अक्ष॒न्नमी॑मदन्त॒ह्यव॑ प्रि॒या अ॑धूषत । अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥१॥ ५९ सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन् वन्दिषी॒महि॑ । प्र नू॒नं पू॒र्णव॑न्धुर स्तु॒तो या॑सि॒ वशाँ॒३ अनु॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥२॥ ६० मनो॒ न्वाहु॑वामहे नाराश॒सेन॒ स्तोमे॑न । पि॒तॄ॒णां च॒ मन्म॑भिः ॥३॥ ६१ आ न॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ । ज्योक् च॒ सूर्यं॑ दृ॒शे ॥४॥ ६२ पुन॑र्नः पितरो॒ मनो॒ ददा॑तु दैव्यो॒ जनः॑ । जी॒वं व्रात॑ सचेमहि ॥५॥ ६३ व॒यँ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ॥६॥ (७) ६४ ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहा॑ । ए॒ष ते॑ रुद्र भा॒ग आ॒खुस्ते॑ प॒शुः ॥१॥ ६५ अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् । यथा॑ नो॒ वस्य॑स॒स्कर॒द्यथा॑ नः॒ श्रेय॑स॒स्कर॒द्यद्यथा॑ नो व्यवसा॒यया॑त् ॥२॥ ६६ भे॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम् । सु॒गं मे॒षाय॑ मे॒ष्यै ॥३॥ ६७ त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥४॥ ६८ त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुतः॑ ॥५॥ ६९ ए॒तेन॑ रुद्राव॒सेन॑ प॒रो मूज॑व॒तोऽती॑हि । अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ अहि॑सन्नः शि॒वः शान्तोऽती॑हि ॥६॥(८) ७० वा॒जिनां॒ वाजो॑ऽवतु भ॒क्षो अस्मान् रेतः॑ सि॒क्तम॒मृतं॒ बला॑य। विश्वे॑ दे॒वा अ॒भि यत् सं॑बभू॒वुस्तन्मा॑ धिनोतु प्र॒जया॒ धने॑न॥१॥ ७१ वा॒ज्य॒हं वाजिन॒स्यो॑पहूत॒ उप॑हूतस्य भक्षयामि। वाजे॑ वा॒जी भूयासम्॥२॥ ७२ स॒वि॒त्रा प्रसू॑ता॒ दैव्य॒ आप॑ उ॑दन्तु ते त॒नूम्। दी॒र्घा॒यु॒त्वाय॒ वर्चसे॥३॥ ७३ (१८३) क॒श्यप॑स्य त्र्यायु॒षं ज॒मद॑ग्नेस्त्र्यायु॒षम् । यद्दे॒वानां॑ त्र्यायु॒षं तन्मे॑ अस्तु त्र्यायु॒षम् ॥४॥ ७४ येन॑ धा॒ता बृह॒स्पते॒रिन्द्र॑स्य॒ चायु॒षेऽव॑पत्।तेन॑ ते वपामि॒ ब्रह्म॑णा जी॒वात॑वे॒ जीव॑नाय॥५॥ ७५ दी॒र्घा॒यु॒त्वाय॒ बला॑य॒ वर्च॑से। सु॒प्र॒जा॒स्त्वाय॑ चासा॒ अथो॑ जीव श॒रदः॑ शतम्॥६॥ (९) ७६ (१८६) ॥इति शुक्लयजुः काण्वसंहितायां तृतीयोऽध्यायः॥ ३॥ ”
“अथ चतुर्थोऽध्यायः। एदम॑गन्म देव॒यज॑नं पृथि॒व्या यत्र॑ दे॒वासो॒ अजु॑षन्त॒ विश्वे॑ । ऋक्सा॒माभ्या॑ स॒न्तर॑न्तो॒ यजु॑र्भी रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ॥१॥ १ इ॒मा आपः॒ शमु॑ मे सन्तु दे॒वीरोष॑धे॒ त्राय॑स्व स्वधि॑ते॒ मैन॑ हिसीः । आपो॑ अ॒स्मान्मा॒तरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्वः॑ पुनन्तु ॥२॥ २ विश्व॒ हि रि॒ प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि । दी॒क्षा॒त॒पसो॑स्त॒नूर॑सि॒ तां त्वा॑ शि॒वा श॒ग्मां परि॑दधे भ॒द्रं वर्णं॒ पुष्य॑न् ॥३॥ (१) ३ म॒हीनां॒ पयो॑ऽसि वर्चो॒दा अ॑सि॒ वर्चो॑ मे देहि । वृ॒त्रस्य॑ क॒नीन॑कासि चक्षु॒र्दा अ॑सि॒ चक्षु॑र्मे देहि ॥१॥ ४ चि॒त्पति॑र्मा पुनातु वा॒क्पति॑र्मा पुनातु दे॒वो मा॑ स॒वि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः॑ । तस्य॑ ते पवित्रपते प॒वित्र॑पूतस्य॒ यत्का॑मः पु॒ने तच्छ॑केयम् ॥२॥ ५ आ वो॑ देवास ईमहे वा॒मं प्र॑य॒त्य॑ध्व॒रे । आ वो॑ देवास आ॒शिषो॑ य॒ज्ञिया॑सो हवामहे ॥३॥ ६ स्वाहा॑ य॒ज्ञं मन॑सः॒ स्वाहो॒रोर॒न्तरि॑क्षात् । स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ स्वाहा॒ वाता॒दार॑भे॒ ॥४॥ (२) ७ आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॒ सर॑स्वत्यै पू॒ष्णे॒ऽग्नये॒ स्वाहा॒। आपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथिवी॒ उर्व॑न्तरिक्ष । बृह॒स्पत॑ये ह॒विषा॑ विधेम॒ स्वाहा॑ ॥१॥ ८ विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ॥२॥(३) ९ ऋ॒क्सा॒मयोः॒ शिल्पे॑ स्थ॒स्ते वा॒मार॑भे॒ ते मा॑ पातम्। आस्य य॒ज्ञस्यो॒दृचः॑ ॥११॥॥० शर्मा॑सि॒ शर्म॑ मे यच्छ॒ नम॑स्ते अस्तु॒ मा मा॑ हि सीः । ऊर्ग॑स्याङ्गिर॒स्यूर्णं॑म्रदा॒ ऊर्जं॒ मे यच्छ ॥२॥ ११(१९७) सोम॑स्य नी॒विर॑सि॒ विष्णोः॒ शर्मा॑सि॒ शर्म॒ यज॑मानस्य । इन्द्र॑स्य॒ योनि॑रसि सुस॒स्याः कृ॒षीस्कृ॑धि ॥३१॥२॥ उच्छ्र॑यस्व वनस्पत ऊ॒र्ध्वो मा॑ पा॒ह्य ह॑सः। आस्य य॒ज्ञस्यो॒दृचः॑॥४॥(४) १३ व्र॒तं कृ॑णुत व्र॒तं कृ॑णुत व्र॒तं कृ॑णुत । अ॒ग्निर्ब्रह्मा॒ग्निर्य॒ज्ञो वन॒स्पति॑र्य॒ज्ञियः॑ ॥११॥॥४॥ दैवीं॒ धियं॑ मनामहे सुमृळी॒काम॒भिष्ट॑ये । व॒र्चो॒दाँ वि॒श्वधा॑यस सुती॒र्था नो॑ अस॒द्वशे॑ ॥२॥ १५ ये दे॒वा मनो॑जाता मनो॒युजो॒ दक्ष॑क्रतवः। ते नो॑ऽवन्तु॒ ते नः॑ पान्तु॒ तेभ्यः॒ स्वाहा॑ ॥३॥ १६ श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पो अ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवाः॑ । ता अ॒स्मभ्य॑मय॒क्ष्मा अ॑नमी॒वा अना॑गसः॒ स्वद॑न्तु दे॒वीर॒मृता॑ ऋता॒वृधः॑ ॥४॥ १७ इ॒यं ते॑ य॒ज्ञिया॑ त॒नूर॒पो मु॑ञ्चामि॒ न प्र॒जाम् । अ॑हो॒मुचः॒ स्वाहा॑कृताः पृथि॒वीमावि॑शत पृथि॒व्या संभ॑व ॥५॥ १८ अग्ने॒ त्व सु जा॑गृहि व॒य सु म॑न्दिषीमहि । रक्षा॑ णो॒ अप्र॑युच्छन् प्र॒बुधे॑ नः॒ पुन॑स्कृधि ॥६॥ १९ पुन॒र्मनः॒ पुन॒रायु॑र्म॒ आगा॒त् पुन॒श्चक्षुः॒ पुनः॒ श्रोत्रं॑ म॒ आगात् । पुनः॑ प्रा॒णः पुन॑रा॒त्मा म॒ आगा॑त् वै॒श्वा॒न॒रो अद॑ब्धस्तनू॒पा अ॒ग्निर्मा॑ पातु दुरि॒ताद॑व॒द्यात् ॥७॥ २० त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्यः॑ ॥८॥ २१ रास्वेय॑त्सो॒मा भूयो॑ भर । दे॒वो नः॑ सवि॒ता वसो॑र्दा॒ता वस्व॑दात् ॥९॥ (५) २२ ए॒षा ते॑ शुक्र त॒नूरे॒तद्वर्च॒स्तया॒ सम्भ॑व॒ भ्राजं॑ गच्छ । जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे ॥१॥ २३ तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒नूय॒न्त्रम॑शीय॒ स्वाहा॑ । च॒न्द्रम॑सि शु॒क्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि ॥२॥ २४ चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी । सा नः॒ सुप्रा॑ची॒ सुप्र॑तीची भव॥३॥ २५ मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीतां पू॒षाध्व॑नस्पा॒त्विन्द्रा॒याध्य॑क्षाय । अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः ॥४॥ २६ सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑म्। रु॒द्रस्त्वा व॑र्तयतु स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ ॥५॥(६) २७ वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑ । बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒राच॑के ॥१॥ २८ अदि॑त्यास्त्वा मू॒र्धन्नाजि॑घर्मि देव॒यज॑ने पृथि॒व्याः। इळा॑यास्प॒दम॑सि घृ॒तव॒त् स्वाहा॑ ॥२॥ २९ अ॒स्मे र॑मस्वा॒स्मे ते॒ बन्धुः॑ । त्वे रायो॑ अ॒स्मे रायः॑ ॥३॥ ३०(२१६) मा व॒य रा॒यस्पोषे॑ण॒ वियौ॑ष्म॒ तोतो॒ रायः॑ । सम॑ख्ये दे॒व्या धि॒या सं दक्षि॑णयो॒रुच॑क्षसा । मा म॒ आयुः॒ प्रमो॑षी॒र्मो अ॒हं तव॑ वी॒रान्वि॑देय॒ तव॑ देवि सं॒दृशि॑ ॥४॥(७) ३१ ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ त्रैष्टु॑भो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतात्। ए॒ष ते॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दोमा॒नाना॒ साम्रा॑ज्यं ग॒च्छता॒दिति॑ मे॒ सोमा॑य ब्रूतात् ॥१॥ ३२ आ॑स्मा॒को॑ऽसि शु॒क्रस्ते॒ ग्रह्यः॑ । वि॒चित॑स्त्वा॒ विचि॑न्वन्तु ॥२॥ ३३ अ॒भि त्यं दे॒व स॑वि॒तार॑मो॒ण्योः॑ क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑व रत्न॒धाम॒भि प्रि॒यं म॒तिं क॒विम् । ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा स्वः॑ ॥३॥ ३४ प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वा॑नु॒प्राण॑न्तु। प्र॒जास्त्वम॑नु॒प्राणि॑हि ॥४॥ (८) ३५ च॒न्द्रं त्वा च॒न्द्रेण॑ क्रीणामि शु॒क्रं शु॒क्रेणा॒मृत॑म॒मृते॑न । स॒ग्मे ते॒ गोर॒स्मे ते॑ च॒न्द्राणि॑ ॥१॥ ३६ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्णः॑ । पर॒मेण॑ प॒शुना॑ क्रीयसे सहस्रपो॒षं पु॑षेयम् ॥२॥ ३७ मि॒त्रो न॒ एहि॒ सुमि॑त्रध॒ इन्द्र॑स्यो॒रुमावि॑श॒ दक्षि॑णम् । उ॒शन्नु॒शन्त॑ स्यो॒नः स्यो॒नम् ॥३॥ ३८ स्वान॒ भ्राजाङ्घा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नो । ए॒ते वः॑ सोम॒क्रय॑णा॒स्तान्र॑क्षध्वं॒ मा वो॑ दभन् ॥४॥ ३९ परि॑ माग्ने॒ दुश्च॑रिताद्बाध॒स्वा मा॒ सुच॑रिते भज । उदायु॑षा स्वा॒युषोद॑स्थाम॒मृताँ॒२ अनु॑ ॥५॥ ४० प्रति॒ पन्था॑मपद्महि स्वस्ति॒गाम॑ने॒हस॑म् । येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ॥६॥(९) ४१ अदि॑त्या॒स्त्वग॒स्यदि॑त्यै॒ सद॒ आसी॑द । अस्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्याः । आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥१॥ ४२ वने॑षु॒ व्य॒न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु । हृ॒त्सु क्रतुं॒ वरु॑णो वि॒क्ष्व॒ग्निं दि॒वि सूर्य॑मदधा॒त् सोम॒मद्रौ॑ ॥२॥ ४३ सूर्य॑स्य॒ चक्षु॒रारो॑हा॒ग्नेर॒क्ष्णः क॒नीन॑कम् । यत्रैत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॑ ॥३४॥४ उस्रा॒ एतं॑ धूर्वाहौ यु॒ज्येथा॑मन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ । स्व॒स्ति यज॑मानस्य गृ॒हान् ग॑च्छतम् ॥४॥ ४५ भ॒द्रो मे॑ऽसि॒ प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि । मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् मा त्वा॒ वृका॑ अघा॒यवो॑ विदन् । श्ये॒नो भू॒त्वा परा॑पत॒ यज॑मानस्य गृ॒हान् ग॑च्छ॒ तन्नौ॑ सस्कृ॒तम् ॥५॥ ४६(२३२) नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒त स॑पर्यत । दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शसत ॥६॥ ४७ वरु॑णस्यो॒त्तम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नी स्थः । वरु॑णस्य ऋत॒सद॑न्यसि॒ वरु॑णस्य ऋत॒सद॑नमसि वरु॑णस्य ऋत॒सद॑न॒मासी॑द ॥७॥ ४८ या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् । ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्रच॑रा सोम॒ दुर्या॑न् ॥८॥(१०) ४९ (२३५) ॥इति शुक्लयजुः काण्वसंहितायां चतुर्थोऽध्यायः॥ ४॥ ” “
“अथ पञ्चमोऽध्यायः । अ॒ग्नेस्त॒नूर॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्य त॒नूर॑सि॒ विष्ण॑वे॒ त्वा। अति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ग्नये॑ त्वा रायस्पोष॒दे विष्ण॑वे त्वा ॥१॥ १ अ॒ग्नेर्ज॒नित्र॑मसि वृष॑णौ स्थः । उ॒र्वश्य॑स्या॒युर॑सि पु॑रू॒रवा॑ असि । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा मन्थामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा मन्थामि जाग॑तेन त्वा॒ छन्द॑सा मन्थामि ॥२॥ २ भव॑तं नः॒ सम॑नसौ॒ सचे॑तसाअरे॒पसौ॑ । मा य॒ज्ञ हिसिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥३॥ ३ अ॒ग्ना अ॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पावा॑ । स नः॑ स्यो॒नः सु॒यजा॑ यजे॒ह दे॒वेभ्यो॑ ह॒व्य सद॒मप्र॑युच्छ॒न्त्स्वाहा॑ ॥४॥(१) ४ आप॑तये त्वा गृह्णामि॒ परि॑पतये त्वा गृह्णामि। तनू॒नप्त्रे॑ शाक्व॒राय॒ शक्मनोजि॑ष्ठाय ॥१॥ ५ अना॑धृष्टमस्यनाधृ॒ष्यं दे॒वाना॒मोजः॑ । अन॑भिशस्त्यभिशस्ति॒पा अ॑नभिशस्ते॒न्यम्॥२॥ ६ अञ्ज॑सा स॒त्यमुप॑गेष सुवि॒ते मा॑ धाः । अग्ने॑ व्रतपा॒स्त्वे व्र॑तपाः ॥३॥ ७ या तव॑ त॒नूरि॒य सा मयि॒ या मम॑ त॒नूरे॒षा सा त्वयि॑ । स॒ह नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒र्मन्य॑ता॒मनु॒ तप॒स्तप॑स्पतिः ॥४॥ ८ (२४३) अ॒शुर॑शुष्टे देव सो॒माप्या॑यता॒मिन्द्रा॑यैकधन॒विदे॑ । आ तुभ्य॒मिन्द्रः॒ प्याय॑ता॒मा त्वमिन्द्रा॑य प्यायस्व ॥५॥ ९ आप्या॑यया॒स्मान् सखी॑न्त्स॒न्या मे॒धया॑ । स्व॒स्ति ते॑ देव सोम सु॒त्यामु॒दृच॑मशीय ॥६॥ १० एष्टा॒ रायः॒ प्रेषे भगा॑य । ऋ॒तमृ॑तवा॒दिभ्यो॒ नमो॒ दि॒वे नमः॑ पृथि॒व्यै ॥७॥ ११ या ते॑ अग्ने यःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त् स्वाहा॑ । या ते॑ अग्ने रजःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त् स्वाहा॑ । या ते॑ अग्ने हरिश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त् स्वाहा॑ ॥८॥ (२) १२ त॒प्ताय॑नी मेऽसि वि॒त्ताय॑नी मेऽसि । अव॑तान्मा व्यथि॒तमव॑तान्मा नाथि॒तात् ॥१॥ १३ वि॒देद॒ग्निर्न॒भो नामाग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॑ । यो॒ स्यां पृ॑थि॒व्यामसि॒ यत्तेना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे । वि॒देद॒ग्निर्न॒भो नामाग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॑ । यो द्वि॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे । वि॒देद॒ग्निर्न॒भो नामाग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॑ । यस्तृ॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे । अनु॑ त्वा दे॒ववी॑तये सि॒ह्य॑सि सपत्नसा॒ही दे॒वेभ्यः॑ कल्पस्व सिँ॒ह्य॑सि सपत्नसा॒ही दे॒वेभ्यः॑ शुन्धस्व सि॒ह्य॑सि सपत्नसा॒ही दे॒वेभ्यः॑ शुम्भस्व ॥२॥ (३) १४ इ॒न्द्र॒घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता॑त्पातु प्रचे॑तास्त्वा रुद्रैः प॒श्चात्पा॑तु । मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पा॑तु वि॒श्वक॑र्मा त्वादि॒त्यैरु॑त्तर॒तः पा॑तु ॥१॥ १५ इ॒दम॒हं त॒प्तं वार्ब॑हि॒र्धा य॒ज्ञान्निः सृ॑जामि । सि॒ह्य॑सि॒ स्वाहा॑ सि॒ह्य॑स्यादित्य॒वनिः॒ स्वाहा॑ ॥२॥ १६ सि॒ह्य॑सि ब्रह्म॒वनिः॑ क्षत्र॒वनिः॒ स्वाहा॑ सि॒ह्य॑सि सुप्रजा॒वनी॑ रायस्पोष॒वनिः॒ स्वाहा॑ । सि॒ह्य॒स्याव॑ह दे॒वान्यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा ॥३॥ १७ ध्रु॒वो॑ऽसि पृथि॒वीं दृ॑ह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृह । अ॒च्यु॒त॒क्षिद॑सि॒ दिवं॑ दृहा॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि ॥४॥ (४) १८ यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॒ ॥१॥ १९ (२५४) इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ळहमस्य पासु॒रे स्वाहा॑ ॥२॥ २० इरा॑वती धेनु॒मती॒ हि भू॒त सू॑यव॒सिनी॒ मन॑वे दश॒स्या । व्य॑स्कभ्ना॒ रोद॑सी विष्ण ए॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखैः॒ स्वाहा॑ ॥३॥ २१ दे॒व॒श्रुतौ॑ दे॒वेष्वाघो॑षतम् । प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जि॑ह्वरतम् ॥४॥ २२ स्वं गो॒ष्ठमाव॑दतं देवी दुर्ये॒ आयु॒र्मा निर्वा॑दिष्टं प्र॒जां मा निर्वा॑दिष्टम् । अत्र॑ रमेथां॒ वर्ष्म॑न् पृथि॒व्याः ॥५॥ २३ विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे रजा॑सि । यो अस्क॑भाय॒दुत्त॑र स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्ण॑वे त्वा ॥६॥ २४ दि॒वो वा॑ विष्ण उ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्ण उ॒रोर॒न्तरि॑क्षात् । उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्याद्विष्ण॑वे त्वा ॥७॥ २५ प्र तद्विष्णु॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥८॥ २६ विष्णो॑ र॒राट॑मसि विष्णोः॒ श्नप्त्रे॑ स्थो॒ विष्णोः॒ स्यूर॑सि विष्णो॑र्ध्रु॒वो॑ऽसि । वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥९॥ (५) २७ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि । बृ॒हन्न॑सि बृ॒हद्र॑वा बृह॒तीमिन्द्रा॑य॒ वाचं॑ वद ।रक्षो॒हणं॑ वलग॒हनं॑ वैष्ण॒वीम् ॥१॥ २८ इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यन्नो॒ निष्ट्यो॒ यम॒मात्यो॑ निच॒खान॑ । इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यं नः॑ समा॒नो यमस॑मानो निच॒खान॑ । इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यं नः॒ सब॑न्धु॒र्यमस॑बन्धुर्निच॒खान॑ । इ॒दम॒हं तं व॑ल॒गमुद्व॑पामि॒ यं नः॑ सजा॒तो यमस॑जातो निच॒खानोत्कृत्यां कि॑रामि ॥२॥ २९ स्व॒राळ॑सि सपत्न॒हा स॑त्र॒राळ॑स्यभिमाति॒हा । ज॒न॒राळ॑सि रक्षो॒हा स॑र्व॒राळ॑स्यमित्र॒हा ॥३॥ ३० र॑क्षो॒हणो॑ वलग॒हनः॒ प्रोक्षा॑मि वैष्ण॒वान्र॑क्षो॒हणो॑ वलग॒हनोऽव॑नयामि वैष्ण॒वान् । र॑क्षो॒हणो॑ वलग॒हनोऽव॑स्तृणामि वैष्ण॒वान् ॥४॥ ३१ र॒क्षो॒हणौ॑ वलग॒हना॒ उप॑दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी । वै॒ष्ण॒वम॑सि वैष्ण॒वा स्थ॑ ॥५॥ (६) ३२ (२६७) दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि । यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः । दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑॥१॥ ३३ शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि । उद्दिव॑स्तभा॒नान्तरि॑क्षं पृण॒ दृह॑स्व पृथि॒व्याम् ॥२॥ ३४ द्यु॒ता॒नस्त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णौ ध्रु॒वेण॒ धर्म॑णा । ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि ॥३॥ ३५ ब्रह्म॑ दृ ह क्ष॒त्रं दृहायु॑र्दृह प्र॒जां दृ॑ह । ध्रु॒वासि॑ ध्रु॒वो॒ऽस्मिन्यज॑मान आ॒यत॑ने भूयात् । घृ॒तेन॑ द्यावापृथिवी॒ पूर्येथा॒मिन्द्र॑स्य छ॒दिर॑सि विश्वज॒नस्य॑ छाया॑ ॥४॥ ३६ परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ । वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ॥५॥ ३७ इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वो॑ऽसि । ऐ॒न्द्रम॑सि वैश्वदे॒वम॑सि ॥६॥ (७) ३८ वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः । श्वा॒त्रो॑ऽसि॒ प्रचे॑तास्तु॒थो॑ऽसि वि॒श्ववे॑दाः ॥१॥ ३९ उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिः । अ॒व॒स्यूर॑सि॒ दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीयः॑॥२॥ ४० ऋ॒तधा॑मासि॒ स्व॑र्ज्योतिः समु॒द्रो॑ऽसि वि॒श्वव्य॑चाः । अ॒जो॒ऽस्येक॑पा॒दहि॑रसि बु॒ध्न्यः॑ ॥३॥ ४१ स॒म्राळ॑सि कृ॒शानुः॑ परि॒षद्यो॑ऽसि॒ पव॑मानः । नभो॑ऽसि प्र॒तक्वा॑ मृ॒ष्टो॑ऽसि हव्य॒सूद॑नः ॥४॥ ४२ स॒मू॒ह्यो॑ऽसि वि॒श्ववे॑दा ऊनातिरि॒क्तस्य॑ प्रति॒ष्ठा। अग्न॑यः सगराः॒ सग॑रा स्थ॒ सग॑रेण॒ नाम्ना रौद्रे॒णानी॑केन। पा॒त मा॑ग्नयः पिपृ॒तमा॑ग्नयो॒ नमो॑ वोऽस्तु॒ मा मा॑ हिसिष्ट ॥५॥(८) ४३ ज्योति॑रसि वि॒श्वरू॑पं॒ विश्वे॑षां दे॒वाना॑ स॒मित् । त्व सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः । उ॒रु य॒न्तासि॒ वरू॑थ॒स्वाहा॑ । जु॒षा॒णो अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॑ ॥१॥ ४४ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥२॥ ४५ अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन् । अ॒यं वाजा॑ञ्जयतु॒ वाज॑साता अ॒यशत्रू॑ञ्जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑ ॥३॥ ४६ उ॒रु वि॑ष्णो॒ विक्र॑मस्वो॒रु क्षया॑य नस्कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ॥४॥ ४७ देव॑ सवितरे॒ष ते॒ सोम॒स्त र॑क्षस्व॒ मा त्वा॑ दभन् । ए॒तत्त्वं दे॑व सोम दे॒वो दे॒वाँ उपा॑गाः॥५॥ ४८ (२८३) इ॒दम॒हं म॑नु॒ष्या॑न्त्स॒ह रा॒यस्पोषे॑ण॒ स्वाहा॒ निर्वरु॑णस्य॒ पाशा॑न्मुच्ये । अग्ने॑ व्रतपा॒स्त्वे व्र॑तपाः ॥६॥ ४९ या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॒ या मम॑ त॒नूस्त्वय्यभू॑दिय॒ सा मयि॑ । य॒था॒य॒थं नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒रम॒स्तानु॒ तप॒स्तप॑स्पतिः ॥७॥ (९) ५० उ॒रु वि॑ष्णो॒ विक्र॑मस्वो॒रु क्षया॑य नस्कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ॥१॥ ५१ अत्य॒न्याँ३ अगां॒ नान्याँ३ उपा॑गाम् । अ॒र्वाक्त्वा॒ परे॑भ्यः प॒रोऽव॑रेभ्यः ॥२॥ ५२ तं त्वा॑ जुषामहे देव वनस्पते देवय॒ज्यायै॑ । दे॒वास्त्वा॑ देवय॒ज्यायै॑ जुषन्तां॒ विष्ण॑वे त्वा ॥३॥ ५३ ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ हिसीः । दिवं॒ मा ले॑खीर॒न्तरि॑क्षं॒ मा हि॑सीः पृथि॒व्या संभ॑व ॥४॥ ५४ अ॒य हि त्वा॒ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय । अत॒स्त्वं दे॑व वनस्पते श॒तव॑ल्शो॒ विरो॑ह स॒हस्र॑वल्शा॒ वि व॒य रु॑हेम ॥५॥ (१०) ५५ (२९०) ॥इति शुक्लयजुः काण्वसंहितायां पञ्चमोऽध्यायः॥ ५॥ ”
अथ षष्ठोऽध्यायः । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि । यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः । दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑ । शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥१॥ अ॒ग्रे॒णीर॑सि स्वावे॒श उ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति । दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः । दिव॒मग्रे॑णास्पृक्ष॒ आन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृहीः ॥२॥ २ या ते॒ धामा॑न्यु॒श्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यासः॑ । अत्राहै॒तदु॑रुगा॒यस्य॒ विष्णोः॑ पर॒मं प॒दमव॑भारि॒ भूरि॑ ॥३॥ ३ (२९३) ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि । ब्रह्म॑ दृह क्ष॒त्रं दृ॒हायु॑र्दृह प्र॒जां दृ॑ह ॥४॥ ४ विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥५॥ ५ तद्विष्णोः॑ पर॒मं प॒द सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वी॑व॒ चक्षु॒रात॑तम् ॥६॥६॥ प॒रि॒ वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्ताम् । परी॒मं यज॑मान॒ रायो॑ मनु॒ष्या॑णाम् । दि॒वः सू॒नुर॑स्ये॒ष ते॑ पृथि॒व्याँल्लो॒क आ॑र॒ण्यस्ते॑ प॒शुः ॥७॥ (१) ७ उ॒पा॒वीर॒स्युप॑ दे॒वान् दैवी॒र्विशः॒ प्रागु॑रु॒शिजो॒ वह्नि॑तमान् । देव॑ त्वष्ट॒र्वसु॑ रम ह॒व्या ते॑ स्वदन्ताम् ॥१॥ ८ रेव॑ती॒ रम॑ध्वं॒ बृह॑स्पते धा॒रया॒ वसू॑नि । ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॑न॒ प्रति॑मुञ्चामि॒ धर्षा॒न् मानु॑षः ॥२॥ ९ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । अ॒ग्नीषोमा॑भ्यां॒ जुष्टं॒ नियु॑नज्मि । अ॒द्भ्यस्त्वौष॑धीभ्यः॒ प्रोक्षा॒म्यनु॑ त्वां मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः । अ॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि ॥३॥ १० अ॒पां पे॒रुर॑स्यापो॑ दे॒वीः स॑दन्तु । स्वा॒त्तं चि॒त्सद्दे॑वह॒विः ॥४॥ ११ सं ते॑ प्रा॒णो वाते॑न गच्छता॒ समङ्गा॑नि॒ यज॑त्रैः। सं यज॑मान आ॒शिषा॑ ॥५॥ १२ घृ॒तेना॒क्तौ प॒शूँस्त्रा॑येथा॒ रेव॑ति॒ यज॑माने । प्रि॒यं धा आवि॑श ॥६॥ १३ उ॒रोर॒न्तरि॑क्षात्स॒जूर्दे॒वेन॒ वाते॑न । अ॒स्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒न्वा॑ भव ॥७॥ १४ वर्षो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः । स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा॑ । माहि॑र्भू॒र्मा पृदा॑कुः ॥८॥(२) १५ नम॑स्त आतानान॒र्वा प्रेहि॑ । घृ॒तस्य॑ कु॒ल्या उप॑ ऋ॒तस्य॒ पथ्या॒ उप॑॥१॥ १६ देवी॑रापः शु॒द्धा वो॑ढ्व॒ सुप॑रिविष्टा दे॒वेषु॑ । सुप॑रिविष्टा व॒यं प॑रिवे॒ष्टारो॑ भूयास्म ॥२॥ १७ वाचं॑ ते शुन्धामि प्रा॒णं ते॑ शुन्धामि॒ चक्षु॑स्ते शुन्धामि॒ श्रोत्रं॑ ते शुन्धामि । नाभिं॑ ते शुन्धामि॒ मेढ्रं॑ ते शुन्धामि पा॒युं ते॑ शुन्धामि च॒रित्रा॑स्ते शुन्धामि ॥३१॥८॥ मन॑स्त॒ आप्या॑यतां॒ वाक्त॒ आप्या॑यतां प्रा॒णस्त॒ आप्या॑यतां॒ चक्षु॑स्त॒ आप्या॑यता॒ श्रोत्रं॑ त॒ आप्या॑यताम् । यत्ते॑ क्रू॒रं यदास्थि॑तं॒ तत्त॒ आप्या॑यतां॒ तत्ते॒ निष्ठ्या॑यतां॒ तत्ते॑ शुध्यतु॒ शमहो॑भ्यः ॥४॥ १९(३०९) ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ हिसीः । रक्ष॑सां भा॒गो॑ऽसि॒ निर॑स्त॒रक्षः॑ ॥५॥ २० इ॒दम॒ह रक्षो॒ऽभिति॑ष्ठामी॒दम॒ह रक्षोऽव॑बाधे। इ॒दम॒ह रक्षो॑ऽध॒मं तमो॑ नयामि ॥६॥ २१ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑थां॒ वायो॒ वे स्तो॒काना॑म् । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु॒ स्वाहा॑ । स्वाहा॑कृते ऊ॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ॥७॥(३) २२ सं ते॒ मनो॒ मन॑सा॒ सं प्रा॒णः प्रा॒णेन॑ गच्छताम् । रेळ॑स्य॒ग्निष्ट्वा॑ श्रीणा॒त्वाप॑स्त्वा॒ सम॑रिणन्॥१॥ २३ वात॑स्य त्वा॒ ध्राज्यै॑ पू॒ष्णो रह्या॑ ऊ॒ष्मणो॑ व्यथिषत् । प्रयु॑तं॒ द्वेषः॑ ॥२॥ २४ घृ॒तं घृ॑तपावानः पिबत॒ वसां॑ वसापावानः पिबत । अन्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा॑ ॥३॥ २५ दिशः॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशो॑ दि॒ग्भ्यः स्वाहा॑ । ऐ॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ निधी॑त ऐ॒न्द्र उ॑दा॒नो अङ्गे॑अङ्गे॒ निदी॑धे ॥४॥ २६ देव॑ त्वष्ट॒र्भूरि॑ ते॒ सस॑मेतु॒ स ल॑क्ष्मा॒ यद्विषु॑रूपं॒ भवा॑ति । दे॒व॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु ॥५॥ (४) २७ स॒मु॒द्रं ग॑च्छ॒ स्वाहा॑ दे॒व स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ । अ॒न्तरि॑क्षं गच्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑ । अ॒हो॒रा॒त्रे ग॑च्छ॒ स्वाहा॒ छन्दा॑सि गच्छ॒ स्वाहा॑ । द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ । य॒ज्ञं ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्यं ग॑च्छ॒ स्वाहा॑ । अ॒ग्निं वै॑श्वान॒रं ग॑च्छ॒ स्वाहा॒ मनो॑ मे॒ हार्द्य॑च्छ ॥१॥ २८ दिवं॑ ते धू॒मो ग॑च्छ॒त्व॒न्तरि॑क्षं॒ ज्योतिः॑ । पृथि॒वीं भस्म॒नापृ॑ण॒ स्वाहा॑ ॥२॥ २९ मापो मौष॑धीर्हिसी॒र्धाम्नो॑धाम्नो राज॒स्ततो॑ वरुण नो मुञ्च । यदा॒हुर॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥३॥ ३० सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु। यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥४॥३१॥ इ॒दमा॑पः॒ प्रव॑हत॒ यत्किं च॑ दुरि॒तं मयि॑। यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम्॥५॥(५) ३२ ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्माँ॒३ आवि॑वासति । ह॒विष्मा॑न् दे॒वो अ॑ध्व॒रो ह॒विष्मां॑३ अस्तु॒ सूर्यः॑ ॥१॥ ३३ (३२३) अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामि । इ॒न्द्रा॒ग्न्योर्भा॑ग॒धेयी॑ स्थ मि॒त्रावरु॑णयोर्भाग॒धेयी॑ स्थ॒। विश्वे॑षां दे॒वानां॑ भाग॒धेयी॑ स्थ ॥२॥ ३४ अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम् ॥३॥ (६) ३५ हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ ॥१॥ ३६ सोम॑ राज॒न्विश्वा॒स्त्वं प्र॒जा उ॒पाव॑रोह । विश्वा॒स्त्वां प्र॒जा उ॒पाव॑रोहन्तु ॥२॥ ३७ शृ॒णोत्व॒ग्निः स॒मिधा॒ ह॒वं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणा॑श्च दे॒वीः । श्रोता॑ ग्रावाणो वि॒दुषो॒ न य॒ज्ञ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑ ॥३॥ ३८ देवी॑रापो अपां नपा॒द्यो व॑ ऊ॒र्मिर्ह॑वि॒ष्यः॑ । इ॒न्द्रि॒यावा॑न् म॒दिन्त॑मः ॥४॥ ३९ तं दे॒वेभ्यो॑ देव॒त्रा दा॑त शुक्र॒पेभ्यः॑ । येषां॑ भा॒ग स्थ स्वाहा॑ ॥५॥ ४० कार्षि॑रसि समु॒द्रस्य॒ त्वा क्षि॑त्या॒ उन्न॑यामि । समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धीभि॒रोष॑धीः ॥६॥ ४१ यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः। स यन्ता॒ शश्व॑ती॒रिषः॒ स्वाहा॑ ॥७॥ (७) ४२ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ रावा॑सि गभी॒रमि॒मम॑ध्व॒रं कृ॒धीन्द्रा॑य सु॒षूत॑मम् । उ॒त्त॒मेन॑ प॒विनोर्ज॑स्वन्तं॒ मधु॑मन्तं॒ पय॑स्वन्तम् । नि॒ग्रा॒भ्या॑ स्थ देव॒श्रुत॑स्त॒र्पय॑त मा ॥१॥ ४३ मनो॑ मे तर्पयत॒ वाचं॑ मे तर्पयत प्रा॒णं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयत। आ॒त्मानं॑ मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शून् मे॑ तर्पयत ग॒णान्मे॑ तर्पयत ग॒णा मे॒ मा वितृ॑षन् ॥२॥ ४४ इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑त॒ इन्द्रा॑य त्वादि॒त्यव॑ते । इन्द्रा॑य त्वाभिमाति॒घ्न्ये श्ये॒नाय॑ त्वा सोम॒भृते॑ऽग्नये॑ त्वा रायस्पोष॒दे ॥३॥ ४५ यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृथि॒व्यां यदु॒रा अ॒न्तरि॑क्षे । तेना॒स्मै यज॑मानायो॒रु रा॒ये कृ॒ध्यधि॑ दा॒त्रे वो॑चः ॥४॥ ४६ श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्त्ता अ॒मृत॑स्य॒ पत्नीः॑ । ता दे॑वीर्देव॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूताः॒ सोम॑स्य पिबत ॥५॥ ४७ मा भे॒र्मा संवि॑क्था॒ ऊर्जं॑ धत्स्व॒ धिष॑णे वी॒ड्वी स॒ती वी॑ळयेथा॒मूर्जं॑ दधाथाम् । पा॒प्मा ह॒तो न सोमः॑ ॥६॥ ४८ प्रागपा॒गुद॑गध॒राक्स॒र्वत॑स्त्वा॒ दिश॒ आधा॑वन्तु । अम्ब॒ निष्प॑र॒ सम॒रीर्वि॑दाम् ॥७॥ ४९ (३३९) त्वम॒ङ्ग प्रश॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् । न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑ ॥८॥ (८) ५० (३४०) ॥इति शुक्लयजुः काण्वसंहितायां षष्ठोऽध्यायः॥ ६॥अथ षष्ठोऽध्यायः । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि । यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः । दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑ । शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥१॥ अ॒ग्रे॒णीर॑सि स्वावे॒श उ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति । दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः । दिव॒मग्रे॑णास्पृक्ष॒ आन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृहीः ॥२॥ २ या ते॒ धामा॑न्यु॒श्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यासः॑ । अत्राहै॒तदु॑रुगा॒यस्य॒ विष्णोः॑ पर॒मं प॒दमव॑भारि॒ भूरि॑ ॥३॥ ३ (२९३) ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि । ब्रह्म॑ दृह क्ष॒त्रं दृ॒हायु॑र्दृह प्र॒जां दृ॑ह ॥४॥ ४ विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥५॥ ५ तद्विष्णोः॑ पर॒मं प॒द सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वी॑व॒ चक्षु॒रात॑तम् ॥६॥६॥ प॒रि॒ वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्ताम् । परी॒मं यज॑मान॒ रायो॑ मनु॒ष्या॑णाम् । दि॒वः सू॒नुर॑स्ये॒ष ते॑ पृथि॒व्याँल्लो॒क आ॑र॒ण्यस्ते॑ प॒शुः ॥७॥ (१) ७ उ॒पा॒वीर॒स्युप॑ दे॒वान् दैवी॒र्विशः॒ प्रागु॑रु॒शिजो॒ वह्नि॑तमान् । देव॑ त्वष्ट॒र्वसु॑ रम ह॒व्या ते॑ स्वदन्ताम् ॥१॥ ८ रेव॑ती॒ रम॑ध्वं॒ बृह॑स्पते धा॒रया॒ वसू॑नि । ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॑न॒ प्रति॑मुञ्चामि॒ धर्षा॒न् मानु॑षः ॥२॥ ९ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । अ॒ग्नीषोमा॑भ्यां॒ जुष्टं॒ नियु॑नज्मि । अ॒द्भ्यस्त्वौष॑धीभ्यः॒ प्रोक्षा॒म्यनु॑ त्वां मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः । अ॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि ॥३॥ १० अ॒पां पे॒रुर॑स्यापो॑ दे॒वीः स॑दन्तु । स्वा॒त्तं चि॒त्सद्दे॑वह॒विः ॥४॥ ११ सं ते॑ प्रा॒णो वाते॑न गच्छता॒ समङ्गा॑नि॒ यज॑त्रैः। सं यज॑मान आ॒शिषा॑ ॥५॥ १२ घृ॒तेना॒क्तौ प॒शूँस्त्रा॑येथा॒ रेव॑ति॒ यज॑माने । प्रि॒यं धा आवि॑श ॥६॥ १३ उ॒रोर॒न्तरि॑क्षात्स॒जूर्दे॒वेन॒ वाते॑न । अ॒स्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒न्वा॑ भव ॥७॥ १४ वर्षो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः । स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा॑ । माहि॑र्भू॒र्मा पृदा॑कुः ॥८॥(२) १५ नम॑स्त आतानान॒र्वा प्रेहि॑ । घृ॒तस्य॑ कु॒ल्या उप॑ ऋ॒तस्य॒ पथ्या॒ उप॑॥१॥ १६ देवी॑रापः शु॒द्धा वो॑ढ्व॒ सुप॑रिविष्टा दे॒वेषु॑ । सुप॑रिविष्टा व॒यं प॑रिवे॒ष्टारो॑ भूयास्म ॥२॥ १७ वाचं॑ ते शुन्धामि प्रा॒णं ते॑ शुन्धामि॒ चक्षु॑स्ते शुन्धामि॒ श्रोत्रं॑ ते शुन्धामि । नाभिं॑ ते शुन्धामि॒ मेढ्रं॑ ते शुन्धामि पा॒युं ते॑ शुन्धामि च॒रित्रा॑स्ते शुन्धामि ॥३१॥८॥ मन॑स्त॒ आप्या॑यतां॒ वाक्त॒ आप्या॑यतां प्रा॒णस्त॒ आप्या॑यतां॒ चक्षु॑स्त॒ आप्या॑यता॒ श्रोत्रं॑ त॒ आप्या॑यताम् । यत्ते॑ क्रू॒रं यदास्थि॑तं॒ तत्त॒ आप्या॑यतां॒ तत्ते॒ निष्ठ्या॑यतां॒ तत्ते॑ शुध्यतु॒ शमहो॑भ्यः ॥४॥ १९(३०९) ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ हिसीः । रक्ष॑सां भा॒गो॑ऽसि॒ निर॑स्त॒रक्षः॑ ॥५॥ २० इ॒दम॒ह रक्षो॒ऽभिति॑ष्ठामी॒दम॒ह रक्षोऽव॑बाधे। इ॒दम॒ह रक्षो॑ऽध॒मं तमो॑ नयामि ॥६॥ २१ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑थां॒ वायो॒ वे स्तो॒काना॑म् । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु॒ स्वाहा॑ । स्वाहा॑कृते ऊ॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ॥७॥(३) २२ सं ते॒ मनो॒ मन॑सा॒ सं प्रा॒णः प्रा॒णेन॑ गच्छताम् । रेळ॑स्य॒ग्निष्ट्वा॑ श्रीणा॒त्वाप॑स्त्वा॒ सम॑रिणन्॥१॥ २३ वात॑स्य त्वा॒ ध्राज्यै॑ पू॒ष्णो रह्या॑ ऊ॒ष्मणो॑ व्यथिषत् । प्रयु॑तं॒ द्वेषः॑ ॥२॥ २४ घृ॒तं घृ॑तपावानः पिबत॒ वसां॑ वसापावानः पिबत । अन्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा॑ ॥३॥ २५ दिशः॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशो॑ दि॒ग्भ्यः स्वाहा॑ । ऐ॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ निधी॑त ऐ॒न्द्र उ॑दा॒नो अङ्गे॑अङ्गे॒ निदी॑धे ॥४॥ २६ देव॑ त्वष्ट॒र्भूरि॑ ते॒ सस॑मेतु॒ स ल॑क्ष्मा॒ यद्विषु॑रूपं॒ भवा॑ति । दे॒व॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु ॥५॥ (४) २७ स॒मु॒द्रं ग॑च्छ॒ स्वाहा॑ दे॒व स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ । अ॒न्तरि॑क्षं गच्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑ । अ॒हो॒रा॒त्रे ग॑च्छ॒ स्वाहा॒ छन्दा॑सि गच्छ॒ स्वाहा॑ । द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ । य॒ज्ञं ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्यं ग॑च्छ॒ स्वाहा॑ । अ॒ग्निं वै॑श्वान॒रं ग॑च्छ॒ स्वाहा॒ मनो॑ मे॒ हार्द्य॑च्छ ॥१॥ २८ दिवं॑ ते धू॒मो ग॑च्छ॒त्व॒न्तरि॑क्षं॒ ज्योतिः॑ । पृथि॒वीं भस्म॒नापृ॑ण॒ स्वाहा॑ ॥२॥ २९ मापो मौष॑धीर्हिसी॒र्धाम्नो॑धाम्नो राज॒स्ततो॑ वरुण नो मुञ्च । यदा॒हुर॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥३॥ ३० सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु। यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥४॥३१॥ इ॒दमा॑पः॒ प्रव॑हत॒ यत्किं च॑ दुरि॒तं मयि॑। यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम्॥५॥(५) ३२ ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्माँ॒३ आवि॑वासति । ह॒विष्मा॑न् दे॒वो अ॑ध्व॒रो ह॒विष्मां॑३ अस्तु॒ सूर्यः॑ ॥१॥ ३३ (३२३) अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामि । इ॒न्द्रा॒ग्न्योर्भा॑ग॒धेयी॑ स्थ मि॒त्रावरु॑णयोर्भाग॒धेयी॑ स्थ॒। विश्वे॑षां दे॒वानां॑ भाग॒धेयी॑ स्थ ॥२॥ ३४ अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम् ॥३॥ (६) ३५ हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ ॥१॥ ३६ सोम॑ राज॒न्विश्वा॒स्त्वं प्र॒जा उ॒पाव॑रोह । विश्वा॒स्त्वां प्र॒जा उ॒पाव॑रोहन्तु ॥२॥ ३७ शृ॒णोत्व॒ग्निः स॒मिधा॒ ह॒वं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणा॑श्च दे॒वीः । श्रोता॑ ग्रावाणो वि॒दुषो॒ न य॒ज्ञ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑ ॥३॥ ३८ देवी॑रापो अपां नपा॒द्यो व॑ ऊ॒र्मिर्ह॑वि॒ष्यः॑ । इ॒न्द्रि॒यावा॑न् म॒दिन्त॑मः ॥४॥ ३९ तं दे॒वेभ्यो॑ देव॒त्रा दा॑त शुक्र॒पेभ्यः॑ । येषां॑ भा॒ग स्थ स्वाहा॑ ॥५॥ ४० कार्षि॑रसि समु॒द्रस्य॒ त्वा क्षि॑त्या॒ उन्न॑यामि । समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धीभि॒रोष॑धीः ॥६॥ ४१ यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः। स यन्ता॒ शश्व॑ती॒रिषः॒ स्वाहा॑ ॥७॥ (७) ४२ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ रावा॑सि गभी॒रमि॒मम॑ध्व॒रं कृ॒धीन्द्रा॑य सु॒षूत॑मम् । उ॒त्त॒मेन॑ प॒विनोर्ज॑स्वन्तं॒ मधु॑मन्तं॒ पय॑स्वन्तम् । नि॒ग्रा॒भ्या॑ स्थ देव॒श्रुत॑स्त॒र्पय॑त मा ॥१॥ ४३ मनो॑ मे तर्पयत॒ वाचं॑ मे तर्पयत प्रा॒णं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयत। आ॒त्मानं॑ मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शून् मे॑ तर्पयत ग॒णान्मे॑ तर्पयत ग॒णा मे॒ मा वितृ॑षन् ॥२॥ ४४ इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑त॒ इन्द्रा॑य त्वादि॒त्यव॑ते । इन्द्रा॑य त्वाभिमाति॒घ्न्ये श्ये॒नाय॑ त्वा सोम॒भृते॑ऽग्नये॑ त्वा रायस्पोष॒दे ॥३॥ ४५ यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृथि॒व्यां यदु॒रा अ॒न्तरि॑क्षे । तेना॒स्मै यज॑मानायो॒रु रा॒ये कृ॒ध्यधि॑ दा॒त्रे वो॑चः ॥४॥ ४६ श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्त्ता अ॒मृत॑स्य॒ पत्नीः॑ । ता दे॑वीर्देव॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूताः॒ सोम॑स्य पिबत ॥५॥ ४७ मा भे॒र्मा संवि॑क्था॒ ऊर्जं॑ धत्स्व॒ धिष॑णे वी॒ड्वी स॒ती वी॑ळयेथा॒मूर्जं॑ दधाथाम् । पा॒प्मा ह॒तो न सोमः॑ ॥६॥ ४८ प्रागपा॒गुद॑गध॒राक्स॒र्वत॑स्त्वा॒ दिश॒ आधा॑वन्तु । अम्ब॒ निष्प॑र॒ सम॒रीर्वि॑दाम् ॥७॥ ४९ (३३९) त्वम॒ङ्ग प्रश॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् । न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑ ॥८॥ (८) ५० (३४०) ॥इति शुक्लयजुः काण्वसंहितायां षष्ठोऽध्यायः॥ ६॥
“अथ सप्तमोऽध्यायः । वा॒चस्पत॑ये पवस्व॒ वृष्णो॑ अ॒शुभ्यां॒ गभ॑स्तिपूतः । दे॒वो दे॒वेभ्यः॑ पवस्व॒ येषां॑ भा॒गोऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि ॥१॥ १ यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ । स्वाहो॒र्व॒न्तरि॑क्ष॒मन्वे॑मि॒ स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यः॥२॥ २ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा स्वभवः॒ सूर्या॑य । दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यो॒ देवा॑शो॒ यस्मै॒ त्वेळे॑ ॥ तत्स॒त्यमु॑परि॒प्लुता॑ भ॒ङ्गेन॑ ह॒तो॒सौ फट् । प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा ॥३॥ (१) ३ उ॒प॒या॒मगृ॑हीतो॑ऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑म् । उ॒रु॒ष्य रायोवेषो॑ यजस्व ॥१॥ ४ अ॒न्तस्ते॒ द्यावा॑पृथि॒वी द॑धाम्य॒न्तर्द॑धाम्यु॒र्व॒न्तरि॑क्षम् । स॒जूर्दे॒वेभि॒रव॑रैः॒ परै॑श्चान्तर्या॒मे म॑घवन् मादयस्व । स्वाहो॒र्व॒न्तरि॑क्ष॒मन्वे॑मि॒ स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यः । मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा स्वभवः॒ सूर्या॑य । दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ उदा॒नाय॑ त्वा ॥२॥ (२) ५ आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेयं॑ वा॒यवे॑ त्वा ॥१॥ ६ इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒राग॑तम् । इन्द॑वो वामु॒शन्ति॒ हि । उ॒प॒या॒मगृ॑हीतोऽसि वा॒यव॑ इन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनिः॑ स॒जोषो॑भ्यां त्वा ॥२॥ (३) ७ अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑त॒ हव॑म् । उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यां त्वा ॥१॥ ८ रा॒या व॒य स॑स॒वासो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ । तां धे॒नुं मि॑त्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीम् । ए॒ष ते॒ योनि॑रृता॒युभ्यां॑ त्वा ॥२॥ (४) ९ (३४९) या वां॒ कशा॒ मधु॑म॒त्याश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑मिक्षतम् । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वै॒ष ते॒ योनि॒र्माध्वी॑भ्यां त्वा ॥१॥ (५) १० तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षद॑ स्व॒र्विद॑म् । प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे॒ धुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से । उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वा ॥१॥ ११ ए॒ष ते॒ योनि॑र्वी॒रतां॑ पा॒ह्यप॑मृष्टः॒ शण्डो॑ दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑य॒न्त्वना॑धृष्टासि । सु॒वीरो॑ वी॒रान् प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् । सं॒ ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या शु॒क्रः शु॒क्रशो॑चिषा॒ निर॑स्तः॒ शण्डः॑ शु॒क्रस्या॑धि॒ष्ठान॑मसि ॥२॥ १२ अच्छि॑न्नस्य ते देव सोम सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तारः॑ स्याम । सा प्र॑थ॒मा सस्कृ॑तिर्वि॒श्ववा॑रा॒ स प्र॑थ॒मो वरु॑णो मि॒त्रो अ॒ग्निः ॥३॥ १३ स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वास्तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होत॒ स्वाहा॑ । तृ॒म्पन्तु॒ होत्रा॒ मधो॒र्यत्स्वि॑ष्टँ॒ यत्सुभृ॑तं॒ यत्स्वाहा॑ ॥४॥ (६) १४ अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ । इ॒मम॒पा सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति । उ॒प॒या॒मगृ॑हीतोऽसि॒ मर्का॑य त्वा ॥१॥ १५ मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्रव॑न्ता । आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्या श्री॑णीता॒दिशं॒ गभ॑स्तौ ॥२॥ १६ ए॒ष ते॒ योनिः॑ प्र॒जाः पा॒ह्यप॑मृष्टो॒ मर्को॑ दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑य॒न्त्वना॑धृष्टासि । सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् । सं॒ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या म॒न्थी म॒थिशो॑चिषा॒ निर॑स्तो॒ मर्को॑ म॒न्थिनो॑ऽधि॒ष्ठान॑मसि ॥३॥ १७ अच्छि॑न्नस्य ते देव सोम सु॒वीर्य॑स्य ददि॒तारः॑ स्याम। सा प्र॑थ॒मा सस्कृ॑तिर्वि॒श्ववा॑रा॒ स प्र॑थ॒मो वरु॑णो मि॒त्रो अ॒ग्निः॥४॥ १८ स प्र॑थ॒मो बृह॒स्पति॑श्चिकिस्तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होत॒ स्वाहा॑। तृ॒म्पन्तु॒ होत्रा॒ भधो॒र्यत्स्वि॑ष्टं॒ यत्सुभृ॑तं॒ यत्स्वाहा॑ ॥५॥ (७) १९ ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ । अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम् ॥१॥ २० उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒ स्वा॑ग्रयणः । पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिम् ॥२॥ २१(३६१) विष्णु॒स्त्वामि॑न्द्रि॒येण॑ पातु॒ विष्णुं॒ त्वं पा॑ह्य॒भि सव॑नानि पाहि । सोमः॑ पवते॒ सोमः॑ पवते॒ सोमः पवते ॥३॥ २२ अ॒स्मै ब्रह्म॑णे पवते॒ऽस्मै क्ष॒त्राय॑ पवते॒ऽस्मै सु॑न्व॒ते यज॑मानाय पवते । इ॒ष ऊ॒र्जे प॑वते॒ऽद्भ्य ओष॑धीभ्यः पवते॒ द्यावा॑पृथि॒वीभ्यां॑ पवते सुभू॒ताय॑ पवते ब्रह्मवर्च॒साय॑ पवते। विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥४॥ (८) २३ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒युवं॑ गृह्णामि । यत्त॑ इन्द्र बृ॒हद्व॑य॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वै॒षते॒ योनि॑रु॒क्थेभ्य॑स्त्वा ॥१॥ २४ दे॒वेभ्य॑स्त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे मि॒त्रावरु॑णाभ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे । इन्द्रा॑य त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑ष इन्द्रा॒ग्निभ्यां॑ त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे । इन्द्रा॑य त्वा देवायुवं॑ गृह्णामि य॒ज्ञस्यायु॑ष॒ इन्द्रा॒वरु॑णाभ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे । इन्द्रा॒बृह॒स्पति॑भ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑ष॒ इन्द्रा॒विष्णु॑भ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे ॥२॥ (९) २५ मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् । क॒वि स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥१॥ २६ उ॒प॒या॒मगृ॑हीतोऽसि ध्रु॒वो॑ऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां॑ ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑मः । ए॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ॥२॥ २७ ध्रु॒वं ध्रु॒वेण॒ मन॑सा वा॒चा सोम॒मव॑नयामि । अथा॑ न॒ इन्द्र॒ इद्विशो॑ सप॒त्नाः सम॑नस॒स्कर॑त् ॥३॥ (१०) २८ यस्ते॑ द्र॒प्स स्कन्द॑ति॒ यस्ते॑ अ॒शुर्ग्राव॑च्युतो धि॒षण॑योरु॒पस्था॑त् । अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृत॒ स्वाहा॑ दे॒वाना॑मु॒त्क्रम॑णमसि ॥१॥(११) २९ उ॒प॒या॒मगृ॑हीतोऽसि॒ मध॑वे त्वोपया॒मगृ॑हीतोऽसि॒ माध॑वाय त्वा । उ॒प॒या॒मगृ॑हीतोऽसि शु॒क्राय॑ त्वोपया॒मगृ॑हीतोऽसि॒ शुच॑ये त्वा । उ॒प॒या॒मगृ॑हीतोऽसि॒ नभ॑से त्वोपया॒मगृ॑हीतोऽसि॒ नभ॒स्या॑य त्वा । उ॒प॒या॒मगृ॑हीतोऽसी॒षे त्वो॑पया॒मगृ॑हीतो स्यू॒र्जे त्वा॑ । उ॒प॒या॒मगृ॑हीतोऽसि॒ सह॑से त्वोपया॒मगृ॑हीतोऽसि सह॒स्या॑य त्वा । उ॒प॒या॒मगृ॑हीतोऽसि॒ तप॑से त्वोपया॒मगृ॑हीतोऽसि तप॒स्या॑य त्वा । उ॒प॒या॒मगृ॑हीतोऽस्य हसस्प॒तये॑ त्वा ॥१॥ (१२) ३० इन्द्रा॑ग्नी॒ आग॑त सु॒तं गी॒र्भिर्नमो॒ वरे॑ण्यम् । अ॒स्य पा॑तं धि॒येषि॒ता । उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा ॥१॥ (१३) ३१ आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा॑ । उ॒प॒या॒मगृ॑हीतोऽस्यग्नी॒न्द्राभ्यां॑ त्वै॒ष ते॒ योनि॑रग्नी॒न्द्राभ्यां॑ त्वा ॥१॥ (१४) ३२ ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वासो॑ दा॒शुषः॑ सु॒तम् । उ॒पया॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥१॥ (१५) ३३ विश्वे॑ देवास॒ आग॑त शृणु॒ता म॑ इ॒म हव॑म् । एदं ब॒र्हिर्निषी॑दत । उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥१॥ (१६) ३४ इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बं सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्नावि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥१॥ (१७) ३५ म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्य शा॒समिन्द्र॑म् । वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्र स॑हो॒दामि॒ह त हु॑वेम । उ॒पया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥१॥ (१८) ३६ उ॒प॒या॒मगृ॑हीतोऽसि म॒रुतां ओज॑से त्वा ॥१॥ (१९) ३७ स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् । ज॒हि शत्रू॒ रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥१॥ (२०) ३८ म॒हाँ३ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः । अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् । उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥१॥ (२१) ३९ म॒हाँ३ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॒ वृष्टि॒माँ३ इ॑व स्तोमै॑र्व॒त्सस्य॑ वावृधे । उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥१॥ (२२) ४० (३८०) ॥इति शुक्लयजुः काण्वसंहितायां सप्तमोऽध्यायः॥ (७)
“अथाष्टमोऽध्यायः । क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यत आदि॒त्येभ्य॑स्त्वा ॥१॥ १ क॒दा च॒न प्रयु॑च्छस्यु॒भे निपा॑सि॒ जन्म॑नी । तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमात॑स्था अ॒मृतं॑ दि॒व्या॑दि॒त्येभ्य॑स्त्वा ॥२॥ २ य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑दादि॒त्येभ्य॑स्त्वा । विव॑स्वाँ३ आदित्यै॒ष ते॑ सोमपी॒थस्तस्मि॑न् मत्स्व ॥३॥ (१) श्रद॑स्मै नरो॒ वच॑से दधातन॒ यदा॑शी॒र्दा दम्प॑ती वा॒मम॑श्नुतः । पुमा॑न् पु॒त्रो जा॑यते वि॒न्दते॒ वस्वधा॑ वि॒श्वाहा॑र॒प ए॑धते गृ॒हे ॥१॥ (२) ४ वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्य॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥१॥(३) ५ उ॒प॒या॒मगृ॑हीतोऽसि सावि॒त्रो॑ऽसि चनो॒धाश्चनो॒ मयि॑ धेहि । जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिं॒ भगा॑य सवि॒त्रे त्वा॑ ॥१॥(४) ६ उ॒प॒या॒मगृ॑हीतोऽसि सु॒शर्मा॑सि सुप्रतिष्ठा॒नो बृ॒हदु॑क्षाय॒ नमः॑ । विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥१॥ (५) ७ उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पति॑सुतस्य ते देव सोम। इन्द॑ इन्द्रि॒याव॑तः॒ पत्नी॑वतो॒ ग्रहाँ॑३ ऋध्यासम् ॥१॥ ८ अ॒हं प॒रस्ता॑द॒हम॒वस्ता॒द्यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒तास॑ । अ॒ह सूर्य॑मुभ॒यतो॑ ददर्शा॒हं दे॒वानां॑ पर॒मं गुहा॒ यत् ॥२॥ ९ अग्ने॒ वाक्पत्नि॑ सजूर्दे॒वेन॒ त्वष्ट्रा॑ ।सोमं॑ पिब॒ स्वाहा॑ ॥३॥ १० प्र॒जाप॑ति॒र्वृषा॑सि रेतो॒धा रेतो॒ मयि॑ धेहि । प्र॒जाप॑तेस्ते॒ वृष्णो॑ रेतो॒धसो॑ रेतो॒धाम॑शीय ॥४॥ (६) ११ उ॒प॒या॒मगृ॑हीतोऽसि॒ हरि॑रसि हारियोज॒नो हरि॑भ्यां त्वा । हर्यो॑र्धा॒ना स्थ॑ स॒हसो॑ मा॒ इन्द्रा॑य ॥१॥ १२ यस्ते॑ देव सोमश्व॒सनि॑र्भ॒क्षो यो गो॒सनिः॑ । तस्य॑ त इ॒ष्टय॑जुष स्तु॒तस्तो॑मस्य श॒स्तोक्थ॒स्योप॑हूत॒ उप॑हूतस्य भक्षयामि ॥२॥ (७) १३ (३९३) यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा । अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोळ॒शिन॑ । ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोळ॒शिने॑ ॥१॥ (८) १४ आति॑ष्ठ वृत्रह॒न् रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ । अ॒र्वा॒चीन॒ सु ते॒ मनो॒ग्रावा॑ कृणोतु व॒ग्नुना॑ । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोळ॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोळ॒शिने॑ ॥१॥ (९) १५ इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् । ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोळ॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोळ॒शिने॑ ॥१॥ (१० ) १६ यस्मा॒न्न जा॒तः परो॑ अ॒न्यो अस्ति॒ य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ । प्र॒जाप॑तिः प्र॒जया॑ सररा॒णस्त्रीणि॒ ज्योती॑षि सचते॒ स षो॑ळ॒शी ॥१॥ १७ इन्द्र॑श्च स॒म्राड् वरु॑णश्च॒ राजा॒ तौ ते॑ भ॒क्षं च॑क्रतु॒रग्र॑ ए॒तम् । तयो॑र॒हमनु॑ भ॒क्षं भ॑क्षयामि॒ वाग्दे॒वी जु॑षा॒णा सोम॑स्य तृप्यतु स॒ह प्रा॒णेन॒ स्वाहा॑ ॥२॥ (११) १८ अग्न॒ आयू॑षि पवस॒ आसु॒वोर्ज॒मिषं॑ च नः। आ॒रे बा॑धस्व दु॒च्छुना॑म्। उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से। अग्ने॑ वर्चस्व॒न्वर्च॑स्वा॒स्त्वं दे॒वेष्वसि॑। वर्च॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥ (१२) १९ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् । दध॑द्र॒यिं मयि॒ पोष॑म् । उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से । अग्ने॑ वर्चस्व॒न्वर्च॑स्वा॒स्त्वं दे॒वेष्वसि॑ । वर्च॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥ (१३) २० उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑स ए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वौज॑से । इन्द्रौ॑जस्व॒न्नोज॑स्वा॒स्त्वं दे॒वेष्वसि॑। ओज॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥ (१४) २१ अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒३ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा । उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒ज ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जे । सूर्य॑ भ्राजस्व॒न्भ्राज॑स्वा॒स्त्वं दे॒वेष्वसि॑ । भ्राज॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥(१५) २२ उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् । उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒ज ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जे । सूर्य॑ भ्राजस्व॒न्भ्राज॑स्वा॒स्त्वं दे॒वेष्वसि॑ । भ्राज॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥(१६) २३ (४०३) चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आ प्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च। उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒ज ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जे । सूर्य॑ भ्राजस्व॒न्भ्राज॑स्वा॒स्त्वं दे॒वेष्वसि॑ । भ्राज॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥(१७) २४ वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । यो अ॒स्माँ३ अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒मृध॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒मृधे॑ ॥१॥ (१८) २५ वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ॥१॥ (१९) २६ विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् । मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माकं॑ म॒घवा॑ सुरिर॑स्तु । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ॥१॥ (२०) २७ विश्व॑कर्मन्ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरयु॒ध्यम्। तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथास॑त् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ॥१॥ (२१) २८ उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा गाय॒त्रच्छ॑न्दसं गृह्णा॒मीन्द्रा॑य त्वा त्रि॒ष्टुप्छ॑न्दसं गृह्णामि । विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जग॑च्छन्दसं गृह्णाम्यनु॒ष्टुप्ते॑ऽभिग॒रः ॥१॥ २९ व्रेशी॑नां त्वा॒ पत्म॒न्नाधू॑नोमि कुकू॒नना॑नां त्वा॒ पत्म॒न्नाधू॑नोमि भ॒न्दना॑नां त्वा॒ पत्म॒न्नाधू॑नोमि॒ मध्व॑न्तमानां त्वा॒ पत्म॒न्नाधू॑नोमि । शु॒क्रं त्वा॑ शु॒क्र आधू॑नो॒म्यह्नो॑ रू॒पे सूर्य॑स्य र॒श्मिषु॑ ॥२॥ ३० क॒कु॒ह रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हत्सोमः॒ सोम॑स्य पुरो॒गाः शु॒क्रः शु॒क्रस्य॑ पुरो॒गाः । यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृवि॒ तस्मै॑ त्वा गृह्णामि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ ॥३॥ ३१ (४११) उ॒शिक् त्वं दे॑व सोमा॒ग्नेः प्रि॒यं पाथोऽपी॑हि व॒शी त्वं दे॑व सो॒मेन्द्र॑स्य प्रि॒यं पाथोऽपी॑हि । अ॒स्मत्स॑खा॒ त्वं दे॑व सोम॒ विश्वे॑षां दे॒वानां॑ प्रि॒यं पाथोऽपी॑हि ॥४॥ (२२) ३२ (४१२) ॥इति शुक्लयजुः काण्वसंहितायां अष्टमोऽध्यायः॥(८)
अथ नवमोऽध्यायः । प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्व व्या॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्व । उ॒दा॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्व वा॒चे मे॑ वर्चो॒दा वर्च॑से पवस्व ॥१॥ १ क्रतू॒दक्षा॑भ्यां मे वर्चो॒दा वर्च॑से पवस्व॒ श्रोत्रा॑य मे वर्चो॒दा वर्च॑से पवस्व । चक्षु॑र्भ्यां मे वर्चो॒दसौ॒ वर्च॑से पवेथाम् ॥२॥ २ आ॒त्मने॑ मे वर्चो॒दा वर्च॑से पव॒स्वौज॑से मे वर्चो॒दा वर्च॑से पव॒स्वायु॑षे मे वर्चो॒दा वर्च॑से पवस्व । विश्वा॑भ्यो मे प्र॒जाभ्यो॑ वर्चो॒दसौ॒ वर्च॑से पवेथाम् ॥३॥ ३ को॑ऽसि कत॒मो॑ऽसि॒ कस्या॑सि॒ को नामा॑सि । यस्य॑ ते॒ नामामन्म॑हि॒ यं त्वा॒ सोमे॒नाती॑तृपाम ॥४॥ ४ भूर्भुवः॒ स्वः॑ सुप्र॒जाः प्र॒जया॑ भूयासम् । सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑ ॥५॥ (१) ५ उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥१॥ ६ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आ प्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥२॥ ७ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ॥३॥ ८ अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन् । अ॒यं वाजां॑ जयतु॒ वाज॑साता अ॒य शत्रूं॑ जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑ ॥४॥ ९ (४२१) रू॒पेण॑ वो रू॒पम॒भ्यागां॑ तु॒थो वो॑ वि॒श्ववे॑दा॒ विभ॑जतु । ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणाः ॥५॥ १० वि स्वः॒ पश्य॒व्य॒न्तरि॑क्षं॒ यत॑स्व सद॒स्यैः॑ ।ब्रा॒ह्म॒णम॒द्य वि॑देय पितृ॒मन्तं॑ पैतृम॒त्यमृषि॑मार्षे॒य सु॒धातु॑दक्षिणम् ॥६॥ ११ अ॒स्मद्रा॑ता देव॒त्रा ग॑च्छ प्रदा॒तार॒मावि॑श । अ॒ग्नये॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् ॥७॥ १२ आयु॑र्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे । रु॒द्राय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् । प्रा॒णो दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे। बृह॒स्पत॑ये त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् । त्वग्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे । य॒माय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् । वयो॑ दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे ॥८॥ १३ को॑ऽदा॒त्कस्मा॑ अदा॒त्कामो॑ऽदा॒त्कामा॑यादात् । कामो॑ दा॒ता कामः॑ प्रतिग्रही॒ता कामै॒तत्ते॒ तव॑ काम स॒ता भु॑नजामहै ॥९॥(२) १४ समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ स सू॒रिभि॑र्मघव॒न्त्सस्व॒स्त्या । सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्ति॒ सं दे॒वाना॑ सुम॒तौ य॒ज्ञिया॑नाम् ॥१॥ १५ सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ स शि॒वेन॑ । त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो॒ यद्विलि॑ष्टम् ॥२॥ १६ धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्निधि॒पा दे॒वो अ॒ग्निः । त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सररा॒णो यज॑मानाय॒ द्रवि॑णं दधातु ॥३॥ १७ सु॒गा वो॑ देवाः॒ सद॑ना अकर्म॒ य आ॑ज॒ग्मेद सव॑नं जुषा॒णाः । भर॑माणा॒ वह॑माना ह॒वीष्य॒स्मे ध॑त्त वसवो॒ वसू॑नि ॥४॥ १८ याँ३ आव॑ह उश॒तो दे॑व दे॒वास्तान्प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑ । ज॒क्षि॒वासः॑ पपि॒वास॑श्च॒ विश्वेऽसुं॑ घ॒र्म स्व॒राति॑ष्ठ॒तानु॑ ॥५॥ १९ व॒य हि त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्नग्ने॒ होता॑र॒मवृ॑णीमही॒ह । ऋध॑गया॒ ऋध॑गु॒ताश॑मिष्ठाः प्रजा॒नन्य॒ज्ञमुप॑याहि वि॒द्वान् ॥६॥ २० देवा॑ गातुविदो गा॒तुमि॒त्त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मं दे॑व य॒ज्ञ स्वाहा॒ वाते॑ धाः ॥७॥ २१ यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं गच्छ॒ स्वां योनिं॑ गच्छ॒ स्वाहा॑ । ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाकः॒ सर्व॑वीर॒स्तं जु॑षस्व॒ स्वाहा॑ ॥८॥ (३) २२ (४३४) माहि॑र्भू॒र्मा पृदा॑कुः । उ॒रु हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् । नमो॒ वरु॑णाया॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाशः॑ ॥१॥ २३ अ॒ग्नेरनी॑कम॒प आवि॑वेशा॒पां नपा॑त् प्रति॒रक्ष॑न्नसु॒र्य॑म् । दमे॑दमे स॒मिधं॑ यक्ष्यग्ने॒ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्य॒त् स्वाहा॑ ॥२॥ २४ स॒मु॒द्रे ते॒ हृद॑यम॒प्स्व॒न्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒तापः॑ । य॒ज्ञस्य॑ त्वा यज्ञपते सू॒क्तोक्तौ॑ नमोवा॒के वि॑धेम॒ यत् स्वाहा॑ ॥३॥ २५ देवी॑राप ए॒ष वो॒ गर्भ॒स्त सुप्री॑त॒ सुभृ॑तं बिभृत । देव॑ सोमै॒ष ते॑ लो॒कः परि॑ च॒ वक्षि॒ शं च॑ वक्षि । अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पुण । अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि । दे॒वाना॑ स॒मिद॑सि ॥४॥ (४) २६ एज॑तु॒ दश॑मास्यो॒ गर्भो॑ ज॒रायु॑णा स॒ह । यथा॒यं वा॒युरेज॑ति॒ यथा॑ समु॒द्र एज॑त्ये॒वायं दश॑मास्यो॒ अस्र॑ज्ज॒रायु॑णा स॒ह ॥१॥ २७ यस्या॑स्ते य॒ज्ञियो॒ गर्भो॒ यस्या॒ योनि॑र्हिर॒ण्ययी॑ । अङ्गा॒न्यह्रु॑ता॒ यस्य॒ तं मा॒त्रा सम॑जीगम॒ स्वाहा॑ ॥२॥ २८ पु॒रु॒द॒स्मो विषु॑रूप॒ इन्दु॑र॒न्तर्म॑हि॒मान॑मानञ्ज॒ धीरः॑ । एक॑पदीं द्वि॒पदीं॑ त्रि॒पदीं॒ चतु॑ष्पदीम॒ष्टाप॑दीं॒ भुव॒नानु॑ प्रथन्ता॒ स्वाहा॑ ॥३॥ २९ मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जनः॑ ॥४॥ ३० म॒ही द्यौः॑ पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥५॥ (५) ३१ आजि॑घ्र क॒लशं॑ म॒ह्या त्वा॑ विश॒न्त्विन्द॑वः। पुन॑रू॒र्जा निव॑र्तस्व॒ सा नः॑ स॒हस्रं॑ धुक्ष्वो॒रुधा॑रा॒ पय॑स्वती॒ पुन॒र्मावि॑शताद्र॒यिः ॥१॥ ३२ हव्ये॒ काम्य॒ इळे॒ रन्ते॒ चन्द्रे॒ ज्योतेऽदि॑ते॒ सर॑स्वति॒ महि॒ विश्रु॑ति । ए॒ता ते॑ अघ्न्ये॒ नामा॑नि दे॒वेषु॑ मा सु॒कृतं॑ ब्रूतात् ॥२॥ ३३ इ॒ह रति॑रि॒ह र॑मध्वमि॒ह धृति॑रि॒ह स्वधृ॑तिः॒ स्वाहा॑ । उ॒प॒सृ॒जं ध॒रुणं॑ मा॒त्रे ध॒रुणो॑ मा॒तरं॒ धय॑न्रा॒यस्पोष॑म॒स्मासु॑ दीधर॒त् स्वाहा॑ ॥३॥ ३४ अग॑न्म॒ ज्योति॑र॒मृता॑ अभूम॒ दिवं॑ पृथि॒व्या अध्यारु॑हाम् । अवि॑दाम दे॒वान्त्स्व॒र्ज्योतिः॑ ॥४॥ ३५ (४४७) यु॒वं तमि॑न्द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे॑ण॒ तंत॒मिद्ध॑तम् । दू॒रे च॒त्ताय॑ छन्त्स॒द्गह॑नं॒ यदिन॑क्षद॒स्माक॒ शत्रू॒न् परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्शीष्ट वि॒श्वतः॑ ॥५॥ ३६ भूर्भुवः॒ स्वः॑ सुप्र॒जाः प्र॒जया॑ भूयासम् । सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑ ॥६॥ (६) ३७ प॒र॒मे॒ष्ठ्य॒भिधी॑तः प्र॒जाप॑तिर्वा॒चि व्याहृ॑ताया॒मन्धो॒ अच्छे॑तः सवि॒ता स॒न्याम् । वि॒श्वक॑र्मा दी॒क्षायां॑ पू॒षा सो॑म॒क्रय॑ण्याम् ॥१॥ ३८ इन्द्र॑श्च म॒रुत॑श्च क्र॒यायो॒पोत्थि॑तः । असु॑रः प॒ण्यमा॑नो मि॒त्रः क्री॒तः ॥२॥ ३९ विष्णुः॑ शिपिवि॒ष्ट ऊ॒रा आस॑न् नो॒ विष्णु॑र्न॒रन्धि॑षः प्रो॒ह्यमा॑णः । सोम॒ आग॑तो॒ वरु॑ण आस॒न्द्यामास॑न्नः ॥३॥ ४० अ॒ग्निराग्नी॑ध्र॒ इन्द्रो॑ हवि॒र्धाने॑ । अथ॑र्वोपावह्रि॒यमा॑णो॒ विश्वे॑ दे॒वा अ॒शुषु॑ न्यु॒प्यमा॑नेषु ॥४॥ ४१ विष्णु॑राप्रीत॒पा आ॑प्या॒य्यमा॑नो य॒मः सू॒यमा॑नो॒ विष्णुः॑ संभ्रि॒यमा॑णः । वा॒युः पू॒यमा॑नः शु॒क्रः पू॒तः ॥५॥ ४२ शु॒क्रः क्षी॑र॒श्रीर्म॒न्थी स॑क्तु॒श्रीः । विश्वे॑ दे॒वाश्च॑म॒सेषू॑न्नी॒तोऽसु॒र्होमा॒योद्य॑तः ॥६॥ ४३ रु॒द्रो हू॒यमा॑नो॒ वातो॒ऽभ्यावृ॑त्तो नृ॒चक्षाः॒ प्रति॑ख्यातो भ॒क्षः पी॒तः पि॒तरो॑ नाराश॒ साः सा॒द्यमा॑नः । सिन्धु॑रवभृ॒थायोद्य॑तः समु॒द्रो॑ऽभ्यवह्रि॒यमा॑णः । स॑लि॒लः प्रप्लु॑तः॥७॥ ४४ ययो॒रोज॑सा स्कभि॒ता रजा॑सि वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा । या पत्ये॑ते॒ अप्र॑तीता॒ सहो॑भि॒र्विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ॥८॥ ४५ दे॒वान् दिव॑मगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु मनु॒ष्या॑न॒न्तरि॑क्षमगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु । पि॒तॄन् पृ॑थि॒वीम॑गन्य॒ज्ञः ततो॑ मा॒ द्रवि॑णमष्टु॒ यं कं च॑ लो॒कमग॑न्य॒ज्ञस्ततो॑ मे भ॒द्रम॑भूत् ॥९॥(७) ४६ (४५८) ॥इति शुक्लयजुः काण्वसंहितायां नवमोऽध्यायः॥ (९)
“अथ दशमोऽध्यायः । देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑वे॒मं भगा॑य । दि॒व्यो ग॑न्ध॒र्वः के॑त॒पाः केतं॑ नः पुनातु वा॒चस्पति॑र्नो अ॒द्य वाज॑ स्वदतु ॥१॥ १ ध्रु॒व॒सदं॑ त्वा नृ॒षदं॑ मनः॒सद॑म् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥२॥ २(४६०) अ॒प्सु॒षदं॑ त्वा घृत॒सदं॑ व्योम॒सद॑म् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् । पृ॒थि॒वी॒सदं॑ त्वाऽन्तरिक्ष॒सदं॑ दिवि॒सदं॑ देव॒सदं॑ नाक॒सद॑म् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥३॥ अ॒पा रस॒मुद्व॑यस॒ सूर्ये॒ सन्त॑ स॒माहि॑तम् । अ॒पा रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒मम् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥४॥ ४ ग्रहा॑ ऊर्जाहुतयो॒ व्यन्तो॒ विप्रा॑य म॒तिम् । तेषां॒ विशि॑प्रियाणां वो॒ऽहमिष॒मूर्ज॒ सम॑ग्रभम् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥५॥ ५ सं॒पृच॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त । वि॒पृच॑ स्थ॒ वि मा॑ पा॒पेन॑ पृङ्क्त ॥६॥(१)६ इन्द्र॑स्य॒ वज्रो॑ऽसि वाज॒सास्त्वया॒ यं वाज॑ सेत् । वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे । यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषक् ॥१॥ ७ देवी॑रापो अपांनपा॒द्यो व॑ ऊ॒र्मिः प्रतू॑र्तिः। क॒कुन्मा॑न् वाज॒सास्तेना॒यं वाज॑सेत् ॥२॥ ८ अ॒प्स्व॒न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तिभिः । अश्वा॒ भव॑त वा॒जिनः॑ ॥३॥ ९ वातो॑ वा वो॒ मनो॑ वा गन्ध॒र्वाः स॒प्तवि॑शतिः । ते अग्रेऽश्व॑मयुञ्ज॒स्ते अ॑स्मिन्ज॒वमाद॑धुः ॥४॥ १० वात॑रहा भव वाजिन्यु॒ज्यमा॑न॒ इन्द्र॑स्येव॒ दक्षि॑णः श्रि॒यैधि॑ । यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववेद॑स॒ आ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु ॥५॥ ११ ज॒वो यस्ते॑ वाजि॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने परी॑त्तो॒ अच॑रच्च॒ वाते॑ । तेन॑ नो वाजि॒न् बल॑वा॒न् बले॑न वाज॒जिच्चै॒धि सम॑ने च पारयि॒ष्णुः ॥६॥ १२ वाजि॑नो वाजजितो॒ वाज॑ सरि॒ष्यन्तः॑ । बृह॒स्पते॑र्भा॒गमव॑जिघ्रत ॥७॥(२) १३ दे॒वस्य॑ व॒य स॑वि॒तुः स॒वे स॒त्यस॑वसः । बृह॒स्पते॑रुत्त॒मं नाक॑ रुहे॒मेन्द्र॑स्योत्त॒मं नाक॑ रुहेम । दे॒वस्य॑ व॒य स॑वि॒तुः स॒वे स॒त्यस॑वसः । बृह॒स्पते॑रुत्त॒मं नाक॑मरुहा॒मेन्द्र॑स्योत्त॒मं नाक॑मरुहाम ॥१॥ १४ बृह॑स्पते॒ वाजं॑ जय॒ बृह॒स्पत॑ये॒ वाचं॑ वदत । बृह॒स्पतिं॒ वाजं॑ जापयत ॥२॥ १५ इन्द्र॒ वाजं॑ ज॒येन्द्रा॑य॒ वाचं॑ वदत । इन्द्रं॒ वाजं॑ जापयत ॥३॥ १६ ए॒षा वः॒ सा स॒त्या सं॒वाग॑भू॒द्यया॒ बृह॒स्पतिं॒ वाज॒मजी॑जपत । आजी॑जपत॒ बृह॒स्पतिं॒ वाचं॒ वन॑स्पतयो॒ विमु॑च्यध्वम् ॥४॥ १७ दे॒वस्य॑ व॒य स॑वि॒तुः स॒वे स॒त्यस॑वसः । बृह॒स्पते॑र्वाज॒जितो॒ वाजं॑ जेषम् ॥५॥ १८ (४७६) वाजि॑नो॒ वाजं॑ जय॒ताध्व॑न स्क॒भ्नन्तः॑ । योज॑ना॒ मिमा॑नाः॒ काष्ठां॑ गच्छत ॥६॥ १९ ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑ स॒न्तवी॑त्वत्प॒थामङ्का॒स्यन्वा॒पनी॑फणत् ॥७॥२०॥ उ॒त स्मा॑स्य॒ द्रव॑तस्तुरणय॒तः प॒र्णं न वेरनु॑वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ॥८॥२१॥ शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः । ज॒म्भय॒न्तोऽहिं॒ वृक॒ रक्षा॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥९॥ २२ ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः । स॒ह॒स्र॒सा मे॒धसा॑ता इव॒ त्मना॑ म॒हो ये धन॑ समि॒थेषु॑ जभ्रि॒रे ॥१०॥॥ २३ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः । अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥११॥॥ २४ आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒देमे द्यावा॑पृथि॒वी वि॒श्वरू॑पे । आ मा॑ गंतं पितरा मातरा यु॒वमा मा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ॥१२॥ २५ वाजि॑नो वाजजितो॒ वाज॑ ससृ॒वासः॑। बृह॒स्पते॑र्भा॒गमव॑जिघ्रत निमृजा॒नाः ॥१३॥(३) २६ आ॒पये॒ स्वाहा॑ स्वा॒पये॒ स्वाहा॑ऽपि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॑ । वस॑वे॒ स्वाहा॑ह॒र्पत॑ये॒ स्वाहा॑ । अह्ने॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनशि॒नाय॒ स्वाहा॑ विन॒शिन॑ आन्त्याय॒नाय॒ स्वाहान्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाधि॑पतये॒ स्वाहा॑ ॥१॥ २७ आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पताम् । पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥२॥ २८ जाय॒ एहि॒ स्वो॒ रोहा॑व । प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ स्व॑र्देवा अगन्मा॒मृता॑ अभूम ॥३॥ २९ अ॒स्मे वो॑ अस्त्विन्द्रि॒यम॒स्मे नृ॒म्णमु॒त क्रतुः॑ । अ॒स्मे वर्चा॑सि सन्तु वः ॥४॥ ३० नमो॑ मा॒त्रे पृ॑थि॒व्या इ॒यं ते॒ राड्य॒न्तासि॒ यम॑नः । ध्रु॒वो॑ऽसि ध॒रुणः॑ कृ॒ष्यै क्षेमा॑य र॒य्यै पोषा॑य ॥५॥ (४) ३१ वाज॑स्ये॒मं प्र॑स॒वः सु॑षु॒वेऽग्रे॒ सोम॒ राजा॑न॒मोष॑धीष्व॒प्सु । ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒य रा॒ष्ट्रे जा॑गृयाम पु॒रोहि॑ताः ॥१॥ ३२ वाज॑स्ये॒दं प्र॑स॒व आब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ । सने॑मि॒ राजा॒ परि॑याति वि॒द्वान् र॒यिं पुष्टिं॑ व॒र्धय॑मानो अ॒स्मे ॥२॥ ३३ (४९१) वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् । आदि॑त्सन्तं दापयति प्रजा॒न्त्स नो॑ र॒यि सर्व॑वीरं॒ निय॑च्छतु॒ ॥३॥ ३४ अग्ने॒ अच्छा॑वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव । प्र नो॑ यच्छ सहस्रजि॒त्त्वहि ध॑न॒दा असि॑ ॥४॥३॥५॥ सोम॒ राजा॑न॒मव॑से॒ऽग्निम॒न्वार॑भामहे । आ॒दि॒त्यान् विष्णु॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥५॥ ३६ प्र नो॑ यच्छत्वर्य॒मा प्र पू॒षा प्र सर॑स्वती । प्र वाग्दे॒वी द॑दातु नः॥६॥ ३७ अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वाचं॒ विष्णु॒ सर॑स्वती सवि॒तारं॑ च वा॒जिन॑म् ॥७॥ ३८ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । सर॑स्वत्यै वा॒चो यन्तुर्ये॒ दधामि । बृह॒स्पते॑ष्ट्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य त्वा साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥८॥ (५) ३९ अ॒ग्निरेका॑क्षरेण प्रा॒णमुद॑जय॒त् तमुज्जे॑षम॒श्विनौ॒ द्व्य॑क्षरेण द्वि॒पदो॑ मनु॒ष्या॒नुद॑जयतां॒ तानुज्जे॑षम् । विष्णु॒स्त्र्य॑क्षरेण॒ त्रीनि॒माँल्लो॒कानुद॑जय॒त्तानुज्जे॑ष॒ सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जय॒त्तानुज्जे॑षम् ॥१॥ ४० पू॒षा पञ्चा॑क्षरेण॒ पञ्च॑ ऋ॒तूनुद॑जय॒त्तानुज्जे॑ष सवि॒ता षळ॑क्षरेण॒ षळृ॒तूनुद॑जय॒त्तानुज्जे॑षम् ॥ म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्त ग्रा॒म्यान् पशू॒नुद॑जय॒स्तानुज्जे॑षं॒ बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय॒त्तामुज्जे॑षम् ॥२॥ ४१ मि॒त्रो नवा॑क्षरेण त्रि॒वृत॒ स्तोम॒मुद॑जय॒त् तमुज्जे॑षं वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒त्तामुज्जे॑षम् । इन्द्र॒ एकाद॑शाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒त्तामुज्जे॑षं॒ विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जय॒स्तामुज्जे॑षम् ॥३॥ ४२ वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒श स्तोम॒मुद॑जय॒स्तमुज्जे॑ष रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒श स्तोम॒मुद॑जय॒स्तमुज्जे॑षम् । आ॒दि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒श स्तोम॒मुद॑जय॒स्तमुज्जे॑ष॒मदि॑तिः॒ षोळ॑शाक्षरेण षोळ॒श स्तोम॒मुद॑जय॒त्तमुज्जे॑षम् । प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण स॒प्तद॒श स्तोम॒मुद॑जय॒त्तमुज्जे॑षम् ॥४॥ (६) ४३ (५०१) ॥इति शुक्लयजुः काण्वसंहितायां दशमोऽध्यायः॥ (१०) ॥इति प्रथमो दशकः॥१॥
“अथ द्वितीयो दशकः॥२॥ अथ प्रथमोऽध्यायः (अथैकादशोऽध्यायः) ए॒ष ते॑ निरृते भा॒गस्तं जु॑षस्व॒ स्वाहा॒ऽग्निने॑त्रेभ्यो दे॒वेभ्यः॑ पुरः॒सद्भ्यः॒ स्वाहा॑ य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षिण॒सद्भ्यः॒ स्वाहा॑ । वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्यः॑ पश्चा॒त्सद्भ्यः॒ स्वाहा॑ मि॒त्रावरु॑णनेत्रेभ्यो वा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ उत्तर॒सद्भ्यः॒ स्वाहा॑ । सोम॑नेत्रेभ्यो दे॒वेभ्य॑ उपरि॒सद्भ्यो॒ दुव॑स्वद्भ्यः॒ स्वाहा॑ ॥११॥॥ ये दे॒वा अ॒ग्निने॑त्राः पुरः॒सद॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा य॒मने॑त्रा दक्षिण॒सद॒स्तेभ्यः॒ स्वाहा॑ । ये दे॒वा वि॒श्वदे॑वनेत्राः पश्चा॒त्सद॒स्तेभ्यः॒ स्वाहा॑ ये दे॒वा मि॒त्रावरु॑णनेत्रा वा म॒रुन्ने॑त्रा वोत्तर॒सद॒स्तेभ्यः॒ स्वाहा॑ । ये दे॒वाः सोम॑नेत्रा उपरि॒सदो॒ दुव॑स्वन्त॒स्तेभ्यः॒ स्वाहा॑ ॥२॥ २ अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य । दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसि । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ॥३॥ ३ उ॒पा॒शोर्वी॒र्ये॑ण जुहोमि ह॒त रक्षः॒ स्वाहा॑ । रक्ष॑सां त्वा व॒धायाव॑धिष्म॒ रक्षो॒ऽमुष्य॑ त्वा व॒धाया॒मुम॑वधिष्म । जुषाणोऽध्वाज्यस्य वेतु स्वाहा ॥४॥ (१) ४ अ॒पो दे॒वा मधु॑मतीरगृभ्ण॒न्नूर्ज॑स्वती राज॒स्व॒श्चिता॑नाः । याभि॑र्मि॒त्रावरु॑णा अ॒भ्यषि॑ञ्च॒न्याभि॒रिन्द्र॒मन॑य॒न्नत्यरा॑तीः ॥१॥ ५ वृष्ण॑ ऊ॒र्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒ वृष्ण॑ ऊ॒र्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि । वृ॒ष॒से॒नो॑ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॑ वृषसे॒नो॑ऽसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि ॥२॥ ६ (५०७) अ॒र्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒र्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । ओज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहौज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । आपः॑ परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहापः॑ परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । अ॒पां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒पां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि । अ॒पां गर्भो॑ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒पां गर्भो॑ऽसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि । सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । सूर्य॑त्वच स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑त्वच स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । व्र॒ज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ व्रज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । मांदा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ मांदा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । ज॒न॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ जन॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । वि॒श्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ विश्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । शैष्ठा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ शैष्ठा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । आपः॒ स्वारा॑ज्ञी स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त ॥३॥ ७ सं मधु॑मती॒र्मधु॑मतीभिः पृच्यंतां॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य वन्वा॒नाः । अना॑धृष्टाः सीदत स॒हौज॑सा॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य॒ दध॑तीः ॥४॥ (२) ८ स॒वि॒ता त्वा॑ प्रस॒वाना॑ सुवताम॒ग्निर्गृ॒हप॑तीना॒ सोमो॒ वन॒स्पती॑नाम् । बृह॒स्पति॑र्वा॒च इन्द्रो॒ ज्यैष्ठ्या॑य रु॒द्रः प॑शू॒नां मि॒त्रः स॒त्याय॒ वरु॑णो॒ धर्म॑पतीनाम् ॥१॥ ९ इ॒मं दे॑वा असप॒त्न सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यै॑ष्ठ्याय। इ॒मम॒मुम॒मुष्य॑ पु॒त्रम॒मुष्याः॑ पु॒त्रम॒स्यै वि॒शे ॥२॥ १० ए॒ष वः॑ कुरवो॒ राजै॒ष वः॑ पञ्चाला॒ राजा॑ । सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ राजा॑ ॥३॥ (३) ११ सोम॑स्य॒ त्विषि॑रस्य॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ । पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ ॥१॥ १२ इंद्रा॑य॒ स्वाहाशा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहा॒ घोषा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॑र्य॒म्णे स्वाहा॑ । स॒वि॒तुर्वः॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः॑ । अनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि॒ स्वाहा॑ राज॒स्वः॑ ॥२॥ १३ स॒ध॒मादो॑ द्यु॒म्निनी॒राप॑ ए॒ता अना॑धृष्टा अप॒स्यो॒ वसा॑नाः । प॒स्त्या॑सु चक्रे॒ वरु॑णः स॒धस्थ॑म॒पा शिशु॑र्मा॒तृत॑मास्वं॒तः ॥३॥ १४ क्ष॒त्रस्योल्व॑मसि क्ष॒त्रस्य॑ ज॒राय्व॑सि क्ष॒त्रस्य॒ नाभि॑रसि क्ष॒त्रस्य॒ योनि॑रसि । इन्द्र॑स्य॒ वात्र॑घ्नमसि॒ त्वया॒यं वृ॒त्रं व॑ध्यान्मि॒त्रस्या॑सि॒ वरु॑णस्यासि ॥४॥ १५ रु॒जासि॑ द्रु॒वासि॑ क्षु॒पासि॑ । पा॒तैनं॒ प्राञ्चं॑ पा॒तैनं॑ प्र॒त्यञ्चं॑ पा॒तैनं॑ ति॒र्यञ्चं॑ दि॒ग्भ्यः पा॑त ॥५॥ १६ आ॒विर्म॑र्या॒ आवि॑त्तो अ॒ग्निर्गृ॒हप॑ति॒रावि॑त्त॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑त्तः पू॒षा वि॒श्ववे॑दा॒ आवि॑त्तौ मि॒त्रावरु॑णौ धृ॒तव्र॑तौ । आवि॑त्ते॒ द्यावा॑पृथि॒वी वि॒श्वशं॑भू॒ आवि॒त्तादि॑तिरु॒रुश॑र्मा ॥६॥ (४) १७ (५१८) अवे॑ष्टा दन्द॒शूकाः॒ प्राची॒मारो॑ह गाय॒त्री त्वा॑वतु । र॒थ॒न्त॒र साम॑ त्रि॒वृत्स्तोमो॑ वस॒न्तऋ॒तुर्ब्रह्म॒ द्रवि॑णम् ॥१॥ १८ दक्षि॑णा॒मारो॑ह त्रि॒ष्टुप् त्वा॑वतु । बृ॒हत्साम॑ पञ्चद॒श स्तोमो॑ ग्री॒ष्मऋ॒तुः क्ष॒त्रं द्रवि॑णम् ॥२॥ १९ प्र॒तीची॒मारो॑ह॒ जग॑ती त्वावतु । वै॒रू॒प साम॑ सप्तद॒श स्तोमो॑ व॒र्षा ऋ॒तुर्विड् द्रवि॑णम् ॥३२॥०॥ उदी॑ची॒मारो॑हानु॒ष्टुप् त्वा॑वतु । वै॒रा॒ज सामै॑कवि॒श स्तोमः॑ श॒रदृ॒तुः फलं॒ द्रवि॑णम् ॥४॥ २१ ऊ॒र्ध्वामारो॑ह प॒ङ्क्तिस्त्वा॑वतु । शा॒क्व॒र॒रै॒व॒ते साम॑नी त्रिणवत्रयस्त्रि॒शौ स्तोमौ॑ हेमन्तशिशि॒रा ऋ॒तू वर्चो॒ द्रवि॑णम् । प्रत्य॑स्तं॒ नमु॑चेः॒ शिरः॑ ॥५॥ २२ सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयात् । मृ॒त्योः पा॒ह्योजो॑ऽसि॒ सहो॑ऽस्य॒मृत॑मसि ॥६॥२३॥ हिर॑ण्यरूपा उ॒षसो॑ विरो॒क उ॒भा इन्द्रा॒ उदि॑तः॒ सूर्य॑श्च । आरो॑हतं वरुण मित्र॒ गर्तं॒ तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च । मि॒त्रो॑ऽसि॒ वरु॑णोऽसि ॥७॥ (५) २४ सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चाम्य॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॑सा । इन्द्र॑स्येंद्रि॒येण॑ म॒रुता॒मोज॑सा क्ष॒त्राणां॑ क्ष॒त्रप॑तिरे॒ध्यति॑ दि॒द्यून्पा॑हि ॥१॥ २५ इ॒मं दे॑वा असप॒त्न सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यैष्ठ्या॑य मह॒ते जान॑राज्याय । इ॒मम॒मुम॒मुष्य॑ पु॒त्रम॒मुष्याः॑ पु॒त्रमस्यै वि॒शे ॥२॥ २६ ए॒ष वः॑ कुरवो॒ राजै॒ष वः॑ पञ्चाला॒ राजा॒ । सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ राजा॑ ॥३॥ २७ प्र पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठान्नाव॑श्चरन्ति स्व॒सिच॑ इया॒नाः। ता आव॑वृत्रन्नध॒रागुद॒क्ता अहिं॑ बु॒ध्न्य॒मनु॒ रीय॑माणाः । विष्णो॑र्वि॒क्रम॑णमसि॒ विष्णो॒र्विक्रा॑न्तमसि॒ विष्णोः॑ क्रा॒न्तम॑सि ॥४॥ २८ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒य स्या॑म॒ पत॑यो रयी॒णाम् ॥५॥ २९ रुद्र॒ यत्ते॒ क्रवि॒ परं॒ नाम॒ । तस्मै॑ हु॒तम॑स्यमे॒ष्टम॑सि॒ स्वाहा॑ ॥६॥ (६) ३० इन्द्र॑स्य॒ वज्रो॑ऽसि मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि । अव्य॑थायै त्वा स्व॒धायै॒ त्वारि॑ष्टः॒ फल्गु॑नः । म॒रुतां॑ प्रस॒वेन॑ ज॒यापा॑म॒ मन॑सा॒ समि॑न्द्रि॒येण॑ ॥१॥ ३१ मा त॑ इंद्र ते व॒यं तु॑राषा॒ळयु॑क्तासो अब्र॒ह्मता॒ विद॑साम । तिष्ठा॒ रथ॒मधि॒ यद्व॑ज्रह॒स्ता र॒श्मीन्दे॑व युवसे॒ स्वश्वा॑न् ॥२॥ ३२ (५३३) अ॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहा॑ । इन्द्र॑स्येन्द्रि॒याय॒ स्वाहा॑ म॒रुता॒मोज॑से॒ स्वाहा॑ । पृथि॑वि मात॒र्मा मा॑ हिसी॒र्मो अ॒हं त्वाम् ॥३॥ ३३ ह॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥४॥ ३४ इय॑द॒स्यायु॑र॒स्यायु॑र्मे देहि॒ युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॑ मे देहि । ऊर्ग॒स्यूर्जं॒ मयि॑ धे॒हीन्द्र॑स्य वां बा॒हू वी॑र्य॒कृता॑ उ॒पाव॑हरामि ॥५॥ (७) ३५ स्यो॒नासि॑ सु॒षदा॑सि क्ष॒त्रस्य॒ योनि॑रसि । स्यो॒नामासी॑द सु॒षदा॒मासी॑द क्ष॒त्रस्य॒ योनि॒मासी॑द ॥१॥ ३६ निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒स्वा । साम्रा॑ज्याय सु॒क्रतुः॑ ॥२॥ ३७ अ॒भि॒भूर॒स्यया॑नामे॒तास्ते॒ पञ्च॒ दिशः॑ कल्पन्ताम् । ब्रह्म॒स्त्वं ब्रह्मा॑सि ॥३॥ ३८ स॒वि॒तासि॑ स॒त्यप्र॑सवो॒ वरु॑णोऽसि स॒त्यौजाः॑ । इन्द्रो॑ऽसि॒ विशौ॑जा रु॒द्रो॑ऽसि सु॒शेवः॑ ॥४॥ ३९ प्रियं॑कर॒ श्रेय॑स्कर॒ भूय॑स्कर । इन्द्र॑स्य॒ वज्रो॑ऽसि॒ तेन॑ मे रध्य ॥५॥ ४० अ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पति॑र्जुषा॒णो अ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पतिः॑ । आज्य॑स्य ह॒विषो॑ वेतु॒ स्वाहा॑ । स्वाहा॑कृताः॒ सूर्य॑स्य र॒श्मिभि॑र्यतध्व सजा॒तानां॑ मध्य॒मेष्ठ्या॑य ॥६॥ (८) ४१ स॒वि॒त्राप्र॑सवि॒त्रा सर॑स्वत्यावा॒चा ॥ त्वष्ट्रा॑ रू॒पैः पू॒ष्णा प॒शुभि॒रिन्द्रे॑णा॒स्मै ॥१॥ ४२ बृह॒स्पति॑ना॒ ब्रह्म॑णा॒ वरु॑णे॒नौज॑सा॒ग्निना॒ तेज॑सा॒ सोमे॑न॒ राज्ञा॑ । विष्णु॑ना दे॒वत॑या दश॒म्येमं॑ य॒ज्ञं विष्णु॑माप्नवानि ॥२॥ (९) ४३ अ॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व । वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ् सोमो॒ अति॑स्रुतः । इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥१॥ ४४ कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑उक्तिं॒ न ज॒ग्मुः । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ॥२॥ ४५ यु॒व सु॒राम॑मश्विना॒ नमु॑चा आसु॒रे सचा॑ । वि॒पि॒पा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ॥३॥ ४६ (५४७) पु॒त्रमि॑व पि॒तरा॑ अ॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्द॒सना॑भिः । यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥४॥ (१०) ४७ (५४८) ॥इति शुक्लयजुः काण्वसंहितायां एकादशोऽध्यायः॥ (११)”
“अथ द्वादशोऽध्यायः । यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्वाय॑ सवि॒ता धियः॑ । अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याभ॑रत् ॥१॥ १ यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे । स्व॒र्गेया॑य॒ शक्त्या॑ ॥२॥ २ यु॒क्त्वाय॑ सवि॒ता दे॒वान्त्स्व॑र्य॒तो धि॒या दिव॑म् । बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्रसु॑वाति॒ तान् ॥३॥ ३ यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒ विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥४॥ ४ यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः । शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥५॥ ५ यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा । यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजा॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥६॥ ६ देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य । दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु ॥७॥ ७ इ॒मं नो॑ देव सवितर्य॒ज्ञं प्रण॑य देवा॒व्य॑ सखि॒विद॑ सत्रा॒जितं॑ धन॒जित॑ स्व॒र्जित॑म् । ऋ॒चा स्तोम॒ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रं बृ॒हद्गा॑य॒त्रव॑र्तनि॒ स्वाहा॑ ॥८॥ ८ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वत् पृथि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदाभ॑र । त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वत् ॥९॥ ९ (५५७) अभ्रि॑रसि॒ नार्य॑सि॒ त्वया॑ व॒यम॒ग्नि श॑केम॒ खनि॑तुम् । स॒धस्थ॒ आ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वत् ॥१०॥॥ हस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रि॑ हिर॒ण्ययी॑म् । अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याभ॑र॒दानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ॥११॥॥ (१) ११ प्रतू॑र्तं वाजि॒न्नाद्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒वत॑म् । दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ तव॒ नाभिः॑ पृथि॒व्यामधि॒ योनि॒रित् ॥१॥ १२ यु॒ञ्जाथा॒ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू । अ॒ग्निं भर॑न्तमस्म॒युम् ॥२॥ १३ योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये॑ ॥३॥ १४ प्र॒तूर्वं॒ नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यं मयो॒भूरेहि॑ । उ॒र्व॒न्तरि॑क्षं॒ वी॑हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् पू॒ष्णा स॒युजा॑ स॒ह ॥४॥ १५ पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदाभ॑र । अ॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑मो॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्यामः ॥५॥ १६ अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आत॑तन्थ ॥६॥ १७ आ॒गत्य॑ वा॒ज्यध्वा॑न॒ सर्वा॒ मृधो॒ विधू॑नुते । अ॒ग्नि स॒धस्थे॑ मह॒ति चक्षु॑षा॒ निचि॑कीषते ॥७॥ १८ आ॒क्रम्य॑ वाजिन्पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् । भूमे॑र्वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खने॑म॒ तं व॒यम् ॥८॥ १९ द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्ष समु॒द्रो योनिः॑ । वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ पृतन्य॒तः ॥९॥ २० उत्क्रा॑म मह॒ते सौभ॑गाया॒स्मादा॒स्थाना॑द् द्रविणो॒दा वा॑जिन् । व॒य स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निं खन॑न्त उ॒पस्थे॑ अस्याः ॥१०॥॥ २१ उद॑क्रमीद् द्रविणो॒दा वा॒ज्य॒र्वाकः॒ सुलो॒क सुकृ॑तं पृथि॒व्याम् । ततः॑ खनेम सु॒प्रती॑कम॒ग्नि स्वो॒ रुहा॑णा॒ अधि॒ नाक॑मुत्त॒मम् ॥११॥॥ २२ आ त्वा॑ जिघर्मि॒ मन॑सा घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ । पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ॥१२॥ २३ आ वि॒श्वतः॑ प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत । मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा॒ जर्भु॑राणः ॥१३॥२४॥ परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे॑ ॥१४॥ २५ (५७६) परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्र॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे भे॒त्तारं॑ भङ्गु॒राव॑ताम् ॥१५॥२६॥ त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥१६॥ (२) २७ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वत् ख॑नामि । ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्य॑तम् । शि॒वं प्र॒जाभ्योऽहि॑सन्तं पृथि॒व्या स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामः ॥१॥ २८ अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम् । वर्ध॑मानो म॒हाँ आ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ॥२॥ २९ शर्म॑ च॒ स्थो वर्म॑ च॒ स्थोऽच्छि॑द्रे बहु॒ले उ॒भे । व्यच॑स्वती॒ संव॑साथां भृ॒तम॒ग्निं पु॑री॒ष्य॑म् ॥३॥ ३० संव॑साथा स्व॒र्विदा॑ स॒मीची॒ उर॑सा॒ त्मना॑ । अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् । पु॒री॒ष्यो॑ऽसि वि॒श्वभ॑रा॒ अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने ॥४॥ ३१ त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्ना विश्व॑स्य वा॒घतः॑ ॥५॥ ३२ तमु॑ त्वा द॒ध्यङ् ऋषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हणं॑ पुरंद॒रम् ॥६॥ ३३ तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒न॒ञ्ज॒य रणे॑रणे ॥७॥ ३४ सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञ सु॑कृ॒तस्य॒ योनौ॑ । दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥८॥ ३५ नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑ । अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रं भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥९॥ ३६ स सी॑दस्व म॒हाँ३ अ॑सि॒ शोच॑स्व देव॒वीत॑मः । वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥१०॥॥ (३) ३७ अ॒पो दे॒वीरुप॑सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑ । तासा॑मा॒स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः ॥१॥ ३८ सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नाया॒ हृद॑यं॒ यद्विक॑स्तम् । यो दे॒वानां॒ चर॑सि प्रा॒णथे॑न॒ कस्मै॑ देव॒ वष॑ळस्तु॒ तुभ्य॑म् ॥२॥ ३९ सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒मास॑द॒त्स्वः॑ । वासो॑ अग्ने वि॒श्वरू॑प॒ संव्य॑यस्व विभावसो ॥३॥ ४० उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या धि॒या । दृ॒शे च॑ भा॒सा बृ॑ह॒ता शु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभिः॑ ॥४॥ ४१ (५८९) ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥५॥ ४२ स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशुः॒ परि॒ तमा॑ स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥३॥ ४३ स्थि॒रो भ॑व वी॒ड्व॑ङ्ग आ॒शुर्भ॑व वा॒ज्य॑र्वन् । पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑णः ॥७॥ ४४ शि॒वो भ॑व प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः । मा द्यावा॑पृथि॒वी अ॒भि शो॑ची॒र्मान्तरि॑क्षं॒ मा वन॒स्पती॑न् ॥८॥ ४५ प्रै॑तु वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भ॒स्पत्वा॑ । भर॑न्न॒ग्निं पु॑री॒ष्यं॒ मा पा॒द्यायु॑षः पु॒रा ॥९॥ ४६ वृषा॒ग्निं वृष॑णं॒ भर॑न्न॒पां गर्भ॑ समु॒द्रिय॑म् । अग्न॒ आया॑हि वी॒तये॑ । ऋ॒त स॒त्यमृ॒त स॒त्यमग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रामः ॥१०॥॥ ४७ ओष॑धयः॒ प्रति॑मोदध्वम॒ग्निमे॒त शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्माः । व्यस्य॒न् विश्वा॒ अनि॑रा॒ अमी॑वा नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिं ज॑हि ॥११॥॥ ४८ ओष॑धयः॒ प्रति॑गृभ्णीत॒ पुष्प॑वतीः सुपिप्प॒लाः । अ॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्न स॒धस्थ॒मास॑दत् ॥१२॥ ४९ वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः । सु॒शर्म॑णो बृह॒तः शर्म॑णि स्यामग्नेर॒ह सु॒हव॑स्य॒ प्रणी॑तौ ॥१३॥ (४) ५० आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥१॥ ५१ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥२॥ ५२ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥३॥ ५३ मि॒त्रः स॒सृज्य॑ पृथि॒वीं भूमिं॑ च॒ ज्योति॑षा स॒ह । सुजा॑तं जा॒तवे॑दसमय॒क्ष्माय॑ त्वा॒ ससृ॑जामि प्र॒जाभ्यः॑ ॥४॥ ५४ रु॒द्राः स॒सृज्य॑ पृथि॒वीं बृ॒हज्ज्योतिः॒ समी॑धिरे । तेषां॑ भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते ॥५॥ ५५ ससृ॑ष्टां॒ वसु॑भी रुद्रै॒र्धीरैः॑ कर्म॒ण्यां॒ मृद॑म् । हस्ता॑भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली कृ॑णोतु॒ ताम् ॥६॥ ५६ सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा । सा तुभ्य॑मदिते म॒ह्योखां द॑धातु॒ हस्त॑योः ॥७॥ ५७ उ॒खां कृ॑णोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या । मा॒ता पु॒त्रं यथो॒पस्थे॒ साग्निं बि॑भर्तु॒ गर्भ॒ आ ॥८॥ ५८ (६०६) म॒खस्य॒ शिरो॑ऽसि॒ वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद् ध्रु॒वासि॑ पृथि॒व्य॑सि । धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्य सु॒वीर्य॑ सजा॒तान्यज॑मानाय । रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वद् ध्रु॒वास्य॒न्तरि॑क्षमसि । धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्य सु॒वीर्य॑ सजा॒तान्यज॑मानाय । आ॒दि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद् ध्रु॒वासि॒ द्यौर॑सि । धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्य सु॒वीर्य॑ सजा॒तान्यज॑मानाय । विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वद् ध्रु॒वासि॒ दिशो॑ऽसि । धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्य सु॒वीर्य॑ सजा॒तान्यज॑मानाय । अदि॑त्यै॒ रास्ना॒स्यदि॑तिष्टे॒ बिलं॑ गृभ्णातु ॥९॥ ५९ कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये॑ । पु॒त्रेभ्यः॒ प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑ ॥१०॥॥ ६० वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद्रु॒द्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वत् । आ॒दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् । इन्द्र॑स्त्वा धूपयतु॒ वरु॑णस्त्वा धूपयतु॒ विष्णु॑स्त्वा धूपयतु ॥११॥॥ (५) ६१ अदि॑तिष्ट्वा दे॒वी वि॒श्वदे॑व्यावती । पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत् ख॑नत्ववट् ॥१॥ ६२ दे॒वानां॑ त्वा॒ पत्नी॑र्दे॒वीर्वि॒श्वदे॑व्यावतीः । पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद्द॑धतूखे । धि॒षणा॑स्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीः । पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद॒भी॑न्धतामुखे । वरू॑त्रीष्ट्वा दे॒वीर्वि॒श्वदे॑व्यावतीः । पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वच्छ्र॑पयन्तूखे । ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीः । पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्तूखे । जन॑य॒स्त्वाच्छि॑न्नपत्रा दे॒वीर्वि॒श्वदे॑व्यावतीः । पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्तूखे ॥२॥ ६३ मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि । द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ॥३॥ ६४ दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः सु॑बा॒हुरु॒त शक्त्या॑ । अव्य॑थमाना पृथि॒व्यामाशा॒ दिश॒ आपृ॑ण ॥४॥ ६५ उ॒त्थाय॑ बृह॒ती भ॒वोदु॑ तिष्ठ ध्रु॒वा त्वम् । मित्रै॒तां त॑ उ॒खां परि॑ददा॒म्यभि॑त्या ए॒षा मा भे॑दि । वस॑व॒स्त्वाछृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद्रु॒द्रास्त्वाछृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वत् । आ॒दि॒त्यास्त्वाछृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा आछृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ॥५॥ (६) ६६ (६१४) आकू॑तिम॒ग्निं प्र॒युज॒ स्वाहा॒ मनो॑ मे॒धाम॒ग्निं प्र॒युज॒ स्वाहा॑ । चि॒त्तं विज्ञा॑तम॒ग्निं प्र॒युज॒ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निं प्र॒युज॒ स्वाहा॑ । प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ग्नये॑ वैश्वान॒राय॒ स्वाहा॑ ॥१॥ ६७ विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ । ॥२॥ ६८ मा सु भि॑त्था॒ मा सु रि॒षोऽम्ब॑ धृ॒ष्णु वी॒रय॑स्व॒ सु । अ॒ग्निश्चे॒दं क॑रिष्यथः ॥३॥ ६९ दृह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ । जुष्टं॑ दे॒वेभ्य॑ इ॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन् ॥४॥ ७० द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः । सह॑सस्पु॒त्रो अद्भु॑तः ॥५॥ ७१ पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ३ अ॒भ्यात॑र । यत्रा॒हमस्मि॒ ता३ अ॑व ॥६॥ ७२ प॒र॒मस्याः॑ परा॒वतो॑ रो॒हिद॑श्व इ॒हाग॑हि । पुरी॒ष्यः॑ पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑ ॥७॥ ७३ यद॑ग्ने॒ कानि॒कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥८॥ ७४ यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥९॥ ७५ अह॑रह॒रप्र॑यावं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै । रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ॥१०॥॥ ७६ नाभा॑ पृथि॒व्याः स॑मिधा॒ने अ॒ग्नौ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे । इ॒रम्म॒दं बृ॒हदु॑क्थ्यं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिम् ॥११॥॥ ७७ याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त । ये स्ते॒ना ये च॒ तस्क॑रा॒स्तास्ते॑ अ॒ग्नेऽपि॑दधाम्या॒स्ये॑ ॥१२॥ ७८ दष्ट्रा॑भ्यां म॒लिम्लू॒ञ्जम्भ्यै॒स्तस्क॑राँ३ उ॒त । हनु॑भ्या स्ते॒नान् भ॑गव॒स्ता स्त्वं खा॑द॒ सुखा॑दितान् ॥१३॥ ७९ ये जने॑षु म॒लिम्ल॑व स्ते॒नास॒स्तस्क॑रा॒ वने॑ । ये कक्षे॑ष्वघा॒यव॒स्तास्ते॑ दधामि॒ जम्भ॑योः ॥१४॥ ८० यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मान्धिप्सा॑च्च॒ सर्वं॒ तं म॑स्म॒सा कु॑रु ॥१५॥ ८१ सशि॑तं मे॒ ब्रह्म॒ सशि॑तं वी॒र्यं॒ बल॑म् । सशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ॥१६॥ ८२ उदे॑षां बा॒हू अ॑तिर॒मुद्वर्चो॒ अथो॒ बल॑म् । क्षि॒णोमि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वाँ३ अ॒हम् ॥१७॥ ८३ अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑ । प्र प्र॑ दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । वि॒श्वक॑र्मणे॒ स्वाहा॑ ॥१८॥ ८४ पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः । घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॒ स्वाहा॑ ॥१९॥ ८५ (६३३) ॥इति शुक्लयजुः काण्वसंहितायां द्वादशोऽध्यायः॥ (१२)”
“अथ त्रयोदशोऽध्यायः । दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयत्सु॒रेताः॑ ॥१॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ समी॒ची । द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्विभा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः ॥२॥ २ विश्वा॑ रू॒पाणि॒ प्रति॑मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे । वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ विरा॑जति ॥३॥ ३ सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑ स्त्रि॒वृत्ते॒ शिरः॑ । गाय॒त्रं चक्षु॑र्बृहद्रथन्त॒रे पक्षौ ॥४॥ ४ स्तोम॑ आ॒त्मा छन्दा॒स्यङ्गा॑नि॒ यजू॑षि॒ नाम॑ । साम॑ ते त॒नूर्वा॑मदे॒व्यं य॑ज्ञाय॒ज्ञियं॒ पुच्छं॒ धिष्ण्याः॑ श॒फाः ॥५॥ ५ सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न्दिवं॑ गच्छ॒ स्वः॑ पत । विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा गा॑य॒त्रं छन्द॒ आरो॑ह । पृथि॒वीमनु॒ विक्र॑मस्व । विष्णोः॒ क्रमो॑ऽस्यभिमाति॒हा त्रैष्टु॑भं॒ छन्द॒ आरो॑ह । अ॒न्तरि॑क्ष॒मनु॒ विक्र॑मस्व । विष्णोः॒ क्रमो॑ऽस्यरातीय॒तो ह॒न्ता जाग॑तं॒ छन्द॒ आरो॑ह । दिव॒मनु॒ विक्र॑मस्व । विष्णोः॒ क्रमो॑ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभं॒ छन्द॒ आरो॑ह । दिशोनु॒ विक्र॑मस्व ॥६॥ ६ अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥७॥ ७ अग्ने॑ऽभ्यावर्तिन्न॒भि मा॒ निव॑र्त॒स्वायु॑षा॒ वर्च॑सा प्र॒जया॒ धने॑न । स॒न्या मे॒धया॑ र॒य्या पोषे॑ण ॥८॥८॥ अग्ने॑ अङ्गिरः श॒तं ते॑ सन्त्वा॒वृतः॑ स॒हस्रं॑ त उपा॒वृतः॑ । अधा॒ पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमाकृ॑धि॒ पुन॑र्नो र॒यिमाकृ॑धि ॥९॥ ९ (६४२) पुन॑रू॒र्जा निव॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नः पा॒ह्यह॑सः ॥१०॥॥ १० स॒ह र॒य्या निव॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्न्या॑ वि॒श्वत॒स्परि॑ ॥११॥॥ ११ आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठा वि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् ॥१२॥ १२ उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒म श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥१३॥ १३ अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान् तम॑सो॒ ज्योति॒षागा॑त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥१४॥ १४ ह॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दूरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥१५॥ १५ सीद॒ त्वं मा॒तुर॒स्या उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् । मैनां॒ तप॑सा॒ मार्चिषा॒भिशो॑चीर॒न्तर॑स्या शु॒क्रज्यो॑ति॒र्विभा॑हि ॥१६॥ १६ अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायाः॒ सद॑ने॒ स्वे । तस्या॒स्त्व हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व ॥१७॥ १७ शि॒वो भू॒त्वा मह्य॑मग्ने॒ अथो॑ सीद शि॒वस्त्वम् । शि॒वाः कृ॒त्वा दिशः॒ सर्वा॒ स्वं योनि॑मि॒हास॑दः ॥१८॥ (१) १८ दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्माद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ॥१॥ १९ वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा । वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गन्थ॑ ॥२॥ २० स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व॒न्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् । तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वास॑म॒पामु॒पस्थे॑ महि॒षा अ॑वर्धन् ॥३॥ २१ अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥४॥ २२ श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः । वसुः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ विभा॒त्यग्र॑ उ॒षसा॑मिधा॒नः ॥५॥ २३ विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः । वी॒ळुं चि॒दद्रि॑मभिनत् परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ॥६॥ २४ उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्त्ये॑ष्व॒ग्निर॒मृतो॒ निधा॑यि । इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥७॥ २५ (६५८) दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयत्सु॒रेताः॑ ॥८॥ २६ यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने । प्र तं न॑य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ॥९॥ २७ आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थ उ॑क्थ॒ आभ॑ज श॒स्यमा॑ने । प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ॥१०॥॥ २८ त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून् विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि । त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ विव॑व्रुः ॥११॥॥ २९ अस्ता॑व्य॒ग्निर्न॒रा सु॒शेवो॑ वैश्वान॒र ऋषि॑भिः॒ सोम॑गोपाः । अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ॥१२॥ (२) ३० स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आस्मि॑न् ह॒व्या जु॑होतन ॥१॥ ३१ उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वस्त्व सु॒प्रती॑को वि॒भाव॑सुः ॥२॥ ३२ प्रेद॑ग्ने॒ ज्योति॑ष्मान् याहि शि॒वेभि॑र॒र्चिभि॒ष्ट्वम् । बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न्मा हि॑सीस्त॒न्वा॑ प्र॒जाः ॥३॥ ३३ अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥४॥ ३४ प्र प्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑ ॥५॥ ३५ आपो॑ देवीः॒ प्रति॑गृभ्णीत॒ भस्मै॒तत्स्यो॒ने कृ॑णुध्व सुर॒भा उ॑ लो॒के । तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी॑र्मा॒तेव॑ पु॒त्रं बि॑भृता॒प्स्वे॑नत् ॥६॥ ३६ अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सन्जा॑यसे॒ पुनः॑ ॥७॥ ३७ गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम् । गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि ॥८॥ ३८ प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने । स॒सृज्य॑ मा॒तृभि॒ष्ट्वं ज्योति॑ष्मा॒न् पुन॒रास॑दः ॥९॥ ३९ पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने । शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॑स्या शि॒वत॑मः ॥१०॥॥ ४० पुन॑रू॒र्जा निव॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नः पा॒ह्यह॑सः ॥११॥॥ ४१ स॒ह र॒य्या निव॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्न्या॑ वि॒श्वत॒स्परि॑ ॥१२॥ ४२ बोधा॑ मे अ॒स्य वच॑सो यविष्ठ॒ महि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑ष्टे त॒न्वं॑ वन्दे अग्ने ॥१३॥ ४३ (६७६) स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् । यु॒यो॒ध्य॒स्मद् द्वेषा॑सि वि॒श्वक॑र्मणे॒ स्वाहा॑ ॥१४॥ ४४ पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः । घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॒ स्वाहा॑ ॥१५॥ (३) ४५ अपे॑त॒ वी॑त॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑द्य॒मो॑ऽव॒सानं॑ पृथि॒व्या अक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै ॥१॥ ४६ सं॒ज्ञान॑मसि काम॒धर॑णं मयि॑ ते काम॒धर॑णं भूयात् । अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि । चित॑ स्थ परि॒चित॑ ऊर्ध्व॒चितः॑ श्रयध्वम् ॥२॥ ४७ अ॒य सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रियं॒ वाज॒मत्यं॒ न सप्ति॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ॥३॥ ४८ अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्रा । येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ॥४॥ ४९ अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ३ ऊ॑चिषे॒ धिष्ण्या॒ ये । या रो॑च॒ने प॒रस्ता॒त् सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आपः॑ ॥५॥ ५० पु॒री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः । जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वा इषो॑ म॒हीः ॥६॥ ५१ इळा॑मग्ने पुरु॒दस॑ स॒निं गोः श॑श्वत्त॒म हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥७॥ ५२ अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॒हाथा॑ नो वर्धया र॒यिम् ॥८॥ ५३ चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द । प॒रि॒चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥९॥ ५४ लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद ध्रु॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑ असीषदन् ॥१०॥॥ ५५ ता अ॑स्य॒ सूद॑दोहसः॒ सोम॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥११॥॥ ५६ इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ । र॒थीत॑म र॒थीनां॒ वाजा॑ना॒ सत्प॑तिं॒ पति॑म् ॥१२॥ ५७ समि॑त॒ संक॑ल्पेथा॒ सम्प्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ । इष॒मूर्ज॑म॒भि सं॒वसा॑नौ ॥१३॥ ५८ सं वां॒ मना॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् । अग्ने॑ पुरीष्याधि॒पा भ॑व॒ त्वं न॒ इष॒मूर्जं॒ यज॑मानाय धेहि ॥१४॥ ५९ अग्ने॒ त्वं पु॑री॒ष्यो॑ रयि॒मान् पु॑ष्टि॒माँ३ अ॑सि । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वं योनि॑मि॒हास॑दः ॥१५॥ ६० भव॑तं नः॒ सम॑नसौ॒ सचे॑तसा अरे॒पसौ॑ । मा य॒ज्ञ हि॑सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥१६॥ ६१ (६९४) मा॒तेव॑ पु॒त्रं पृ॑थि॒वी पु॑री॒ष्य॑म॒ग्नि स्वे योना॑ अभारु॒खा । तां विश्वै॑र्देवैरृ॒तुभिः॑ संविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ विमु॑ञ्चतु ॥१७॥ (४) ६२ असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यामन्वि॑हि॒ तस्क॑रस्य । अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निरृ॒ते॒ तुभ्य॑मस्तु ॥१॥ ६३ नमः॒ सु ते॑ निरृते तिग्मतेजोऽय॒स्मयं॒ विचृ॑ता ब॒न्धमे॒तम् । य॒मेन॒ त्वं य॒म्या सं॑विदा॒नोत्त॒मे नाके॒ अधि॑रोहयैनम् ॥२॥ ६४ यस्या॑स्ते घोर आ॒सन्जु॒होम्ये॒षां ब॒न्धाना॑मव॒सर्ज॑नाय । यां त्वा॒ जनो॒ भूमि॒रिति॑ प्र॒मन्द॑ते॒ निरृ॑तिं त्वा॒हं परि॑वेद वि॒श्वतः॑ ॥३॥६॥५ यं ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ पाशं॑ ग्री॒वास्व॑विचृ॒त्यम् । तं ते॒ विष्या॒म्यायु॑षो॒ न मध्या॒दथै॒तं पि॒तुम॑द्धि॒ प्रसू॑तः । नमो॒ भूत्यै॒ येदं च॒कार॑ ॥४॥ ६६ नि॒वेश॑नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प॑थी॒नाम् ॥५॥ ६७ सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वित॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या ॥६॥ ६८ यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म् । गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमेया॑त् ॥७॥ ६९ शु॒न सु फाला॒ विकृ॑षन्तु॒ भूमि॑ शु॒नं की॒नाशा॑ अ॒भिय॑न्तु वा॒हैः । शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तम॒स्मे ॥८॥ ७० घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑ज्यतां॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भिः॑ । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्त्सी॑ते॒ पय॑सा॒भ्याव॑वृत्स्व ॥९॥ ७१ लाङ्ग॑लं॒ पवी॑रवत्सु॒शेव॑ सोम॒पित्स॑रु । तदुद्व॑पति॒ गामविं॑ प्रफ॒र्व्यं॑ च॒ पीव॑रीं प्र॒स्थाव॑द्रथ॒वाह॑णम् ॥१०॥॥ ७२ कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ वरु॑णाय च । इन्द्रा॑या॒श्विभ्यां॑ पू॒ष्णे प्र॒जाभ्य॒ ओष॑धीभ्यः ॥११॥॥ ७३ विमु॑च्यध्वमघ्न्या देवयाना॒ अग॑न्म॒ तम॑सस्पा॒रम॒स्य । ज्योति॑रापाम ॥१२॥ ७४ स॒जूरब्दो॒ अय॑वोभिः स॒जूरु॒षा अरु॑णीभिः । स॒जोष॑सा अ॒श्विना॒ दसो॑भिः स॒जूः सूर॒ एत॑शेन स॒जूर्वै॑श्वान॒र इळ॑या घृ॒तेन॒ स्वाहा॑ ॥१३॥ (५) ७५ या ओष॑धीः॒ पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मनै॒ नु ब॒भ्रूणा॑म॒ह श॒तं धामा॑नि स॒प्त च॑ ॥१॥ ७६ श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ । अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥२॥ ७७ (७१०) ओष॑धीः॒ प्रति॑ गृभ्णीत॒ पुष्प॑वतीः प्र॒सूव॑रीः । अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ॥३॥ ७८ ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ब्रुवे । स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥४॥ ७९ अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥५॥ ८० यत्रौ॑षधीः स॒मग्म॑त॒ राजा॑नः॒ समि॑ता इव । विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥६॥ ८१ अ॒श्वा॒व॒ती सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् । आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥७॥ ८२ उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते । धन॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥८॥ ८३ इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒य स्थ॒ निष्कृ॑तीः । सी॒राः प॑त॒त्रिणी॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥९॥ ८४ अति॒ विश्वाः॑ परि॒ष्ठा स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒ रपः॑ ॥१०॥॥ ८५ यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥११॥॥ ८६ यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑म्ङ्गं॒ परु॑ष्परुः । ततो॒ यक्ष्मं॒ विबा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥१२॥ ८७ सा॒कं य॑क्ष्म॒ प्रप॑त॒ चाषे॑ण किकिदी॒विना॑ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥१३॥ ८८ अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत । ताः सर्वाः॑ संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥१४॥ ८९ याः फ॒लिनी॒र्याअ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणीः॑ । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वह॑सः ॥१५॥ ९० मु॒ञ्चन्तु॑ मा शप॒थ्या॒दथो॑ वरु॒ण्या॑दु॒त । अथो॑ य॒मस्य॒ पड्वी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ॥१६॥ ९१ अ॒व॒य॒तीः सम॑वदन्त दि॒व ओष॑धय॒स्परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥१७॥ ९२ या ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः । तासा॑मसि॒ त्वमु॑त्त॒मारं॒ कामा॑य॒ श हृ॒दे ॥१८॥ ९३ या ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ । बृह॒स्पति॑प्रसूता अस्यै॒ संद॑त्त वी॒र्य॑म् ॥१९॥ ९४ याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः । सर्वाः॑ सं॒गत्य॑ वीरुधो॒ऽस्यै॒ संद॑त्त वी॒र्य॑म् ॥२०॥॥ ९५ ना॒श॒यि॒त्री ब॒लास॒स्यार्श॑स उप॒चिता॑मसि । अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाका॒रोर॑सि॒ नाश॑नी ॥२१॥॥ ९६ मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः । द्वि॒पच्चतु॑ष्पद॒स्माक॒ सर्व॑मस्त्वनातु॒रम् ॥२२॥॥ ९७ ओष॑धयः॒ संव॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्त रा॑जन् पारयामसि ॥२३॥ ९८ त्वां ग॑न्ध॒र्वा अ॑खन॒स्त्वामिन्द्र॒स्त्वां बृह॒स्पतिः॑ । त्वामो॑षधे॒ सोमो॒ राजा॑ वि॒द्वान् यक्ष्मा॑दमुच्यत ॥२४॥ ९९ त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सो॒ऽस्माकं॒ यो अ॒स्माँ३ अ॑भि॒दास॑ति ॥२५॥ (६) १०० (७३३) मा मा॑ हिसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिव॑ स॒त्यध॑र्मा॒ व्यान॑ट् । यश्चा॒पश्च॒न्द्राः प्र॑थ॒मो ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१॥ १०१ अ॒भ्या व॑र्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह । व॒पां ते॑ अ॒ग्निरि॑षि॒तो अ॑रोहत् ॥२॥ १०२ अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यच्च॑ य॒ज्ञिय॑म् । तद्दे॒वेभ्यो॑ भरामसि ॥३॥ १०३ इष॒मूर्ज॑म॒हमि॒त आद॑मृ॒तस्य॒ योनिं॑ महि॒षस्य॒ धारा॑म् । आ मा॒ गोषु॑ विश॒त्वा त॒नूषु॒ जहा॑मि से॒दिमनि॑रा॒ममी॑वाम् ॥४॥ १०४ अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं॒ दधा॑सि दा॒शुषे॑ कवे ॥५॥ १०५ पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ । पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ॥६॥ १०६ ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः । त्वे इषः॒ सन्द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥७॥ १०७ इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य । स द॑र्श॒तस्य॒ वपु॑षो॒ विरा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म् ॥८॥ १०८ इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्त॒ राध॑सो म॒हः । रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सि र॒यिम् ॥९॥ १०९ ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्नि सु॒म्नाय॑ दधिरे पु॒रो जनाः॑ । श्रुत्क॑र्ण स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥१०॥॥ ११० आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य सङ्ग॒थे ॥११॥॥ १११ सं ते॒ पया॑सि॒ समु॑ यन्तु॒ वाजाः॒ सं वृष्ण्या॑न्यभिमाति॒षाहः॑ । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवा॑स्युत्त॒मानि॑ धिष्व ॥१२॥ ११२ आप्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिर॒शुभिः॑ । भवा॑ नः स॒प्रथ॑स्तमः॒ सखा॑ वृ॒धे ॥१३॥ ११३ आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् । अग्ने॒ त्वां का॑मया गि॒रा ॥१४॥ ११४ तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वाः॑ सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिरे ॥१५॥ ११५ अ॒ग्निः प्रि॒येषु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य । स॒म्राळेको॒ विरा॑जति ॥१६॥ (७) ११६ (७४९) ॥इति शुक्लयजुः काण्वसंहितायां त्रयोदशोऽध्यायः॥ (१३)”
“अथ चतुर्दशोऽध्यायः मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्नि रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । मामु॑ दे॒वताः॑ सचन्ताम् ॥१॥ १ अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम् । वर्ध॑मानो म॒हाँ३ आ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ॥२॥ २ ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥३॥ ३ हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥४॥ ४ द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । स॒मा॒नं योनि॒मनु॑ स॒ञ्चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥५॥ ५ नमो॑ऽस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥६॥ ६ या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒रनु॑ । ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥७॥ ७ ये वा॒मी रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सद॑स्कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥८॥ ८ कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒३ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥९॥ ९ तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपू॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानस॑दितो॒ विसृ॑ज॒ विष्व॑गु॒ल्काः ॥१०॥॥ १० प्रति॒ स्पशो॒ विसृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घश॑सो॒ यो अन्त्यग्ने॒ मा कि॑ष्टे॒ व्यथि॒राद॑धर्षीत् ॥११॥॥ ११ उद॑ग्ने तिष्ठ॒ प्रत्यात॑नुष्व॒ न्य॒मित्राँ॑३ ओषतात्तिग्महेते । यो नो॒ अरा॑ति समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ॥१२॥ १२ ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्रमृ॑णीहि॒ शत्रू॑न् ॥१३॥ १३ अ॒ग्नेष्ट्वा॒ तेज॑सा सादयामि ।अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पा रेता॑सि जिन्वति । इन्द्र॑स्य॒ त्वौज॑सा सादयामि ॥१४॥ १४ भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥१५॥ (१) १५ (७६४) ध्रु॒वासि॑ ध॒रुणास्तृ॑ता वि॒श्वक॑र्मणा । मा त्वा॑ समु॒द्र उद्व॑धी॒न्मा सु॑प॒र्णोव्य॑थमानां पृथि॒वीं दृ॑ह ॥१॥ १६ प्र॒जाप॑तिष्ट्वा सादयत्व॒पां पृ॒ष्ठे स॑मु॒द्रस्येम॑न् । व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ प्रथ॑स्व पृथि॒व्य॑सि ॥२॥ १७ भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री । पृ॒थि॒वीं य॑च्छ पृथि॒वीं दृ॑ह पृथि॒वीं मा हि॑सीः ॥३॥ १८ विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य । अ॒ग्निष्ट्वा॒भिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शंत॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥४॥ १९ काण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षः परुष॒स्परि॑ । ए॒वा नो॒ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च ॥५॥ २० या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ॥६॥ २१ यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभि॑र्नो अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ॥७॥ २२ या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ॥८॥ २३ वि॒राड्ज्योति॑रधारयत्स्व॒राड्ज्योति॑रधारयत् । प्र॒जाप॑तिष्ट्वा सादयतु पृ॒ष्ठे पृ॑थि॒व्या ज्योति॑ष्मतीम् ॥९॥ २४ विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ । अ॒ग्निष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥१०॥॥ २५ मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिका ऋ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॑ऽसि॒ । कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम ज्यैष्ठ्या॑य॒ सव्र॑ताः । ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे । वास॑न्तिका ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रुवे सी॑दतम् ॥११॥॥ २६ अषा॑ळहासि॒ सह॑माना॒ सह॒स्वारा॑तीः॒ सह॑स्व पृतनाय॒तः । स॒हस्र॑वीर्यासि॒ सा मा॑ जिन्व ॥१२॥ २७ सह॑स्वे॒मा अ॒भिमा॑तीः॒ सह॑स्व पृतनाय॒तः । सह॑स्व॒ सर्वं॑ पा॒प्मान॒ सह॑मानास्योषधे ॥१३॥(२)२८ मधु॒ वाता॑ ऋ॒ताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी॑र्नः स॒न्त्वोष॑धीः ॥१॥ २९ मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑व॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒ता ॥२॥ ३० मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ३ अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः ॥३॥ ३१ (७८०) अ॒पां गम्भ॑न्त्सीद॒ मा त्वा॒ सूर्यो॒ऽभिता॑प्सी॒न्माग्निर्वै॑श्वान॒रः । अच्छि॑न्नपत्राः प्र॒जा अ॑नु॒वीक्ष॒स्वानु॑ त्वा दि॒व्या वृष्टिः॑ सचताम् ॥४॥३२॥ त्रीन्त्स॑मु॒द्रान्त्सम॑सृपत् स्व॒र्गान॒पां पति॑र्वृष॒भ इष्ट॑कानाम् । पुरी॑षं॒ वसा॑नः सुकृ॒तस्य॑ लो॒के तत्र॑ गच्छ॒ यत्र॒ पूर्वे॒ परे॑ताः ॥५॥ ३३ म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥६॥ ३४ विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥७॥ ३५ ध्रु॒वासि॑ ध॒रुणे॒तो ज॑ज्ञे प्रथ॒ममे॒भ्यो योनि॑भ्यो॒ अधि॑ जा॒तवे॑दाः । स गा॑य॒त्र्या त्रि॒ष्टुभा॑नु॒ष्टुभा॑ च दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥८॥ ३६ इ॒षे रा॒ये र॑मस्व॒ सह॑से द्यु॒म्न ऊ॒र्जे अप॑त्याय । स॒म्राळ॑सि स्व॒राळ॑सि सारस्वतौ॒ त्वोत्सौ॒ प्राव॑ताम् ॥९॥ ३७ अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ । अरं॒ वह॑न्ति म॒न्यवे॑ ॥१०॥॥ ३८ यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒३ अश्वाँ॑३ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥११॥॥ (३) ३९ स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्ये॑ अ॒ग्नेः ॥१॥ ४० ऋ॒चे त्वा॑ रु॒चे त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा । अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वै॑श्वान॒रस्य॑ च ॥२॥ ४१ अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान् रु॒क्मो वर्च॑सा॒ वर्च॑स्वान् । स॒हस्र॒दा अ॑सि स॒हस्रा॑य त्वा ॥३॥ ४२ आ॒दि॒त्यं गर्भं॒ पय॑सा॒ सम॑ङ्धि स॒हस्र॑स्य प्रति॒मां वि॒श्वरू॑पम् । परि॑ वृङ्धि॒ हर॑सा॒ माभिम॑स्थाः श॒तायु॑षं कृणुहि ची॒यमा॑नः ॥४॥ ४३ वात॑स्य जू॒तिं वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒न स॑रि॒रस्य॒ मध्ये॑ । शिशुं॑ न॒दीना॒ हरि॒मद्रि॑बुध्न॒मग्ने॒ मा हि॑सीः पर॒मे व्यो॑मन् ॥५॥ ४४ अज॑स्र॒मिन्दु॑मरु॒षं भु॑र॒ण्युम॒ग्निमी॑ळे पू॒र्वचि॑त्तिं॒ नमो॑भिः । स पर्व॑भिरृतु॒शः कल्प॑मानो॒ गां मा हि॑सी॒रदि॑तिं वि॒राज॑म् ॥६॥ ४५ वरू॑त्रीं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒ना रज॑सः॒ पर॑स्मात् । म॒ही सा॑ह॒स्रीमसु॑रस्य मा॒यामग्ने॒ मा हि॑सीः प॒रमे व्यो॑मन् ॥७॥ ४६ यो अ॒ग्निर॒ग्नेरध्यजा॑यत॒ शोका॑त्पृथि॒व्या उ॒त वा॑ दि॒वस्परि॑ । येन॑ प्र॒जा वि॒श्वक॑र्मा ज॒जान॒ तम॑ग्ने॒ हेळः॒ परि॑ ते वृणक्तु ॥८॥ ८७ (७९६) चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥९॥ (४) ४८ इ॒मं मा हि॑सीर्द्वि॒पादं॑ प॒शु स॑हस्राक्ष॒ मेधा॑य ची॒यमा॑नः । म॒युं प॒शुं मेध॑मग्ने जुषस्व॒ तेन॑ चिन्वा॒नस्त॒न्वो॒ निषी॑द । म॒युं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥१॥ ४९ इ॒मं मा हि॑सी॒रेक॑शफं प॒शुं क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु । गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो॒ निषी॑द । गौ॒रं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥२॥ ५० इ॒म सा॑ह॒स्र श॒तधा॑र॒मुत्सं॑ व्य॒च्यमा॑न सरि॒रस्य॒ मध्ये॑ । घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा हि॑सीः पर॒मे व्यो॑मन् । ग॒व॒यमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो॒ निषी॑द । ग॒व॒यं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥३॥ ५१ इ॒ममू॑र्णा॒युं वरु॑णस्य॒ नाभिं॒ त्वचं॑ पशू॒नां द्वि॒पदां॒ चतु॑ष्पदाम् । त्वष्टुः॑ प्र॒जानां॑ प्रथ॒मं ज॒नित्र॒मग्ने॒ मा हि॑सीः पर॒मे व्यो॑मन् । उष्ट्र॑मार॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो॒ निषी॑द । उष्ट्रं॑ ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥४॥ ५२ अ॒जो ह्य॒ग्नेरज॑निष्ट॒ शोका॒त्सो अ॑पश्यज्जनि॒तार॒मग्रे॑ । तेन॑ दे॒वा दे॒वता॒मग्र॑माय॒स्तेन॒ रोह॑माय॒न्नुप॒ मेध्या॑सः । श॒र॒भमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो॒ निषी॑द । श॒र॒भं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥५॥ ५३ त्वं य॑विष्ठ दा॒शुषो॒ नॄ पा॑हि शृणु॒धी गिरः॑ । रक्षा॑ तो॒कमु॒त त्मना॑ ॥६॥ (५) ५४ (८०३) अ॒पां त्वेम॑न्त्सादयाम्य॒पां त्वोद्म॑न्त्सादयाम्य॒पां त्वा॒ भस्म॑न्त्सादयामि । अ॒पां त्वा॒ ज्योति॑षि सादयाम्य॒पां त्वाय॑ने सादयामि । अ॒र्ण॒वे त्वा॒ सद॑ने सादयामि समु॒द्रे त्वा॒ सद॑ने सादयामि सरि॒रे त्वा॒ सद॑ने सादयामि । अ॒पां त्वा॒ क्षये॑ सादयाम्य॒पां त्वा॒ सधि॑षि सादयामि । अ॒पां त्वा॒ सद॑ने सादयाम्य॒पां त्वा॑ स॒धस्थे॑ सादयाम्य॒पां त्वा॒ योनौ॑ सादयामि । अ॒पां त्वा॒ पुरी॑षे सादयाम्य॒पां त्वा॒ पाथ॑सि सादयामि । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा सादयामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा सादयामि॒ जाग॑तेन त्वा॒ छन्द॑सा सादयामि । आनु॑ष्टुभेन त्वा॒ छन्द॑सा सादयामि॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा सादयामि ॥१॥(६) ५५ अ॒यं पु॒रो भुवसतस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नः । गा॒य॒त्री वा॑स॒न्ती ॥१॥ ५६ गा॒य॒त्र्यै गा॑य॒त्रं गा॑य॒त्रादु॑पा॒शुरु॑पा॒शोस्त्रि॒वृत् त्रि॒वृतो॑ रथन्त॒रम् । वसि॑ष्ठ॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्रा॒णं गृ॑ह्णामि प्र॒जाभ्यः॑ ॥२॥ ५७ अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णम् । ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुब्ग्रै॒ष्मी॑ ॥३॥ ५८ त्रि॒ष्टुभः॑ स्वा॒र स्वा॒राद॑न्तर्या॒मो॑ऽन्तर्या॒मात्प॑ञ्चद॒शः प॑ञ्चद॒शाद् बृ॒हत् । भ॒रद्वा॑ज॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनो॑ गृह्णामि प्र॒जाभ्यः॑ ॥४॥ ५९ अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वैश्वव्यच॒सम् । व॒र्षाश्चा॑क्षु॒ष्यो॒ जग॑ती वा॒र्षी ॥५॥ ६० जग॑त्या॒ ऋक्स॑म॒मृक्स॑माच्छु॒क्रः शु॒क्रात्स॑प्तद॒शः स॑प्तद॒शाद्वै॑रू॒पम् । ज॒मद॑ग्नि॒रृषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्यः॑ ॥६॥ ६१ इ॒दमु॑त्त॒रात् स्व॒स्तस्य॒ श्रोत्र॑ सौ॒वम् । श॒रच्छ्रौ॒त्र्य॑नु॒ष्टुप्छा॑र॒दी ॥७॥ ६२ अ॒नु॒ष्टुभ॑ ऐ॒ळमै॒ळान्म॒न्थी म॒न्थिन॑ एकवि॒श ए॑कवि॒शाद्वै॑रा॒जम् । वि॒श्वामि॑त्र॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्यः॑ ॥८॥ ६३ इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒त्या । हे॒म॒न्तो वा॒च्यः प॒ङ्क्तिर्है॑म॒न्ती ॥९॥ ६४ प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वत आग्रय॒ण आ॑ग्रय॒णात् त्रि॑णवत्रयस्त्रि॒शौ त्रि॑णवत्रयस्त्रि॒शाभ्या॑ शाक्वररैव॒ते । वि॒श्वक॑र्म॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाचं॑ गृह्णामि प्र॒जाभ्यः॑ । लो॒कं पृ॑ण॒ ता अ॒स्येन्द्रं॒ विश्वाः॑ ॥१०॥॥ (७) ६५ (८१४) ॥इति शुक्लयजुः काण्वसंहितायां चतुर्दशोऽध्यायः॥(१४)”
“अथ पञ्चदशोऽध्यायः ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वासि॑ ध्रु॒वं योनि॒मासी॑द साधु॒या । उख्य॑स्य के॒तुं प्र॑थ॒मं जु॑षा॒णाश्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥१॥ १ कु॒ला॒यिनी॑ घृ॒तव॑ती॒ पुर॑न्धिः स्यो॒ने सी॑द॒ सद॑ने पृथि॒व्याः । अ॒भि त्वा॑ रु॒द्रा वस॑वो गृणन्त्वि॒मा ब्रह्म॑ पीपिहि॒ सौभ॑गाया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥२॥ २ (८१६) स्वै॒र्दक्षै॒र्दक्ष॑पिते॒ह सी॑द दे॒वाना॑ सु॒म्ने बृ॑ह॒ते रणा॑य । पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवा॑ स्वावे॒शा त॒न्वा॒ संवि॑शस्वा॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥३॥ ३ पृ॒थि॒व्याः पुरी॑षम॒स्यप्सो॒ नाम॒ तां त्वा॒ विश्वे॑ अ॒भिगृ॑णन्तु दे॒वाः । स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णाय॑जस्वा॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥४॥४॥ अदि॑त्यास्त्वा पृ॒ष्ठे सा॑दयाम्य॒न्तरि॑क्षस्य ध॒र्त्रीं वि॒ष्टम्भ॑नीं दि॒शामधि॑पत्नीं॒ भुव॑नानाम् । ऊ॒र्मिर्द्र॒प्सो अ॒पाम॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ । शु॒क्रश्च॒ शुचि॑श्च॒ ग्रैष्मा॑ ऋ॒तू अ॒ग्नेर॑न्तःश्ले॒षो॑ऽसि। कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः । ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे । ग्रै॒ष्मा॑ ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥५॥ (१) ५ स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैः । अ॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ । स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वसु॑भिः स॒जूर्दे॒वैर्व॑योना॒धैः । अ॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ । स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जू रु॒द्रैः स॒जूर्देवैर्व॑योना॒धैः । अ॒ग्नये॑ त्वा वैश्वान॒राया॒॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ । स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूरा॑दि॒त्यैः स॒जूर्दे॒वैर्व॑योना॒धैः । अ॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ । स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्विश्वै॑र्दे॒वैः स॒जूर्दे॒वैर्व॑योना॒धैः । अ॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥१॥ ६ प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि । चक्षु॑र्म उ॒र्व्या विभा॑हि॒ श्रोत्रं॑ मे श्लोकय ॥२॥ ७ अ॒पः पि॒न्वौष॑धीर्जिन्व द्वि॒पाद॑व॒ चतु॑ष्पात् पाहि । दि॒वो वृष्टि॒मेर॑य ॥३॥(२) ८ मू॒र्धा वयः॑ प्र॒जाप॑ति॒श्छन्दः॑ क्ष॒त्रं वयो॒ मयं॑दं॒ छन्दः॑ । वि॒ष्ट॒म्भो वयोऽधि॑पति॒श्छन्दो॑ वि॒श्वक॑र्मा॒ वयः॑ परमे॒ष्ठी छन्दः॑ ॥१॥ ९ ब॒स्तो वयो॑ विव॒लं छन्दो॒ वृष्णि॒र्वयो॑ विशा॒लं छन्दः॑ । पुरु॑षो॒ वय॑स्त॒न्द्रं छन्दो॑ व्या॒घ्रो वयोऽना॑धृष्टं॒ छन्दः॑ ॥२॥ १० (८२४) सि॒हो वय॑श्छ॒दिश्छन्दः॑ पष्ठ॒वाड्वयो॑ बृह॒ती छन्दः॑ । उ॒क्षा वयः॑ क॒कुप्छन्दः॑ ऋष॒भो वयः॑ स॒तोबृ॑हती॒ छन्दः॑ ॥३॥ ११ अ॒न॒ड्वान्वयः॑ प॒ङ्क्तिश्छन्दो॑ धे॒नुर्वयो॒ जग॑ती॒ छन्दः॑ । त्र्यवि॒र्वय॑स्त्रि॒ष्टुप् छन्दो॑ दित्य॒वाड्वयो॑ वि॒राट् छन्दः॑ ॥४॥ १२ पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्त्रिव॒त्सो वय॑ उ॒ष्णिक् छन्दः॑ । तु॒र्य॒वाड्वयो॑ऽनु॒ष्टुप्छन्दो लो॒कं पृ॑ण॒ ता अ॒स्येन्द्रं॒ विश्वाः॑ ॥५॥ (३) १३ इन्द्रा॑ग्नी॒ अव्य॑थमाना॒मिष्ट॑कां दृहतं यु॒वम् । पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं च॒ विबा॑धसे ॥१॥ १४ वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीम् । अ॒न्तरि॑क्षं यच्छा॒न्तरि॑क्षं दृहा॒न्तरि॑क्षं॒ मा हि॑सीः । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य । वा॒युष्ट्वा॒भिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥२॥ १५ राज्ञ्य॑सि॒ प्राची॒ दिग्वि॒राळ॑सि॒ दक्षि॑णा॒ दिक् स॒म्राळ॑सि प्र॒तीची॒दिक् स्व॒राळ॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दिक् । वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे ज्योति॑ष्मतीम् । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ । वा॒युष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द । नभ॑श्च नभ॒स्य॑श्च॒ वार्षि॑का ऋ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॑ऽसि॒ । कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः । ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे । वार्षि॑का ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् । इ॒षश्चो॒र्जश्च॑ शार॒दा ऋ॒तू अ॒ग्नेर॑न्तःश्ले॒षो॑ऽसि॒ । कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒प॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः । ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे । शा॒र॒दा ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥३॥ (४) १६ आयु॑र्मे पाहि प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि । चक्षु॑र्मे पाहि॒ श्रोत्रं॑ मे पाहि॒ वाचं॑ मे पिन्व॒ मनो॑ मे जिन्वा॒त्मानं॑ मे पाहि॒ ज्योति॑र्मे यच्छ ॥१॥ १७ (८३१) मा छन्दः॑ प्र॒मा छन्दः॑ प्रति॒मा छन्दो॑ अस्री॒वय॒श्छन्दः॑ । प॒ङ्क्तिश्छन्द॑ उ॒ष्णिक् छन्दः॑ ॥२॥ १८ बृ॒ह॒ती छन्दो॑ऽनु॒ष्टुप् छन्दो॑ वि॒राट् छन्दो॑ गा॑य॒त्री छन्दः॑ । त्रि॒ष्टुप् छन्दो॒ जग॑ती॒ छन्दः॑ ॥३॥ १९ पृ॒थि॒वी छन्दो॒ऽन्तरि॑क्षं॒ छन्दो॒ द्यौ॒श्छन्दः॒ समा॒श्छन्दः॑ । नक्ष॑त्राणि॒ छन्दो॒ वाक् छन्दः॑ ॥४॥ २० मन॒श्छन्दः॑ कृ॒षिश्छन्दो॒ हिर॑ण्यं॒ छन्दो॒ गौश्छन्दः॑ । अ॒जाछन्दोऽश्व॒श्छन्दः॑ ॥५॥ २१ अ॒ग्निर्दे॒वता॒ वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॑ । वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑ । आ॒दि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॒ बृह॒स्पति॑र्दे॒वता॑ । इन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ ॥६॥ (५) २२ मू॒र्धासि॒ राड् ध्रु॒वासि॑ ध॒रुणा॑ ध॒र्त्र्य॑सि॒ धर॑णी । आयु॑षे त्वा॒ वर्च॑से त्वा कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा ॥१॥ २३ यन्त्री॒ राड् य॒न्त्र्य॑सि॒ यम॑नी ध्रु॒वासि॒ धरि॑त्री । इ॒षे त्वो॒र्जे त्वा॑ र॒य्यै त्वा॒ पोषा॑य त्वा । लो॒कं पृ॑ण ता अ॒स्येद्रं॒ विश्वाः॑ ॥२॥(६) २४ आ॒शुस्त्रि॒वृद्भा॒न्तः प॑ञ्चद॒शो व्यो॑मा सप्तद॒शो ध॒रुण॑ एकवि॒शः प्रतू॑र्तिरष्टाद॒शः । तपो॑ नवद॒शोऽभीव॒र्तः स॑वि॒शो वर्चो॑ द्वावि॒शः सं॒भर॑णस्त्रयोवि॒शो योनि॑श्चतुर्वि॒शः ॥१॥ २५ गर्भाः॑ पञ्चवि॒शः ओज॑स्त्रिण॒वः क्रतु॑रेकत्रि॒शः प्र॑ति॒ष्ठा त्र॑यस्त्रि॒शो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒शः । नाकः॑ षट्त्रि॒शो वि॑व॒र्तो॑ऽष्टाचत्वारि॒शो ध॒र्त्रं च॑तुष्टो॒मः ॥२॥ (७) २६ अ॒ग्नेर्भा॒गो॑ऽसि दी॒क्षाया॒ आधि॑पत्यं॒ ब्रह्म॑ स्पृ॒तं त्रि॒वृत्स्तोमः॑ । इन्द्र॑स्य भा॒गो॑सि॒ विष्णो॒राधि॑पत्यं क्ष॒त्र स्पृ॒तं प॑ञ्चद॒श स्तोमः॑ ॥१॥ २७ नृ॒चक्ष॑सां भा॒गो॑ऽसि धा॒तुराधि॑पत्यं ज॒नित्र॑ स्पृ॒त स॑प्तद॒श स्तोमः॑ । मि॒त्रस्य॑ भा॒गो॑ऽसि॒ वरु॑ण॒स्याधि॑पत्यं दि॒वो वृष्टि॒र्वात॑ स्पृ॒त ए॑कवि॒श स्तोमः॑ ॥२॥ २८ वसू॑नां भा॒गो॑ऽसि रु॒द्राणा॒माधि॑पत्यं॒ चतु॑ष्पात् स्पृ॒तं च॑तुर्वि॒श स्तोमः॑ । आ॒दि॒त्यानां॑ भा॒गो॑ऽसि म॒रुता॒माधि॑पत्यं॒ गर्भा॑ स्पृ॒ताः प॑ञ्चवि॒श स्तोमः॑ ॥३॥ २९ अदि॑तेर्भा॒गो॑ऽसि पू॒ष्ण आधि॑पत्य॒मोज॑ स्पृ॒तं त्रि॑ण॒व स्तोमः॑ । दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसि॒ बृह॒स्पते॒राधि॑पत्य स॒मीची॒र्दिश॑ स्पृ॒ताश्च॑तुष्टो॒म स्तोमः॑ ॥४॥ ३० (८४४) यवा॑नां भा॒गो॒ऽस्यय॑वाना॒माधि॑पत्यं प्र॒जा स्पृ॒ताश्च॑तुश्चत्वारि॒श स्तोमः॑ । ऋ॒भू॒णां भा॒गो॑ऽसि॒ विश्वे॑षां दे॒वाना॒माधि॑पत्यं भू॒त स्पृ॒तं त्र॑यस्त्रि॒श स्तोमः॑ । सह॑श्च सह॒स्य॑श्च॒ हैम॑न्तिका ऋ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॑ऽसि॒ । कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः । ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे । है॑मन्तिका ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥५॥ (८) ३१ एक॑यास्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत् । प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒तानां॒ पति॒रधि॑पतिरासीत्स॒प्तभि॑रस्तुवत सप्त ऋ॒षयो॑ऽसृज्यन्त धा॒ताधि॑पतिरासीत् ॥१॥ ३२ न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑पत्न्यासीदेकाद॒शभि॑रस्तुवत ऋ॒तवो॑ऽसृज्यन्तार्त॒वा अधि॑पतय आसन् । त्र॒यो॒द॒शभि॑रस्तुवत॒ मासा॑ असृज्यन्त संवत्स॒रोऽधि॑पतिरासीत्पञ्चद॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रोऽधि॑पतिरासीत् ॥२॥ ३३ स॒प्तद॒शभि॑रस्तुवत ग्रा॒म्याः प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीन्नवद॒शभि॑रस्तुवत शूद्रा॒र्या अ॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ताम् । एक॑विशत्यास्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त् । त्रयो॑विशत्यास्तुवत क्षु॒द्राः प॒शवो॑ऽसृज्यन्त पू॒षाधि॑पतिरासीत् ॥३॥ ३४ पञ्च॑विशत्यास्तुवतार॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत्स॒प्तवि॑शत्यास्तुवत॒ द्यावा॑पृथि॒वी व्यै॑तां॒ वस॑वो रु॒द्रा आ॑दि॒त्या अ॑नु॒व्या॑य॒स्त ए॒वाधि॑पतय आसन् । नव॑विशत्यास्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिरासी॒देक॑त्रिशतास्तुवत प्र॒जा अ॑सृज्यन्त॒ यवा॒श्चाय॑वा॒श्चाधि॑पतय आसन् । त्रय॑स्त्रिशतास्तुवत भू॒तान्य॑शाम्यन्प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासीत् । लो॒कं पृ॑ण॒ ता अ॒स्येन्द्रं॒ विश्वाः॑ ॥४॥ (९) ३५ (८४९) ॥इति शुक्लयजुः काण्वसंहितायां पञ्चदशोऽध्यायः॥ (१५)”
“अथ षोडशोऽध्यायः अग्ने॑ जा॒तान्प्रणु॑दा नः स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सु॒मना॒ अहे॑ळस्तव॑ स्याम॒ शर्मस्त्रि॒वरू॑थ उद्भौ ॥१॥ सह॑सा जा॒तान्प्रणु॑दा नः स॒पत्ना॒न्प्रत्यजा॑तान्नुद जातवेदः । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒य स्या॑म॒ प्रणु॑दा नः स॒पत्ना॑न् । षो॒ळ॒शी स्तोम॒ ओजो॒ द्रवि॑णं चतुश्चत्वारि॒श स्तोमो॒ वर्चो॒ द्रवि॑णम् ॥२॥ २ अ॒ग्नेः पुरी॑षम॒स्यप्सो॒ नाम॒ तां त्वा॒ विश्वे॑ अ॒भिगृ॑णन्तु दे॒वाः । स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णाय॑जस्व ॥३॥ ३ एव॒श्छन्दो॒ वरि॑व॒श्छन्दः॑ श॒म्भूश्छन्दः॑ प॑रि॒भूश्छन्दः॑ । आ॒च्छच्छन्दो॒ मन॒श्छन्दो व्यच॒श्छन्दः॑ ॥४॥ ४ सिन्धु॒श्छन्दः॑ समु॒द्रश्छन्दः॑ सरि॒रं छन्दः॑ । क॒कुप् छन्द॑स्त्रिक॒कुप् छन्दः॑ का॒व्यं छन्दो॑ अङ कु॒पं छन्दः॑ ॥५॥ ५ अ॒क्षर॑पङ्क्ति॒श्छन्दः॑ प॒दप॑ङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्दः॑ क्षु॒रोभ्राज॒श्छन्दः॑ । आ॒च्छच्छन्दः॑ प्र॒च्छच्छन्दः॑ सं॒यच्छन्दो॑ वि॒यच्छन्दः॑ ॥६॥ ६ बृ॒हच्छन्दो॑ रथन्त॒रं छन्दो॑ निका॒यश्छन्दो॑ विव॒धश्छन्दः॑ । गिर॒श्छन्दो॒ भ्रज॒श्छन्दः॑ स॒स्तुप् छन्दो॑ऽनु॒ष्टुप् छन्दः॑ ॥७॥ ७ एव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दः॑ । विष्प॑र्धा॒श्छन्दो॑ विशा॒लं छन्द॑श्छ॒दिश्छन्दो॑ दूरोह॒णं छन्दः॑ । त॒न्द्रं छन्दो॑ अङ्का॒ङ्कं छन्दः॑ ॥८॥ (१) ८ र॒श्मिना॑ स॒त्याय॑ स॒त्यं जि॑न्व॒ प्रेति॑ना॒ धर्म॑णा॒ धर्मं॑ जिन्व । अन्वि॑त्या दि॒वा दिवं॑ जिन्व स॒न्धिना॒न्तरि॑क्षेणा॒न्तरि॑क्षं जिन्व ॥१॥ ९ प्र॒ति॒धिना॑ पृथि॒व्या पृ॑थि॒वीं जि॑न्व विष्ट॒म्भेन॒ वृष्ट्या॒ वृष्टिं॑ जिन्व । प्र॒वयाह्नाह॑र्जिन्वानु॒या रात्र्या॒ रात्रीं॑ जिन्व ॥२॥ १० उ॒शिजा॒ वसु॑भ्यो॒ वसू॑ञ्जिन्व प्रके॒तेना॑दि॒त्येभ्य॑ आदि॒त्याञ्जि॑न्व । तन्तु॑ना रा॒यस्पोषे॑ण रा॒यस्पोषं॑ जिन्व सस॒र्पेण॑ श्रु॒ताय॑ श्रु॒तं जि॑न्व ॥३॥ ११ ऐ॒ळेनौष॑धीभि॒रोष॑धीर्जिन्वोत्त॒मेन॑ त॒नूभि॑स्त॒नूर्जि॑न्व । व॒यो॒धसाधी॑ते॒नाधी॑तं जिन्वाभि॒जिता॒ तेज॑सा॒ तेजो॑ जिन्व ॥४॥ १२ प्र॒ति॒पद॑सि प्रति॒पदे॑ त्वानु॒पद॑स्यनु॒पदे॑ त्वा । स॒म्पद॑सि स॒म्पदे॑ त्वा॒ तेजो॑ऽसि॒ तेज॑से त्वा ॥४॥ १३ त्रि॒वृद॑सि त्रि॒वृते॑ त्वा प्र॒वृद॑सि प्र॒वृते॑ त्वा । वि॒वृद॑सि वि॒वृते॑ त्वा स॒वृद॑सि स॒वृते॑ त्वा ॥६॥ १४ (८६३) आ॒क्र॒मो॑ऽस्याक्र॒माय॑ त्वा सङ्क्र॒मो॑ऽसि सङ्क्र॒माय॑ त्वा । उ॒त्क्र॒मो॑ऽस्युत्क्र॒माय॒ त्वोत्क्रा॑न्तिर॒स्युत्क्रा॑न्त्यै त्वा । अधि॑पतिनो॒र्जोर्जं॑ जिन्व॒ वेष॑श्रीः क्ष॒त्राय॑ क्ष॒त्रं जि॑न्व ॥७॥ (२) १५ राज्ञ्य॑सि॒ प्राची॒ दिग्वस॑वस्ते दे॒वा अधि॑पतयः । अ॒ग्निर्हे॑ती॒नां प्र॑तिध॒र्ता ॥१॥ १६ त्रि॒वृत् त्वा॒ स्तोमः॑ पृथि॒व्या श्र॑य॒त्वाज्य॑मु॒क्थमव्य॑थायै स्तभ्नातु । र॒थ॒न्त॒र साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्षे ॥२॥ १७ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु । वि॒ध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥३॥ १८ वि॒राळ॑सि॒ दक्षि॑णा॒ दिग्रु॒द्रास्ते॑ दे॒वा अधि॑पतयः । इन्द्रो॑ हेती॒नां प्र॑तिध॒र्ता ॥४॥ १९ प॒ञ्च॒द॒शस्त्वा॒ स्तोमः॑ पृथि॒व्या श्र॑यतु॒ प्र उग॑मु॒क्थमव्य॑थायै स्तभ्नातु । बृ॒हत्साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्षे ॥५॥ २० ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु । वि॒ध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदांना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥६॥ २१ स॒म्राळ॑सि प्र॒तीची॒ दिगा॑दि॒त्यास्ते॑ दे॒वा अधि॑पतयः । वरु॑णो हेती॒नां प्र॑तिध॒र्ता ॥७॥ २२ स॒प्तद॒शस्त्वा॒ स्तोमः॑ पृथि॒व्या श्र॑यतु मरुत्व॒तीय॑मु॒क्थमव्य॑थायै स्तभ्नातु । वै॒रू॒प साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्षे ॥८॥ २३ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु । वि॒ध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥९॥ २४ स्व॒राळ॒स्युदी॑ची॒ दिङ् म॒रुत॑स्ते दे॒वा अधि॑पतयः । सोमो॑ हेती॒नां प्र॑तिध॒र्ता ॥१०॥॥ २५ ए॒क॒वि॒शस्त्वा॒ स्तोमः॑ पृथि॒व्या श्र॑यतु॒ निष्के॑वल्यमु॒क्थमव्य॑थायै स्तभ्नातु । वै॒रा॒ज साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्षे ॥११॥॥ २६ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु । वि॒ध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥१२॥ २७ अधि॑पत्न्यसि बृह॒ती दिग्विश्वे॑ ते दे॒वा अधि॑पतयः । बृह॒स्पति॑र्हेती॒नां प्र॑तिध॒र्ता ॥१३॥ २८ (८७७) त्रि॒ण॒व॒त्र॒य॒स्त्रि॒शौ त्वा॒ स्तोमौ॑ पृथि॒व्या श्र॑यतां वैश्वदेवाग्निमारु॒ते उ॒क्थे अव्य॑थायै स्तभ्नीताम् । शा॒क्व॒र॒रै॒व॒ते साम॑नी॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्षे ॥१४॥ २९ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु । विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥१५॥ (३) ३० अ॒यं पु॒रो हरि॑केशः॒ सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒त्सश्च॒ रथौ॑जाश्च सेनानीग्राम॒ण्यौ॑ । पु॒ञ्जि॒क॒स्थ॒ला च॑ क्रतुस्थ॒ला चा॑प्स॒रसौ॑ द॒ङ्क्ष्णवः॑ प॒शवो॑ हे॒तिः पौ॑रुषेयो व॒धः प्रहे॑तिः ॥१॥ ३१ तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ मृळयन्तु॒ ते नो॑ऽवन्तु । ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥२॥ ३२ अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानीग्राम॒ण्यौ॑ । मे॒न॒का च॑ सहज॒न्या चा॑प्स॒रसौ॑ यातु॒धाना॑ हे॒ती रक्षा॑सि॒ प्रहे॑तिः ॥३॥ ३३ तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ मृळयन्तु॒ ते नो॑ऽवन्तु । ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥४॥ ३४ अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानीग्राम॒ण्यौ॑ । प्र॒म्लोच॑न्ती चानु॒म्लोच॑न्ती चाप्स॒रसौ॑ व्या॒घ्रा हे॒तिः स॒र्पा प्रहे॑तिः ॥५॥ ३५ तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ मृळयन्तु॒ ते नो॑ऽवन्तु । ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥६॥ ३६ अ॒यमु॑त्त॒रात्सं॒यद्व॑सु॒स्तस्य॒ तार्क्ष्य॒श्चारि॑ष्टनेमिश्च सेनानीग्राम॒ण्यौ॑ । वि॒श्वाची॑ च घृ॒ताची॑ चाप्स॒रसा॒ आपो॑ हे॒तिर्वातः॒ प्रहे॑तिः ॥७॥३॥७॥ तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ मृळयन्तु॒ ते नो॑ऽवन्तु । ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥८॥ ३८ अ॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानीग्राम॒ण्यौ॑ । उ॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाप्स॒रसा॑ अव॒स्फूर्ज॑न्हे॒तिर्वि॒द्युत्प्रहे॑ति॒ ॥९॥ ३९ तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ मृळयन्तु॒ ते नो॑ऽवन्तु। ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥१०॥॥ ४० अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पा रेता॑सि जिन्वति ॥१॥ ४१ अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्धा क॒वी र॑यी॒णाम् ॥२॥ ४२ त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥३॥ ४३ (८९२) भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥४॥ ४४ अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म् । य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥५॥ ४५ अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे॑ । गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी॑व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् ॥६॥ ४६ अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शेवि॑शे ॥७॥ ४७ जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से । घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्यः॒ शुचिः॑ ॥८॥ ४८ त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दच्छिश्रिया॒णं वने॑वने । स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत्त्वामा॑हुः॒ सह॑सस्पु॒त्रम॑ङ्गिरः ॥९॥ ४९ सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिष॒ स्तोमं॑ चा॒ग्नये॑ । वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥१०॥॥ ५० सस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ । इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥११॥॥ ५१ त्वाम॑ग्ने ह॒विष्म॑न्तो दे॒वं मर्ता॑स ईळते । मन्ये॑ त्वा जा॒तवे॑दस॒ स ह॒व्या व॑क्ष्यानु॒षक् ॥१२॥ ५२ त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तवः॑ । शो॒चिष्के॑शं पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोळह॑वे ॥१३॥ ५३ ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒माहु॑वे । प्रि॒यं चेति॑ष्ठमर॒ति स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म् ॥१४॥ ५४ विश्व॑स्य दू॒तम॒मृतं॒ विश्व॑स्य दू॒तम॒मृत॑म् । स यो॑जते अरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त्स्वा॑हुतः ॥१५॥ ५५ स दु॑द्रव॒त् स्वा॑हुतः॒ स दु॑द्रव॒त् स्वा॑हुतः । सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ वसू॑नां दे॒व राधो॒ जना॑नाम् ॥१६॥ ५६ अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो । अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑ ॥१७॥ ५७ स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒डेन्यो॑ गि॒रा । रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ॥१८॥ ५८ क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषसः॑ । स ति॑ग्मजम्भ र॒क्षसो॑ दह॒ प्रति॑ ॥१९॥ ५९ भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः । भ॒द्रा उ॒त प्रश॑स्तयः ॥२०॥॥ ६० भ॒द्रा उ॒त प्रश॑स्तयो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॑ । येना॑ स॒मत्सु॑ सा॒सहः॑ ॥२१॥॥ ६१ येना॑ स॒मत्सु॑ सा॒सहोऽव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑ताम् । व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥२२॥॥ ६२ अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नवः॑ । अस्त॒मर्व॑न्त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इष॑ स्तो॒तृभ्य॒ आभ॑र ॥२३॥ ६३ (९१२) सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नवः॑ । समर्व॑न्तो रघु॒द्रुवः॒ स सु॑जा॒तासः॑ सू॒रय॒ इष॑ स्तो॒तृभ्य॒ आभ॑र ॥२४॥ ६४ उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी॑ श्रीणीष आ॒सनि॑ । उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इष॑ स्तो॒तृभ्य॒ आभ॑र ॥२५॥ ६५ अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्र हृ॑दि॒स्पृश॑म् । ऋ॒ध्यामा॑ त॒ ओहैः॑ ॥२६॥ ६६ अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः । र॒थीरृ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥२७॥ ६७ ए॒भिर्नो॑ अर्कै॒र्भवा॑ नो अ॒र्वाङ् स्व॒र्ण ज्योतिः॑ । अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥२८॥ ६८ अ॒ग्नि होता॑रं मन्ये॒ दास्व॑न्तं॒ वसु॑ सू॒नु सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम् । य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा । घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑वष्टि शो॒चिषा॒जुह्वा॑नस्य स॒र्पिषः॑ ॥२९॥६॥९॥ अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ । वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑म र॒यिन्दाः॑ । तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥३०॥॥ (५) ७० येन॒ ऋष॑य॒स्तप॑सा स॒त्रमाय॒न्निन्धा॑ना अ॒ग्नि स्व॑रा॒भर॑न्तः । तस्मि॑न्न॒हं निद॑धे॒ नाके॑ अ॒ग्निं यमा॒हुर्मन॑व स्ती॒र्णब॑र्हिषम् ॥१॥ ७१ तं पत्नी॑भि॒रनु॑ गच्छेम देवाः पुत्रै॒र्भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः । नाकं॑ गृभ्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑रोच॒ने दि॒वः ॥२॥ ७२ आ वा॒चो मध्य॑मरुहद्भुर॒ण्युर॒यम॒ग्निः सत्प॑ति॒श्चेकि॑तानः । पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुतां॒ ये पृ॑त॒न्यवः॑ ॥३॥ ७३ अ॒यम॒ग्निर्वी॒रत॑मो वयो॒धाः स॑ह॒स्रियो॑ द्योतता॒मप्र॑युच्छन् । वि॒भ्राज॑मानः सरि॒रस्य॒ मध्य॒ उप॒ प्रया॑हि दि॒व्यानि॒ धाम॑ ॥४॥ ७४ सं॒प्रच्य॑वध्व॒मुप॑ सं॒प्रया॒ताग्ने प॒थो दे॑व॒याना॑न् कृणुध्वम् । पुनः॑ कृण्वा॒ना पि॒तरा॒ युवा॑ना॒न्वाता॑सी॒त् त्वयि॒ तन्तु॑मे॒तम् ॥५॥ ७५ उद्बु॑ध्यस्वाग्ने॒ प्रति॑जागृहि॒ त्वमि॑ष्टापू॒र्ते स सृ॑जेथाम॒यं च॑ । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानाश्च सीदत ॥६॥ ७६ येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ नय॒ स्व॑र्दे॒वेषु॒ गन्त॑वे ॥७॥ ७७ अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न आरो॒हाथा॑ नो वर्धया र॒यिम् ॥८॥ (६) ७८ (९२७) तप॑श्च तप॒स्य॑श्च शैशि॒रा ऋ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॑ऽसि॒ । कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ् मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः । ये अ॒ग्नयः॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे । शै॒शि॒रा ऋ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् । प॒रमे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे ज्योति॑ष्मतीम् । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाया॒ विश्वं॒ ज्योति॑र्यच्छ। सूर्य॒स्तेऽधि॑पति॒स्तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥१॥ ७९ लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद ध्रु॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑ असीषदन् ॥२॥ ८० ता अ॑स्य॒ सूद॑दोहसः॒ सोम॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वारो॑च॒ने दि॒वः ॥३॥ ८१ इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ । र॒थीत॑म र॒थीनां॒ वाजा॑ना॒ सत्प॑तिं॒ पति॑म् ॥४॥ ८२ प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त् । आद॑स्य॒ वातो॒ अनु॑वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥५॥ ८३ आ॒योष्ट्वा॒ सद॑ने सादया॒म्यव॑तश्छा॒याया समु॒द्रस्य॒ हृद॑ये । र॒श्मी॒वतीं॒ भास्व॑ती॒मा या द्यां भास्यापृ॑थि॒वीमोर्व॒न्तरि॑क्षम् । प॒र॒मे॒ष्ठी त्वा॑ सादयतु दि॒वस्पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वती॒म् । दिवं॑ यच्छ॒ दिवं॑ दृह॒ दिवं॒ मा हि॑सीः । विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य । सूर्य॑स्त्वा॒भिपा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शंत॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥६॥ ८४ स॒हस्र॑स्य प्र॒मासि॑ स॒हस्र॑स्य प्रति॒मासि॑ स॒हस्र॑स्यो॒न्मासि॑ सा॒ह॒स्रो॑ऽसि स॒हस्रा॑य त्वा ॥७॥(७) ८५ (९३४) ॥इति शुक्लयजुः काण्वसंहितायां षोडशोऽध्यायः॥ (१६)”
“अथ सप्तदशोऽध्यायः नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ । बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥१॥ १ या ते॑ रुद्र शि॒वा त॒नूरघो॒रापा॑पकाशिनी । तया॑ नस्त॒न्वा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ॥२॥ २ यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑सीः॒ पुरु॑षं॒ जग॑त् ॥३॥ ३ शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि । यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्म सु॒मना॒ अस॑त् ॥४॥ अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दै॑व्यो भि॒षक् । अही॑श्च॒ सर्वा॑ञ्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॑ऽध॒राचीः॒ परा॑सुव ॥५॥ असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑ । ये चै॑न रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ हेळ॑ ईमहे ॥६॥ ६ असौ॒ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः॒ स दृ॒ष्टो मृ॑ळयाति नः ॥७॥ ७ नमो॑ऽस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ळहुषे॑ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑ ॥८॥ ८ प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ॥९॥ ९ विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ३ उ॒त । अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ॥१०॥॥ १० परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ॥११॥॥ ११ या ते॑ हे॒तिर्मी॑ळहुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒स्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ भुज ॥१२॥ १२ अ॒व॒तत्य॒ धनु॒ष्ट्व सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥१३॥ १३ नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥१४॥ १४ मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः ॥१५॥ १५ मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । मा नो॑ वी॒रान् रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्तः॒ सद॒मित् त्वा॑ हवामहे ॥१६॥ (१) १६ नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमः॑ । नमः॑ श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमः॑ ॥१॥ १७ नमो॑ बभ्रु॒शाया॑व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमः॑ । नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑ सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नमः॑ ॥२॥ १८ नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमः॑ । नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमः॑ ॥३१॥९॥ (९५३) नमः॑ कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमः॑ । नमः ककु॒भाय॑ निष॒ङ्गिणे॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमः॑ ॥४॥ २० नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमः॑ । नमः॑ सृका॒यिभ्यो॒ जिघा॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नमः॑ ॥५॥ (२) २१ नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमः॑ । नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्योऽस्य॑द्भ्यश्च वो॒ नमः॑ ॥१॥ २२ नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमः॑ । नमः॒ शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमः॑ ॥२॥ २३ नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमोऽश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमः॑ । नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृह॒तीभ्य॑श्च वो॒ नमः॑ ॥३॥ २४ नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमः॑ । नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमः॑ ॥४॥ २५ नमः॒ सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒थेभ्य॑श्च वो॒ नमः॑ । नमः॑ क्ष॒तृभ्य॑ सङ्गृही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नमः॑ ॥५॥ (३) २६ नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः क॒र्मारे॑भ्यश्च वो॒ नमः॑ । नमो॑ निषा॒देभ्यः॑ पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नमः॑ श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नमः॑ ॥१॥ २७ नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ । नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ॥२॥ २८ नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒ नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ । नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ळहुष्ट॑माय॒ चेषु॑मते च ॥२९॥ नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च। नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमोऽग्र्या॑य च प्रथ॒माय॑ च ॥४॥ ३० नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नमः॒ शीघ्र्या॑य च॒ शीभ्या॑य च॒ । नम॒ ऊर्म्या॑य चावस्व॒न्या॑य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ॥५॥ (४) ३१ (९६५) नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒ । नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च बु॒ध्न्या॑य च ॥१॥ ३२ नमः॒ सोभ्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ । नमः॒ श्लोक्या॑य चावसा॒न्या॑य च॒ नम॑ उर्व॒र्या॑य च॒ खल्या॑य च ॥२॥ ३३ नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च । नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभे॒दिने॑ च ॥३॥ ३४ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च । नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च ॥४॥ ३५ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च । नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च ॥५॥ (५) ३६ नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॒ काट्या॑य च॒ नीप्या॑य च । नमः॒ कुल्या॑य च सर॒स्या॑य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ॥१॥ ३७ नमः॒ कूप्या॑य चाव॒ट्या॑य च॒ नम॒ ईध्र्या॑य चात॒प्या॑य च। नमो॒ मेघ्या॑य च च विद्यु॒त्या॑य॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ॥२॥ ३८ नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च । नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ॥३॥ ३९ नमः॑ श॒ङ्गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च । नमो॑ऽग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च ॥४॥ ४० नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ । नमः॑ शम्भ॒वे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ । च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ॥५॥ (६) ४१ नमः॒ पार्या॑य चावा॒र्या॑य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च । नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॒ शष्प्या॑य च॒ फेन्या॑य च ॥१॥ ४२ नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च॒ नमः॑ किशि॒लाय॑ च क्षय॒णाय॑ च । नमः॑ कप॒र्दिने॑ च पुल॒स्ति॑ने च॒ नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च ॥२॥ ४३ नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च । नमो॑ हृद्या॑य च निवे॒ष्या॑य च॒ नमः॒ काट्या॑य च गह्वरे॒ष्ठाय॑ च ॥३॥ ४४(९७८) नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒ नमः॑ पास॒व्या॑य च रज॒स्या॑य च । नमो॒ लोप्या॑य चोल॒प्या॑य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ॥४॥ ४५ नमः॑ प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॑ । नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमः॑ । नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्यः॑ ॥५॥ (७) ४६ द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित । आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मो रो॒ङ्मो च॑ नः॒ किञ्च॒नाम॑मत् ॥१॥ ४७ इ॒मा रु॒द्राय॑ त॒वसे॑ क॒प॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तीः । यथा॒ शमस॑द् द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ॥२॥ ४८ या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी । शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृळ जी॒वसे॑ ॥३॥ ४९ परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्या॒त् परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒हीगा॑त् । अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥४॥ ५० मीळहु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव । प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ॥५॥ ५१ विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्र॑ हे॒तयो॒ऽन्यम॒स्मन्निव॑पन्तु॒ ताः ॥६॥ ५२ स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तयः॑ । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥७॥ ५३ असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् । तेषाँ॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥८॥ ५४ अ॒स्मिन् म॑ह॒त्य॑र्ण॒वे॒ऽन्तरि॑क्षे भ॒वा अधि॑ । तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥९॥ ५५ नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ रु॒द्रा उपा॑श्रिताः । तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥१०॥॥ ५६ नील॑ग्रीवाः शिति॒कण्ठाः॑ श॒र्वा अ॒धः क्ष॑माच॒राः । तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥११॥॥ ५७ ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥१२॥ ५८ ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ । तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥१३॥ ५९ ये प॒थां प॑थिर॒क्षिण॑ ऐलबृ॒दा आ॑यु॒र्युधः॑ । तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥१४॥ ६० ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिणः॑ । तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥१५॥ ६१ येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् । तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥१६॥ ६२ य ए॒ताव॑न्तश्च॒ भूया॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषा॑ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ॥१७॥ ६३ नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः । तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ मृळयन्तु॒ ते नो॑ऽवन्तु । ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः । नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये॒ऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः । तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ मृळयन्तु॒ ते नो॑ऽवन्तु । ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः । नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः । तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ मृळयन्तु॒ ते नो॑ऽवन्तु । ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ॥१८॥ (८) ६४ ॥इति शुक्लयजुः काण्वसंहितायां सप्तदशोऽध्यायः॥(१७)”
“अथाष्टादशोऽध्यायः । अश्म॒न्नूर्जं॒ पर्व॑ते शिश्रिया॒णाम॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पति॑भ्यो॒ अधि॒ संभृ॑तं॒ पयः॑ । तां न॒ इष॒मूर्जं॑ धत्त मरुतः सररा॒णा अश्म॑स्ते॒ क्षुन्मयि॑ त॒ ऊर्यं व द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ॥१॥ १ इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वेका॑ च॒ दश॑ च॒ दश॑ च श॒तं च॑ श॒तं च॑ । स॒हस्रं॑ च स॒हस्रं॑ चा॒युतं॑ चा॒युतं॑ च नि॒युतं॑ च नि॒युतं॑ च ॥२॥ २ अर्बु॑दं च॒ न्य॑र्बुदं समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्धश्च॑ । ए॒ता मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ सन्त्व॒मुत्रा॒मुष्मिँ॑ल्लो॒के ॥३॥ ३ ऋ॒तव॑ स्थ ऋता॒वृध॑ ऋतु॒ष्ठा स्थ॑ ऋता॒वृधः॑ । घृ॒त॒श्च्युतो॑ मधु॒श्च्युतो॑ वि॒राजो॒ नाम॑ काम॒दुघा॒ अक्षी॑यमाणाः ॥४॥ ४ स॒मु॒द्रस्य॒ त्वाव॑क॒याग्ने॒ परि॑व्ययामसि । पा॒व॒को अ॒स्मभ्य॑ शि॒वो भ॑व ॥५॥ ५ हि॒मस्य॑ त्वा ज॒रायु॒णाग्ने॒ परि॑व्ययामसि । पा॒व॒को अ॒स्मभ्य॑ शि॒वो भ॑व ॥६॥ ६ (१००४) उप॒ ज्मन्नुप॑ वेत॒सेऽव॑तर न॒दीष्वा । अग्ने॑ पि॒त्तम॒पाम॑सि॒ मण्डू॑कि॒ ताभि॒राग॑हि॒ सेमं नो॑ य॒ज्ञं पा॑व॒कव॑र्ण शिवं कृ॑धि ॥७॥ ७ अ॒पामि॒दं न्यय॑न समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्यास्ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्य॑ शि॒वो भ॑व ॥८॥ ८ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ । आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥९॥ ९ स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाँ३ इ॒हा व॑ह । उप॑ य॒ज्ञ ह॒विश्च॑ नः ॥१०॥॥ १० पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न् रुरु॒च उ॒षसो॒ न भा॒नुना॑ । तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ॥११॥॥ ११ नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ । अ॒न्यास्ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्य॑ शि॒वो भ॑व । नृ॒षदे॒ वेळ॑प्सु॒षदे॒ वेड् ब॑र्हि॒षदे॒ वेड् । व॑न॒सदे॒ वेट् स्व॒र्विदे॒ वेट् ॥१२॥ १२ ये दे॒वा दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑ना संवत्स॒रीण॒मुप॑ भा॒गमास॑ते । अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्त्स्व॒यं पि॑बन्तु॒ मधु॑नो घृ॒तस्य॑ ॥१३॥ १३ ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न्ये ब्रह्म॑णः पुरए॒तारो॑ अ॒स्य । येभ्यो॑ न ऋ॒ते पव॑ते॒ धाम॒ किञ्च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑॥ १४॥ १४ प्रा॒ण॒दा अ॑पान॒दा व्या॑न॒दा व॑र्चो॒दा व॑रिवो॒दाः । अ॒न्यास्ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्य॑ शि॒वो भ॑व ॥१५॥ (१) अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य॒त्रिण॑म् । अ॒ग्निर्नो॑ वनते र॒यिम् ॥१॥ १६ य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒३ आवि॑वेश (२) १७ किस्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् । यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥३॥ १८ वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एकः॑ ॥४॥ १९ कि स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥५॥ २० (१०१८) या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वः॑ वृधा॒नः ॥६॥ २१ वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥७॥ २२ विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् । मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥८॥ २३ विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् । तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथास॑त् ॥९॥ (२) २४ चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नम्न॑माने । य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥१॥ २५ वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्त ऋ॒षीन्प॒र एक॑मा॒हुः ॥२॥ २६ यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ । यो दे॒वानां॑ नाम॒धा एक॑ ए॒व त सं॑प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥३॥ २७ त आय॑जन्त॒ द्रवि॑ण॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥४॥ २८ प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ । कस्वि॒द् गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ पूर्वे॑ ॥५॥ २९ तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ । अ॒जस्य॒ नाभा॒ अध्येक॒मर्पि॑तं॒ यस्मि॒न् विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥६॥ ३० न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥७॥ ३१ वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद् द्वि॒तीयः॑ । तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीनाम॒पां गर्भं॒ व्य॑दधात्पुरु॒त्रा ॥८॥(३) ३२ आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒त सेना॑ अजयत्सा॒कमिन्द्रः॑ ॥१॥ ३३(१०३१) सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ । तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥२॥ ३४ स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । स॒सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु॒ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥३॥ ३५ बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हामित्राँ॑३ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥४॥ ३६ ब॒ल॒वि॒ज्ञा॒य स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जै॑त्रमिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् ॥५॥ ३७ गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒म स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्र॑ सखायो॒ अनु॒ सँर॑भध्वम् ॥६॥ ३८ अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒ऽस्माक॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥७॥ ३९ इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ॥८॥ ४० इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुता॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥९॥ ४१ उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मना॑सि । उद्वृ॑त्रहन् वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषाः॑ ॥१०॥॥ ४२ अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु । अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ३ उ॑ देवा अवता॒ हवे॑षु ॥११॥॥ ४३ अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि । अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥१२॥ ४४ अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सशिते । गच्छा॒मित्रा॒न्प्रप॑द्यस्व॒ मामीषां॒ कञ्च॒नोच्छि॑षः ॥१३॥ ४५ प्रेता॒ जय॑ता नर॒ इन्द्रो॑ वः॒ शर्म॑ यच्छतु । उ॒ग्रा वः॑ सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥१४॥ ४६ असौ॒ या सेना॑ मरुतः॒ परे॑षामभ्यैति॑ न॒ ओज॑सा॒ स्पर्ध॑माना । तां गू॑हत॒ तम॒साप॑व्रतेन॒ यथा॒मी अ॒न्यो अ॒न्यं न जा॒नन् ॥१५॥ ४७ यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । तत्र॒ इन्द्रो॒ बृह॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥१६॥ ४८ (१०४६) मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑वस्ताम् । उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥१७॥ (४) ४९ उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाहुत । रा॒यस्पोषे॑ण॒ ससृ॑ज प्र॒जया॑ च ब॒हुं कृ॑धि ॥१॥ ५० इन्द्रे॒मं प्र॑त॒रां न॑य सजा॒ताना॑मसद्व॒शी । समे॑नं॒ वर्च॑सा सृज दे॒वानां॑ भाग॒दा अ॑सत् ॥२॥ ५१ यस्य॑ कु॒र्मो गृ॒हे ह॒विस्तम॑ग्ने वर्धया॒ त्वम् । तस्मै॑ दे॒वा अधि॑ब्रवन्न॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥३॥ ५२ उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वस्त्व सु॒प्रती॑को वि॒भाव॑सुः ॥४॥ ५३ पञ्च॒ दिशो॒ दैवी॑र्य॒ज्ञम॑वन्तु दे॒वीरपाम॑तिं॒ दुर्म॒तिं बाध॑मानाः । रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती रा॒यस्पोषे॒ अधि॑ य॒ज्ञो अ॑स्थात् ॥५॥ ५४ समि॑द्धे अ॒ग्ना अधि॑ मामहा॒न उ॒क्थप॑त्र॒ ईड्यो॑ गृभी॒तः । त॒प्तं घ॒र्मं प॑रि॒गृह्या॑यजन्तो॒र्जा यद्य॒ज्ञमय॑जन्त दे॒वाः ॥६॥ ५५ दैव्या॑य ध॒र्त्रे जोष्ट्रे॑ देव॒श्रीः श्रीम॑नाः श॒तप॑याः । प॒रि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन् दे॒वा दे॒वेभ्यो॑ अध्व॒र्यन्तो॑ अस्थुः ॥७॥ ५६ वी॒त ह॒विः श॑मि॒त श॑मि॒ता य॒जध्यै॑ तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॑ । ततो॑ वा॒का आ॒शिषो॑ नो जुषन्ताम् ॥८॥ ५७ सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒३ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्सं॒पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥९॥ ५८ वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भिच॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥१०॥॥ ५९ उ॒क्षा स॑मु॒द्रो अ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरावि॑वेश । मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ विच॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ॥११॥॥ ६० इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ । र॒थीत॑म र॒थीनां॒ वाजा॑ना॒ सत्प॑तिं॒ पति॑म् ॥१२॥ ६१ दे॒व॒हूर्य॒ज्ञ आ च॑ वक्षत्सुम्न॒हूर्य॒ज्ञ आ च॑ वक्षत् । यक्ष॑द॒ग्निर्दे॒वो दे॒वाँ३ आ च॑ वक्षत् ॥१३॥ ६२ वज॑स्य मा प्रस॒व उ॑द्ग्रा॒भेणोद॑ग्रभीत् । अधा॑ स॒पत्ना॒निन्द्रो॑ मे निग्रा॒भेणाध॑राँ३ अ॒कः ॥१४॥ ६३ उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अधा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् ॥१५॥ (५) ६४ क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्य॒ हस्ते॑षु॒ बिभ्र॑तः । दि॒वस्पृ॒ष्ठ स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥१॥ ६५ (१०६३) प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥२॥ ६६ पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् । दि॒वो नाक॑स्य पृ॒ष्ठात् स्व॒र्ज्योति॑रगाम॒हम् ॥३॥ ६७ स्व॒र्यन्तो॒ नापे॑क्षन्त॒ आ द्या रो॑हन्ति॒ रोद॑सी । य॒ज्ञं ये वि॒श्वतो॑धार सुवि॑द्वासो वितेनि॒रे ॥४॥ ६८ अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् । इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्व॑र्यन्तु॒ यज॑मानाः स्व॒स्ति ॥५॥ ६९ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ समी॒ची । द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्विभा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः ॥६॥ ७० अग्ने॑ सहस्राक्ष शतमूर्धञ्छ॒तं ते॑ प्रा॒णाः स॒हस्रं॑ व्या॒नाः । त्व सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ ॥७॥ ७१ सु॒प॒र्णो॑ऽसि ग॒रुत्मा॑न् पृ॒ष्ठे पृ॑थि॒व्याः सी॑द । भा॒सान्तरि॑क्ष॒मापृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उद्दृ॑ह ॥८॥ ७२ आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वं योनि॒मासी॑द साधु॒या । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥९॥ ७३ ता स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम् । याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑ना स॒हस्र॑धारां॒ पय॑सा म॒हीं गाम् ॥१०॥॥ ७४ वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ । यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वीषि॑ जुहुरे॒ समि॑द्धे ॥११॥॥ ७५ प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ । त्वा शश्व॑न्त॒ उप॑यन्ति॒ वाजाः॑ ॥१२॥ ७६ अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्र हृ॑दि॒स्पृश॑म् । ऋ॒ध्यामा॑ त॒ ओहैः॑ ॥१३॥ ७७ चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वा इ॒हागम॑न्वी॒तिहो॑त्रा ऋता॒वृधः॑ । पत्ये॒ विश्व॑स्य॒ भूम॑नो जु॒होमि॑ वि॒श्वक॑र्मणे वि॒श्वाहादा॑भ्य ह॒वि ॥१४॥ ७८ स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्त ऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः॑ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रापृ॑णस्व घृ॒तेन॒ स्वाहा॑ ॥१५॥ (६) ७९ शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माश्च । शु॒क्रश्च॑ ऋत॒पाश्चात्य॑हाः ॥१॥ ८० (१०७८) ई॒दृङ् चा॑न्य॒दृङ् च॑ स॒दृङ् च॒ प्रति॑सदृङ् च । मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः ॥२॥ ८१ ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॑श्च । अन्ति॑मित्रश्च दू॒रे अ॑मित्रश्च ग॒णः ॥३॥ ८२ ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च । ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः ॥४॥ ८३ ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षु णः॑ स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ एत॑न । मि॒तास॑श्च॒ संमि॑तासो नो अ॒द्य सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन् ॥५॥ ८४ स्वत॑वाश्च प्रघा॒सी च॑ सान्तप॒नश्च॑ गृहमे॒धी च॑ । क्री॒ळी च॑ शा॒की चो॑ज्जे॒षी ॥६॥ ८५ इन्द्रं दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानोऽभव॒न्यथेन्द्रं दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मा॒नोऽभ॑वन् । ए॒वमि॒मं यज॑मानं दैवीश्च॒ विशो॑ मानु॒षीश्चानु॑वर्त्मानो भवन्तु ॥७॥ (७) ८६ (१०८४) इति शुक्लयजुः काण्वसंहितायां अष्टादशोऽध्यायः॥१८॥”
“अथैकोनविंशोध्यायः इ॒म स्तन॒मूर्ज॑स्वन्तं धया॒पां प्रपी॑नमग्ने सरि॒रस्य॒ मध्ये॑ । उत्सं॑ जुषस्व॒ श॒तधा॑रमर्वन्त्समु॒द्रिय॒ सद॑न॒मावि॑शस्व ॥१॥ १ घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ । अ॒नुष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ॥२॥ २ स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒३ उदा॑र॒दुपा॒शुना॒ सम॑मृत॒त्वमा॑नट् । घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑ ॥३॥ ३ व॒यं नाम॒ प्रब्र॑वामा घृ॒तस्या॒स्मिन् य॒ज्ञे धा॑रयामा॒ नमो॑भिः । उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑ शृङ्गो॒ऽवमीद्गौ॒र ए॒तत् ॥४॥४॥ च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य । त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒३ आवि॑वेश ॥५॥ ५ त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् । इन्द्र॒ एक॒ सूर्य॒ एकं॑ जजान वे॒नादेक॑ स्व॒धया॒ निष्ट॑तक्षुः ॥६॥ ६ (१०९०) ए॒ता अ॑र्षन्ति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ । घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् । स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः । ए॒ते अ॑र्षन्त्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः ॥७॥ ७ सिन्धो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः । घृ॒तस्य॒ धारा॑ अरु॒षो न वा॒जी काष्ठा॑ भि॒न्दन्नू॒र्मिभिः॒ पिन्व॑मानः ॥८॥ ८ अ॒भिप्र॑वन्त॒ सम॑नेव॒ योषाः॑ कल्या॒ण्यः॒ स्मय॑मानासो अ॒ग्निम् । घृ॒तस्य॒ धाराः॑ स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥९॥ ९ क॒न्या॑ इव वह॒तुमेत॒वा उ॑ अ॒ञ्ज्य॑ञ्जा॒ना अ॒भिचा॑कशीमि । यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तत्प॑वन्ते ॥१०॥॥ १० अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त । इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ॥११॥॥ ११ धामं॑ ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य॒न्तरायु॑षि । अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ॥१२॥ (१) १२ वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे । धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे । श्र॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ स्व॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१॥ १३ प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे व्या॒नश्च॒ मेऽसु॑ च मे । चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक् च॑ मे॒ मन॑श्च मे॒ । चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२॥ १४ ओज॑श्च मे॒ सह॑श्च म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ । शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च॒ मेऽस्था॑नि च मे । परू॑षि च मे॒ शरी॑राणि च म॒ आयु॑श्च मे ज॒रा च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥३॥ १५ ज्यैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च मे । अम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे वर्षि॒मा च॑ मे द्राघि॒मा च॑ मे । वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥४॥ (२) १६ स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे । विश्वं॑ च मे॒ मह॑श्च मे क्री॒ळा च॑ मे॒ मोद॑श्च मे । जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥१॥ १७ वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे । सु॒गं च॑ मे सुप॒थ्यं॑ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे । क्लृ॒प्तं च॑ मे॒ क्लृप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२॥ १८ (११०२) य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे । विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे । सीरं॑ च मे॒ लय॑श्च मे सूश्च॑ मे प्र॒सूश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥३॥ १९ शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे । काम॑श्च मे सौमन॒सश्च॑ मे॒ भग॑श्च मे॒ द्रवि॑णं च मे । भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वसी॑यश्च मे॒ यश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥४॥ (३) २० ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे । घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे । कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१॥ २१ ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे । जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे । सु॒गं च॑ मे॒ शय॑नं च मे सू॒षाश्च॑ मे सु॒दिनं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२॥ २२ र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे । वि॒भु च॑ मे प्र॒भु च॑ मे पू॒र्णं च॑ मे पू॒र्णत॑रं च मे । कुय॑वं च॒ मेऽक्षि॑तं च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥३॥ २३ व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे । मु॒द्गाश्च॑ मे॒ खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे । श्या॒माका॑श्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥४॥ (४) २४ अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे । सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे । सीसं॑ च मे॒ त्रपु॑ च मे श्या॒मं च॑ मे लो॒हं च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥१॥ २५ अ॒ग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे । कृ॒ष्ट॒प॒च्याश्च॑ मेऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ मे । वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२॥ २६ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च मे । अर्थ॑श्च मे॒ याम॑श्च म इ॒त्या च॑ मे॒ गति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥३॥ (५) २७ अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे । स॒वि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे । पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१॥ २८ मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे । धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ इन्द्र॑श्च मे । म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२॥ २९ (१११३) पृ॒थि॒वी च॑ म॒ इन्द्र॑श्च मे॒ऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे । द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ समा॑श्च म॒ इन्द्र॑श्च मे । नक्ष॑त्राणि च म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥३॥(६) ३० अ॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा॑भ्यश्च॒ मेऽधि॑पतिश्च मे । उ॒पा॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ मे । आ॒श्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥१॥ ३१ आ॒ग्रया॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ मे । ऐ॒न्द्रा॒ग्नश्च॑ मे म॒हावै॑श्वदेवश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे । सा॒वि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पत्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥२॥ ३२ स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या॑नि च मे द्रोणकल॒शश्च॑ मे । ग्रावा॑णश्च मेऽधि॒षव॑णे च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च मे । वेदि॑श्च मे ब॒र्हिश्च॑ मे स्वगाका॒रश्च॑ मेऽवभृ॒थश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥३॥ ३३ अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे । प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे । दिति॑श्च मे॒ द्यौश्च॑ मे॒ऽङ्गुल॑यः॒ शक्व॑रयो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥४॥ ३४ व्र॒तं च॑ म ऋ॒तव॑श्च मे संवत्स॒रश्च॑ मे तप॑श्च मे । अ॒हो॒रा॒त्रे ऊ॑र्वष्ठी॒वे बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥५॥(७) ३५ एका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒ नव॑ च म॒ एका॑दश च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ त्रयो॑दश च मे । पञ्च॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे स॒प्तद॑श च मे॒ नव॑दश च मे॒ नव॑दश च म॒ एक॑विशतिश्च म॒ एक॑विशतिश्च मे॒ त्रयो॑विशतिश्च मे॒ त्रयो॑विशतिश्च मे । पञ्च॑विशतिश्च मे॒ पञ्च॑विशतिश्च मे स॒प्तवि॑शतिश्च मे स॒प्तवि॑शतिश्च मे॒ नव॑विशतिश्च मे॒ नव॑विशतिश्च म॒ एक॑त्रिशच्च म॒ एक॑त्रिशच्च मे॒ त्रय॑स्त्रिशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥१॥ ३५ चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒ षोळ॑श च मे॒ षोळ॑श च मे विश॒तिश्च॑ मे विश॒तिश्च॑ मे॒ चतु॑र्विशतिश्च मे॒ चतु॑र्विशतिश्च मे॒ऽष्टावि॑शतिश्च मे॒ऽष्टावि॑शतिश्च मे । द्वात्रि॑शच्च मे॒ द्वात्रि॑शच्च मे॒ षट्त्रि॑शच्च मे॒ षट्त्रि॑शच्च मे चत्वारिशच्च॑ मे चत्वारि॒शच्च॑ मे॒ चतु॑श्चत्वारिशच्च मे॒ चतु॑श्चत्वारिशच्च मे॒ऽष्टाच॑त्वारिशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ॥२॥ ३७ (११२१) त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे । पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे । तु॒र्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥३॥ ३८ प॒ष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ मे । ऋ॒ष॒भश्च॑ मे वे॒हच्च॑ मेऽन॒ड्वाश्च॑ मे धे॒नुश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ॥४॥ (८) ३९ वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑पि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ । वस॑वे॒ स्वाहा॑ह॒र्पत॑ये॒ स्वाहा । अह्ने॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनशि॒नाय॒ स्वाहा॑ विन॒शिन॑ आन्त्याय॒नाय॒ स्वाहान्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ ॥१॥ ४० इ॒यं ते॒ राण्मि॒त्राय॑ य॒न्तासि॒ यम॑नः । ऊ॒र्जे त्वा॒ वृष्ट्यै॑ त्वा प्र॒जानां॒ त्वाधि॑पत्याय ॥२॥ ४१ आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पताम् । वाग्य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पताम् । ब्रह्म॑ य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पतां ज्योति॑र्य॒ज्ञेन॑ कल्पता॒ स्व॑र्य॒ज्ञेन॑ कल्पताम्॥३॥ ४२ स्तोम॑श्च॒ यजु॑श्च॒ ऋक् च॒ साम॑ च बृ॒हच्च॑ रथन्त॒रं च॑ । स्व॑र्देवा अगन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ वेट् स्वाहा॑ ॥३॥ (९) ४३ (११२७) ॥इति शुक्लयजुः काण्वसंहितायां एकोनविंशोऽध्यायः॥ (१९)”
“अथ विंशोऽध्यायः वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे । यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषक् ॥१॥ १ विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒साग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥२॥ २ वाजो॑ नः स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वतः॑ । वाजो॑ नो॒ विश्वै॑र्दे॒वैर्धन॑साता इ॒हाव॑तु ॥३॥ ३ वाजो॑ नो अ॒द्य प्रसु॑वाति॒ दानं॒ वाजो॑ दे॒वाँ३ ऋ॒तुभिः॑ कल्पयाति । वाजो॒ हि मा॒ सर्व॑वीरं च॒कार॒ सर्वा॒ आशा॒ वाज॑पतिर्भवेयम् ॥४॥ ४ (११३१) वजः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नो॒ वाजो॑ दे॒वान् ह॒विषा॑ वर्धयाति । वाजो॒ हि मा॒ सर्व॑वीरं च॒कार॒ विश्वा॒ आशा॒ वाज॑पतिर्जयेयम् ॥५॥ ५ सं मा॑ सृजामि॒ पय॑सा पृथि॒व्याः सं मा॑ सृजाम्य॒द्भिरोष॑धीभिः । सो॒ऽहं वाज॑ सनेयमग्ने ॥६॥ ६ पयः॑ पृथि॒व्यां पय॒ ओष॑धीषु॒ पयो॑ दि॒व्य॒न्तरि॑क्षे॒ पयो॑धाः । पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्य॑म् ।दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेः साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥७॥ (१) ७ ऋ॒ता॒षाळृ॒तधा॑मा॒ग्निर्ग॑न्ध॒र्वः । तस्यौ॑षधयोऽप्स॒रसो॒ मुदो॒ नाम॑ । स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥१॥ ८ स॑हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वः । तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युवो॒ नाम॑ । स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥२॥ ९ सु॒षु॒म्णः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वः । तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ भे॒कुर॑यो॒ नाम॑ । स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥३॥ १० इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वः । तस्यापो॑ अप्स॒रस॒ ऊर्जो॒ नाम॑ । स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥४॥ ११ भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वः । तस्य॒ दक्षि॑णा अप्स॒रस॑स्ता॒वा नाम॑ । स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥५॥ १२ प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः । तस्य॑ ऋक्सा॒मान्य॑प्स॒रस॒ एष्ट॑यो॒ नाम॑ । स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥६॥ १३ स नो॑ भुवनस्य पते प्रजापते॒ यस्य॑ त उ॒परि॑ गृ॒हा यस्य॑ वे॒ह । अस्मै॒ ब्रह्म॑णेऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा॑ ॥७॥ १४ स॒मु॒द्रो॑ऽसि॒ नभ॑स्वाना॒र्द्रदा॑नुः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ । मा॒रु॒तो॑ऽसि म॒रुतां॑ ग॒णः श॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ । अ॒व॒स्यूर॑सि॒ दुव॑स्वाञ्छ॒म्भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ ॥८॥ १५ यास्ते॑ अग्ने॒ सूर्ये॒ रुचो॒ दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभि॑र्नो अ॒द्य सर्वा॑भी रु॒चे जना॑य नस्कृधि ॥९॥ १६ या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते ॥१०॥॥ १७ (११४४) रुचं॑ नो धेहि ब्राह्म॒णेषु॒ रुच॒ राज॑सु नस्कृधि । रुचं॒ विश्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच॑म् ॥११॥॥ १८ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥१२॥ १९ स्व॒र्ण घ॒र्मः स्वाहा॒ स्व॒र्णार्कः स्वाहा॒ स्व॒र्ण शु॒क्रः स्वाहा॑ । स्व॒र्ण ज्योतिः॒ स्वाहा॒ स्व॒र्ण सूर्यः॒ स्वाहा॑ ॥१३॥ (२) २० अ॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्य सु॑प॒र्णं वय॑सा बृ॒हन्त॑म् । तेन॑ ग॑मेम ब्र॒ध्नस्य॑ वि॒ष्टप॒ स्वो॒ रुहा॑णा॒ अधि॒ नाक॑मुत्त॒मम् ॥१॥ २१ इ॒मौ ते॑ प॒क्षा अ॒जरौ॑ पत॒त्रिणो॒ याभ्या॒ रक्षा॑स्यप॒हस्य॑ग्ने । ताभ्यां॑ पतेम सु॒कृता॑मु लो॒कं यत्र॒ ऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ॥२॥ २२ इन्दु॒र्दक्षः॑ श्ये॒न ऋ॒तावा॒ हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः । म॒हान्त्स॒धस्थे॑ ध्रु॒व आ निष॑त्तो॒ नम॑स्ते अस्तु॒ मा मा॑ हिसीः ॥३॥ २३ दि॒वो मू॒र्धासि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनाम् । वि॒श्वायुः॒ शर्म॑ स॒प्रथा॒ नम॑स्प॒थे ॥४॥ २४ विश्व॑स्य मू॒र्धन्नधि॑ तिष्ठसि श्रि॒तः स॑मु॒द्रे ते॒ हृद॑यम॒प्स्वायु॑र॒पो द॑त्तोद॒धिं भि॑न्त । दि॒वस्प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑व ॥५॥ २५ इ॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भिः । तस्य॑ न इ॒ष्टस्य॑ प्री॒तस्य॒ द्रवि॑णे॒हाग॑मेः ॥६॥ २६ इ॒ष्टो अ॒ग्निराहु॑तः पिपर्तु न इ॒ष्ट ह॒विः । स्व॒गेदं दे॒वेभ्यो॒ नमः॑ ॥७॥ (३) २७ यदाकू॑तात्स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ संभृ॑तं॒ चक्षु॑षो वा । तदनु॒ प्रेत॑ सु॒कृता॑मु लो॒कं यत्र॒ ऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ॥१॥ २८ ए॒त स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा॑च्छेव॒धिं जा॒तवे॑दाः । अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ अत्र॒ त स्म॑ जानीथ पर॒मे व्यो॑मन् ॥२॥ २९ ए॒तं जा॑नाथ पर॒मे व्यो॑म॒न्देवाः॑ सधस्था वि॒द रू॒पम॑स्य । यदा॒गच्छा॑त्प॒थिभि॑र्देव॒यानै॑रिष्टापू॒र्ते कृ॑णवाथा॒विर॑स्मै ॥३॥ ३० उद्बु॑ध्यस्वाग्ने॒ प्रति॑जागृहि॒ त्वमि॑ष्टापू॒र्ते ससृ॑जेथाम॒यं च॑ । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानाश्च सीदत ॥४॥ ३१ (११५८) येन॒ वह॑सि स॒हस्रं॒ येना॑ग्ने सर्ववेद॒सम् । तेने॒मं य॒ज्ञं नो॑ नय॒ स्व॑र्दे॒वेषु॒ गन्त॑वे ॥५॥ ३२ प्र॒स्त॒रेण॑ परि॒धिना॑ स्रु॒चा वेद्या॑ च ब॒र्हिषा॑ । ऋ॒चेमं य॒ज्ञं नो॑ नय॒ स्व॑र्दे॒वेषु॒ गन्त॑वे ॥६॥ ३३ यद्द॒त्तं यत्प॑रा॒दानं॒ यत्पू॒र्तं याश्च॒ दक्षि॑णाः । तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत् ॥७॥ ३४ यत्र॒ धारा॒ अन॑पेता॒ मधो॑र्घृ॒तस्य॑ च॒ याः । तद॒ग्निर्वै॑श्वकर्म॒णः स्व॑र्दे॒वेषु॑ नो दधत् ॥८॥ ३५ ये अ॒ग्नयः॒ पाञ्च॑जन्या अ॒स्यां पृ॑थि॒व्यामधि॑ । तेषा॑मसि॒ त्वमु॑त्त॒मः प्र नो॑ जी॒वात॑वे सुव ॥९॥ (४) ३६ वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च । इन्द्र॒ त्वाव॑र्तयामसि ॥१॥ ३७ स॒हदा॑नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ संपि॑ण॒क् कुणा॑रुम् । अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ॥२॥ ३८ वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । यो अ॒स्माँ३ अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ॥३॥ ३९ मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आज॑गन्था॒ पर॑स्याः । सृ॒क स॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताळिह॒ वि मृधो॑ नुदस्व ॥४॥ ४० वै॒श्वा॒न॒रो न॑ ऊ॒तय॒ आ प्र या॑तु परा॒वतः॑ । अ॒ग्निर्नः॑ सुष्टु॒तीरुप॑ ॥५॥ ४१ पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षस्पा॑तु॒ नक्त॑म् ॥६॥ ४२ अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती अ॒श्याम॑ र॒यि र॑यिवः सु॒वीर॑म् । अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं॑ ते ॥७॥ ४३ व॒यं ते॑ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ । यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ अग्ने ॥८॥ ४४ धा॒म॒च्छद॒ग्निरिन्द्रो॑ ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑ । सचे॑तसो॒ विश्वे॑ दे॒वा य॒ज्ञं प्राव॑न्तु नः शु॒भे ॥९॥ ४५ त्वं य॑विष्ठ दा॒शुषो॒ नॄः पा॑हि शृणु॒धी गिरः॑ । रक्षा॑ तो॒कमु॒त त्मना॑ ॥१०॥॥ (५) ४६ (११७३) ॥इति शुक्लयजुः काण्वसंहितायां विंशोऽध्यायः॥ (२०) ॥इति द्वितीयो दशकः॥२॥”
॥ अथ तृतीयो दशकः॥३॥ एकविंशोध्यायः स्वा॒द्वीं त्वा॑ स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒मृते॑न । मधु॑मतीं॒ मधु॑मता सृ॒जामि॒ स सोमे॑न । सोमो॑ऽस्य॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ॥१॥ १ परी॒तो षि॑ञ्च॒ता सु॒त सोमो॒ य उ॑त्त॒म ह॒विः । द॒ध॒न्वा यो नर्यो॑ अ॒प्स्व॒न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ॥२॥ २ वा॒योः पू॒तः प॒वित्रे॑ण॒ प्र॒त्यङ्क्सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्यः॒ सखा॑ । वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्क्सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥३॥ ३ पु॒नाति॑ ते परि॒स्रुत॒ सोम॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना॑ ॥४॥ ४ ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ इन्द्रि॒य सुर॑या॒ सोमः॑ सु॒त आसु॑तो॒ मदा॑य । शु॒क्रेण॑ देव दे॒वताः॑ पिपृग्धि॒ रसे॒नान्नं॒ यज॑मानाय धेहि । कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ उक्तिं॒ न ज॒ग्मुः। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ । ए॒ष ते॒ योनि॒स्तेज॑से त्वा वी॒र्या॑य त्वा॒ बला॑य त्वा ॥५॥ ५ नाना॒ हि वां॑ दे॒वहि॑त॒ सद॑स्कृ॒तं मा स सृ॑क्षाथां पर॒मे व्यो॑मन् । सुरा॒ त्वम॑सि शु॒ष्मिणी॒ सोम॑ ए॒ष मा मा॑ हिसीः॒ स्वां योनि॑मावि॒शन्ती॑ ॥६॥६॥ उ॒प॒या॒मगृ॑हीतो॒ऽस्याश्वि॒नं तेजः॑ सारस्व॒तं वी॒र्य॑मै॒न्द्रं बल॑म् । ए॒ष ते॒ योनि॒र्मोदा॑य त्वान॒न्दाय॑ त्वा॒ मह॑से त्वा ॥७॥ ७ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि वी॒र्य॑मसि वी॒र्यं॒ मयि॑ धेहि बल॑मसि॒ बलं॒ मयि॑ धे॒ह्योजो॒ऽस्योजो॒ मयि॑ धेहि । म॒न्युर॑सि म॒न्युं मयि॑ धेहि॒ सहो॑ऽसि॒ सहो॒ मयि॑ धेहि ॥८॥ ८ या व्या॒घ्रं विषू॑चिको॒भौ वृकं॑ च॒ रक्ष॑ति । श्ये॒नं प॑त॒त्रिण॑ सि॒ह सेमं पा॒त्वह॑सः ॥९॥ यदा॑पि॒पेष॑ मा॒तरं॑ पु॒त्रः प्रमु॑दितो॒ धय॑न् । ए॒तत्तद॑ग्ने अनृ॒णो भ॑वा॒म्यह॑तौ पि॒तरौ॒ मया॑ ॥१०॥॥ १० स॒म्पृच॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त । वि॒पृच॑ स्थ॒ वि मा॑ पा॒प्मन॑ पृङ्क्त ॥११॥॥ (१) ११ दे॒वा य॒ज्ञम॑तन्वत भेष॒जं भि॒षजा॒श्विना॑ । वा॒चा सर॑स्वती भि॒षगिन्द्रा॑येन्द्रि॒याणि॒ दध॑तः ॥१॥ १२ दी॒क्षायै॑ रू॒प शष्पा॑णि प्राय॒णीय॑स्य॒ तोक्मा॑नि । क्र॒यस्य॑ रू॒प सोम॑स्य ला॒जाः सो॑मा॒शवो॒ मधु॑ ॥२॥ १३ आ॒ति॒थ्यरू॒पं मास॑रं महावी॒रस्य॑ न॒ग्नहुः॑ । रू॒पमु॑प॒सदा॑मे॒तत्ति॒स्रो रात्रीः॒ सुरासु॑ता ॥३॥ १४ सोम॑स्य रू॒पं क्री॒तस्य॑ परि॒स्रुत्परि॑ षिच्यते । अ॒श्विभ्यां॑ दु॒ग्धं भे॑ष॒जमिन्द्रा॑यै॒न्द्र सर॑स्वत्या ॥४॥ १५ आ॒स॒न्दी रू॒प रा॑जास॒न्द्यै वेद्यै॑ कु॒म्भी सु॑रा॒धानी॑ । अन्त॑र उत्तरवे॒द्या रू॒पं का॑रोत॒रो भि॒षक् ॥५॥ १६ वेद्या॒ वेदिः॒ समा॑प्यते ब॒र्हिषा॑ ब॒र्हिरि॑न्द्रि॒यम् । यूपे॑न॒ यूप॑ आप्यते॒ प्रणी॑तो अ॒ग्निर॒ग्निना॑ ॥६॥ १७ ह॒वि॒र्धानं॒ यद॒श्विनाग्नी॑ध्रं॒ यत्सर॑स्वती । इन्द्रा॑यै॒न्द्र सद॑स्कृ॒तं प॑त्नी॒शालं॒ गार्ह॑पत्यः ॥७॥ १८ प्रै॒षेभिः॑ प्रै॒षाना॑प्नोत्या॒प्रीभि॑रा॒प्रीर्य॒ज्ञस्य॑ । प्र॒या॒जेभि॑रनुया॒जान्व॑षट्का॒रेभि॒राहु॑तीः ॥८॥ १९ प॒शुभिः॑ प॒शूना॑प्नोति पुरो॒ळाशै॑र्ह॒वीष्या । छन्दो॑भिः सामिधे॒नीर्या॒ज्या॑भिर्वषट्का॒रान् ॥९॥ २० धा॒नाः क॑र॒म्भः सक्त॑वः परीवा॒पः पयो॒ दधि॑ । सोम॑स्य रू॒प ह॒विष॑ आ॒मिक्षा॒ वाजि॑नं॒ मधु॑ ॥१०॥॥ २१ धा॒नाना॑ रू॒पं कुव॑लं परीवा॒पस्य॑ गो॒धूमाः॑ । सक्तू॑ना रू॒पं बद॑रमुप॒वाकाः॑ कर॒म्भस्य॑ ॥११॥॥ २२ पय॑सो रू॒पं यद्यवा॑ द॒ध्नो रू॒पं क॒र्कन्धू॑नि । सोम॑स्य रू॒पं वाजि॑न सौ॒म्यस्य॑ रू॒पमा॒मिक्षा॑ ॥१२॥ २३ आश्रा॑व॒येति॑ स्तो॒त्रियाः॑ प्रत्याश्रा॒वो अनु॑रूपः । यजेति॑ धय्यारू॒पं प्र॑गा॒था ये॑यजाम॒हाः ॥१३॥ २४ अ॒र्ध॒ ऋ॒चैरु॒क्थाना॑ रू॒पं प॒दैरा॑प्नोति नि॒विदः॑ । प्र॒ण॒वैः श॒स्त्राणा॑ रू॒पं पय॑सा॒ सोम॑ आप्यते ॥१४॥ २५ अ॒श्विभ्यां॑ प्रातःसव॒नमिन्द्रे॑णै॒न्द्रं माध्य॑न्दिनम् । वै॒श्व॒दे॒व सर॑स्वत्या तृ॒तीय॑मा॒प्त सव॑नम् ॥१५॥ २६ वा॒य॒व्यै॑र्वाय॒व्या॑न्याप्नोति॒ सते॑न द्रोणकल॒शम् । कु॒म्भीभ्या॑मम्भृ॒णौ सु॒ते स्था॒लीभिः॑ स्था॒लीरा॑प्नोति ॥१६॥ २७ यजु॑र्भिराप्यन्ते॒ ग्रहा॒ ग्रहै॒ स्तोमा॑श्च॒ विष्टु॑तीः । छन्दो॑भिरुक्थाश॒स्त्राणि॒ साम्ना॑वभृ॒थ आ॑प्यते ॥१७॥ २८ इळा॑भिर्भ॒क्षाना॑प्नोति सूक्तवा॒केना॒शिषः॑ । शं॒युना॑ पत्नीसंया॒जान्त्स॑मिष्टय॒जुषा॑ स॒स्थाम् ॥१८॥ २९ व्र॒तेन॑ दी॒क्षामा॑प्नोति दी॒क्षया॑प्नोति॒ दक्षि॑णाम् । दक्षि॑णा श्र॒द्धामा॑प्नोति श्र॒द्धया॑ स॒त्यमा॑प्यते ॥३०॥॥ ए॒ताव॑द्रू॒पं य॒ज्ञस्य॒ यद्दे॒वैर्ब्रह्म॑णा कृ॒तम् । तदे॒तत्सर्व॑माप्नोति य॒ज्ञे सौ॑त्राम॒णी सु॒ते ॥२०॥॥ (२) ३१ सुरा॑वन्तं बर्हि॒षद॑ सु॒वीरं॑ य॒ज्ञ हि॑न्वन्ति महि॒षा नमो॑भिः । दधा॑नाः॒ सोमं॑ दि॒वि दे॒वता॑सु॒ मदे॒मेन्द्रं॒ यज॑मानाः स्व॒र्काः ॥१॥ ३२ यस्ते॒ रसः॒ संभृ॑त॒ ओष॑धीषु॒ सोम॑स्य॒ शुष्मः॒ सुर॑या सु॒तस्य॑ । तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न॒ सर॑स्वतीम॒श्विना॒ इन्द्र॑म॒ग्निम् ॥२॥ ३३ यम॒श्विना॒ नमु॑चेरासु॒रादधि॒ सर॑स्व॒त्यसु॑नोदिन्द्रि॒याय॑ । इ॒मं त शु॒क्रं मधु॑मन्त॒मिन्दु॒ सोम॒ राजा॑नमि॒ह भ॑क्षयामि ॥३॥ ३४ यदत्र॑ रि॒प्त र॒सिनः॑ सु॒तस्य॒ यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॒ सोम॒ राजा॑नमि॒ह भ॑क्षयामि ॥४॥ ३५ पि॒तृभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ पि॑ताम॒हेभ्यः॑ स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ । प्रपि॑तामहेभ्यः स्वधा॒यिभ्यः॑ स्व॒धा नमः॑ ॥५॥ ३६ अक्ष॑न् पितरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरः॑ । पित॑रः॒ शुन्धध्वम् ॥६॥ ३७ पु॒नन्तु॑ मा पि॒तरः॑ सो॒म्यासः॑ पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा ॥७॥ ३८ पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा॒ विश्व॒मायु॒र्व्य॑श्नवै ॥८॥ ३९ (१२१२) अग्न॒ आयू॑षि पवस्व॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥९॥ ४० पु॒नन्तु॑ मा देव॒जनाः पु॒नन्तु॒ मन॑सा॒ धियः॑ । पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ जात॑वेदः पुनी॒हि मा॑ ॥१०॥॥ ४१ प॒वित्रे॑ण पुनीहि मा शु॒क्रेण॑ देव॒ दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒रनु॑ ॥११॥॥ ४२ यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनातु मा ॥१२॥ ४३ पव॑मानः॒ सो अ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः । यः पोता॒ स पु॑नातु मा ॥१३॥ ४४ उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च । मां पु॑नीहि वि॒श्वतः॑ ॥१४॥ ४५ वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॒द्यस्या॑मि॒मा ब॒ह्व्य॑स्त॒न्वो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्तः सध॒मादे॑षु व॒य स्या॑म॒ पत॑यो रयी॒णाम् ॥१५॥ ४६ ये स॑मा॒नाः सम॑नसः पि॒तरो॑ यम॒राज्ये॑ । तेषां॑ ल्लो॒कः स्व॒धा नमो॑ य॒ज्ञो दे॒वेषु॑ कल्पताम् ॥१६॥ ४७ ये स॑मा॒नाः सम॑नसो जी॒वा जी॒वेषु॑ माम॒काः । तेषा॒ श्रीर्मयि॑ कल्पताम॒स्मिँल्लो॒के शत समाः॑ ॥१७॥ ४८ द्वे सृ॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् । ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ॥१८॥ ४९ इ॒द ह॒विः प्र॒जन॑नं मे अस्तु॒ दश॑वीर॒ सर्व॑गण स्व॒स्तये॑ । आ॒त्म॒सनि॑ प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्य॑भय॒सनि॑ । अ॒ग्निः प्र॒जां ब॑हु॒लां मे॑ करो॒त्वन्नं॒ पयो॒ रेतो॑ अ॒स्मासु॑ धत्त ॥१९॥ (३) ५० उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ । असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥१॥ ५१ त्व सो॑म॒ प्रचि॑कितो मनी॒षा त्व रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् । तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः॑ ॥२॥ ५२ त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीराः॑ । व॒न्वन्नवा॑तः परि॒धीरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ॥३॥ ५३ त्व सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ । तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒य स्या॑म॒ पत॑यो रयी॒णाम् ॥४॥ ५४ बर्हि॑षदः पितर ऊ॒त्य॒र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् । त आ ग॒ताव॑सा॒ शन्त॑मे॒नाथा॑ नः॒ शं योर॑र॒पो द॑धात ॥५॥ ५५ (१२२८) उप॑हूताः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ । त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते॑ऽवन्त्व॒स्मान् ॥६॥ ५६ आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑२ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णोः॑ । ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥७॥ ५७ अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑ सदः सदत सुप्रणीतयः । अ॒त्ता ह॒वीषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यि सर्व॑वीरं दधातन ॥८॥ ५८ आ य॑न्तु नः पि॒तरः॑ सो॒म्यासो॑ऽग्निष्वा॒त्ताः प॒थिभि॑र्देव॒यानैः॑ । अ॒स्मिन् य॒ज्ञे स्व॒धया॒ मद॒न्तोऽधि॑ ब्रुवन्तु॒ ते॑ऽवन्त्व॒स्मान् ॥९॥ ५९ ये अ॑ग्निष्वा॒त्ता ये अन॑ग्निष्वात्ता॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते । तेभ्यः॑ स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॑ कल्पयाति ॥१०॥॥ ६० अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे नाराश॒से सो॑मपी॒थं य आ॒शुः । ते नो॒ विप्रा॑सः सु॒हवा॑ भवन्तु व॒य स्या॑म॒ पत॑यो रयी॒णाम् ॥११॥॥ ६१ आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे॑ । मा हि॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ॥१२॥ ६२ आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य । पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ॥१३॥ ६३ यम॑ग्ने कव्यवाहन॒ त्वं चि॒न्मन्य॑से र॒यिम् । तन्नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ॥१४॥ ६४ यो अ॒ग्निः क॑व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ । प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥१५॥ ६५ त्वम॑ग्न ईळि॒तः जा॑तवे॒दो वा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी । प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीषि॑ ॥१६॥ ६६ इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।
“द्वाविंशोऽध्यायः यद्दे॑वा देव॒हेळ॑नं॒ देवा॑सश्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वह॑सः ॥१॥ १ यदि॒ दिवा॒ यदि॒ नक्त॒मेना॑सि चकृ॒मा व॒यम् । वा॒युर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वह॑सः ॥२॥ २ यदि॒ जाग्र॒द्यदि॒ स्वप्न॒ एना॑सि चकृ॒मा व॒यम् । सूर्यो॑ मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वह॑सः ॥३॥ ३ यद् ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॒ये । यच्छू॒द्रे यदर्ये॒ यदेन॑श्चकृ॒मा व॒यम् । यदेक॒स्याधि॒ धर्म॑णि॒ तस्या॑व॒यज॑नमसि । यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च । अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः । अव॑देवैर्दे॒वकृ॑त॒मेनो॑ऽय॒क्ष्यव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि । स॒मु॒द्रे ते॒ हृद॑यम॒प्स्व॒न्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒तापः॑ । सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ । यो॒ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥४॥ ४ द्रु॒प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒तो मला॑दिव । पू॒तं प॒वित्रे॑णे॒वाज्य॒मापः॑ शुन्धन्तु॒ मैन॑सः ॥५॥ ५ उद्व॒यं तम॑स॒स्परि॒ स्वः॒ पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥६॥ ६ अ॒पो अ॒द्यान्व॑चारिष॒ रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ स सृ॑ज॒ वर्च॑सा प्र॒जया॑ च॒ धने॑न च । एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ॥७॥ ७ स॒माव॑वर्ति पृथि॒वी समु॒षाः समु॒ सूर्यः॑ । समु॒ विश्व॑मि॒दं जग॑त् । वै॒श्वा॒न॒रज्यो॑तिर्भूयासं वि॒भून्कामा॒न्व्य॑श्नवै॒ भूः स्वाहा॑ ॥८॥ (१) ८ अ॒भ्या द॑धामि स॒मिध॒मग्ने॑ व्रतपते॒ त्वयि॑ । व्र॒तं च॑ श्र॒द्धां चोपै॑मी॒न्धे त्वा॑ दीक्षि॒तो अ॒हम् ॥१॥ ९ यत्र॒ ब्रह्म॑ च क्ष॒त्रं च॑ स॒म्यञ्चौ॒ चर॑तः स॒ह । तं लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ दे॒वाः स॒हाग्निना॑ ॥२॥ १० यत्रेन्द्र॑श्च वा॒युश्च॑ स॒म्यञ्चौ॒ चर॑तः स॒ह । तं लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ से॒दिर्न वि॒द्यते॑ ॥३॥ ११ अ॒शुना॑ ते अ॒शुः पृ॑च्यतां॒ परु॑षा॒ परुः॑ । ग॒न्धस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो॒ अच्यु॑तः ॥४॥ १२ सि॒ञ्चन्ति॒ परि॑षिञ्च॒न्त्युत्सि॑ञ्चन्ति पु॒नन्ति॑ च । सुरा॑यै ब॒भ्र्वै मदे॑ किं॒त्वो व॑दति कि॒न्त्वः ॥५॥ १३ (१२९२) धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् । इन्द्र॑ प्रा॒तर्जु॑षस्व नः ॥६॥ १४ बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् । येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥७॥ १५ अध्व॑र्यो॒ अद्रि॑भिः सु॒त सोमं॑ प॒वित्र॒ आ न॑य । पु॒नी॒हीन्द्रा॑य॒ पात॑वे ॥८॥(२) १६ यो भू॒ताना॒मधि॑पति॒र्यस्मिँ॑ल्लो॒का अधि॑ श्रि॒ताः । य ईशे॑ मह॒तो म॒हास्तेन॑ गृह्णामि॒ त्वाम॒हं मयि॑ गृह्णामि॒ त्वाम॒हम् ॥१॥ १७ उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ । ए॒ष ते॒ योनि॑र॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ॥२॥ १८ प्रा॒ण॒पा मे॑ अपान॒पाश्च॑क्षु॒ष्पाः श्रो॑त्र॒पाश्च॑ मे । वा॒चो मे॑ वि॒श्वभे॑षजो॒ मन॑सोऽसि वि॒लाय॑कः ॥३॥ १९ अ॒श्विन॑कृतस्य ते॒ सर॑स्वतिकृत॒स्येन्द्रे॑ण सु॒त्राम्णा॑ कृ॒तस्य॑ । उप॑हूत॒ उप॑हूतस्य भक्षयामि ॥४॥ (३) २० समि॑द्ध॒ इन्द्र॑ उ॒षसा॒मनी॑के पुरो॒रुचा॑ पूर्व॒कृद्वा॑वृधा॒नः । त्रि॒भिर्दे॒वैस्त्रि॒शता॒ वज्र॑बाहुर्ज॒घान॑ वृ॒त्रं वि दुरो॑ ववार ॥१॥ २१ नरा॒शसः॒ प्रति॒ शूरो॒ मिमा॑न॒स्तनू॒नपा॒त्प्रति॑ य॒ज्ञस्य॒ धाम॑ । गोभि॑र्व॒पावा॒न्मधु॑ना सम॒ञ्जन् हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः ॥२॥ २२ ई॒ळि॒तो देवै॒र्हरि॑वाँ२ अभि॒ष्टिरा॒जुह्वा॑नो ह॒विषा॒ शर्ध॑मानः । पु॒रन्द॒रो गो॑त्र॒भिद्वज्र॑बाहु॒रा या॑तु य॒ज्ञमुप॑ नो जुषा॒णः ॥३॥ २३ जु॒षा॒णो ब॒र्हिर्हरि॑वान्न॒ इन्द्रः॑ प्रा॒चीन॑ सीदत्प्र॒दिशा॑ पृथि॒व्याः । उ॒रु॒प्रथाः॒ प्रथ॑मान स्यो॒नमा॑दि॒त्यैर॒क्तं वसु॑भिः स॒जोषाः॑ ॥४॥ २५ इन्द्रं॒ दुरः॑ कव॒ष्यो॒ धाव॑माना॒ वृषा॑णं यन्तु॒ जन॑यः सु॒पत्नीः॑ । द्वारो॑ दे॒वीर॒भितो॒ वि श्र॑यन्ता सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः ॥५॥ २५ उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्तं॒ पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र॑म् । तन्तुं॑ त॒तं पेश॑सा सं॒वय॑न्ती दे॒वानां॑ दे॒वं य॑जतः सुरु॒क्मे ॥६॥ २६ दै॑व्या॒ मिमा॑ना॒ मनु॑षः पुरु॒त्रा होता॑रा॒ इन्द्रं॑ प्रथ॒मा सु॒वाचा॑ । मू॒र्धन्य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना प्रा॒चीनं॒ ज्योति॑र्ह॒विषा॑ वृधातः ॥७॥ २७ ति॒स्रो दे॒वीर्ह॒विषा॒ वर्ध॑माना॒ इन्द्रं॑ जुषा॒णा जन॑यो॒ न पत्नीः॑ । अच्छि॑न्नं॒ तन्तुं॒ पय॑सा॒ सर॑स्व॒तीळा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः ॥८॥ २८ (१३०७) त्वष्टा॒ दध॒च्छुष्म॒मिन्द्रा॑य॒ वृष्णेऽपा॒कोचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑ । वृषा॒ यज॒न्वृष॑णं॒ भूरि॑रेता मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥९॥ २९ वन॒स्पति॒रव॑सृष्टो॒ न पाशै॒स्त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः । इन्द्र॑स्य हव्यैर्ज॒ठरं॑ पृणा॒नः स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॑ ॥१०॥॥३०॥ स्तो॒काना॒मिन्दुं॒ प्रति॒ शूर॒ इन्द्रो॑ वृषा॒यमा॑णो वृष॒भस्तु॑रा॒षाट् । घृ॒त॒प्रुषा॒ मन॑सा॒ मोद॑मानाः॒ स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥११॥॥ (४) ३१ आ या॒त्विन्द्रोव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ । वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ॥१॥ ३२ आ न॒ इन्द्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः । ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ॥२॥ ३३ आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च । तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ॥३॥ ३४ त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ हवे॑हवे सु॒हव॒ शूर॒मिन्द्र॑म् । ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्र॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥४॥ ३५ इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒२ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥५॥ ३६ तस्य॑ व॒य सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववाँ॒२ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द् द्वेषः॑ सनु॒तर्यु॑योतु ॥६॥ ३७ आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः । मा त्वा॒ के चि॒न्नि य॑म॒न्विं ना पा॒शिनोति॒ धन्वे॑व॒ ताँ२ इ॑हि ॥७॥ ३८ ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चन्त्य॒र्कैः । स न॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥८॥(५) ३९ समि॑द्धो अ॒ग्निर॑श्विना त॒प्तो घ॒र्मो वि॒राट् सु॒तः । दु॒हे धे॒नुः सर॑स्वती॒ सोम॑ शु॒क्रमि॒हेन्द्रि॒यम् ॥१॥ ४० त॒नू॒पा भि॒षजा॑ सु॒ते॒ऽस्विनो॒भा सर॑स्वती । मध्वा॒ रजा॑सीन्द्रि॒यमिन्द्रा॑य प॒थिभि॑र्वहान् ॥२॥ ४१ इन्द्रा॒येन्दु॒ सर॑स्वती॒ नरा॒शसे॑न न॒ग्नहु॑म् । अधा॑ताम॒श्विना॒ मधु॑ भेष॒जं भि॒षजा॑ सु॒ते ॥३॥ ४२ (१३२१) आ॒जुह्वा॑ना॒ सर॑स्व॒तीन्द्रा॑येन्द्रि॒याणि॑ वी॒र्य॑म् । इळा॑भिर॒श्विना॒ इष॒ समूर्ज॒ स र॒यिं द॑धुः ॥४॥ ४३ अ॒श्विना॒ नमु॑चेः सु॒त सोम॑ शु॒क्रं प॑रि॒स्रुता॑ । सर॑स्वती॒ तमा भ॑रद्ब॒र्हिषेन्द्रा॑य॒ पात॑वे ॥५॥ ४४ क॒व॒ष्यो॑ न॒ व्यच॑स्वतीर॒श्विभ्यां॒ न दुरो॒ दिशः॑ । इन्द्रो॒ न रोद॑सी उ॒भे दु॒हे कामा॒न्त्सर॑स्वती ॥६॥ ४५ उ॒षासा॒नक्त॑मश्विना॒ दिवेन्द्र॑ सा॒यमि॑न्द्रियैः । सं॒जा॒ना॒ने सु॒पेश॑सा॒ सम॑ञ्जाते॒ सर॑स्वत्या ॥७॥ ४६ पा॒तं नो॑ अश्विना॒ दिवा॑ पा॒हि नक्त॑ सरस्वति । दैव्या॑ होतारा भिषजा पा॒तामिन्द्र॒ सचा॑ सु॒ते ॥८॥ ४७ ति॒स्रस्त्रे॒धा सर॑स्वत्य॒श्विना॒ भार॒तीळा॑ । ती॒व्रं प॑रि॒स्रुता॒ सोम॒मिन्द्रा॑य सुषुवु॒र्मद॑म् ॥९॥ ४८ अ॒श्विना॑ भेष॒जं मधु॑ भेष॒जं नः॒ सर॑स्वती । इन्द्रे॒ त्वष्टा॒ यशः॒ श्रिय॑ रू॒परू॑पमधुः सु॒ते ॥१०॥॥ ४९ ऋ॒तु॒थेन्द्रो॒ वन॒स्पतिः॑ शशमा॒नः प॑रि॒स्रुता॑ । की॒लाल॑म॒श्विभ्यां॒ मधु॑ दु॒हे धे॒नुः सर॑स्वती ॥११॥॥ ५० गोभि॒र्न सोम॑मश्विना॒ मास॑रेण परि॒स्रुता॑ । सम॑धात॒ सर॑स्वत्या॒ स्वाहेन्द्रे॑ सु॒तं मधु॑ ॥१२॥ (६) ५१ अ॒श्विना॑ ह॒विरि॑न्द्रि॒यं नमु॑चेर्धि॒या सर॑स्वती । आ शु॒क्रमा॑सु॒राद्वसु॑ म॒घमिन्द्रा॑य जभ्रिरे ॥१॥ ५२ यम॒श्विना॒ सर॑स्वती ह॒विषेन्द्र॒मव॑र्धयन् । स बि॑भेद व॒लं म॒घं नमु॑चा आसु॒रे सचा॑ ॥२॥ ५३ तमिन्द्रं॑ प॒शवः॒ सचा॒श्विनो॒भा सर॑स्वती । दधा॑ना अ॒भ्य॑नूषत ह॒विषा॑ य॒ज्ञ इ॑न्द्रि॒यैः ॥३॥ ५४ य इन्द्र॑ इन्द्रि॒यं द॒धुः स॑वि॒ता वरु॑णो॒ भगः॑ । स सु॒त्रामा॑ ह॒विष्प॑ति॒र्यज॑मानाय सश्चत ॥४॥ ५५ स॒वि॒ता वरु॑णो॒ दध॒द्यज॑मानाय दा॒शुषे॑ । आद॑त्त॒ नमु॑चे॒र्वसु॑ सु॒त्रामा॒ बल॑मिन्द्रि॒यम् ॥५॥ ५६ वरु॑णः क्ष॒त्रमि॑न्द्रि॒यं भगे॑न सवि॒ता श्रिय॑म् । सु॒त्रामा॒ यश॑सा॒ बलं॒ दधा॑ना य॒ज्ञमा॑शत ॥६॥ ५७ अ॒श्विना॒ गोभि॑रिन्द्रि॒यमश्वे॑भिर्वी॒र्यं॒ बल॑म् । ह॒विषेन्द्र॒ सर॑स्वती॒ यज॑मानमवर्धयन् ॥७॥ ५८ ता नास॑त्या सु॒पेश॑सा॒ हिर॑ण्यवर्तनी॒ नरा॑ । सर॑स्वती ह॒विष्म॒तीन्द्र॒ कर्म॑सु नोऽवत ॥८॥ ५९ ता भि॒षजा॑ सु॒कर्म॑णा॒ सा सु॒दुघा॒ सर॑स्वती । स वृ॑त्र॒हा श॒तक्र॑तु॒रिन्द्रा॑य दधुरिन्द्रि॒यम् ॥९॥ ६० यु॒व सु॒राम॑मश्विना॒ नमु॑चा आसु॒रे सचा॑ । वि॒पि॒पा॒नाः सर॑स्व॒तीन्द्रं॒ कर्म॑स्वावत ॥१०॥॥ ६१ पु॒त्रमि॑व पि॒तरा॑ अ॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्द॒सना॑भिः । यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥११॥॥ ६२ यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ॥१२॥ ६३ अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोमः॑ । वा॒ज॒सनि॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त॑म् ॥१३॥ (७) ६४ (१३४३) अ॒श्विना॒ तेज॑सा॒ चक्षुः॑ प्रा॒णेन॒ सर॑स्वती वी॒र्य॑म् । वा॒चेन्द्रो॒ बले॒नेन्द्रा॑य दधुरिन्द्रि॒यम् ॥१॥ ६५ गोम॑दू॒ षु णा॑स॒त्याश्वा॑वद्यातमश्विना । व॒र्ती रु॑द्रा नृ॒पाय्य॑म् ॥२॥ ६६ न यत्परो॒ नान्त॑र आद॒धर्ष॑द्वृषण्वसू । दुः॒शसो॒ मर्त्यो॑ रि॒पुः ॥३॥ ६७ ता न॒ आ वो॑ळहमश्विना र॒यिं पि॒शङ्ग॑ संदृशम् । धिष्ण्या॑ वरिवो॒विद॑म् ॥४॥ ६८ पा॒व॒का नः॒ सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥५॥ ६९ चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒ सर॑स्वती ॥६॥ ७० म॒हो अर्णः॒ सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ । धियो॒ विश्वा॒ वि रा॑जति ॥७॥ ७१ इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यवः॑ । अण्वी॑भि॒स्तना॑ पू॒तासः॑ ॥८॥ ७२ इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः । उप॒ ब्रह्मा॑णि वा॒घतः॑ ॥९॥ ७३ इन्द्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः । सु॒ते द॑धिष्व न॒श्चनः॑ ॥१०॥॥ ७४ अ॒श्विना॑ पिबतां॒ मधु॒ सर॑स्वत्या स॒जोष॑सा । इन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा जु॒षन्ता॑ सो॒म्यं मधु॑ ॥११॥॥ (८) ७५ (१३५४) ॥इति शुक्लयजुःकाण्वसंहितायां द्वाविंशोऽध्यायः॥२२॥॥”
“अथ त्रयोविंशोऽध्यायः। इ॒मं मे॑ वरुण श्रु॒धी हव॑म॒द्या च॑ मृळय । त्वाम॑व॒स्युरा च॑के ॥११॥॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शस॒ मा न॒ आयुः॒ प्र मो॑षीः ॥२॥ २ त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेळो॒ अव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषा॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥३॥ ३ स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑ण॒ ररा॑णो वी॒हि मृ॑ळी॒क सु॒हवो॑ न एधि ॥४॥ ४ म॒हीमू॒ षु मा॒तर॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम । तु॒वि॒क्ष॒त्राम॒जर॑न्तीमुरू॒ची सु॒शर्मा॑ण॒मदि॑ति सु॒प्रणी॑तिम् ॥५॥ ५ (१३५९) सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हस॑ सु॒शर्मा॑ण॒मदि॑ति सु॒प्रणी॑तिम् । दे॒वीं नाव॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥६॥ ६ सु॒नाव॒मा रु॑हेय॒मस्र॑वन्ती॒मना॑गसम् । श॒तारि॑त्रा स्व॒स्तये॑ ॥७॥ ७ आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम् । मध्वा॒ रजा॑सि सुक्रतू ॥८॥ ८ प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ । आ मा॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥९॥ ९ शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः । ज॒म्भय॒न्तोऽहिं॒ वृक॒ रक्षा॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥१०॥॥ १० ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वतु वा॒जिनो॑ मि॒तद्र॑वः । स॒ह॒स्र॒सा मे॒धसा॑ता इव॒ त्मना॑ म॒हो ये धन॑ समि॒थेषु॑ जभ्रि॒रे ॥११॥॥ ११ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः । अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥१२॥ (१) १२ समि॑द्धो अ॒ग्निः स॒मिधा॒ सुस॑मिद्धो॒ वरे॑ण्यः । गा॒य॒त्री छन्द॑ इन्द्रि॒यं त्र्यवि॒र्गौर्वयो॑ दधुः ॥१॥ १३ तनू॒नपा॒च्छुचि॑व्रतस्तनू॒पाश्च॒ सर॑स्वती । उ॒ष्णिहा॒ छन्द॑ इन्द्रि॒यं दि॑त्य॒वाड् गौर्वयो॑ दधुः ॥२॥ १४ इळा॑भिर॒ग्निरीड्यः॒ सोमो॑ दे॒वो अम॑र्त्यः । अ॒नु॒ष्टुप्छन्द॑ इन्द्रि॒यं पञ्चा॑वि॒र्गौर्वयो॑ दधुः ॥३१॥५॥ सु॒ब॒र्हिर॒ग्निः पू॑ष॒ण्वान्त्स्ती॒र्णब॑र्हि॒रम॑र्त्यः । बृ॒ह॒ती छन्द॑ इन्द्रि॒यं त्रि॑व॒त्सो गौर्वयो॑ दधुः ॥४॥ १६ दुरो॑ दे॒वीर्दिशो॑ म॒हीर्ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑ । प॒ङ्क्तिश्छन्द॑ इ॒हेन्द्रि॒यं तु॑र्य॒वाड् गौर्वयो॑ दधुः ॥५॥ १७ उ॒षे य॒ह्वी सु॒पेश॑सा॒ विश्वे॑ दे॒वा अम॑र्त्याः । त्रि॒ष्टुप् छन्द॑ इ॒हेन्द्रि॒यं प॑ष्ठ॒वाड् गौर्वयो॑ दधुः ॥६॥ १८ दै॑व्या॒ होता॑रा भि॒षजेन्द्रे॑ण स॒युजा॑ यु॒जा । जग॑ती॒ छन्द॑ इन्द्रि॒यम॑न॒ड्वान् गौर्वयो॑ दधुः ॥७॥ १९ ति॒स्र इळा॒ सर॑स्वती॒ भार॑ती म॒रुतो॒ विशः॑ । वि॒राट् छन्द॑ इ॒हेन्द्रि॒यं धे॒नुर्गौर्न वयो॑ दधुः ॥८॥ २० त्वष्टा॑ तु॒रीपो॒ अद्भु॑त इन्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना । द्विप॑दा॒ छन्द॑ इन्द्रि॒यमु॒क्षा गौर्न वयो॑ दधुः ॥९॥ २१ श॒मि॒ता नो॒ वन॒स्पतिः॑ सवि॒ता प्र॑सु॒वन् भग॑म् । क॒कुप् छन्द॑ इ॒हेन्द्रि॒यं व॒शा वे॒हद्वयो॑ दधुः ॥१०॥॥ २२ स्वाहा॑ य॒ज्ञं वरु॑णः सुक्ष॒त्रो भे॑ष॒जं क॑रत् । अति॑च्छन्दा इन्द्रि॒यं बृ॒हदृ॑ष॒भो गौ॒र्वयो॑ दधुः ॥११॥॥(२) २३ (१३७७) व॒स॒न्तेन॑ ऋ॒तुना॑ दे॒वा वस॑वस्त्रि॒वृता॑ स्तु॒ताः । र॒थन्त॒रेण॒ तेज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः ॥१॥ २४ ग्री॒ष्मेण॑ ऋ॒तुना॑ दे॒वा रु॒द्राः प॑ञ्चद॒शे स्तु॒ताः । बृ॒ह॒ता यश॑सा॒ बल॑ ह॒विरिन्द्रे॒ वयो॑ दधुः ॥२॥ २५ व॒र्षाभि॑रृ॒तुना॑दि॒त्या स्तोमे॑ सप्तद॒शे स्तु॒ताः । वै॒रू॒पेण॑ वि॒शौज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः ॥३॥ २६ शा॒र॒देन॑ ऋ॒तुना॑ दे॒वा ए॑कविश ऋ॒भव॑ स्तु॒ताः । वै॒रा॒जेन॑ श्रि॒या श्रिय॑ ह॒विरिन्द्रे॒ वयो॑ दधुः ॥४॥ २७ हे॒म॒न्तेन॑ ऋ॒तुना॑ दे॒वास्त्रि॑ण॒वे म॒रुत॑ स्तु॒ताः । बले॑न॒ शक्व॒रीः सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुः ॥५॥ २८ शै॒शि॒रेण॑ ऋ॒तुना॑ दे॒वास्त्र॑यस्त्रि॒शे॒ऽमृता॑ स्तु॒ताः । स॒त्येन॑ रे॒वतीः॑ क्ष॒त्र ह॒विरिन्द्रे॒ वयो॑ दधुः ॥६॥ (३) २९ होता॑ यक्षत्स॒मिधा॒ग्निमि॒ळस्प॒दे॒ऽश्विनेन्द्र॒ सर॑स्वतीम॒जो धू॒म्रो न गो॒धूमैः॒ कुव॑लैर्भेष॒जं मधु॑ । शष्पै॒र्न तेज॑ इन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥१॥ ३० होता॑ यक्ष॒त्तनू॒नपा॒त्सर॑स्वती॒मवि॑र्मे॒षो न भे॑ष॒जं प॒था मधु॑मता॒ भर॑न्न॒श्विनेन्द्रा॑य वी॒र्यं॑म् । बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भिः॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वा॑स्य॒ होत॑र्यज ॥२॥ ३१ होता॑ यक्ष॒न्नरा॒शसं॒ न न॒ग्नहुं॒ पति॒ सुर॑या भेष॒जं मे॒षः सर॑स्वती भि॒षग्रथो॒ न च॒न्द्र्यश्विनो॑र्व॒पा इन्द्र॑स्य वी॒र्यम् । बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भिः॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३॥ ३२ होता॑ यक्ष॒दिळे॑ळि॒त आ॒जुह्वा॑नः॒ सर॑स्वती॒मिन्द्रं॒ बले॑न व॒र्धय॑न्नृष॒भेण॒ गवे॑न्द्रि॒यमश्विनेन्द्रा॑य भेष॒जम् । यवैः॑ क॒र्कन्धु॑भि॒र्मधु॑ ला॒जैर्न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥४॥ ३३ होता॑ यक्षद्ब॒र्हिरूर्ण॑म्रदा भि॒षङ् नास॑त्या भि॒षजा॒श्विनाश्वा॒ शिशु॑मती भि॒षग्धे॒नुः सर॑स्वती भि॒षक् । दु॒ह इन्द्रा॑य भेष॒जं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥५॥ ३४ होता॑ यक्ष॒द्दुरो॒ दिशः॑ कव॒ष्यो॒ न व्यच॑स्वतीर॒श्विभ्यां॒ न दुरो॒ दिश॒ इन्द्रो॒ न रोद॑सी॒ दुघे॑ दु॒हे धे॒नुः सर॑स्वत्य॒श्विनेन्द्रा॑य भेष॒जम् । शु॒क्रं न ज्योति॑रिन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥६॥ ३५ होता॑ यक्षत्सु॒पेश॑सो॒षे नक्तं॒ दिवा॒श्विना॒ सम॑ञ्जाते॒ सर॑स्वत्या॒ त्विषि॒मिन्द्रे॒ न भे॑ष॒जम् । श्ये॒नो न रज॑सा हृ॒दा श्रि॒या न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज ॥७॥ ३६ होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒श्विनेन्द्रं॒ न जागृ॑वि॒ दिवा॒ नक्तं॒ न भे॑ष॒जैः । शूष॒ सर॑स्वती भि॒षक् सीसे॑न दुह इन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥८॥ ३७ (१३९१) होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ऽपसो॑ रू॒पमिन्द्रे॑ हिर॒ण्यय॑म॒श्विनेळा॒ न भार॑ती । वा॒चा सर॑स्वती॒ मह॒ इन्द्रा॑य दुह इन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥९॥ ३८ होता॑ यक्षत् सुरेत॑समृष॒भं नर्या॑पसं॒ त्वष्टा॑र॒मिन्द्र॑म॒श्विना॑ भेष॒जं॒ न सर॑स्वती॒मोजो॒ न जू॒तिरि॑न्द्रि॒यं वृको॒ न र॑भ॒सो भि॒षक् । यशः॒ सुर॑या भेष॒ज श्रि॒या न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥१०॥॥ ३९ होता॑ यक्ष॒द्वन॒स्पति॑ शमि॒तार॑ श॒तक्र॑तुं भी॒मं न म॒न्यु राजा॑नं व्या॒घ्रं नम॑सा॒श्विना॑ । भाम॒ सर॑स्वती भि॒षगिन्द्रा॑य दुह इन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥११॥॥ ४० होता॑ यक्षद॒ग्नि स्वाहाज्य॑स्य स्तो॒काना॒ स्वाहा॒ मेद॑सां॒ पृथ॒क् स्वाहा॒ छाग॑म॒श्विभ्या॒ स्वाहा॑ मे॒ष सर॑स्वत्यै । स्वाह॑ ऋष॒भमिन्द्रा॑य सि॒हाय॒ सह॑स इन्द्रि॒य स्वाहा॒ग्निं न भे॑ष॒ज स्वाहा॒ सोम॑मिन्द्रि॒यम् । स्वाहेन्द्र॑ सु॒त्रामा॑ण सवि॒तारं॒ वरु॑णं भि॒षजां॒ पति॒ स्वाहा॒ वन॒स्पतिं॑ प्रि॒यं पाथो॒ न भे॑ष॒जम् । स्वाहा॑ दे॒वा आ॑ज्य॒पा जु॑षा॒णो अ॒ग्निर्भे॑ष॒जं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥१२॥ (४) ४१ होता॑ यक्षद॒श्विनौ॒ छाग॑स्य व॒पाया॒ मेद॑सो जु॒षेता॑ ह॒विर्होत॒र्यज॑ । होता॑ यक्ष॒त्सर॑स्वतीं मे॒षस्य॑ व॒पाया॒ मेद॑सो जु॒षता॑ ह॒विर्होत॒र्यज॑ । होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ व॒पाया॒ मेद॑सो जु॒षता॑ ह॒विर्होत॒र्यज॑ ॥१॥ ४२ होता॑ यक्षद॒श्विनौ॒ सर॑स्वती॒मिन्द्र॑ सु॒त्रामा॑णमि॒मे सोमाः॑ सु॒रामा॑ण॒श्छागै॒र्न मे॒षैरृ॑ष॒भैः सु॒ताः । शष्पै॒र्न तोक्म॑भिर्ला॒जैर्मह॑स्वन्तो॒ मदा॒ मास॑रेण॒ परि॑ष्कृताः शु॒क्राः पय॑स्वन्तो॒ऽमृताः॒ प्रस्थि॑ता वो मधु॒श्च्युत॒स्तान॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा जु॒षन्ता॑ सो॒म्यं मधु॒ । पिब॑न्तु॒ मद॑न्तु॒ व्यन्तु॒ होत॒र्यज॑ ॥२॥ ४३ (१३९७) होता॑ यक्षद॒श्विनौ॒ छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भः। घस्तां॑ नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमाना सु॒मत्क्ष॑राणा शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानाम् । पा॒र्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑त ए॒वाश्विना॑ जु॒षेता॑ ह॒विर्होत॑र्यज । होता॑ यक्ष॒त्सर॑स्वतीं मे॒षस्य॑ ह॒विष॒ आव॑यद॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भः । घस॑न्नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमाना सु॒मत्क्ष॑राणा शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानाम् । पा॒र्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒व सर॑स्वती जु॒षता॑ ह॒विर्होत॑र्यज । होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ ह॒विष॒ आव॑यद॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भः । घस॑न्नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमाना सु॒मत्क्ष॑राणा शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसानाम् । पा॒र्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वमिन्द्रो॑ जु॒षता॑ ह॒विर्होत॒र्यज॑ ॥३॥ ४४ होता॑ यक्ष॒द्वन॒स्पति॑म॒भि हि पि॒ष्टत॑मया॒ रभि॑ष्टया रश॒नयाधि॑त । यत्रा॒श्विनो॒श्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॑नि॒ यत्र॒ सर॑स्वत्या मे॒षस्य॑ ह॒विषः॑ प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्य ऋष॒भस्य॑ ह॒विषः॑ प्रि॒या धामा॑नि॒ । यत्रा॒ग्नेः प्रि॒या धामा॑नि॒ यत्र॒ सोम॑स्य प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्य सु॒त्राम्णः॑ प्रि॒या धामा॑नि । यत्र॑ सवि॒तुः प्रि॒या धामा॑नि॒ यत्र॒ वरु॑णस्य प्रि॒या धामा॑नि॒ यत्र॒ वन॒स्पतेः॑ प्रि॒या पाथा॑सि ॥ यत्र॑ दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यत्रा॒ग्नेर्होतुः॑ प्रि॒या धामा॑नि । तत्रै॒तान्प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑वो॒पाव॑स्रक्ष॒द्रभी॑यस इव कृ॒त्वी कर॑दे॒वं दे॒वो वन॒स्पति॑र्जु॒षता॑ ह॒विर्होत॒र्यज॑ ॥४॥ ४५ होता॑ यक्षद॒ग्नि स्वि॑ष्ट॒कृत॒मया॑ळ॒ग्निर॒श्विनो॒श्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॒न्यया॒ट सर॑स्वत्या मे॒षस्य॑ ह॒विषः॑ प्रि॒या धामा॒न्यया॒ळिन्द्र॑स्य ऋष॒भस्य॑ ह॒विषः॑ प्रि॒या धामा॑नि । अया॑ळ॒ग्नेः प्रि॒या धामा॒न्यया॒ट् सोम॑स्य प्रि॒या धामा॒न्यया॒ळिन्द्र॑स्य सु॒त्राम्णः॑ प्रि॒या धामा॑नि । अया॑ट् सवि॒तुः प्रि॒या धामा॒न्यया॒ड् वरु॑णस्य प्रि॒या धामा॒न्यया॒ड् वन॒स्पतेः॑ प्रि॒या पाथा॑सि । अया॑ड् दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यक्ष॑द॒ग्नेर्होतुः॑ प्रि॒या धामा॑नि । यक्ष॒त्स्वं म॑हि॒मान॒माय॑जता॒मेज्या॒ इषः॑ कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दा जु॒षता॑ ह॒विर्होत॒र्यज॑ ॥५॥ ४६ दे॒वं ब॒र्हिः सर॑स्वती सुदे॒वमिन्द्रे॑ अ॒श्विना॑ । तेजो॒ न चक्षु॑र॒क्ष्यो॑र्ब॒र्हिषा॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥१॥ ४७ दे॒वीर्द्वारो॑ अ॒श्विना॑ भि॒षजेन्द्रे॒ सर॑स्वती । प्रा॒णं न वी॒र्यं॑ न॒सि द्वारो॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥२॥ ४८ (१४०२) दे॒वी उ॒षासा॑ अ॒श्विना॑ सु॒त्रामेन्द्रे॒ सर॑स्वती । बलं॒ न वाच॑मा॒स्य॑ उ॒षाभ्यां॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥३॥ ४९ दे॒वी जोष्ट्री॒ सर॑स्वत्य॒श्विनेन्द्र॑मवर्धयन् । श्रोत्रं॒ न कर्ण॑यो॒र्यशो॒ जोष्ट्री॑भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥४॥ ५० दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघेन्द्रे॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑वतः । शु॒क्रं न ज्योति॒ स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५॥ ५१ दे॒वा दे॒वानां॑ भि॒षजा॒ होता॑रा॒ इन्द्र॑म॒श्विना॑ वषट्का॒रैः सर॑स्वती॒ त्विषिं॒ न हृद॑ये म॒तिम् । होतृ॑भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥६॥ ५२ दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर॒श्विनेळा॒ सर॑स्वती । शूषं॒ न मध्ये॒ नाभ्या॒मिन्द्रा॑य दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥७॥ ५३ दे॒व इन्द्रो॒ नरा॒शस॑स्त्रिवरू॒थः सर॑स्वत्या॒श्विभ्या॑मीयते॒ रथः॑ । रेतो॒ न रू॒पम॒मृतं॑ ज॒नित्र॒मिन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥८॥ ५४ दे॒वो देवै॒र्वन॒स्पति॒र्हिर॑ण्यपर्णो अ॒श्विभ्या॒ सर॑स्वत्या सुपिप्प॒ल इन्द्रा॑य पच्यते॒ मधु॑ । ओजो॒ न जू॒तिरृ॑ष॒भो न भामं॒ वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥९॥ ५५ दे॒वं ब॒र्हिर्वारि॑तीनामध्व॒रे स्ती॒र्णम॒श्विभ्या॒मूर्ण॑म्रदाः॒ सर॑स्वत्या स्यो॒नमि॑न्द्र ते॒ सदः॑ । ई॒शायै॑ म॒न्यु राजा॑नं ब॒र्हिषा॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥१०॥॥ ५६ दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वान्य॑क्षद्यथाय॒थ होता॑रा॒ इन्द्र॑म॒श्विना॑ वा॒चा वाच॒ सर॑स्वतीम॒ग्नि सोम॑ स्विष्ट॒कृत् । स्वि॑ष्ट॒ इन्द्रः॑ सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षगि॒ष्टो दे॒वो वन॒स्पतिः॒ स्वि॑ष्टा दे॒वा आ॑ज्य॒पाः । स्वि॑ष्टो अ॒ग्निर॒ग्निना॒ होता॑ हो॒त्रे स्वि॑ष्ट॒कृद्यशो॒ न दध॑दिन्द्रि॒यमूर्ज॒मप॑चिति स्व॒धां व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥११॥॥ ५७ अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मानः॒ पच॒न् पक्तीः॒ पच॑न् पुरो॒ळाशा॑न् ब॒ध्नन्न॒श्विभ्यां॒ छाग॒ सर॑स्वत्यै मे॒षमिन्द्रा॑य ऋष॒भम् । सु॒न्वन्न॒श्विभ्या॒ सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे॑ सुरासो॒मान् ॥१२॥ ५८ सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवद॒श्विभ्यां॒ छागे॑न॒ सर॑स्वत्यै मे॒षेणेन्द्रा॑य ऋष॒भेण॑ । अक्ष॒स्तान् मे॑द॒स्तः प्रति॑ पच॒तागृ॑भीष॒तावी॑वृधन्त पुरो॒ळाशै॒रपु॑र॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ सुरासो॒मान् ॥१३॥ ५९ त्वाम॒द्य ऋ॑ष आर्षेय ऋषीणां नपादवृणीता॒यं यज॑मानो ब॒हुभ्य॒ आ संग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या॑यक्ष्यत॒ इति॒ । ता या दे॒वा दे॑व॒ दाना॒न्यदु॒स्तान्य॑स्मा॒ आ च॒ शास्स्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः सूक्तवा॒काय॑ सू॒क्ता ब्रू॑हि ॥१४॥ (६) ६० (१४१४) ॥इति शुक्लयजुःकाण्वसंहितायां त्रयोविंशोऽध्यायः॥२३॥”
“अथ चतुर्विंशोऽध्यायः । तेजो॑ऽसि शु॒क्रम॒मृत॑मायु॒ष्पा आयु॑र्मे पाहि । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम द॑दे ॥१॥ १ इ॒माम॑गृभ्णन् रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । सा नो॑ अ॒स्मिन्त्सु॒त आ ब॑भूव ऋ॒तस्य॒ साम॑न्त्स॒रमा॒रप॑न्ती ॥२॥ २ अ॒भि॒धा अ॑सि॒ भुव॑नमसि य॒न्तासि॑ ध॒र्ता । स त्वम॒ग्निं वै॑श्वान॒र सप्र॑थसं गच्छ॒ स्वाहा॑कृतः स्व॒गा त्वा॑ दे॒वेभ्यः॑ ॥३॥ ३ प्र॒जाप॑तये॒ ब्रह्म॒न्नश्वं॑ भ॒न्त्स्यामि॑ दे॒वेभ्यः॑ प्र॒जाप॑तये॒ तेन॑ राध्यासम् । तं ब॑धान दे॒वेभ्यः॑ प्र॒जाप॑तये॒ तेन॑ राध्नुहि । प्र॒जाप॑तये त्वा॒ जुष्टं॒ प्रोक्षा॑मीन्द्रा॒ग्निभ्यां॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि वा॒यवे॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जुष्टं॒ प्रोक्षा॑मि सर्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जुष्टं॒ प्रोक्षा॑मि ॥४॥ ४ यो अर्व॑न्तं॒ जिघा॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः । प॒रो मर्तः॑ प॒रः श्वा ॥५॥ (१) ५ अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॒पां मोदा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॑ वा॒यवे॒ स्वाहा॒ विष्ण॑वे॒ स्वाहा॑ । इन्द्रा॑य॒ स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॑ ॥१॥ (२) ६ हि॒ङ्का॒राय॒ स्वाहा॒ हिङ्कृ॑ताय॒ स्वाहा॒ क्रन्द॑ते॒ स्वाहा॑वक्र॒न्दाय॒ स्वाहा॑ । प्रोथ॑ते॒ स्वाहा॑ प्रप्रो॒थाय॒ स्वाहा॑ ग॒न्धाय॒ स्वाहा॑ घ्रा॒ताय॒ स्वाहा॑ ॥१॥ ७ निवि॑ष्टाय॒ स्वाहोप॑विय॒ स्वाहा॒ संदि॑ताय॒ स्वाहा॒ वल्ग॑ते॒ स्वाहा॑ । आसी॑नाय॒ स्वाहा॒ शया॑नाय॒ स्वाहा॒ स्वप॑ते॒ स्वाहा॒ जाग्र॑ते॒ स्वाहा॑ ॥२॥ ८(१४२२) कूज॑ते॒ स्वाहा॒ प्रबु॑द्धाय॒ स्वाहा॑ वि॒जृम्भ॑माणाय॒ स्वाहा॒ विचृ॑ताय॒ स्वाहा॑ । सहा॑नाय॒ स्वाहोप॑स्थिताय॒ स्वाहाय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहा॑ ॥३॥ ९ य॒ते स्वाहा॒ धाव॑ते॒ स्वाहो॑द्द्रा॒वाय॒ स्वाहोद्द्रु॑ताय॒ स्वाहा॑ । शूका॒राय॒ स्वाहा॒ शूकृ॑ताय॒ स्वाहा॒ निष॑ण्णाय॒ स्वाहोत्थि॑ताय॒ स्वाहा॑ ॥४॥ १० ज॒वाय॒ स्वाहा॒ बला॑य॒ स्वाहा॑ वि॒वर्त॑मानाय॒ स्वाहा॒ विवृ॑त्ताय॒ स्वाहा॑ । वि॒धून्वा॒नाय॒ स्वाहा॒ विधू॑ताय॒ स्वाहा॒ शुश्रू॑षमाणाय॒ स्वाहा॑ शृण्व॒ते स्वाहा॑ ॥५॥ ११ ईक्ष॑माणाय॒ स्वाहे॑क्षि॒ताय॒ स्वाहा॒ वी॑क्षिताय॒ स्वाहा॑ निमे॒षाय॒ स्वाहा॑ । यदत्ति॒ तस्मै॒ स्वाहा॒ यत्पिब॑ति॒ तस्मै॒ स्वाहा॒ यन्मूत्रं॑ क॒रोति॒ तस्मै॒ स्वाहा॑ कुर्व॒ते स्वाहा॑ कृ॒ताय॒ स्वाहा॑ ॥६॥ (३) १२ तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥१॥ १३ हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ॥२॥ १४ दे॒वस्य॒ चेत॑तो म॒हीं प्र स॑वि॒तुर्ह॑वामहे । सु॒म॒ति स॒त्यरा॑धसम् ॥३॥ १५ सु॒ष्टु॒ति सु॑मती॒वृधो॑ रा॒ति स॑वि॒तुरी॑महे । प्र दे॒वाय॑ मती॒विदे॑ ॥४॥ १६ रा॒ति सत्प॑तिं म॒हे स॑वि॒तार॒मुप॑ ह्वये । आ॒स॒वं दे॒ववी॑तये ॥५॥ १७ दे॒वस्य॑ सवि॒तुर्म॒तिमा॑स॒वं वि॒श्वदे॑व्यम् । धि॒या भगं॑ मनामहे ॥६॥ १८ अ॒ग्नि स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् । ह॒व्या दे॒वेषु॑ नो दधत् ॥७॥ १९ स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति ॥८॥ २० तं त्वा॑ घृतस्न ईमहे॒ चित्र॑भानो स्व॒र्विद॑म् । देवाँ२ आ वी॒तये॑ वहे ॥९॥ २१ अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे । दे॒वाँ२ आ सा॑दयादि॒ह ॥१०॥॥ (४) २२ अजी॑जनो॒ हि प॑वमान॒ सूर्यं॑ वि॒धारे॒ शक्म॑ना॒ पयः॑ । गोजी॑रया॒ रह॑माणः॒ पुर॑न्ध्या ॥१॥ (५) २३ वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्राश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ मयो॒ऽस्यर्वा॑सि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑सि नृ॒मणा॑ असि । ययु॒र्नामा॑सि॒ शिशु॒र्नामा॑स्यादि॒त्यानां॒ पत्वान्वि॑हि ॥१॥ २४ देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्वं॒ मेधा॑य॒ प्रोक्षि॑त रक्षत् । इ॒ह रन्ति॑रि॒ह र॑मतामि॒ह धृति॑रि॒ह स्वधृ॑तिः॒ स्वाहा॑ ॥२॥ (६) २५ काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहा॑ । स्वाहा॒धिमाधी॑ताय॒ स्वाहा॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॑ चि॒त्तं विज्ञा॑ताय ॥१॥ २६ (१४४०) अदि॑त्यै॒ स्वाहादि॑त्यै म॒ह्यै स्वाहादि॑त्यै सुमृळी॒कायै॒ स्वाहा॑ । सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहा॒ सर॑स्वत्यै बृहत्यै॒ स्वाहा॑ ॥२॥ २७ पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहा॑ । त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॑ । विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहा॒ विष्ण॑वे शिपिवि॒ष्टाय॒ स्वाहा॑ ॥३॥ २८ विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ॥४॥ २९ आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा रा॒ष्ट्रे रा॑ज॒न्यः॑ । शूर॑ इष॒व्यो॑ऽतिव्या॒धी म॑हार॒थो जा॑यताम् ॥१॥ ३० दोग्ध्री॑ धे॒नुर्वोळहा॑न॒ड्वाना॒शुः सप्तिः॒ पुरं॑धि॒र्योषा॑ । जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवास्य यज॑मानस्य वी॒रो जा॑यताम् ॥२॥ ३१ नि॒का॒मेनि॑कामे नः प॒र्जन्यो॑ वर्षतु॒ पल॑वत्यो न॒ ओष॑धयः पच्यन्ताम् । यो॒ग॒क्षे॒मो नः॑ कल्पताम् ॥३॥ (८) ३२ प्रा॒णाय॒ स्वाहा॑पा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ । चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॑ वा॒चे स्वाहा॒ मन॑से॒ स्वाहा॑ ॥१॥ (९) ३३ प्राच्यै॑ दि॒शे स्वाहा॒र्वाच्यै॑ दि॒शे स्वाहा॒ दक्षि॑णायै दि॒शे स्वाहा॒र्वाच्यै॑ दि॒शे स्वाहा॑ । प्र॒तीच्यै॑ दि॒शे स्वाहा॒र्वाच्यै॑ दि॒शे स्वाहोदी॑च्यै दि॒शे स्वाहा॒र्वाच्यै॑ दि॒शे स्वाहा॑ । ऊ॒र्ध्वायै॑ दि॒शे स्वाहा॒र्वाच्यै॑ दि॒शे स्वाहावा॑च्यै दि॒शे स्वाहा॒र्वाच्यै॑ दि॒शे स्वाहा॑ ॥१॥ (१०) ३४ अ॒द्भ्यः स्वाहा॑ वा॒र्भ्यः स्वाहो॑द॒काय॒ स्वाहा॒ तिष्ठ॑न्तीभ्यः॒ स्वाहा॒ स्रव॑न्तीभ्यः॒ स्वाहा॒ स्यन्द॑मानाभ्यः॒ स्वाहा॑। कूप्या॑भ्यः॒ स्वाहा॒ सूद्या॑भ्यः॒ स्वाहा॒ धार्या॑भ्यः॒ स्वाहा॑र्ण॒वाय॒ स्वाहा॑ समु॒द्राय॒ स्वाहा॑ सरि॒राय॒ स्वाहा॑ ॥१॥ (११) ३५ वाता॑य॒ स्वाहा॑ धू॒माय॒ स्वाहा॒भ्राय॒ स्वाहा॑ मे॒घाय॒ स्वाहा॑ वि॒द्योत॑मानाय॒ स्वाहा॑ स्त॒नय॑ते॒ स्वाहा॑ । अ॒व॒स्फूर्ज॑ते॒ स्वाहा॒ वर्ष॑ते॒ स्वाहा॑व॒वर्ष॑ते॒ स्वाहो॒ग्रं वर्ष॑ते॒ स्वाहा॑ शी॒घ्रं वर्ष॑ते॒ स्वाहो॑द्गृह्ण॒ते स्वाहोद्गृ॑हीताय॒ स्वाहा॑ । प्र॒श्न॒ते स्वाहा॑ शीकाय॒ते स्वाहा॒ प्रुष्वा॑भ्यः॒ स्वाहा॑ ह्रा॒दुनी॑भ्यः॒ स्वाहा॑ नीहा॒राय॒ स्वाहा॑ ॥१॥ (१२) ३६ (३६) (१४५०) अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेन्द्रा॑य॒ स्वाहा॑ पृथि॒व्यै स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ । दि॒वे स्वाहा॑ दि॒ग्भ्यः स्वाहाशा॑भ्यः॒ स्वाहो॒र्व्यै॑ दि॒शे स्वाहा॒र्वाच्यै॑ दि॒शे स्वाहा॑ ॥१॥ (१३) ३७ नक्ष॑त्रेभ्यः॒ स्वाहा॑ नक्ष॒त्रिये॑भ्यः॒ स्वाहा॑होरा॒त्रेभ्यः॒ स्वाहा॑र्धमा॒सेभ्यः॒ स्वाहा॑ । मासे॑भ्यः॒ स्वाहा॑ ऋ॒तुभ्यः॒ स्वाहा॑र्त॒वेभ्यः॒ स्वाहा॑ संवत्स॒राय॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ स्वाहा॑ ॥१॥ ३८ च॒न्द्राय॒ स्वाहा॒ सूर्या॑य॒ स्वाहा॑ र॒श्मिभ्यः॒ स्वाहा॒ वसु॑भ्यः॒ स्वाहा॑ । रु॒द्रेभ्यः॒ स्वाहा॑दि॒त्येभ्यः॒ स्वाहा॑ म॒रुद्भ्यः॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॑ ॥२॥ (१४) ३९ मूले॑भ्यः॒ स्वाहा॒ शाखा॑भ्यः॒ स्वाहा॒ वन॒स्पति॑भ्यः॒ स्वाहा॑ । पुष्पे॑भ्यः॒ स्वाहा॒ फले॑भ्यः॒ स्वाहौष॑धीभ्यः॒ स्वाहा॑ ॥१॥ (१५) ४० पृ॒थि॒व्यै स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ । च॒न्द्राय॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒द्भ्यः स्वाहौ॑षधीभ्यः॒ स्वाहा॑ । वन॒स्पति॑भ्यः॒ स्वाहा॑ परिप्ल॒वेभ्यः॒ स्वाहा॑ चराच॒रेभ्यः॒ स्वाहा॑ सरीसृ॒पेभ्यः॒ स्वाहा॑ ॥१॥ (१६) ४१ अस॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ वि॒भुवे॒ स्वाहा॒ विव॑स्वते॒ स्वाहा॑ । ग॒ण॒श्रिये॒ स्वाहा॑ ग॒णप॑तये॒ स्वाहा॑भि॒भुवे॒ स्वाहाधि॑पतये॒ स्वाहा॑ ॥१॥ ४२ शू॒षाय॒ स्वाहा॑ सस॒र्पाय॒ स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ ज्योति॑षे॒ स्वाहा॑ । म॒लि॒म्लु॒चाय॒ स्वाहा॒ दिवा॑ प॒तय॑ते॒ स्वाहा॑ ॥२॥ १७ ४३ मध॑वे॒ स्वाहा॒ माध॑वाय॒ स्वाहा॑ शु॒क्राय॒ स्वाहा॒ शुच॑ये॒ स्वाहा॑ । नभ॑से॒ स्वाहा॑ नभ॒स्या॑य॒ स्वाहे॒षाय॒ स्वाहो॒र्जाय॒ स्वाहा॑ । सह॑से॒ स्वाहा॑ सह॒स्या॑य॒ स्वाहा॒ तप॑से॒ स्वाहा॑ तप॒स्या॑य॒ स्वाहा॑हसस्प॒तये॒ स्वाहा॑ ॥१॥ (१८) ४४ वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑पि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॑ । स्वः॒ स्वाहा॑ मू॒र्ध्ने स्वाहा॑ व्यश्नु॒विने॒ स्वाहा॑ । अन्त्या॑य॒ स्वाहान्त्या॑य॒नाय॒ स्वाहा॑ भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ ॥१॥ (१९) ४५ आयु॑र्य॒ज्ञेन॑ कल्पता॒ स्वाहा॑ प्रा॒णो य॒ज्ञेन॑ कल्पता॒ स्वाहा॑पा॒नो य॒ज्ञेन॑ कल्पता॒ स्वाहा॑ व्या॒नो य॒ज्ञेन॑ कल्पता॒ स्वाहा॑ । उ॒दा॒नो य॒ज्ञेन॑ कल्पता॒ स्वाहा॑ समा॒नो य॒ज्ञेन॑ कल्पता॒ स्वाहा॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ स्वाहा॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पता॒ स्वाहा॑ । वाग्य॒ज्ञेन॑ कल्पता॒ स्वाहा॒ मनो॑ य॒ज्ञेन॑ कल्पता॒ स्वाहा॒त्मा य॒ज्ञेन॑ कल्पता॒ स्वाहा॑ पृ॒ष्ठं य॒ज्ञेन॑ कल्पता॒ स्वाहा॑ । ब्रह्म॑ य॒ज्ञेन॑ कल्पता॒ स्वाहा॑ य॒ज्ञो य॒ज्ञेन॑ कल्पता॒ स्वाहा॒ ज्योति॑र्य॒ज्ञेन॑ कल्पता॒ स्वाहा॒ स्व॑र्य॒ज्ञेन॑ कल्पता॒ स्वाहा॑ ॥१॥ (२०) ४६ एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒ स्वाहा॑ श॒ताय॒ स्वाहै॑कशताय॒ स्वाहा॑ । व्यु॑ष्ट्यै॒ स्वाहा॑ स्व॒र्गाय॒ स्वाहा॑ ॥१॥ (२१) ४७ (१४६१) ॥इति शुक्लयजुःकाण्वसंहितायां चतुर्विंशोऽध्यायः॥२४॥”
“अथ पञ्चविंशोऽध्यायः । हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१॥ १ उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॒ सूर्य॑स्ते महि॒मा । यस्तेऽह॑न्त्संवत्स॒रे म॑हि॒मा सं॑ब॒भूव॒ यस्ते॑ वा॒या अ॒न्तरि॑क्षे महि॒मा सं॑ब॒भूव॑ । यस्ते॑ दि॒वि सूर्ये॑ महि॒मा सं॑ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ दे॒वेभ्यः॑ ॥२॥ (१) २ यः प्रा॑ण॒तो नि॑मिष॒तो म॑हित्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१॥ ३ उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॑श्च॒न्द्रमास्ते॑ महि॒मा । यस्ते॒ रात्रौ॑ संवत्स॒रे म॑हि॒मा सं॑ब॒भूव॒ यस्ते॑ पृथि॒व्याम॒ग्नौ म॑हि॒मा सं॑ब॒भूव॑ । यस्ते॒ नक्ष॑त्रेषु च॒न्द्रम॑सि महि॒मा सं॑ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये दे॒वेभ्यः॒ स्वाहा॑ ॥२॥ (२) ४ यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि ॥१॥ ५ यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥२॥ ६ यद्वातो॑ अ॒पो अ॑गनीगन्प्रि॒यामिन्द्र॑स्य त॒न्व॑म् । ए॒त स्तो॑तर॒नेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि नः ॥३॥ ७ वस॑वस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा । आ॒दि॒त्यास्त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा ॥४॥ ८ भूर्भुवः॒ स्व॒र्लाजी३ञ्छा॒ची३न्यव्ये॒ गव्ये॑ । ए॒तदन्न॑मत्त देवा ए॒तदन्न॑मद्धि प्रजापते ॥५॥ ९ कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ । कि स्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत् ॥६॥ १० सूर्य॑ एका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत् ॥७॥ ११ का स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ कि स्वि॑दासीद् बृ॒हद्वयः॑ । का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ॥८॥ १२ द्यौ॑रासीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद् बृ॒हद्वयः॑ । अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ॥९॥ (३) १३ वा॒युष्ट्वा॑ पच॒तैर॑व॒त्वसि॑तग्रीव॒श्छागैः॑ । न्य॒ग्रोध॑श्चम॒सैः श॑ल्म॒लिर्वृद्ध्या॑ ॥१॥ १४ ए॒ष स्य रा॒थ्यो वृषा॑ प॒ड्भिश्च॒तुर्भि॒रेद॑गन् । ब्र॒ह्मा कृ॑ष्णश्च नोऽवतु॒ । नमो॒ऽग्नये॑ ॥२॥ १५ सशि॑तो र॒श्मिना॒ रथः॒ सशि॑तो र॒श्मिना॒ हयः॑ । सशि॑तो अ॒प्स्व॑प्सु॒जा ब्र॒ह्मा सोम॑पुरोगवः ॥३॥ १६ स्व॒यं वा॑जिस्त॒न्वं॑ कल्पयस्व स्व॒यं य॑जस्व स्व॒यं जु॑षस्व । म॒हि॒मा ते॒ऽन्येन॒ न सं॒नशे॑ ॥४॥ १७ न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ । यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥५॥ १८ (१४७९) अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँ लो॒कम॑जय॒द्यस्मि॑न्न॒ग्निः । स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः । वा॒युः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँ लो॒कम॑जय॒द्यस्मि॑न्वा॒युः । स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः । सूर्यः॑ प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँ लो॒कम॑जय॒द्यस्मि॒न्त्सूर्यः॑ । स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ॥६॥ (४) १९ प्रा॒णाय॒ स्वाहा॑पा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ । अम्बे॒ अम्बि॒केऽम्बा॑लिके॒ न मा॑ नयति॒ कश्च॒न । सस॑स्त्यश्व॒कः सुभ॑द्रिकां काम्पीलवा॒सिनी॑म् ॥१॥ २० ग॒णानां॑ त्वा ग॒णप॑ति हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑ति हवामहे । नि॒धीनां॑ त्वा निधि॒पति हवामहे वसो मम ॥२॥ २१ आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् । ता उभौ च॒तुरः॑ प॒दः स॒म्प्रसा॑रयाव । स्व॒र्गे लो॒के प्रोर्ण्वा॑थाँ॒ वृषा॑ वा॒जी रे॑तो॒धा रेतो॑ दधातु ॥३॥ (५) २२ उत्स॑क्थ्या॒ अव॑ गु॒दं धे॑हि॒ सम॒ञ्जिं चा॑रया वृषन् । य स्त्री॒णां जी॑व॒भोज॑नः ॥१॥ २३ य॒कास॒कौ श॑कुन्ति॒काहल॒गिति॒ वञ्च॑ति । आह॑न्ति ग॒भे पसो॒ निग॑ल्गलीति॒ धार॑का ॥२॥ २४ य॒कोऽस॒कौ श॑कुन्त॒क आ॒हल॒गिति॒ वञ्च॑ति । विव॑क्षत इव ते॒ मुख॒मध्व॑र्यो॒ मा न॒स्त्वम॒भि भा॑षथाः ॥३॥ २५ मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ वृ॒क्षस्य॑ रोहतः । प्रति॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तसयत् ॥४॥ २६ मा॒ता च॑ ते पि॒ता च॒ तेऽग्रे॑ वृ॒क्षस्य॑ क्रीळतः । विव॑क्षत इव ते॒ मुखं॒ ब्रह्म॒न्मा त्वं व॑दो ब॒हु ॥५॥ २७ ऊ॒र्ध्वमे॑ना॒मुच्छ्रा॑पय गि॒रौ भा॒र हर॑न्निव । अथा॑स्यै॒ मध्य॑मेधता शी॒ते वाते॑ पु॒नन्नि॑व ॥६॥ २८ ऊ॒र्ध्वमे॑न॒मुच्छ्र॑याद्गि॒रौ भा॒र हर॑न्निव । अथा॑स्य॒ मध्य॑मेजतु शी॒ते वाते॑ पु॒नन्नि॑व ॥७॥ २९ यद॑स्या अ॒हु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत् । मु॒ष्का इद॑स्या एजतो गोश॒फे श॑कु॒ला इ॑व ॥८॥ ३० (१४९१) यद्दे॒वासो॑ ल॒लाम॑गुं॒ प्र वि॑ष्टी॒मिन॒मावि॑षुः । स॒क्थ्ना दे॑दिश्यते॒ नारी॑ स॒त्यस्या॑क्षि॒भुवो॑ यथा ॥९॥ ३१ यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं प॒शु मन्य॑ते । शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ॥१०॥॥ ३२ यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं ब॒हु मन्य॑ते । शू॒द्रो यदर्या॑यै जा॒रो न पोष॒मनु॑ मन्यते ॥११॥॥ ३३ द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयू॑षि तारिषत् ॥१२॥ (६) ३४ गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्प॒ङ्क्त्या स॒ह । बृ॒ह॒त्यु॒ष्णिहा॑ क॒कुप्सू॒चीभिः॑ शम्यन्तु त्वा ॥१॥ ३५ द्विप॑दा॒ याश्चतु॑ष्पदास्त्रि॒पदा॒ याश्च॒ षट्प॑दाः । विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभिः॑ शम्यन्तु त्वा ॥२॥ ३६ म॒हाना॑म्न्यो रे॒वत्यो॒ विश्वा॒ आशाः॑ प्र॒भूव॑रीः । मै॑घीर्वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑ शम्यन्तु त्वा ॥३॥ ३७ नार्य॑स्ते॒ पत्न्यो॒ लोम॒ विचि॑न्वन्तु मनी॒षया॑ । दे॒वानां॒ पत्न्यो॒ दिशः॑ सू॒चीभिः॑ शम्यन्तु त्वा ॥४॥ ३८ र॒ज॒ता हरि॑णीः॒ सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः । अश्व॑स्य वा॒जिन॑स्त्व॒चि सिमाः॑ शम्यन्तु॒ शम्य॑न्तीः॥५॥ ३९ कु॒विद॒ङ्ग यव॑मन्तो व॒यञ्चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ उक्तिं॒ न ज॒ग्मुः॥६॥ (७) ४० कस्त्वा छ्य॑ति॒ कस्त्वा॒ विशा॑स्ति॒ कस्ते॒ गात्रा॑णि शम्यति । क उ॑ ते शमि॒ता क॒विः ॥१॥ ४१ ऋ॒तव॑स्त ऋतु॒था पर्व॑ शमि॒तारो॒ वि शा॑सतु । सं॒व॒त्स॒रस्य॒ तेज॑सा श॒मीभिः॑ शम्यन्तु त्वा ॥२॥ ४२ अ॒र्ध॒मा॒साः परू॑षि ते॒ मासा॒ आ छ्य॑न्तु शम्य॑न्तः । अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्ट सूदयन्तु ते ॥३॥ ४३ दैव्या॑ अध्व॒र्यव॒स्त्वा छ्य॑न्तु॒ वि च॑ शासतु । गात्रा॑णि पर्व॒शस्ते॒ सिमाः॑ कृण्वन्तु॒ शम्य॑न्तीः ॥४॥ ४४ (१५०५) द्यौस्ते॑ पृथि॒व्य॒न्तरि॑क्षं वा॒युश्छि॒द्रं पृ॑णातु ते । सूय॑स्ते॒ नक्ष॑त्रैः स॒ह लो॒कं कृ॑णोतु साधु॒या ॥५॥ ४५ शं ते॒ परे॑भ्यो॒ गात्रे॑भ्यः॒ शम॒स्त्वव॑रेभ्यः । शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शम्व॑स्तु त॒न्वै॒ तव॑ ॥६॥ (८) ४६ कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ । कि स्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत् ॥१॥ ४७ सूर्य॑ एका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत् ॥२॥ ४८ कि स्वि॒त्सूर्य॑समं॒ ज्योतिः॒ कि स॑मु॒द्रस॑म॒ सरः॑ । कि स्वि॑त्पृथिव्यै॒ वर्षी॑यः कस्य॒ मात्रा॒ न वि॑द्यते ॥३॥ ४९ ब्रह्म॒ सूर्य॑समं॒ ज्योति॒र्द्यौः स॑मु॒द्रस॑म॒ सरः॑ । इन्द्रः॑ पृथिव्यै॒ वर्षी॑या॒न् गोस्तु मात्रा॒ न वि॑द्यते ॥४॥ ५० पृ॒च्छामि॑ त्वा चि॒तये॑ देवसख॒ यदि॒ त्वमत्र॒ मन॑सा ज॒गन्थ॑ । येषु॒ विष्णु॑स्त्रि॒षु प॒देष्वेष्ट॒स्तेषु॒ विश्वं॒ भुव॑न॒मा वि॑वेशा३ ॥५॥ ५१ अपि॒ तेषु॑ त्रि॒षु प॒देष्व॑स्मि॒ येषु॒ विश्वं॒ भुव॑नमा वि॒वेश॑ । स॒द्यः पर्ये॑मि पृथि॒वीमु॒त द्यामेके॒नाङ्गे॑न दि॒वो अ॒स्य पृ॒ष्ठम् ॥६॥ ५२ केष्व॒न्तः पुरु॑ष॒ आ वि॑वेश॒ कान्य॒न्तः पुरु॑षे॒ अर्पि॑तानि । ए॒तद् ब्र॑ह्म॒न्नुप॑ वल्हामसि त्वा॒ कि स्वि॑न्नः॒ प्रति॑ वोचा॒स्यत्र॑ ॥७॥ ५३ प॒ञ्चस्व॒न्तः पुरु॑ष॒ आ वि॑वेश॒ तान्य॒न्तः पुरु॑षे॒ अर्पि॑तानि । ए॒तत्त्वात्र॑ प्रतिमन्वा॒नो अ॑स्मि॒ न मा॒यया॑ भव॒स्युत्त॑रो॒ मत् ॥८॥ (९) ५४ का स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ कि स्वि॑दासीद् बृ॒हद्वयः॑ । का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ॥१॥ ५५ द्यौ॑रासीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद् बृ॒हद्वयः॑ । अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ॥२॥ ५६ क ई॑मरे पिशङ्गि॒ला क ईं॑ कुरु पिशङ्गि॒ला । क ई॑मा॒ स्कन्द॑मर्षति॒ क ईं॒ पन्थां॒ वि स॑र्पति ॥३॥ ५७ (१५१८) अ॒जारे॑ पिशङ्गि॒ला श्वा॒वित्कु॑रु पिशङ्गि॒ला । श॒श आ॒स्कन्द॑मर्ष॒त्यहिः॒ पन्थां॒ वि स॑र्पति ॥४॥ ५८ कत्य॑स्य वि॒ष्ठाः कत्य॒क्षरा॑णि॒ कति॒ होमा॑सः कति॒धा समि॑द्धः । य॒ज्ञस्य॑ त्वा वि॒दथा॑ पृच्छ॒मत्र॒ कति॒ होता॑र ऋतु॒शो य॑जन्ति ॥५॥ ५९ षळ॑स्य वि॒ष्ठाः श॒तम॒क्षरा॑ण्यशी॒तिर्होमाः॑ स॒मिधो॑ ह ति॒स्रः । य॒ज्ञस्य॑ ते वि॒दथा॒ प्र ब्र॑वीमि स॒प्त होता॑र ऋतु॒शो य॑जन्ति ॥६॥ ६० को अ॒स्य वे॑द॒ भुव॑नस्य॒ नाभिं॒ को द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । कः सूर्य॑स्य वेद बृह॒तो ज॒नित्रं॒ को वे॑द च॒न्द्रम॑सं यतो॒जाः ॥७॥ ६१ वेदा॒हम॒स्य भुव॑नस्य॒ नाभिं॒ वेद॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । वेद॒ सूर्य॑स्य बृह॒तो ज॒नित्र॒मथो॑ वेद च॒न्द्रम॑सं यतो॒जाः ॥८॥ ६२ पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑ । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥९॥ ६३ इ॒यं वेदिः॒ परो॒ अन्तः॑ पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभिः॑ । अ॒य सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥१०॥॥ ६४ सु॒भूः स्व॑य॒म्भूः प्र॑थ॒मो॒ऽन्तर्म॑ह॒त्य॑र्ण॒वे । द॒धे ह॒ गर्भ॑मृ॒त्वियं॒ यतो॑ जा॒तः प्र॒जाप॑तिः ॥११॥॥ ६५ होता॑ यक्षत्प्र॒जाप॑ति॒ सोम॑स्य महि॒म्नः । जु॒षतां॒ पिब॑तु॒ सोम॒ होत॒र्यज॑ ॥१२॥ ६६ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒य स्या॑म॒ पत॑यो रयी॒णाम् ॥१३॥ (१०) ६७ (१५२८) ॥इति शुक्लयजुःकाण्वसंहितायां पञ्चविंशोऽध्यायः॥२५॥”
“अथ षड्विंशोऽध्यायः । अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्याः कृ॒ष्णग्री॑व आग्ने॒यो र॒राटे॑ । पु॒रस्ता॑त्सारस्व॒ती मे॒ष्य॒धस्ता॒द्धन्वोः॑ ॥१॥ १ राश्वि॒नाव॒धोरा॑मौ बा॒ह्वोः सौ॑मापौ॒ष्णः श्या॒मो नाभ्या॑ सौर्ययामौ । श्वे॒तश्च॑ कृ॒ष्णश्च॑ पा॒र्श्वयोः॑ ॥२॥ २ त्वा॒ष्ट्रौ लो॑म॒शस॑क्थौ स॒क्थ्योर्वा॑य॒व्यः॑ श्वे॒तः पुच्छ॒ इन्द्रा॑य स्वप॒स्या॑य वे॒हद्वै॑ष्ण॒वो वा॑म॒नः । रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते सौ॒म्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते वा॑रु॒णाः ॥३॥ ३ शि॒ति॒रन्ध्रो॒ऽन्यतः॑ शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते सा॑वि॒त्राः शि॑तिबा॒हुरन्यतः॑ शितिबाहुः सम॒न्तशि॑तिबाहु॒स्ते बा॑र्हस्प॒त्याः । पृष॑ती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती॒ ता मै॑त्रावरुण्यः॑ ॥४॥ ४ शु॒द्धवा॑लः स॒र्वशु॑द्धवालो मणि॒वाल॒स्त आ॑श्वि॒नाः । श्येतः॑ श्येता॒क्षो॑ऽरु॒णस्ते रु॒द्राय॑ पशु॒पत॑ये क॒र्णाया॒माः॥५॥ ५ अ॑वलि॒प्ता रौ॒द्रा नभो॑रूपाः पार्ज॒न्याः । पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः ॥६॥ ६ फ॒ल्गूर्लो॑हितो॒र्णी प॑ल॒क्षी ताः सा॑रस्व॒त्यः॑ । प्लीहा॒कर्णः॑ शुण्ठा॒कर्णो॑ऽद्ध्यालोह॒कर्ण॒स्ते त्वा॒ष्ट्राः ॥७॥ ७ कृ॒ष्णग्री॑वः शिति॒कक्षो॑ऽञ्जिस॒क्थस्त ऐ॑न्द्रा॒ग्नाः । कृ॒ष्णाञ्जि॒रल्पा॑ञ्जिर्म॒हाञ्जि॒स्त उ॑ष॒स्याः॑ ॥८॥ ८ शि॒ल्पा वै॑श्वदे॒व्यो॒ रोहि॑ण्य॒स्त्र्यव॑यो वा॒चेऽवि॑ज्ञाता॒ अदि॑त्यै । सरू॑पा धा॒त्रे व॑त्सत॒र्यो॑ दे॒वानां॒ पत्नी॑भ्यः ॥९॥ (३) ९ कृ॒ष्णग्री॑वा आग्ने॒याः शि॑ति॒भ्रवो॒ वसू॑ना॒ रोहि॑ता रु॒द्राणा॑म् । श्वे॒ता अ॑वरो॒किण॑ आदि॒त्यानां॒ नभो॑रूपाः पार्ज॒न्याः ॥१॥ १० उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ॑न्द्रवैष्ण॒वा उ॑न्न॒तः शि॑तिबा॒हुः शि॑तिपृ॒ष्ठस्त ऐ॑न्द्राबार्हस्प॒त्याः । शुक॑रूपा वाजि॒नाः क॒ल्माषा॑ आग्निमारु॒ताः श्या॒माः पौ॒ष्णाः ॥२॥ ११ एता॑ ऐन्द्रा॒ग्ना द्वि॑रू॒पा अ॑ग्नीषो॒मीया॑ वाम॒ना अ॑न॒ड्वाह॑ आग्नावैष्ण॒वाः । व॒शा मै॑त्रावरु॒ण्यो॒ऽन्यत॑ एन्यो मै॒त्र्यः॑ ॥३॥ १२ कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रवः॑ सौ॒म्याः श्वे॒ता वा॑य॒व्या॒ अवि॑ज्ञाता॒ अदि॑त्यै । सरू॑पा धा॒त्रे व॑त्सत॒र्यो॑ दे॒वानां॒ पत्नी॑भ्यः ॥४॥ १३ (१५४१) कृ॒ष्णा भौ॒मा धू॒म्रा आ॑न्तरि॒क्षा बृ॒हन्तो॑ दि॒व्याः । श॒बला॑ वैद्यु॒ताः सि॒ध्मास्ता॑र॒काः ॥५॥(२) १४ धू॒म्रान्व॑स॒न्ताया ल॑भते श्वे॒तान्ग्री॒ष्माय॑ कृ॒ष्णान्व॒र्षाभ्यो॑ऽरु॒णाञ्छ॒रदे॑ । पृष॑तो हेम॒न्ताय॑ पि॒शङ्गा॒ञ्छिशि॑राय ॥१॥ १५ त्र्यव॑यो गायत्र्यै॒ पञ्चा॑वयस्त्रि॒ष्टुभे॑ दित्य॒वाहो॒ जग॑त्यै । त्रि॒व॒त्सा अ॑नु॒ष्टुभे॑ तुर्य॒वाह॑ उ॒ष्णिहे॑ ॥२॥ १६ प॒ष्ठ॒वाहो॑ वि॒राज॑ उ॒क्षणो॑ बृह॒त्या ऋ॑ष॒भाः क॒कुभे॑ । अ॒न॒ड्वाहः॑ प॒ङ्क्त्यै धे॒नवोऽति॑च्छन्दसे ॥३॥ १७ कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रवः॑ सौ॒म्या उ॑पध्व॒स्ताः सा॑वि॒त्रा व॑त्सत॒र्यः॑ सारस्व॒त्यः॑ श्या॒माः पौ॒ष्णाः । पृश्न॑यो मारु॒ता ब॑हुरू॒पा वै॑श्वदे॒वा व॒शा द्या॑वापृथि॒वीयाः॑ ॥४॥ १८ उ॒क्ताः सं॑च॒रा एता॑ ऐन्द्रा॒ग्नाः । कृ॒ष्णाः वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः ॥५॥ (३) १९ अ॒ग्नयेऽनी॑कवते प्रथम॒जानाल॑भते म॒रुद्भ्यः॑ सांतप॒नेभ्यः॑ सवा॒त्यान्म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॒ बष्कि॑हान् । म॒रुद्भ्यः॑ क्री॒ळिभ्यः॑ ससृ॒ष्टान्म॒रुद्भ्यः॒ स्वत॑वद्भ्योऽनुसृ॒ष्टान् ॥१॥ २० उ॒क्ताः सं॑च॒रा एता॑ ऐन्द्रा॒ग्नाः । प्रा॑शृ॒ङ्गा मा॑हे॒न्द्रा ब॑हुरू॒पा वै॑श्वकर्म॒णाः ॥२॥ २१ धू॒म्रा ब॒भ्रुनी॑काशाः पितॄ॒णा सोम॑वतां ब॒भ्रवो॑ धू॒म्रनी॑काशाः पितॄ॒णां ब॑र्हि॒षदा॑म् । कृ॒ष्णा ब॒भ्रुनी॑काशाः पितॄ॒णाम॑ग्निष्वा॒त्तानां॑ कृ॒ष्णाः पृष॑न्तस्त्रैयम्ब॒काः ॥३॥ २२ उ॒क्ताः सं॑च॒रा एताः॑ शुनासी॒रीयाः॑ । श्वे॒ता वा॑य॒व्याः श्वे॒ताः सौ॒र्याः ॥४॥ २३ व॒स॒न्ताय॑ क॒पिञ्ज॑ला॒नाल॑भते ग्री॒ष्माय॑ कल॒विङ्का॑न्व॒र्षाभ्य॑स्ति॒त्तिरी॑ञ्छ॒रदे॒ वर्ति॑काः । हे॒म॒न्ताय॒ कक॑रा॒ञ्छिशि॑राय॒ विक॑करान् ॥५॥ (४) २४ स॒मु॒द्राय॑ शिशु॒मारा॒नाल॑भते प॒र्जन्या॑य म॒ण्डूका॑न॒द्भ्यो मत्स्या॑न् । मि॒त्राय॑ कुली॒पया॒न्वरु॑णाय ना॒क्रान् ॥१॥ २५ सोमा॑य ह॒सानाल॑भते वा॒यवे॑ ब॒लाका॑ इन्द्रा॒ग्निभ्यां॒ क्रुञ्चा॑न् । मि॒त्राय॑ म॒द्गून्वरु॑णाय चक्रवा॒कान् ॥२॥ २६ अ॒ग्नये॑ कु॒टरू॒नाल॑भते॒ वन॒स्पति॑भ्य॒ उलू॑कान॒ग्नीषोमा॑भ्यां॒ चाषा॑न् । अ॒श्विभ्यां॑ म॒यूरा॑न्मि॒त्रावरु॑णाभ्यां क॒पोता॑न् ॥३॥ २७ (१५५५) सोमा॑य ल॒बानाल॑भते॒ त्वष्ट्रे॑ कौली॒कान्गो॑षा॒दीर्दे॒वानां॒ पत्नी॑भ्यः । कु॒लीका॑ देवजा॒मिभ्यो॒ऽग्नये॑ गृ॒हप॑तये पारु॒ष्णान् ॥४॥ २८ अह्ने॑ पा॒राव॑ता॒नाल॑भते॒ रात्र्यै॑ सीचा॒पूर॑होरा॒त्रयोः॑ सं॒धिभ्यो॑ ज॒तूः । मासे॑भ्यो दात्यौ॒हान्त्सं॑वत्स॒राय॑ मह॒तः सु॑प॒र्णान् ॥५॥ (५) २९ भूम्या॑ आ॒खूनाल॑भते॒ऽन्तरि॑क्षाय पा॒ङ्क्त्रान्दि॒वे कशा॑न् । दि॒ग्भ्यो न॑कु॒लान्बभ्रु॑कानवान्तरदि॒शाभ्यः॑ ॥१॥ ३० वसु॑भ्य॒ ऋश्या॒नाल॑भते रु॒द्रेभ्यो॒ रुरू॑नादि॒त्येभ्यो॒ न्यङ्कू॑न् । विश्वे॑भ्यो दे॒वेभ्यः॑ पृष॒तान्त्सा॒ध्येभ्यः॑ कुलु॒ङ्गान् ॥२॥ ३१ ईशा॑नाय॒ पर॑स्वत॒ आल॑भते मि॒त्राय॑ गौ॒रान्वरु॑णाय महि॒षान् । बृह॒स्पत॑ये गव॒यास्त्वष्ट्र॒ उष्ट्रा॑न् ॥३॥ ३२ प्र॒जाप॑तये॒ पुरु॑षान् ह॒स्तिन॒ आल॑भते वा॒चे प्लुषीन् । चक्षु॑षे म॒शका॒ञ्छ्रोत्रा॑य॒ भृङ्गाः॑ ॥४॥ ३३ प्र॒जाप॑तये च वा॒यवे॑ च गोमृ॒गो वरु॑णायार॒ण्यो मे॒षो य॒माय॒ कृष्णो॑ मनुष्यरा॒जाय॑ म॒र्कटः॑ । शा॒र्दू॒लाय॑ रो॒हिदृ॑ष॒भाय॑ गव॒यी क्षि॑प्रश्ये॒नाय॒ वर्ति॑का॒ नील॑ङ्गोः॒ क्रिमिः॑ समु॒द्राय॑ शिशु॒मारो॑ हि॒मव॑ते ह॒स्ती ॥५॥ (६) ३४ म॒युः प्रा॑जाप॒त्य उ॒लो ह॒लिक्ष्णो॑ वृषद॒शस्ते धा॒त्रे दि॒शां क॒ङ्को धुङ्क्षा॑ग्ने॒यी । क॒ल॒विङ्को॑ लोहिता॒हिः पु॑ष्करसा॒दस्ते त्वा॒ष्ट्रा वा॒चे क्रुञ्चः॑ ॥१॥ ३५ सोमा॑य कुलु॒ङ्ग आ॑र॒ण्यो॒ऽजो न॑कु॒लः शका॒ ते पौ॒ष्णाः क्रो॒ष्टा मा॒योरिन्द्र॑स्य गौरमृ॒गः । पि॒द्वो न्यङ्कुः॑ कक्क॒टस्तेऽनु॑मत्यै प्रति॒श्रुत्का॑यै चक्रवा॒कः ॥२॥ ३६ सौ॒री ब॒लाका॑ शा॒र्गः सृ॑ज॒यः श॒याण्ड॑क॒स्ते मै॒त्राः सर॑स्वत्यै॒ शारिः॑ पुरुष॒वाक् श्वा॒विद्भौ॒मी । शा॑र्दू॒लो वृकः॒ पृदा॑कु॒स्ते म॒न्यवे॒ सर॑स्वते॒ शुकः॑ पुरुष॒वाक् ॥३॥ ३७ सु॒प॒र्णः पा॑र्ज॒न्य आ॒तिर्वा॑ह॒सो दर्वि॑दा॒ ते वा॒यवे॒ बृह॒स्पत॑ये वा॒चस्पत॑ये पैङ्गरा॒जो॑ऽल॒ज आ॑न्तरि॒क्षः । प्ल॒वो म॒द्गुर्मत्स्य॒स्ते न॑दी॒पत॑ये द्यावापृथि॒वीयः॑ कू॒र्मः ॥४॥ ३८ पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑सो गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नां कृक॒वाकुः॑ सावि॒त्रो ह॒सो वात॑स्य । ना॒क्रो मक॑रः कुली॒पय॒स्तेऽकू॑पारस्य ह्रि॒यै शल्य॑कः ॥५॥ (७) ३९ ए॒ण्यह्नो॑ म॒ण्डूको॒ मूषि॑का ति॒त्तिरि॒स्ते स॒र्पाणाँ॑ लोपा॒श आ॑श्वि॒नः कृष्णो॒ रात्र्यै॑ । ऋक्षो॑ ज॒तूः सु॑षि॒लीका॒ त इ॑तरज॒नानां॒ जह॑का वैष्ण॒वी ॥१॥ ४० अ॒न्य॒वा॒पो॑ऽर्धमा॒साना॒मृश्यो॑ म॒यूरः॑ सुप॒र्णस्ते ग॑न्ध॒र्वाणा॑म॒पामु॒द्रो मा॒सां क॒श्यपः॑ । रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ते॑ऽप्स॒रसां॑ मृ॒त्यवे॑ऽसि॒तः ॥२॥ ४१ व॒र्षा॒हूरृ॑तू॒नामा॒खुः कशो॑ मान्था॒लस्ते पि॑तॄ॒णां बला॑याजग॒रो वसू॑नां क॒पिञ्ज॑लः । क॒पोत॒ उलू॑कः श॒शस्ते निरृ॑त्यै॒ वरु॑णायार॒ण्यो मे॒षः ॥३॥ ४२ श्वि॒त्र आ॑दि॒त्याना॒मुष्ट्रो॒ घृणी॑वान्वार्ध्रीन॒सस्ते म॒त्या अर॑ण्याय सृम॒रो रुरू॑ रौ॒द्रः । क्व॒यिः॑ कु॒टरु॑र्दात्यौ॒हस्ते वा॒जिनां॒ कामा॑य पि॒कः ॥४॥ ४३ ख॒ङ्गो वै॑श्वदे॒वः श्वा कृ॒ष्णः क॒र्णो ग॑र्द॒भस्त॒रक्षु॒स्ते रक्ष॑सा॒मिन्द्रा॑य सूक॒रः। सि॒हो मा॑रु॒तः कृ॑कला॒सः पिप्प॑का श॒कुनि॒स्ते श॑र॒व्या॑यै॒ विश्वे॑षां दे॒वानां॑ पृष॒तः ॥५॥ (८) ४४ (१५७२) ॥इति शुक्लयजुःकाण्वसंहितायां षड्विंशोऽध्यायः॥२६॥”
“अथ सप्तविंशोध्यायः । शादं॑ द॒द्भिरव॑कां दन्तमूलै॒र्मृदं॒ बर्स्वै॑स्ते॒गान्दष्ट्रा॑भ्या सर॑स्वत्या अग्रजि॒ह्वं जि॒ह्वाया॑ उत्सा॒दम् । अ॒व॒क्र॒न्देन॒ तालु॒ वाज॒ हनु॑भ्याम॒प आ॒स्ये॑न॒ वृष॑णमा॒ण्डाभ्या॑म् ॥१॥ १ आ॒दि॒त्यान् श्मश्रु॑भिः॒ पन्था॑नं भ्रू॒भ्यां द्यावा॑पृथि॒वी वर्तो॑भ्यां वि॒द्युतं॑ क॒नीन॑काभ्याम् । शु॒क्लाय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा॒ पार्या॑णि॒ पक्ष्मा॑ण्यवा॒र्या॑ इ॒क्षवो॑ऽवा॒र्या॑णि॒ पक्ष्मा॑णि॒ पार्या॑ इ॒क्षवः॑ ॥२॥ (१) २ वातं॑ प्रा॒णेना॑पा॒नेन॒ नसि॑के उपया॒ममध॑रे॒णौष्ठे॑न॒ सदुत्त॑रेण । प्र॒का॒शेनान्त॑रमनूका॒शेन॒ बाह्यं॑ निवे॒ष्पं मू॒र्ध्ना स्त॑नयि॒त्नुं नि॑र्बा॒धेना॒शनिं॑ म॒स्तिष्के॑ण वि॒द्युतं॑ क॒नीन॑काभ्याम् ॥१॥ ३ कर्णा॑भ्या॒ श्रोत्र॒ श्रोत्रा॑भ्यां॒ कर्णौ॑ तेद॒नीम॑धरक॒ण्ठेना॒पः शु॑ष्कक॒ण्ठेन॑ चि॒त्तं मन्या॑भिः । अदि॑ति शी॒र्ष्णा निरृ॑तिं॒ निर्ज॑र्जल्येन शी॒र्ष्णा सं॑क्रो॒शैः प्रा॒णान् रे॒ष्माण॑ स्तु॒पेन॑ ॥२॥(२) ४ म॒शका॒न्केशै॒रिन्द्र॒ स्वप॑सा॒ वहेन॒ बृह॒स्पति॑ शकुनिसा॒देन॑ कू॒र्मान् । श॒फैरा॒क्रम॑ण स्थू॒राभ्या॑मृ॒क्षला॑भिः क॒पिञ्ज॑लान् ॥१॥ ५(१५७७) ज॒वं जङ्घा॑भ्या॒मध्वा॑नं बा॒हुभ्यां॒ जाम्बी॑ले॒नार॑ण्यम॒ग्निम॑ति॒रुग्भ्या॑म् । पू॒षणं॑ दो॒र्भ्याम॒श्विना॒ असा॑भ्या रु॒द्र रोरा॑भ्याम् ॥२॥ (३) ६ अ॒ग्नेः प॑क्ष॒तिर्वा॒योर्निप॑क्षति॒रिन्द्र॑स्य तृ॒तीया॒पां च॑तु॒र्थी । अदि॑त्यै पञ्च॒मीन्द्रा॒ण्यै ष॒ष्ठी म॒रुता॑ सप्त॒मी बृह॒स्पते॑रष्ट॒मी । अ॒र्य॒म्णो न॑व॒मी धा॒तुर्द॑श॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒मस्य॑ त्रयोद॒शी ॥१॥ (४) ७ इ॒न्द्रा॒ग्न्योः प॑क्ष॒तिः सर॑स्वत्यै॒ निप॑क्षतिर्मि॒त्रस्य॑ तृ॒तीया॒ सोम॑स्य चतु॒र्थी । निरृ॑त्यै पञ्च॒म्य॒ग्नीषोम॑योः ष॒ष्ठी स॒र्पाणा॑ सप्त॒मी विष्णो॑रष्ट॒मी । पू॒ष्णो न॑व॒मी त्वष्टु॑र्दश॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒म्यै त्र॑योद॒शी । द्यावा॑पृथि॒व्योर्दक्षि॑णं पा॒र्श्वं विश्वे॑षां दे॒वाना॒मुत्त॑रम् ॥१॥(५) ८ म॒रुता॑ स्क॒न्धा विश्वे॑षां दे॒वानां॑ प्रथ॒मा कीक॑सा रु॒द्राणां॑ द्वि॒तीया॑दि॒त्यानां॑ तृ॒तीया॑ वा॒योः पुच्छ॑म॒ग्नीषोम॑यो॒र्भास॑दौ । क्रुञ्चौ॒ श्रोणि॑भ्या॒मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्यां॑ मि॒त्रावरु॑णा अ॒ल्गाभ्या॑मा॒क्रम॑ण स्थू॒राभ्यां॒ बलं॒ कुष्ठा॑भ्याम् ॥१॥ (६) ९ पू॒षणं॑ वनि॒ष्ठुना॑न्धा॒हीन्त्स्थू॑लगु॒दया॑ स॒र्पान्गुदा॑भिर्वि॒ह्रुत॑ आ॒न्त्रैर॒पो व॒स्तिना॒ वृष॑णमा॒ण्डाभ्या॑म् । वाजि॑न॒ शेपे॑न प्र॒जा रेत॑सा॒ चाषा॑न्पि॒त्तेन॑ प्रद॒रान्पा॒युना॑ कू॒श्माञ्छ॑कपि॒ण्डैः ॥१॥ (७) १० इन्द्र॑स्य क्रो॒ळोऽदि॑त्यै पाज॒स्यं॑ दि॒शां ज॒त्रवोऽदि॑त्यै भ॒सत् । जी॒मूता॑न्हृदयौप॒शेना॒न्तरि॑क्षं पुरी॒तता॑ ॥१॥ ११ नभ॑ उद॒र्ये॑ण चक्रवा॒कौ मत॑स्नाभ्यां॒ दिवं॑ वृ॒क्काभ्यां॑ गि॒रीन्प्ला॒शिभः॑ । उप॑लान्प्ली॒ह्ना व॒ल्मीका॑न्क्लो॒मभि॑र्ग्लौ॒भिर्गुल्मा॑न्हि॒राभिः॒ स्रव॑न्तीः । ह्र॒दान्कु॒क्षिभ्या॑ समु॒द्रमु॒दरे॑ण वैश्वान॒रं भस्म॑ना ॥२॥ (८) १२ विधृ॑तिं॒ नाभ्या॑ घृ॒त रसे॑ना॒पो यू॒ष्णा मरी॑चीर्वि॒प्रुड्भि॑र्नीहा॒रमू॒ष्मणा॑ शी॒नं वस॑या॒ प्रुष्वा॒ अश्रु॑भिः । ह्रा॒दुनी॑र्दू॒षीका॑भिर॒स्ना रक्षा॑सि चि॒त्राण्यङ्गै॒र्नक्ष॑त्राणि रू॒पेण॑ पृथि॒वीं त्व॒चा जु॑म्ब॒काय॒ स्वाहा॑ ॥१॥ (९) १३ हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१॥ १४ यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥२॥ १५ (१५८७) यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्र र॒सया॑ स॒हाहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥३॥ १६ य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥४॥ (१०) १७ आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ । दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥१॥ १८ दे॒वानां॑ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वाना॑ रा॒तिर॒भि नो॒ निव॑र्तताम् । दे॒वाना॑ स॒ख्यमुप॑सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्रति॑रन्तु जी॒वसे॑ ॥२॥ १९ तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् । अ॒र्य॒मणं॒ वरु॑ण॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥३॥ २० तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः । तद् ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥४॥ २१ तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियं जि॒न्वमव॑से हूमहे व॒यम् । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥५॥ २२ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥६॥ २३ पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः । अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒साग॑मन्नि॒ह ॥७॥ २४ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः । स्थि॒रैरङ्गै॑स्तुष्टु॒वास॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ॥८॥ २५ श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म् । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तोः॑ ॥९॥ २६ अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥१०॥॥ (११) २७ मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ख्यन् । यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥१॥ २८ (१६००) यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥२॥ २९ ए॒ष च्छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः । अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑न सौश्रव॒साय॑ जिन्वति ॥३॥ ३० यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥४॥ ३१ होता॑ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शस्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ॥५॥ ३२ यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑न सं॒भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥६॥ ३३ उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः। अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ॥७॥ ३४ यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒ तृण॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥८॥ (१२) ३५ यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ । यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥१॥ ३६ यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ । सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेध॑ शृत॒पाकं॑ पचन्तु ॥२॥ ३७ यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति । मा तद्भूम्या॒माश्लि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥३॥ ३८ ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ । ये चार्व॑तो मासभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥४॥ ३९ यन्नीक्ष॑णं मा॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म् ॥५॥ ४० मा त्वा॒ग्निर्ध्व॑नयीद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑ । इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व॑म् ॥६॥ ४१ (१६१३) नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्वी॑श॒मर्व॑तः । यच्च॑ पपौ॒ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥७॥ (१३) ४२ यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै । सं॒दान॒मर्व॑न्तं॒ पड्वी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ॥१॥ (१४) ४३ इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः । आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्मभ्यं॑ भेष॒जा क॑रत् । य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दित्यै॒रिन्द्रः॑ स॒ह सी॑षधाति ॥१॥ ४४ अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑ । वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑म र॒यिं दाः॑ । तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥२॥ (१५) ४५ (१६१७) ॥इति शुक्लयजुःकाण्वसंहितायां सप्तविंशोऽध्यायः॥२७॥ ”
“अथाष्टाविंशोऽध्यायः । अ॒ग्निश्च॑ पृथि॒वी च॒ संन॑ते॒ ते मे॒ सं न॑मताम॒दो वा॒युश्चा॒ऽन्तरि॑क्षं च॒ संन॑ते॒ ते मे॒ सं न॑मताम॒द आ॑दि॒त्यश्च॒ द्यौ॑श्च॒ संन॑ते॒ ते मे॒ सं न॑मताम॒द आप॑श्च॒ वरु॑णश्च॒ संन॑ते॒ ते मे॒ सं न॑मताम॒दः । स॒प्त स॒सदो॑ अष्ट॒मी भू॑त॒साध॑नी ॥१॥ १ सका॑माँ॒२ अध्व॑नस्कुरु सं॒ज्ञान॑मस्तु मे॒ऽमुना॑ । यथे॒मां वाचं॑ कल्या॒णीमा॒वदा॑नि॒ जने॑भ्यः ॥२॥ २ ब्र॒ह्म॒रा॒ज॒न्या॑भ्या शू॒द्राय॒ चार्या॑य च॒ स्वाय॒ चार॑णाय च । प्रि॒यो दे॒वानां॒ दक्षि॑णायै दा॒तुरि॒ह भू॑यासम॒यं मे॒ कामः॒ समृ॑ध्यता॒मुप॑ मा॒दो न॑मतु ॥३॥ (१) ३ बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु । यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् । उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पत॑ये त्वै॒ष ते॒ योनि॒र्बृह॒स्पत॑ये त्वा ॥१॥ (२) ४ (१६२१) इन्द्र॒ गोम॑न्नि॒हा या॑हि॒ पिबा॒ सोम॑ शतक्रतो । वि॒द्यद्भि॒र्ग्राव॑भिः सु॒तम् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ गोम॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ गोम॑ते ॥१॥(३) ५ ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म् । अज॑स्रं घ॒र्ममी॑महे । उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ॥१॥ (४) ६ वै॒श्वा॒न॒र ह॑वामह ऋ॒तस्य॒ ज्योति॑ष॒स्पति॑म् । अज॑स्रं घ॒र्ममी॑महे । उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ॥१॥ (५) ७ वै॒श्वा॒न॒रो न॑ ऊ॒तय॒ आ प्र या॑तु परा॒वतः॑ । अ॒ग्निरु॒क्थेन॒ वाह॑सा । उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ॥१॥ (६) ८ वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वन॒रो य॑तते॒ सूर्ये॑ण। उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ॥१॥ (७) ९ म॒रुत्वाँ॑२ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य । आसि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्व राजा॑सि॒ प्रति॑पत्सु॒ताना॑म् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥१॥ (८) १० म॒हाँ२ इन्द्रो॒ वज्र॑हस्तः षोळ॒शी शर्म॑ यच्छतु । हन्तु॑ पा॒प्मानं॒ यो॒ऽस्मान्द्वेष्टि॑ । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोळ॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोळ॒शिने॑ ॥१॥(९) ११ अ॒ग्निरृषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम् ॥१॥ (१०) १२ अनु॑ वी॒रैरनु॑ पुष्यास्म॒ गोभि॒रन्वश्वै॒रनु॒ सर्वे॑ण पु॒ष्टैः । अनु॒ द्विप॒दानु॒ चतु॑ष्पदा व॒यं दे॒वा नो॑ य॒ज्ञमृ॑तु॒था न॑यन्तु ॥१॥ (११) १३ आ नो॑ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्य॑ स॒नयो॑ यन्तु॒ वाजाः॑ । दि॒वक्षा॑ असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्य॒ सुम॑घवन् बोधि गो॒दाः॥१॥ (१२) १४ (१६३१) ॥इति शुक्लयजुःकाण्वसंहितायां अष्टाविंशोऽध्यायः॥२८॥”
“अथ त्रिंशोऽध्यायः । होता॑ यक्षत्स॒मिधेन्द्र॑मि॒ळस्प॒दे नाभा॑ पृथि॒व्या अधि॑ । दि॒वो वर्ष्म॒न्त्समि॑ध्यत॒ ओजि॑ष्ठश्चर्षणी॒सहां॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥१॥ १ होता॑ यक्ष॒त्तनू॒नपा॑तमू॒तिभि॒र्जेता॑र॒मप॑राजितम् । इन्द्रं॑ दे॒व स्व॒र्विदं॑ प॒थिभि॒र्मधु॑मत्तमै॒र्नरा॒शसे॑न॒ तेज॑सा॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥२॥ २ होता॑ यक्ष॒दिळा॑भि॒रिन्द्र॑मीळि॒तमा॒जुह्वा॑न॒मम॑र्त्यम् । दे॒वो देवैः॒ सवी॑र्यो॒ वज्र॑हस्तः पुरंद॒रो वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥३॥ ३ होता॒ यक्ष॑द्ब॒र्हिषीन्द्रं॑ निषद्व॒रं वृ॑ष॒भं नर्या॑पसम् । वसु॑भी रुद्रैरा॑दि॒त्यैः सु॒युग्भि॑र्ब॒र्हिरास॑द॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥४॥ ४ होता॑ यक्ष॒दोजो॒ न वी॒र्य॒ सहो॒ द्वार॒ इन्द्र॑मवर्धयन् । सु॒प्रा॒य॒णा अ॒स्मिन्य॒ज्ञे वि श्र॑यन्तामृता॒वृधो॒ द्वार॒ इन्द्रा॑य मी॒ळहुषे॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥५॥ ५ होता॑ यक्षदु॒षे इन्द्र॑स्य धे॒नू सु॒दुघे॑ मा॒तरा॑ म॒ही । स॒वा॒तरौ॒ न तेज॑सा व॒त्समिन्द्र॑मवर्धतां वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥६॥ ६ होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ सखा॑या ह॒विषेन्द्रं॑ भिषज्यतः । क॒वी देवौ॒ प्रचे॑तसा॒ इन्द्रा॑य धत्त इन्द्रि॒यं वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥७॥ ७ होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ऽपस॒ इळा॒ सर॑स्वती॒ भार॑ती म॒हीः । इन्द्र॑पत्नीर्ह॒विष्म॑ती॒र्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥८॥ ८ होता॑ यक्ष॒त्त्वष्टा॑र॒मिन्द्रं॑ दे॒वं भि॒षज॑ सु॒यजं॑ घृत॒श्रिय॑म् । पु॒रु॒रूप॑ सु॒रेत॑सं म॒घोन॒मिन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥९॥ ९ (१६९०) होता॑ यक्ष॒द्वन॒स्पति॑ शमि॒तार॑ श॒तक्र॑तुं धि॒यो जो॒ष्टार॑मिन्द्रि॒यम् । मध्वा॑ सम॒ञ्जन्प॒थिभिः॑ सु॒गेभिः॒ स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥१०॥॥ १० होता॑ यक्ष॒दिन्द्र॒ स्वाहाज्य॑स्य॒ स्वाहा॒ मेद॑सः॒ स्वाहा॑ स्तो॒काना॒ स्वाहा॒ स्वाहा॑कृतीना॒ स्वाहा॑ ह॒व्यसू॑क्तीनाम् । स्वाहा॑ दे॒वा आ॑ज्य॒पा जु॑षा॒णा इन्द्र॒ आज्य॑स्य॒ व्यन्तु॒ होत॒र्यज॑ ॥११॥॥ (१) ११ दे॒वं ब॒र्हिरिन्द्र॑ सुदे॒वं दे॒वैर्वी॒रव॑त्स्ती॒र्णं वेद्या॑मवर्धयत् । वस्तो॑र्वृ॒तं प्राक्तोर्भृ॒त रा॒या ब॒र्हिष्म॒तोऽत्य॑गाद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥१॥ १२ दे॒वीर्द्वार॒ इन्द्र॑ संघा॒ते वी॒ड्वीर्याम॑न्नवर्धयन् । आ व॒त्सेन॒ तरु॑णेन कुमा॒रेण॑ च मीव॒तापार्वा॑ण रे॒णुक॑काटं नुदन्ताँ वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥२॥ १३ दे॒वी उ॒षासा॒नक्तेन्द्रं॑ य॒ज्ञे प्र॑य॒त्य॑ह्वेताम् । दैवी॒र्विशः॒ प्राया॑सिष्टा॒ सुप्री॑ते॒ सुधि॑ते वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥३॥ १४ दे॒वी जोष्ट्री॒ वसु॑धिती दे॒वमिन्द्र॑मवर्धताम् । अया॑व्य॒न्याघा द्वेषा॒स्यान्या व॑क्ष॒द्वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥४॥ १५ दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॒ पय॒सेन्द्र॑मवर्धताम् । इष॒मूर्ज॑म॒न्या व॑क्ष॒त्सग्धि॒ सपी॑तिम॒न्या नवे॑न॒ पूर्वं॒ दय॑माने पुरा॒णेन॒ नव॒मधा॑ता॒मूर्ज॑मू॒र्जाहु॑ती ऊ॒र्जय॑माने॒ वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥१६॥ दे॒वा दे॑व्या॒ होता॑रा दे॒वमिन्द्र॑मवर्धताम् । ह॒ताघ॑शसा॒ आभा॑र्ष्टां॒ वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॒तौ व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥६॥ १७ दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः पति॒मिन्द्र॑मवर्धयन् । अस्पृ॑क्ष॒द्भार॑ती॒ दिव॑ रुद्रैर्य॒ज्ञ सर॑स्व॒तीळा॒ वसु॑मती गृ॒हान्व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥७॥ १८ दे॒व इन्द्रो॒ नरा॒शस॑स्त्रिवरू॒थस्त्रि॑बन्धु॒रो दे॒वमिन्द्र॑मवर्धयत् । श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः स॒हस्रे॑ण॒ प्र व॑र्तते मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तो॒ बृह॒स्पति॑ स्तो॒त्रम॒श्विनाध्व॑र्यवं वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥८॥ १९ दे॒वो देवै॒र्वन॒स्पति॒र्हिर॑ण्यपर्णो॒ मधु॑शाखः सुपिप्प॒लो दे॒वमिन्द्र॑मवर्धयत् । दिव॒मग्रे॑णास्पृक्ष॒दान्तरि॑क्षं पृथि॒वीम॑दृहीद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥९॥ २० दे॒वं ब॒र्हिर्वारि॑तीनां दे॒वमिन्द्र॑मवर्धयत् । स्वा॒स॒स्थमिन्द्रे॒णास॑न्नम॒न्या ब॒र्हीष्य॒भ्य॑भूद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥१०॥॥ २१ (१७०२) दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वमिन्द्र॑मवर्धयत् । स्वि॑ष्टं कु॒र्वन् त्स्वि॑ष्ट॒कृत्स्वि॑ष्टम॒द्य क॑रोतु नो वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥११॥॥ २२ अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मानः॒ पच॒न्पक्तीः॒ पच॑न्पुरो॒ळाशं॑ ब॒ध्नन्निन्द्रा॑य॒ च्छाग॑म् । सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभव॒दिन्द्रा॑य॒ च्छागे॑न । अघ॒त्तं मे॑द॒स्तः प्रति॑ पच॒ताग्र॑भी॒दवी॑वृधत्पुरो॒ळाशे॑न ।त्वाम॒द्य ऋ॑षे ॥१२॥ (२) २३ होता॑ यक्षत्समिधा॒नं म॒हद्यशः॒ सुस॑मिद्धं॒ वरे॑ण्यम॒ग्निमिन्द्रं॑ वयो॒धस॑म् । गा॒य॒त्रीं छन्द॑ इन्द्रि॒यं त्र्यविं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥१॥ २४ होता॑ यक्ष॒त्तनू॒नपा॑तमु॒द्भिदं॒ यं गर्भ॒मदि॑तिर्द॒धे शुचि॒मिन्द्रं॑ वयो॒धस॑म् । उ॒ष्णिहं॒ छन्द॑ इन्द्रि॒यं दि॑त्य॒वाहं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥२॥ २५ होता॑ यक्षदी॒ळेन्य॑मीळि॒तं वृ॑त्र॒हन्त॑म॒मिळा॑भि॒रीड्य॒ सहः॒ सोम॒मिन्द्रं॑ वयो॒धस॑म् । अ॒नु॒ष्टुभं॒ छन्द॑ इन्द्रि॒यं पञ्चा॑विं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥३॥ २६ होता॑ यक्षत्सुब॒र्हिषं॑ पूष॒ण्वन्त॒मम॑र्त्य॒ सीद॑न्तं ब॒र्हिषि॑ प्रि॒ये॒ऽमृतेन्द्रं॑ वयो॒धस॑म् । बृ॒ह॒तीं छन्द॑ इन्द्रि॒यं त्रि॑व॒त्सं गां व॑यो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥४॥ २७ होता॑ यक्ष॒द्व्यच॑स्वतीः सुप्राय॒णा ऋ॑ता॒वृधो॒ द्वारो॑ दे॒वीर्हि॑र॒ण्ययी॑र्ब्र॒ह्माण॒मिन्द्रं॑ वयो॒धस॑म् । प॒ङ्क्तिं छन्द॑ इ॒हेन्द्रि॒यं तु॑र्य॒वाहं॒ गां वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥५॥ २८ होता॑ यक्षत्सु॒पेश॑सा सुशि॒ल्पे बृ॑ह॒ती उ॒भे नक्तो॒षासा॒ न द॑र्श॒ते विश्व॒मिन्द्रं॑ वयो॒धस॑म् । त्रि॒ष्टुभं॒ छन्द॑ इ॒हेन्द्रि॒यं प॑ष्ठ॒वाहं॒ गां वयो॒ दध॑द्वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥६॥ २९ होता॑ यक्ष॒त्प्रचे॑तसा दे॒वाना॑मुत्त॒मं यशो॒ होता॑रा॒ दैव्या॑ क॒वी स॒युजेन्द्रं॑ वयो॒धस॑म् । जग॑तीं॒ छन्द॑ इन्द्रि॒यम॑न॒ड्वाहं॒ गां वयो॒ दध॑द्वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥७॥ ३० होता॑ यक्ष॒त्पेश॑स्वतीस्ति॒स्रो दे॒वीर्हि॑र॒ण्ययी॒र्भार॑तीर्बृह॒तीर्म॒हीः पति॒मिन्द्रं॑ वयो॒धस॑म् । वि॒राजं॒ छन्द॑ इ॒हेन्द्रि॒यं धे॒नुं गां न वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥८॥ ३१ होता॑ यक्षत्सु॒रेत॑सं॒ त्वष्टा॑रं पुष्टि॒वर्ध॑न रू॒पाणि॒ बिभ्र॑तं॒ पृथ॒क् पुष्टि॒मिन्द्रं॑ वयो॒धस॑म् । द्वि॒पदं॒ छन्द॑ इन्द्रि॒यमु॒क्षाणं॒ गां न वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥९॥ ३२ होता॑ यक्ष॒द्वन॒स्पति॑ शमि॒तार॑ श॒तक्र॑तु॒ हिर॑ण्यपर्णमु॒क्थिन॑ रश॒नां बिभ्र॑तं व॒शिं भग॒मिन्द्रं॑ वयो॒धस॑म् । क॒कुभं॒ छन्द॑ इ॒हेन्द्रि॒यं व॒शां वे॒हतं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥१०॥॥ ३३ होता॑ यक्ष॒त्स्वाहा॑कृतीर॒ग्निं गृ॒हप॑तिं॒ पृथ॒ग्वरु॑णं भेष॒जं क॒विं क्ष॒त्रमिन्द्रं॑ वयो॒धस॑म् । अति॑च्छन्दसं॒ छन्द॑ इन्द्रि॒यं बृ॒हदृ॑ष॒भं गां वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥११॥॥ (३) ३४ (१७१५) दे॒वं ब॒र्हिर्व॑यो॒धसं॑ दे॒वमिन्द्र॑मवर्धयत् । गा॒य॒त्र्या छन्द॑सेन्द्रि॒यं चक्षु॒रिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥१॥ ३५ दे॒वीर्द्वारो॑ वयो॒धस॒ शुचि॒मिन्द्र॑मवर्धयन् । उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यं प्रा॒णमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥२॥ ३६ दे॒वी उ॒षासा॒नक्ता॑ दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् । अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यं बल॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥३॥ ३७ दे॒वी जोष्ट्री॒ वसु॑धिती दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् । बृ॒ह॒त्या छन्द॑सेन्द्रि॒य श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥४॥ ३८ दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे॒ पय॒सेन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् । प॒ङ्क्त्या छन्द॑सेन्द्रि॒य शु॒क्रमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥५॥ ३९ दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वौ दे॒वम॑वर्धताम् । त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यं त्विषि॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥६॥ ४० दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्व॑यो॒धसं॒ पति॒मिन्द्र॑मवर्धयन् । जग॑त्या॒ छन्द॑सेन्द्रि॒य शूष॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥७॥ ४१ दे॒वो नरा॒शसो॑ दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वो दे॒वम॑वर्धयत् । वि॒राजा॒ छन्द॑सेन्द्रि॒य रु॒पमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥८॥ ४२ दे॒वो वन॒स्पति॑र्दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वो दे॒वम॑वर्धयत् । द्वि॒पदा॒ छन्द॑सेन्द्रि॒यं भग॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥९॥ ४३ दे॒वं ब॒र्हिर्वारि॑तीनां दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वं दे॒वम॑वर्धयत् । क॒कुभा॒ छन्द॑सेन्द्रि॒यं यश॒ इन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥१०॥॥ ४४ दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वो दे॒वम॑वर्धयत् । अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यं क्ष॒त्रमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥११॥॥ ४५ अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मानः॒ पच॒न्पक्तीः॒ पच॑न्पुरो॒ळाशं॑ ब॒ध्नन्निन्द्रा॑य वयो॒धसे॒ छाग॑म् । सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभव॒दिन्द्रा॑य वयो॒धसे॒ छागे॑न । अघ॒त्तं मे॑द॒स्तः प्रति॑पच॒ताग्र॑भी॒दवी॑वृधत्पुरो॒ळाशे॑न । त्वाम॒द्य ऋ॑षे ॥१२॥ (४) ४६ (१७२७) ॥इति शुक्लयजुःकाण्वसंहितायां त्रिंशतितमोऽध्यायः॥३०॥॥ ॥इति तृतीयो दशकः॥ ”
“अथ चतुर्थो दशकः॥ अथैकत्रिंशोऽध्यायः। समि॑द्धो अ॒ञ्जन्कृद॑रं मती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त्पिन्व॑मानः । वा॒जी वह॑न्वा॒जिनं॑ जातवेदो दे॒वानां॑ वक्षि प्रि॒यमा स॒धस्थ॑म् ॥१॥ १ घृ॒तेना॒ञ्जन्त्सं प॒थो दे॑व॒याना॑न्प्रजा॒नन्वा॒ज्यप्ये॑तु दे॒वान् । अनु॑ त्वा सप्ते प्र॒दिशः॑ सचन्ता स्व॒धामस्मै॒ यज॑मानाय धेहि ॥२॥ २ ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेध्य॑श्च सप्ते । अ॒ग्निष्ट्वा॑ दे॒वैर्वसु॑भिः स॒जोषाः॑ प्री॒तं वह्निं॑ वहतु जा॒तवे॑दाः ॥३॥ ३ स्ती॒र्णं ब॒र्हिः सु॒ष्टरी॑मा जु॒षाणोरु पृ॒थु प्रथ॑मानं पृथि॒व्याम् । दे॒वेभि॑र्यु॒क्तमदि॑तिः स॒जोषाः॑ स्यो॒नं कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ॥४॥ ४ ए॒ता उ॑ वः सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भिः॒ श्रय॑माणा॒ उदातैः॑ । ऋ॒ष्वाः स॒तीः क॒वषः॒ शुम्भ॑माना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा भ॑वन्तु ॥५॥ ५ अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखं॑ य॒ज्ञाना॑म॒भि सं॑विदा॒ने । उ॒षासा॑ वा सुहिर॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑ इ॒ह सा॑दयामि ॥६॥ ६ प्र॒थ॒मा वा॑ सर॒थिना॑ सु॒वर्णा॑ देवौ॒ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा॑ । अपि॑प्रयं॒ चोद॑ना वां॒ मिमा॑ना॒ होता॑रा॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ॥७॥ ७ आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञ सर॑स्वती स॒ह रु॒द्रैर्न॑ आवीत् । इळोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒मृते॑षु धत्त ॥८॥ ८ त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ । त्वष्टे॒दं विश्वं॒ भुव॑नं जजान ब॒होः क॒र्तार॑मि॒ह य॑क्षि होतः ॥९॥ ९ अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वाँ२ ऋ॑तु॒शः पाथ॑ एतु । वन॒स्पति॑र्देवलो॒कं प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ॥१०॥॥ १० प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने । स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः ॥११॥॥(१) ११ के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ । समु॒षद्भि॑रजायथाः ॥१॥ १२ जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ । अना॑विद्धया त॒न्वा॑ जय॒ त्व स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥२॥ १३ (१७४०) धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम । धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ॥३॥ १४ ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑ । अप॒ शत्रू॑न्विध्यता संविदा॒ने आर्त्नी॑ इ॒मे वि॑षफु॒रन्ती॑ अ॒मित्रा॑न् ॥४॥ १५ व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒य सखा॑यं परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒न् ज्या इ॒य सम॑ने पा॒रय॑न्ती ॥५॥ १६ अहि॑रिव भोगैः॒ पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमा॑सं॒ परि॑ पातु वि॒श्वतः॑ ॥६॥ १७ ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ । इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥७॥ १८ सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यसन् ॥८॥ १९ वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ । गोभिः॒ संन॑द्धो असि वी॒ळय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥९॥ २० रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ॥१०॥॥ २१ आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घनाँ॒२ उप॑ जिघ्नते । अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मत्सु॑ चोदय ॥११॥॥ २२ उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् । स दु॑न्दुभे॒ स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥१२॥ (२) २३ यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥१॥ २४ य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् । ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥२॥ २५ असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥३॥ २६ त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ॥४॥ २७ (१७५४) इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फाना॑ सनि॒तुर्नि॒धाना॑ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥५॥ २८ आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय॑न्तं पत॒ङ्गम् । शिरो॑ अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ॥६॥ २९ अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद् ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥७॥ ३० अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीना॑म् । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ ते ॥८॥ ३१ हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥९॥ ३२ ई॒र्मान्ता॑सः॒ सिलि॑कमध्यमासः॒ स शूर॑णासो दि॒व्यासो॒ अत्याः॑ । ह॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः॑ ॥१०॥॥३३॥ तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ॥११॥॥ ३४ उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ॥१२॥ ३५ उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒२ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च । अ॒द्या दे॒वान्जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥१३॥(३) ३६ समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः । आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥१॥ ३७ तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व । मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥२॥ ३८ नरा॒शस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः । ये सु॒क्रत॑वः॒ शुच॑यो धियं॒धाः स्वद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ॥३॥ ३९ आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑ । त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥४॥ ४० प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म् । व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥५॥ ४१ (१७६८) व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः । देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥६॥ ४२ आ सु॒ष्वय॑न्ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ । दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रिय॑ शुक्र॒पिशं॒ दधा॑ने ॥७॥ ४३ दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै । प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ॥८॥ ४४ आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती । ति॒स्रो दे॒वीर्ब॒र्हिरेद स्यो॒न सर॑स्वती॒ स्वप॑सः सदन्तु ॥९॥ ४५ य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रूपै॒रपि॑श॒द्भुव॑नानि॒ विश्वा॑ । तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥१०॥॥ ४६ उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वीषि॑ । वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥११॥॥ ४७ स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः । अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृत ह॒विर॑दन्तु दे॒वाः ॥१२॥(४) ४८ अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथ॑न्तराया॒ष्टाक॑पाल॒ इन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒ बर्ह॑ता॒यैका॑दशकपालो॒ विश्वे॑भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकवि॒शाभ्यां॑ वैरा॒जाभ्या॑म् । प॒य॒स्या॒ बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॑ च॒रुः स॑वि॒त्र औ॑ष्णिहाय त्रयस्त्रि॒शाय॑ रैव॒ताय॒ द्वाद॑शकपालः प्राजाप॒त्यश्च॒रुरदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्या अ॒ष्टाक॑पालः ॥१॥ (५) ४९ आ॒ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः शि॑तिपृ॒ष्ठो बा॑र्हस्प॒त्यः शि॒ल्पो वै॑श्वदे॒वः । ऐ॒न्द्रो॑ऽरु॒णो मा॑रु॒तः क॒ल्माष॑ ऐन्द्रा॒ग्नः स॑हि॒तो॒ऽधोरा॑मः सावि॒त्रो वा॑रु॒णः कृ॒ष्ण एक॑शितिपा॒त्पेत्वः॑ ॥१॥(६) ५० अ॒ग्नयेऽनी॑कवते॒ रोहि॑ताञ्जिरन॒ड्वान॒धोरा॑मौ सावि॒त्रौ पौ॒ष्णौ र॑ज॒तना॑भी वैश्वदे॒वौ पि॒शङ्गौ॑ तूप॒रौ । मा॒रु॒तः क॒ल्माष॑ आग्ने॒यः कृ॒ष्णो॒ऽजः सा॑रस्व॒ती मे॒षी वा॑रु॒णः पेत्वः॑ ॥१॥(७) ५१ (१७७८) ॥इति शुक्लयजुःकाण्वसंहितायामेकत्रिंशतितमोऽध्यायः॥३१॥॥”
“अथ द्वात्रिंशोऽध्यायः। अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः । श्वि॒ती॒चयः॑ श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमाः॑ ॥१॥ १ हर॑यो धु॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ । यत॑न्ते॒ वृथ॑ग॒ग्नयः॑ ॥२॥ २ यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ२ ऋ॒तं बृ॒हत् । अग्ने॒ यक्षि॒ स्वं दम॑म् ॥३॥ ३ यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒२ अश्वाँ॑२ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥४॥ ४ द्वे विरू॑पे चरतः॒ स्वर्थे॑ अ॒न्यान्या॑ व॒त्समुप॑ धापयेते । हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑ञ्छु॒क्रो अ॒न्यस्यां॑ ददृशे सु॒वर्चाः॑ ॥५॥ ५ अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शेवि॑शे ॥६॥ ६ त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रि॒शच्च॑ दे॒वा नव॑ चासपर्यन् । औक्ष॑न्घृ॒तैरस्तृ॑णन् ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥७॥ ७ मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् । क॒वि स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥८॥ ८ अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद् द्रविण॒स्युर्वि॑प॒न्यया॑ । समि॑द्धः शु॒क्र आहु॑तः ॥९॥ ९ विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ । पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥१०॥॥ १० आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् शुचि॒रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ । अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑न स्वा॒ध्यं॑ जनयत्सू॒दय॑च्च ॥११॥॥ ११ अग्ने॒ शर्ध॑ मह॒ते सौ॑भगाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । संजा॑स्प॒त्य सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महा॑सि ॥१२॥ १२ त्वा हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने । इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ॥१३॥ १३ त्वे अ॑ग्ने स्वाहुत प्रि॒यासः॑ सन्तु सू॒रयः॑ । य॒न्तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वान्दय॑न्त॒ गोना॑म् ॥१४॥ १४ श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः । आसी॑दन्तु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रम् ॥१५॥ १५ विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् । अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे॑दाः ॥१६॥ १६ (१७९४) म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ । श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥१७॥(१) १७ आप॑श्चित्पिप्यु स्त॒र्यो॒ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र । या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्व हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥१॥ १८ गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ । उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥२॥ १९ यद॒द्य सूर॒ उदि॒तेऽना॑गा मि॒त्रो अ॑र्य॒मा । सु॒वाति॑ सवि॒ता भगः॑ ॥३॥ २० आ सु॒ते सि॑ञ्चत॒ श्रिय॒ रोद॑स्योरभि॒श्रिय॑म् । र॒सा द॑धीत वृष॒भम् । तं प्रत्नथा॒यं वे॒नश्चो॑दयत् ॥४॥ २१ आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः । म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥५॥ २२ प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ । इन्द्र॑स्य॒ यस्य॒ सुम॑ख॒ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यतः॑ ॥६॥ २३ बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑ । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥७॥ २४ इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः । म॒हाँ२ अ॑भि॒ष्टिरोज॑सा ॥८॥ २५ इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः । अह॒न्व्य॑समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ॥९॥ २६ कुत॒स्त्वमि॑न्द्र॒ माहि॑नः॒ सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था । सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे । म॒हाँ२ इन्द्रो॒ य ओज॑सा क॒दा च॒न स्त॒रीर॑सि क॒दा च॒न प्रयु॑च्छसि ॥१०॥॥ २७ आ तत्त॑ इन्द्रा॒य वः॑ पनन्ता॒भि य ऊ॒र्वं गोम॑न्तं॒ तितृ॑त्सान् । स॒कृ॒त्स्वं॒ ये पु॑रुपु॒त्रां म॒ही स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ॥११॥॥ २८ इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे । तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं॑ दे॒वासः॒ शव॑सामद॒न्ननु॑ ॥१२॥(२) २९ वि॒भ्राड् बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ अवि॑ह्रुतम् । वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥१॥ ३० उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥२॥ ३१ येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒२ अनु॑ । त्वं व॑रुण॒ पश्य॑सि ॥३॥ ३२ (१८१०) दै॑व्या अध्वर्यू॒ आ ग॑त॒ रथे॑न॒ सूर्य॑त्वचा । मध्वा॑ य॒ज्ञ सम॑ञ्जाथे । तं प्र॒त्नथा॒यं वे॒नश्चो॑दयच्चि॒त्रं दे॒वाना॑म् ॥४॥ ३३ आ न॒ इळा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु । अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥५॥ ३४ यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य । सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥६॥ ३५ त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ॥७॥ ३६ तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑त॒ सं ज॑भार । य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥८॥ ३७ तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ । अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥९॥ ३८ बण्म॒हाँ२ अ॑सि सूर्य॒ बळा॑दित्य म॒हाँ२ अ॑सि । म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ२ अ॑सि ॥१०॥॥ ३९ बट् सू॑र्य॒ श्रव॑सा म॒हाँ२ अ॑सि स॒त्रा दे॑व म॒हाँ२ अ॑सि । म॒ह्ना दे॒वाना॑मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥११॥॥ ४० श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत । वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥१२॥ ४१ अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरह॑सः पिपृ॒ता निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥१३॥ ४२ आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥१४॥(३)४३ प्र वा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑ट इयाते । वि॒शाम॒क्तोरु॒षसः॑ पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ॥१॥ ४४ इ॒न्द्रवा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भग॑म् । आ॒दि॒त्यान्मारु॑तं ग॒णम् ॥२॥ ४५ वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभिः॑ । कर॑तां नः सु॒राध॑सः ॥३॥ ४६ अधि॑ न इन्द्रैषां॒ विष्णो॑ सजा॒त्या॑नाम् । इ॒ता मरु॑तो॒ अश्वि॑ना । तं प्र॒त्नथा॒यं वे॒नश्चोदय॒द्ये दे॑वास॒ आ न॒ इळा॑भि॒र्विश्वे॑भिः सो॒म्यं मध्वोमा॑सश्चर्षणीधृतः ॥४॥ ४७ अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्धः॒ प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो । उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषन्त ॥५॥ ४८ (१८२६) इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑ति॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ२ अ॒पः । हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शस॑ सवि॒तार॑मू॒तये॑ ॥६॥ ४९ अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑ । यः शस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ२ अ॑वन्तु दे॒वाः ॥७॥ ५० अ॒र्वाञ्चो॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् । त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्ताद॑व॒पदो॑ यजत्राः ॥८॥ ५१ विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥९॥ ५२ विश्वे॑ देवाः शृणु॒तेम हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥१०॥॥ ५३ दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्व सु॒वसि॑ भा॒गमु॑त्त॒मम् । आदिद्दा॒मान॑ सवित॒र्व्यू॑र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥११॥॥(४) ५४ प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा॑र रथ॒प्राम् । द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥१॥ ५५ इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् । इन्द॑वो वामु॒शन्ति॒ हि ॥२॥ ५६ मि॒त्र हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् । धियं॑ घृ॒ताची॒ साध॑न्ता ॥३॥ ५७ दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः । आ या॑त रुद्रवर्तनी । तं प्र॒त्नथा॒यं वे॒नश्चो॑दयत् ॥४॥ ५८ वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथः॑ पू॒र्व्य स॒ध्र्य॑क्कः । अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥५॥ ५९ न॒हि स्पश॒मवि॑दन्न॒न्यम॒स्माद्वै॑श्वान॒रात्पु॑र ए॒तार॑म॒ग्नेः । एमे॑नमवृधन्न॒मृता॒ अम॑र्त्यं वैश्वान॒रं क्षै॑त्रजित्याय दे॒वाः ॥६॥ ६० उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे । ता नो॑ मृळात ई॒दृशे॑ ॥७॥ ६१ उपा॑स्मै गायता नरः॒ पव॑माना॒येन्द॑वे । अ॒भि दे॒वाँ२ इय॑क्षते ॥८॥ ६२ ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये ग इ॑ष्टौ । ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्राः॒ पिबे॑न्द्र॒ सोम॒ सग॑णो म॒रुद्भिः॑ ॥९॥ ६३ जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥१०॥॥ ६४ (१८४२) आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि । म॒हान्म॒हीभि॑रू॒तिभिः॑ ॥११॥॥ ६५ त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृधः॑ । अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥१२॥ ६६ अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ । विश्वा॑स्ते॒ स्पृधः॑ श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥१३॥ ६७ य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒हो॑श्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥१४॥ ६८ अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्व शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् । हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घश॑स ईशत ॥१५॥(५) ६९ प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तासः॑ । वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ॥१॥ ७० गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ । उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥२॥ ७१ काव्य॑योरा॒जाने॑षु॒ क्रत्वा॒ दक्ष॑स्य दुरो॒णे । रि॒शाद॑सा स॒धस्थ॒ आ ॥३॥ ७२ दैव्या॑ अध्वर्यू॒ आ ग॑त॒ रथे॑न॒ सूर्य॑त्वचा । मध्वा॑ य॒ज्ञ सम॑ञ्जाथे । तं प्र॒त्नथा॒यं वे॒नश्चो॑दयत्॥४॥ ७३ ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् । रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्त्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ॥५॥ ७४ आ रोद॑सी अपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ अधा॑रयन् । सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः ॥६॥ ७५ उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना चि॒दा गि॒रा । आ॑ङ्गू॒षैरा॒विवा॑सतः ॥७॥ ७६ उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये । सु॒मृ॒ळी॒का भ॑वन्तु नः ॥८॥ ७७ ब्रह्मा॑णि मे म॒तयः॒ श सु॒तासः॒ शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रिः॑ । आ शा॑सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ अच्छ॑ ॥९॥ ७८ अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑२ अस्ति दे॒वता॒ विदा॑नः । न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥१०॥॥ ७९ तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः । स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमाः॑ ॥११॥॥ ८० इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑ । पा॒व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥१२॥ ८१ यस्या॒यं विश्व॒ आर्यो॒ दासः॑ शेवधि॒पा अ॒रिः । ति॒रश्चि॑द॒र्ये रु॒शमे॒ पवी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ॥१३॥ ८२ अ॒य स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे । स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥१४॥ ८३ अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्व शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् । हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घश॑स ईशत ॥१५॥ (६) ८४ (१८६२) ॥इति शुक्लयजुःकाण्वसंहितायां द्वात्रिंशोऽध्यायः॥३२॥”
“अथ त्रयस्त्रिंशोऽध्यायः। यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ । दू॒रंग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ॥१॥ पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् । यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥२॥ २ अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शं च॑ नस्कृधि । क्रत्वे॒ दक्षा॑य नो हिनु॒ प्र ण॒ आयू॑षि तारिषः ॥३॥ ३ सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ । जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥४॥ ४ पञ्च॑ न॒द्यः॒ सर॑स्वती॒मपि॑ यन्ति॒ सस्रो॑तसः । सर॑स्वती॒ तु प॑ञ्च॒धा सो दे॒शेऽभ॑वत्स॒रित् ॥५॥ ५ त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ । तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ॥६॥ ६ त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वन्द्य । त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेष॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥७॥ ७ उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान । अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ इळा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट ॥८॥ ८ इळा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ । जात॑वेदो॒ निधी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोळह॑वे ॥९॥ ९ (१८७१) प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् । सु॒वृ॒क्तिभि॑ स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ॥१०॥॥ १० प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्य॑ शवसा॒नाय॒ साम॑ । येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ॥११॥॥ ११ इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रया॑सि । तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ॥१२॥ १२ न ते॑ दू॒रे प॑र॒मा चि॒द्रजा॒स्य तु प्र या॑हि हरिवो॒ हरि॑भ्याम् । स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अ॒ग्नौ ॥१३॥ १३ अषा॑ळहं यु॒त्सु पृत॑नासु॒ पप्रि॑ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जा सु॑क्षि॒ति सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ॥१४॥ १४ सोमो॑ धे॒नु सोमो॒ अर्व॑न्तमा॒शु सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति । सा॒द॒न्यं॑ विद॒थ्य॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ॥१५॥ १५ त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः । त्वमा त॑तन्थो॒र्व॒न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ॥१६॥ १६ दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒ग स॑हसावन्न॒भि यु॑ध्य । मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये॑भ्यः॒ प्र चि॑कित्सा॒ ग इ॑ष्टौ ॥१७॥ १७ अष्टौ॒ व्य॑ख्यत्क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् । हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥१८॥ १८ हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते । अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥१९॥ १९ हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववा॑ यात्व॒र्वाङ् । अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥२०॥॥ २० ये ते॒ पन्थाः॑ सवितः पू॒र्व्यासो॑ऽरे॒णवः॒ सुकृ॑ता अ॒न्तरि॑क्षे । तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥२१॥॥ २१ उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतम् । अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ ॥२२॥॥ २२ अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षाम् । अ॒द्यू॒त्येऽव॑से॒ निह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥२३॥ २३ (१८८५) द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥२४॥ २४ आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥२५॥ (१) २५ आ रा॑त्रि॒ पर्थि॑व॒ रजः॑ पि॒तुर॑प्रायि॒ धाम॑भिः । दि॒वः सदा॑सि बृह॒ती वि ति॑ष्ठस॒ आ त्वे॒षं व॑र्तते॒ तमः॑ ॥१॥ २६ उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति । येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥२॥ २७ प्रा॒त॒र्जितं॒ भग॑मु॒ग्र हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥३॥ २८ पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न । स्तो॒तार॑स्त इ॒हस्म॑सि ॥४॥ २९ प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नळ॒र्कम् । स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑धिय सीषधाति॒ प्र पू॒षा ॥५॥ ३० त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः । अतो॒ धर्मा॑णि धा॒रय॑न् ॥६॥ ३१ तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वासः॒ समि॑न्धते । विष्णो॒र्यत्प॑र॒मं प॒दम् ॥७॥ ३२ घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा । द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ॥८॥ ३३ ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥९॥ ३४ आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना । प्रायु॒स्तारि॑ष्टं॒ नी रपा॑सि मृक्षत॒ सेध॑तं॒ द्वेषो॒ भव॑त सचा॒भुवा॑ ॥१०॥॥ ३५ ए॒ष व॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः । एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥११॥॥ ३६ स॒हस्तो॑माः स॒हच्छ॑न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दै॑व्याः । पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒ न र॒श्मीन् ॥१२॥ ३७ आ॒यु॒ष्यं॑ वर्च॒स्य॑ रा॒यस्पोष॒मौद्भि॑दम् । इ॒द हिर॑ण्यं॒ वर्च॑स्व॒ज्जैत्रा॒यावि॑शतादु॒ माम् ॥१३॥ ३८ (१९००) न तद्रक्षा॑सि॒ न पि॑शा॒चास्त॑रन्ति दे॒वाना॒मोजः॑ प्रथम॒ज ह्ये॒तत् । यो बि॒भर्ति॑ दाक्षाय॒ण हिर॑ण्य॒ स दे॒वेषु॑ कृणुते दी॒र्घमायुः॒ स म॑नु॒ष्ये॑षु कृणुते दी॒र्घमायुः॑ ॥१४॥ ३९ यदाब॑ध्नन्दाक्षाय॒णा हिर॑ण्य श॒तानी॑काय सुमन॒स्यमा॑नाः । तन्म॒ आ ब॑ध्नामि श॒तशा॑रदा॒यायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथास॑म् ॥१४॥ ४० उ॒त नोऽहि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः । विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒ना स्तु॒ता मन्त्राः॑ कविश॒स्ता अ॑वन्तु ॥१६॥ ४१ इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नूः॑ स॒नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि । शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अशः॑ ॥१७॥ ४२ स॒प्त ऋष॑यः॒ प्रति॑हिताः॒ शरी॑रे स॒प्त र॑क्षन्ति॒ सद॒मप्र॑मादम् । स॒प्तापः॒ स्वप॑तो लो॒कमी॑यु॒स्तत्र॑ जागृतो॒ अस्व॑प्नजौ सत्र॒सदौ॑ च दे॒वौ ॥१८॥ ४३ उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे । उप॒ प्र य॑न्तु म॒रुतः॑ सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥१९॥ ४४ प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॑म् । यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओका॑सि चक्रि॒रे ॥२०॥॥ ४५ ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व । विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ । य इ॒मा विश्वा॑ वि॒श्वक॑र्मा॒ यो नः॑ पि॒तान्न॑प॒तेऽन्न॑स्य नो देहि ॥२१॥॥(२) ४६ (१९०८) ॥इति शुक्लयजुःकाण्वसंहितायां त्रयस्त्रिंशोऽध्यायः॥३३॥॥”
“अथ चतुस्त्रिंशोऽध्यायः। देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य । दि॒व्यो ग॑न्ध॒र्वः के॑तु॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु ॥१॥ १ तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दय॑त् ॥२॥ २ विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव । यद्भ॒द्रं तन्न॒ आ सु॑व ॥३॥ ३ वि॒भ॒क्तार॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः । स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥४॥ ब्रह्म॑णे ब्राह्म॒णं क्ष॒त्राय॑ राज॒न्यं॑ म॒रुद्भ्यो॒ वैश्यं॒ तप॑से शू॒द्रं तम॑से॒ तस्क॑रं नार॒काय॑ वीर॒हण॑म् । पा॒प्मने॑ क्ली॒बमा॑क्र॒याया॑ अयो॒गूं कामा॑य पुश्च॒लूमति॑क्रुष्टाय माग॒धम् ॥५॥ ५ नृ॒त्ताय॑ सू॒तं गी॒ताय॑ शैलू॒षं धर्मा॑य सभाच॒रं न॒रिष्ठा॑यै भीम॒लम् । न॒र्माय॑ रे॒भ हसा॑य॒ कारि॑मान॒न्दाय॑ स्त्रीष॒खं प्र॒मदे॑ कुमारीपु॒त्रं मे॒धायै॑ रथका॒रं धैर्या॑य॒ तक्षा॑णम् ॥६॥ ६ तप॑से कौला॒लं मा॒यायै॑ क॒र्मार॑ रू॒पाय॑ मणिका॒र शु॒भे व॒प श॑र॒व्या॑या इषुका॒र हे॒त्यै ध॑नुष्का॒रम् । कर्म॑णे ज्याका॒रं दि॒ष्टाय॑ रज्जुस॒र्जं मृ॒त्यवे॑ मृग॒युमन्त॑काय श्व॒निन॑म् ॥७॥ ७ न॒दीभ्यः॑ पौञ्जि॒ष्ठमृ॒क्षीका॑भ्यो॒ नैषा॑दं पुरुषव्या॒घ्राय॑ दु॒र्मदं॑ गन्धर्वाप्स॒रोभ्यो॒ व्रात्य॑म् । प्र॒युग्भ्य॒ उन्म॑त्त सर्पदेवज॒नेभ्योऽप्र॑तिपद॒मये॑भ्यः कित॒वमी॒र्यता॑या॒ अकि॑तवं पिशा॒चेभ्यो॑ बिदलका॒रीं या॑तु॒धाने॑भ्यः कण्टकीका॒रीम् ॥८॥ (१) ८ सं॒धये॑ जा॒रं गे॒हायो॑पप॒तिमार्त्यै॒ परि॑वित्तं॒ निरृ॑त्यै परिविविदा॒नमरा॑ध्या एदिधिषुः प॒तिं निष्कृ॑त्यै पेशस्का॒री सं॒ज्ञाना॑य स्मरका॒रीम् । प्र॒का॒मोद्या॑योप॒सदं॒ वर्णा॑यानु॒रुधं॒ बला॑योप॒दाम् ॥१॥ ९ उ॒त्सा॒देभ्यः॑ कु॒ब्जं प्र॒मुदे॑ वाम॒नं द्वा॒र्भ्यः स्रा॒म स्वप्ना॑या॒न्धमध॑र्माय बधि॒रं प॒वित्रा॑य भि॒षज॑म् । प्र॒ज्ञाना॑य नक्षत्रद॒र्शमा॑शि॒क्षायै॑ प्र॒श्निन॑मुपशि॒क्षाया॑ अभिप्र॒श्निनं॑ म॒र्यादा॑यै प्रश्नविवा॒कम् ॥२॥ १० अर्मे॑भ्यो हस्ति॒पं ज॒वाया॑श्व॒पं पुष्ट्यै॑ गोपा॒लं वी॒र्या॑याविपा॒लं तेज॑सेऽजपा॒लमिरा॑यै की॒नाश॑म् । की॒लाला॑य सुराका॒रं भ॒द्राय॑ गृह॒प श्रेय॑से वित्त॒धमाध्य॑क्ष्यायानुक्ष॒त्तार॑म् ॥३॥ ११ भायै॑ दार्वा॒हारं॑ प्र॒भाया॑ अग्न्ये॒धं ब्र॒ध्नस्य॑ वि॒ष्टपा॑याभिषे॒क्तारं॒ वर्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टार॑म् । दे॒व॒लो॒काय॑ पेशि॒तारं॑ मनुष्यलो॒काय॑ प्रकरि॒तार॒ सर्वे॑भ्यो लो॒केभ्य॑ उपसे॒क्तार॒मव॑ ऋत्यै ब॒धायो॑पमन्थि॒तारं॒ मेधा॑य वासःपल्पू॒लीं प्र॑का॒माय॑ रजयि॒त्रीम् ॥४॥ १२ ऋ॒तये॑ स्ते॒नहृ॑दयं॒ वैर॑हत्याय॒ पिशु॑नं॒ विवि॑क्त्यै क्ष॒त्तार॒मौप॑द्रष्ट्र्यायानुक्ष॒त्तारं॒ बाला॑यानुच॒रं भू॒म्ने प॑रिष्क॒न्दम् । प्रि॒याय॑ प्रियवा॒दिन॒मरि॑ष्ट्या अश्वसा॒द स्व॒र्गाय॑ लो॒काय॑ भागदु॒घं वर्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टार॑म् ॥५॥(२) १३ म॒न्यवे॑ऽयस्ता॒पं क्रोधा॑य निस॒रं योगा॑य यो॒क्तार॒ शोका॑याभिस॒र्तारं॒ क्षेमा॑य विमो॒क्तार॑मुत्कूलनि॒कूलेभ्य॑स्त्रि॒ष्ठिन॑म् । वपु॑षे मानस्कृ॒त शीला॑याञ्जनीका॒रीं निरृ॑त्यै कोशका॒रीं य॒माया॒सूम् ॥१॥ १४ (१९२२) य॒माय॑ यम॒सूमथ॑र्व॒भ्योऽव॑तोका संवत्स॒राय॑ पर्या॒यिणीं॑ परिवत्स॒रायावि॑जातामिदावत्स॒राया॒तीत्व॑रीमिद्वत्स॒राया॑ति॒ष्कद्व॑रीम् । व॒त्स॒राय॒ विज॑र्जरा संवत्स॒राय॒ पलि॑क्नीमृ॒भुभ्यो॑ऽजिनसं॒ध सा॒ध्येभ्य॑श्चर्म॒म्नम् ॥२॥ १५ सरो॑भ्यो धैव॒रमु॑प॒स्थाव॑राभ्यो॒ दाशं॑ वैश॒न्ताभ्यो॑ बै॒न्दं न॑ड्व॒लाभ्यः॒ शौष्क॑लम् । पा॒राय॑ मार्गा॒रम॑वा॒राय॑ के॒वर्तं॑ ती॒र्थेभ्य॑ आ॒न्दं विष॑मेभ्यो मैना॒लम् । स्व॒नेभ्यः॒ पर्ण॑कं॒ गुहा॑भ्यः॒ किरा॑त॒ सानु॑भ्यो॒ जम्भ॑कं॒ पर्व॑तेभ्यः किंपूरु॒षम् ॥३॥ १६ बी॒भ॒त्सायै॑ पौल्क॒सं वर्णा॑य हिरण्यका॒रं तु॒लायै॑ वाणि॒जं प॑श्चादो॒षाय॑ ग्ला॒विनं॒ विश्वे॑भ्यो भू॒तेभ्यः॑ सिध्म॒लम् । भूत्यै॑ जागर॒णमभू॑त्यै स्वप॒नमार्त्यै॑ जनवा॒दिनं॒ व्यृ॑द्ध्या अपग॒ल्भ स॑श॒राय॑ प्र॒च्छिद॑म् ॥४॥ १७ अ॒क्ष॒रा॒जाय॑ कित॒वं कृ॒ताया॑दिनवद॒र्शं त्रेता॑यै क॒ल्पिनं॑ द्वा॒परा॑याधिक॒ल्पिन॑मास्क॒न्दाय॑ सभास्था॒णुं मृ॒त्यवे॑ गोव्य॒च्छमन्त॑काय गोघा॒तम् । क्षु॒धे यो गां वि॑कृ॒न्तन्तं॒ भिक्ष॑माण उप॒तिष्ठ॑ति दुष्कृ॒ताय॒ चर॑काचार्यं पा॒प्मने॑ सैल॒गम् ॥५॥(३) १८ प्र॒ति॒श्रुत्का॑या अर्त॒नं घोषा॑य भ॒षमन्ता॑य बहुवा॒दिन॑मन॒न्ताय॒ मूक॒ शब्दा॑याळम्बराघा॒तम् । मह॑से वीणावा॒दं क्रोशा॑य तूणव॒ध्मम॑वरस्प॒राय॑ शङ्ख॒ध्मं वना॑य वन॒पम॒न्यतो॑ऽरण्याय दाव॒पम् ॥१॥ १९ न॒र्माय॑ पुश्च॒लू हसा॑य॒ कारिं॒ याद॑से शाब॒ल्यां ग्रा॑म॒ण्यं॒ गण॑कमभि॒क्रोश॑कं॒ तान्मह॑से । वी॒णा॒वा॒दं पा॑णि॒घ्नं तू॑णव॒ध्मं तान्नृ॒त्ताया॑न॒न्दाय॑ तल॒वम् ॥२॥ २० अ॒ग्नये॒ पीवा॑नं पृथि॒व्यै पी॑ठस॒र्पिणं॑ वा॒यवे॑ चाण्डा॒लम॒न्तरि॑क्षाय वशन॒र्तिनं॑ दि॒वे ख॑ल॒ति सूर्या॑य हर्य॒क्षम् । नक्ष॑त्रेभ्यः किर्मि॒रं च॒न्द्रम॑से कि॒लास॒मह्ने॑ शु॒क्लं पि॑ङ्गा॒क्ष रात्र्यै॑ कृ॒ष्णं पि॑ङ्गा॒क्षम् ॥३॥ २१ अथै॒तान॒ष्टौ विरू॑पा॒ना ल॑भ॒तेऽति॑शुक्लं॒ चाति॑कृष्णं॒ चाति॑दीर्घं॒ चाति॑ह्रस्वं॒ च । अति॑स्थूलं॒ चाति॑कृशं॒ चाति॑कुल्वं॒ चाति॑लोमशं॒ चाशू॑द्रा॒ अब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः । मा॒ग॒धः पु॑श्च॒ली कि॑त॒वः क्ली॒बः कि॑त॒वोऽशू॑द्रा॒ अब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः ॥४॥ (४) २२ (१९३०) ॥इति शुक्लयजुःकाण्वसंहितायां चतुस्त्रिंशोऽध्यायः॥३४॥”
“अथ पञ्चत्रिंशोऽध्यायः। स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । स भूमि॑ स॒र्वत॑ स्पृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥१॥ १ पुरु॑ष ए॒वेद सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥२॥ २ ए॒तावा॑नस्य महि॒मातो॒ ज्याया॑श्च॒ पूरु॑षः । पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥३॥ ३ त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑ । ततो॒ विष्व॒ङ् व्य॑क्रामत्साशनानश॒ने अ॒भि ॥४॥ ४ ततो वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥५॥ ५ तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् । प॒शूस्ताश्च॑क्रे वाय॒व्या॑नार॒ण्या ग्रा॒म्याश्च॒ ये ॥६॥ ६ तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे । छन्दा॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥७॥ ७ तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥८॥ ८ तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥९॥ ९ यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्यासीत्किं बा॒हू किमू॒रू पादा॑ उच्येते ॥१०॥॥ १० ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वै॑श्यः प॒द्भ्या शू॒द्रो अ॑जायत ॥११॥॥ ११ च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत । श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ॥१२॥ १२ नाभ्या॑ आसीद॒न्तरि॑क्ष शी॒र्ष्णो द्यौः॒ सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ२ अ॑कल्पयन् ॥१३॥ १३ (१९४३) यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो॑ऽस्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥१४॥ १४ स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥१५॥ १५ य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥१६॥(१) १६ अ॒द्भ्यः संभृ॑तः पृथि॒व्यै रसा॑च्च वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताग्रे॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति॒ तन्मर्त्य॑स्य देव॒त्वमा॒जान॒मग्रे॑ ॥१॥ १७ वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त् । तमे॒व वि॑दि॒त्वाति॑ मृ॒त्युमे॑ति॒ नान्यः पन्था॑ विद्य॒तेऽय॑नाय ॥२॥ १८ प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तरजा॑यमानो बहु॒धा वि जा॑यते । तस्य॒ योनिं॒ परि॑ पश्यन्ति॒ धीरा॒स्तस्मि॑न्ह तस्थु॒र्भुव॑नानि॒ विश्वा॑ ॥३॥ १९ यो दे॒वेभ्य॑ आ॒तप॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥४॥ २० रु॒चं ब्रा॒ह्मं ज॒नय॑न्तो दे॒वा अग्रे॒ तद॑ब्रुवन् । यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात्तस्य॑ दे॒वा अ॑स॒न्वशे॑ ॥५॥ २१ श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्या॑ अहोरा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम॒श्विनौ॒ व्यात्त॑म् । इ॒ष्णन्नि॑षाणा॒मुं म॑ इषाण सर्वलो॒कं म॑ इषाण ॥६॥ (२) २२ तदे॒वाग्निस्तदा॑दि॒त्यस्तद्वा॒युस्तदु॑ च॒न्द्रमाः॑ । तदे॒व शु॒क्रं तद् ब्रह्म॒ तदापः॒ तत्प्र॒जाप॑तिः ॥१॥ २३ सर्वे॑ निमे॒षा ज॑ज्ञिरे वि॒द्युतः॒ पुरु॑षा॒दधि॑ । नै॑नमू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒ परि॑ जग्रभत् ॥२॥ २४ न तस्य॑ प्रति॒मा अ॑स्ति॒ यस्य॒ नाम॑ म॒हद्यशः॑ । हि॒र॒ण्य॒ग॒र्भ इत्ये॒षः ॥३॥ २५ ए॒षो ह॑ दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ ह जा॒तः स॑ उ॒ गर्भे॑ अ॒न्तः । स ए॒व जा॒तः स ज॑नि॒ष्यमा॑णः प्र॒त्यङ् जना॑स्तिष्ठति स॒र्वतो॑मुखः । यस्मा॒न्न जा॒त इत्येषः ॥४॥ २६ वे॒नस्तत्प॑श्य॒न्निहि॑तं॒ गुहा॒ सद्यत्र॒ विश्वं॒ भव॒त्येक॑नीळम् । तस्मि॑न्नि॒द सं च॒ वि चै॑ति॒ सर्व॒ स ओतः॒ प्रोत॑श्च वि॒भूः प्र॒जासु॑ ॥५॥ २७ प्र तद्वो॑चेद॒मृतं॒ नु वि॒द्वान्ग॑न्ध॒र्वो धाम॒ विभृ॑तं॒ गुहा॒ सत् । त्रीणि॑ प॒दानि॒ निहि॑ता॒ गुहा॑स्य॒ यस्तानि॒ वेद॒ स पि॒तुः पि॒तास॑त् ॥६॥२८॥ स नो॒ बन्धु॑र्जनि॒ता स वि॑धा॒ता धामा॑नि वेद॒ भुव॑नानि॒ विश्वा॑ । यत्र॑ दे॒वा अ॒मृत॑मानशा॒नास्तृ॒तीये॒ धाम॑न्न॒ध्यर॑यन्त ॥७॥ २९ प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॑ लो॒कान्प॒रीत्य॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च । उ॒प॒स्थाय॑ प्रथम॒जामृ॒तस्या॒त्मना॒त्मान॑म॒भि सं वि॑वेश ॥८॥ ३० परि॒ द्यावा॑पृथि॒वी स॒द्य इ॒त्वा परि॑ लो॒कान्परि॒ दिशः॒ परि॒ स्वः॑ । ऋ॒तस्य॒ तन्तुं॒ वित॑तं वि॒चृत्य॒ तद॑पश्य॒त्तद॑भव॒त्तदा॑सीत् ॥९॥ ३१ सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । स॒निं मे॒धाम॑यासि॒ष॒ स्वाहा॑ ॥१०॥॥ ३२ यां मे॒धां दे॑वग॒णाः पि॒तर॑श्चो॒पास॑ते । तया॒ माम॒द्य मे॒धयाग्ने॑ मे॒धावि॑नं कुरु॒ स्वाहा॑ ॥११॥॥ ३३ इ॒दं मे॒ ब्रह्म॑ च क्ष॒त्रं चो॒भे श्रिय॑मश्नुताम् । मयि॑ दे॒वा द॑धतु॒ श्रिय॒मुत्त॑मां॒ तस्यै॑ ते॒ स्वाहा॑ ॥१२॥(३) ३४ अपे॒तो य॑न्तु प॒णयोऽसु॑म्ना देवपी॒यवः॑ । अ॒स्य लो॒कः सु॒ताव॑तः ॥१॥ ३५ द्युभि॒रहो॑भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्वव॒सान॑मस्मै । स॒वि॒ता ते॒ शरी॑रेभ्यः पृथि॒व्याँ लो॒कमि॑च्छतु । तस्मै॑ युज्यन्तामु॒स्रियाः॑ ॥२॥ ३६ वा॒युः पु॑नातु सवि॒ता पु॑नात्व॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॑सा । वि मु॑च्यन्तामु॒स्रियाः॑ ॥३॥ ३७ अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥४॥ ३८ स॒वि॒ता ते॒ शरी॑राणि मा॒तुरु॒पस्थ॒ आ व॑पतु । तस्मै॑ पृथिवि॒ शं भ॑व । प्र॒जाप॑तौ त्वा दे॒वता॑या॒मुपो॑दके लो॒के नि द॑धाम्य॒सौ ॥५॥ ३९ परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थाँ॒ यस्ते॑ अ॒न्य इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जा री॑रिषो॒ मोत वी॒रान् ॥६॥ ४० शं वातः॒ श हि ते॒ घृणिः॒ शं ते॑ भव॒न्त्विष्ट॑काः । शं ते॑ भवन्त्व॒ग्नयः॒ पार्थि॑वासो॒ मा त्वा॒भि शू॑शुचन् ॥७॥ ४१ कल्प॑न्तां ते॒ दिश॒स्तुभ्य॒मापः॑ शि॒वत॑मा॒स्तुभ्यं॑ भवन्तु॒ सिन्ध॑वः । अ॒न्तरि॑क्ष शि॒वं तुभ्यं॒ कल्प॑न्तां ते॒ दिशः॒ सर्वाः॑ ॥८॥ ४२ (१९७२) अश्म॑न्वती रीयते॒ स र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता॒ सखा॑यः । अत्र॑ जही॒मोऽशि॑वा॒ ये अस॑ञ्छि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ॥९॥ ४३ अपा॒घमप॒ किल्वि॑ष॒मप॑ कृ॒त्यामपो॒ रपः॑ । अपा॑मार्ग॒ त्वम॒स्मदप॑ दुः॒ष्वप्न्य॑ सुव ॥१०॥॥ ४४ सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ । यो॒ऽस्मान्द्वे॑ष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥११॥॥ ४५ अ॒न॒ड्वाह॑म॒न्वार॑भामहे स्व॒स्तये॑ । स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्निः॑ सं॒तर॑णो भव ॥१२॥ ४६ उद्व॒यं तम॑स॒स्परि॒ स्वः॒ पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥१३॥ ४७ अग्न॒ आयू॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥१४॥ ४८ आयु॑ष्मानग्ने ह॒विषा॑ वृधा॒नो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मान्त्स्वाहा॑ ॥१५॥ ४९ इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् । श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥१६॥ ५० परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत । दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ२ आ द॑धर्षति ॥१७॥ ५१ क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॑म॒राज्यं॑ गच्छतु रिप्रवा॒हः । इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥१८॥ ५२ वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रै॑ना॒न्वेत्थ॒ निहि॑तान्परा॒के । मेद॑सः कु॒ल्या उप॒ तान्त्स्र॑वन्तु स॒त्या ए॑षामा॒शिषः॑ सन्तु॒ कामाः॒ स्वाहा॑ ॥१९॥ ५३ स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी । यच्छा॑ नः॒ शर्म॑ स॒प्रथाः॑ । अप॑ नः॒ शोशु॑चद॒धम् ॥२०॥॥ ५४ अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यं जा॑यतां॒ पुनः॑ । अ॒सौ स्व॒र्गाय॑ लो॒काय॒ स्वाहा॑ । अप॑ नः॒ शोशु॑चद॒घम् ॥२१॥॥ (४) ५५ (१९८५) ॥इति शुक्लयजुःकाण्वसंहितायां पञ्चत्रिंशोऽध्यायः॥३॥५॥”
“अथ षट्त्रिंशोऽध्यायः। ऋचं॒ वाचं॒ प्र प॑द्ये॒ मनो॒ यजुः॒ प्र प॑द्ये॒ साम॑ प्रा॒णं प्र प॑द्ये॒ चक्षुः॒ श्रोत्रं॒ प्र प॑द्ये । वागोजः॑ स॒हौजो॒ मयि॑ प्राणापानौ ॥१॥ १ यन्मे॑ छि॒द्रं चक्षु॑षो॒ हृद॑यस्य॒ मन॑सो॒ वाति॑तृण्णं॒ बृह॒स्पति॑र्मे॒ तद्द॑धातु । शं नो॑ भवतु॒ भुव॑नस्य॒ यस्पतिः॑ ॥२॥ २ भूर्भुवः॒ स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥३॥ ३ कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑ । कया॒ शचि॑ष्ठया वृ॒ता ॥४॥ ४ कस्त्वा॑ स॒त्यो मदा॑नां॒ म हि॑ष्ठो मत्स॒दन्ध॑सः । दृ॒ळहा चि॑दा॒रुजे॒ वसु॑ ॥५॥ ५ अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम् । श॒तं भ॑वास्यू॒तिभिः॥६॥ ६ कया॒ त्वं न॑ ऊ॒त्याभि प्र म॑न्दसे वृषन् । क॒या स्तो॒तृभ्य॒ आ भ॑र ॥७॥ ७ इन्द्रो॒ विश्व॑स्य राजति । शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥८॥ ३५ शं नो॑ मि॒त्रः शं वरु॑णः॒ शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ॥९॥ ९ शं नो॒ वातः॑ पवता॒ शं न॑स्तपतु॒ सूर्यः॑ । शं नः॒ कनि॑क्रदद्दे॒वः प॒र्जन्यो॑ अ॒भि व॑र्षतु ॥१०॥॥१०॥ अहा॑नि॒ शं भव॑न्तु नः॒ श रात्रीः॒ प्रति॑ धीयताम् । शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या । शं न॑ इन्द्रापू॒षणा॒ वाज॑सातौ॒ शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः ॥११॥॥ ११ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ । शं योर॒भि स्र॑वन्तु नः ॥१२॥ १२ स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी । यच्छा॑ नः॒ शर्म॑ स॒प्रथाः॑ ॥१३॥ १३ आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥१४॥ १४ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥१५॥ १५ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥१६॥ १६ द्यौः॒ शान्ति॑र॒न्तरि॑क्ष॒ शान्तिः॑ पृथि॒वी शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्तिः॑ । वन॒स्पत॑यः॒ शान्ति॒ शान्ति॑रे॒व शान्तिः॑ ॥१७॥ १७ दृते॒ दृ ह॑ मा मि॒त्रस्य॑ मा॒ चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षन्ताम् । मि॒त्रस्या॒हं चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समी॑क्षे । मि॒त्रस्य॒ चक्षु॑षा॒ समी॑क्षामहे ॥१८॥ १८ दृते॒ दृ ह॑ मा । ज्योक्ते॑ सं॒दृशि॑ जीव्यासं॒ ज्योक्ते॑ सं॒दृशि॑ जीव्यासम् ॥१९॥ १९ नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ । अ॒न्यास्ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्य॑ शि॒वो भ॑व ॥२०॥॥ २०(२००५) नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे॑ । नम॑स्ते भगवन्नस्तु॒ यतः॒ स्वः॑ स॒मीह॑से ॥२१॥॥ २१ यतो॑यतः स॒मीह॑से॒ ततो॑ नो॒ अभ॑यं कुरु । शं नः॑ कुरु प्र॒जाभ्योऽभ॑यं नः प॒शुभ्यः॑ ॥२२॥॥ २२ सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ । यो॒ऽस्मान्द्वे॑ष्टि॒ यं च॑ व॒यं द्वि॒ष्मः॥२३॥ २३ तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छु॒क्रमु॒च्चर॑त् । पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒त शृणु॑याम श॒रदः॑ श॒तम् ॥२४॥(१)२४(२००९) ॥इति शुक्लयजुःकाण्वसंहितायां षट्त्रिंशोऽध्यायः॥३॥६॥”
“अथ सप्तत्रिंशोऽध्यायः। दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नारि॑रसि ॥१॥ १ यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॒ स्वाहा॑ ॥२॥ २ देवी॑ द्यावापृथिवी म॒खस्य॑ वाम॒द्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥३॥ ३ देव्यो॑ वम्रियो भू॒तस्य॑ प्रथम॒जा म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥॥४॥ ४ इय॒त्यग्रे॑ आसीर्म॒खस्य॑ ते॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥५॥ ५ इन्द्रस्यौज॑ स्थ म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥६॥ ६ प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥७॥ ७ (२०१६) म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥८॥ ८ अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥९॥ ९ ऋ॒जवे॑ त्वा सा॒धवे॑ त्वा सुक्षि॒त्यै त्वा॑ । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥१०॥॥(१) १० य॒माय॑ त्वा म॒खाय॑ त्वा॒ सूर्य॑स्य त्वा॒ तप॑से । दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु पृथि॒व्याः स॒स्पृश॑स्पाहि । अ॒र्चिर॑सि शो॒चिर॑सि॒ तपो॑ऽसि ॥१॥ ११ अना॑धृष्टा पु॒रस्ता॑द॒ग्नेराधि॑पत्य॒ आयु॑र्मे दाः पु॒त्रव॑ती दक्षिण॒त इन्द्र॒स्याधि॑पत्ये प्र॒जां मे॑ दाः । सु॒षदा॑ प॒श्चाद्दे॒वस्य॑ सवि॒तुराधि॑पत्ये॒ चक्षु॑र्मे दा॒ आश्रु॑तिरुत्तर॒तो धा॒तुराधि॑पत्ये रा॒यस्पोषं॑ मे दाः । विधृ॑तिरु॒परि॑ष्टा॒द् बृह॒स्पते॒राधि॑पत्य॒ ओजो॑ मे दा॒ विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑स्पाहि॒ मनो॒रश्वा॑सि ॥१२॥ १२ स्वाहा॑ म॒रुद्भिः॒ परि॑ श्रीयस्व । दि॒वः स॒स्पृश॑स्पाहि । मधु॒ मधु॒ मधु॑ ॥३॥ (२) १३ गर्भो॑ दे॒वानां॑ पि॒ता म॑ती॒नां पतिः॑ प्र॒जाना॑म् । सं दे॒वो दे॒वेन॑ सवि॒त्रा ग॑त॒ स सूर्ये॑ण रोचते ॥१॥ १४ सम॒ग्निर॒ग्निना॑ गत॒ सं दैवे॑न सवि॒त्रा स सूर्ये॑णारोचिष्ट । स्वाहा॒ सम॒ग्निस्तप॑सा गत॒ सं दैव्ये॑न सवि॒त्रा स सूर्ये॑णारूरुचत ॥२॥ १५ ध॒र्ता दि॒वो वि भा॑ति॒ तप॑सस्पृथि॒व्यां ध॒र्ता दे॒वो दे॒वाना॒मम॑र्त्यस्तपो॒जाः । वाच॑मस्मे॒ नि य॑च्छ देवा॒युव॑म् ॥३॥ १६ अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्त्ति॒ भुव॑नेष्व॒न्तः ॥४॥ १७ (२०२६) विश्वा॑सां भुवां पते॒ विश्व॑स्य मनसस्पते॒ विश्व॑स्य वचसस्पते॒ सर्व॑स्य वचसस्पते । दे॒व॒श्रुत्त्वं दे॑व घर्म दे॒वो दे॒वान्पा॒ह्यत्र॒ प्रावी॒रनु॑ वां दे॒ववी॑तये। मधु॒ माध्वी॑भ्यां॒ मधु॒ माधू॑चीभ्याम् । हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॑ धेहि ॥५॥ १८ पि॒ता नो॑ऽसि पि॒ता नो॑ बोधि॒ नम॑स्ते अस्तु॒ मा मा॑ हिसीः । त्वष्टृ॑मन्तस्त्वा सपेम पु॒त्रान्प॒शून्मयि॑ धे॒ह्यरि॑ष्टा॒ह स॒ह प॑त्या भूयासम् ॥६॥ १९ अहः॑ के॒तुना॑ जुषता सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ । रात्रिः॑ के॒तुना॑ जुषता सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ॥७॥(३) २० (२०२९) ॥इति शुक्लयजुःकाण्वसंहितायां सप्तत्रिंशोऽध्यायः॥३॥७॥”
“अथाष्टत्रिंशोऽध्यायः। दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॒देऽदि॑त्यै॒ रास्ना॑सि ॥१॥ १ इळ॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्त्येहि॑ । असा॒वेह्यसा॒वेह्यसा॒वेहि॑ ॥२॥ २ अदि॑त्यै॒ रास्ना॑सीन्द्रा॒ण्या उ॒ष्णीषः॑ । पू॒षासि॑ घ॒र्माय॑ दीष्व ॥३॥ ३ अ॒श्विभ्यां॑ पिन्वस्व॒ सर॑स्वत्यै पिन्व॒स्वेन्द्रा॑य पिन्वस्व । स्वाहेन्द्र॑वत्स्वाहेन्द्र॑व॒त्स्वाहेन्द्र॑वत् ॥४॥ ४ यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्रः॑ । येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि॒ सर॑स्वति॒ तमि॒ह धात॑वेऽकः । उ॒र्व॒न्तरि॑क्ष॒मन्वे॑मि ॥५॥ ५ गा॒य॒त्रं छन्दो॑ऽसि॒ त्रै॑ष्टुभं॒ छन्दो॑ऽसि द्यावा॑पृथि॒वीभ्यां॑ त्वा॒ परि॑ गृह्णाम्य॒न्तरि॑क्षे॒णोप॑ यच्छामि । इन्द्रा॑श्विना॒ मधु॑नः सार॒घस्य॑ घ॒र्मं पा॑त॒ वस॑वो॒ यज॑त॒ वाट् । स्वाहा॒ सूर्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये ॥६॥ (१) ६ स॒मु॒द्राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ सरि॒राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ । अ॒ना॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑प्रतिधृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ॥ अ॒व॒स्यवे॑ त्वा॒ वाता॑य॒ स्वाहा॑शिमि॒दाय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ॥१॥ ७ इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑ते॒ स्वाहेन्द्रा॑य त्वादि॒त्यव॑ते॒ स्वाहा॑ । इन्द्रा॑य त्वाभिमाति॒घ्ने स्वाहा॑ सवि॒त्रे त्व॑ ऋभु॒मते॑ विभु॒मते॒ वाज॑वते॒ स्वाहा॒ बृह॒स्पत॑ये त्वा वि॒श्वदे॑व्यावते॒ स्वाहा॑ ॥२॥ ८ (२०३७) य॒माय॒ त्वाङ्गि॑रस्वते पितृ॒मते॒ स्वाहा॑ । स्वाहा॑ घ॒र्माय॒ स्वाहा॑ घ॒र्मः पि॒त्रे ॥३॥ (९) विश्वा॒ आशा॑ दक्षिण॒सत्सर्वा॑न्दे॒वान॑याळि॒ह । स्वाहा॑कृतस्य घ॒र्मस्य॒ मधोः॑ पिबतमश्विना ॥४॥ १० दि॒वि धा॑ इ॒मं य॒ज्ञमि॒मं य॒ज्ञं दि॒वि धाः॑ । स्वाहा॒ग्नये॑ य॒ज्ञिया॑य॒ शं यजु॑र्भ्यः ॥५॥ ११ अश्वि॑ना घ॒र्मं पा॑त॒ हार्द्वा॑न॒मह॑र्दि॒वाभि॑रू॒तिभिः॑ । त॒न्त्रा॒यिणे॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ॥६॥ १२ अपा॑ताम॒श्विना॑ घ॒र्ममनु॒ द्यावा॑पृथि॒वी अ॑मसाताम् । इहै॒व रा॒तयः॑ सन्तु ॥७॥ १३ इ॒षे पि॑न्वस्वो॒र्जे पि॑न्वस्व॒ ब्रह्म॑णे पिन्वस्व क्ष॒त्राय॑ पिन्वस्व॒ द्यावा॑पृथि॒वीभ्यां॑ पिन्वस्व । धर्मा॑सि सु॒धर्मामे॑न्य॒स्मे नृ॒म्णानि॑ धारय॒ ब्रह्म॑ धारय क्ष॒त्रं धारय॒ विशं॑ धारय ॥८॥ (२) १४ स्वाहा॑ पू॒ष्णे शर॑से॒ स्वाहा॒ ग्राव॑भ्यः स्वाहा॑ प्रतिर॒वेभ्यः॑ । स्वाहा॑ पि॒तृभ्य॑ ऊ॒र्ध्वब॑र्हिर्भ्यो घर्म॒पाव॑भ्यः स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॑ ॥१॥ १५ स्वाहा॑ रु॒द्राय॑ रु॒द्रहू॑तये॒ स्वाहा॒ सं ज्योति॑षा॒ ज्योतिः॑ । अहः॑ के॒तुना॑ जुषता सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॒ रात्रिः॑ के॒तुना॑ जुषता सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ । मधु॑ हु॒तमिन्द्र॑तमे अ॒ग्ना अ॒श्याम॑ ते देव घर्म॒ नम॑स्ते अस्तु॒ मा मा॑ हि सीः ॥२॥(३) १६ अ॒भी॒मं म॑हि॒मा दिवं॒ विप्रो॑ बभूव स॒प्रथाः॑ । उ॒त श्रव॑सा पृथि॒वी स सी॑दस्व म॒हाँ२ अ॑सि॒ रोच॑स्व देव॒वीत॑मः । वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥१॥(४) १७ या ते॑ घर्म दि॒व्या शुग्या गा॑य॒त्र्या ह॑वि॒र्धाने॑ । सा त॒ आ प्या॑यतां॒ निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ । या ते॑ घर्मा॒न्तरि॑क्षे॒ शुग्या त्रि॒ष्टुभ्याग्नी॑ध्रे । सा त॒ आ प्या॑यतां॒ निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ । या ते॑ घर्म पृथि॒व्या शुग्या जग॑त्या सद॒स्या॑ । सा त॒ आ प्या॑यतां॒ निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ ॥१॥ १८ क्ष॒त्रस्य॑ त्वा प॒रस्पाय॒ ब्रह्म॑णस्त॒न्वं॑ पाहि । विश॑स्त्वा॒ धर्म॑णा व॒यमनु॑ क्रामाम सुवि॒ताय॒ नव्य॑से ॥२॥ १९ चतुः॑स्रक्ति॒र्नाभि॑रृ॒तस्य॑ स॒प्रथाः॒ स नो॑ वि॒श्वायुः॑ स॒प्रथाः॒ स नः॑ स॒र्वायुः॑ स॒प्रथाः॑ । अप॒ द्वेषो॒ अप॒ ह्वरो॒न्यव्र॑तस्य सश्चिम ॥३॥ २० घर्मै॒तत्ते॒ पुरी॑षं॒ तेन॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि ॥४॥ ॥ २१ अचि॑क्रद॒द्वृषा॒ हरि॑र्म॒हान्मि॒त्रो न द॑र्श॒तः । स सूर्ये॑ण दिद्युतदुद॒धिर्नि॒धिः ॥५॥२२॥ सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ । यो॒ऽस्मान्द्वे॑ष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥६॥ २३ उद्व॒यं तम॑स॒स्परि॒ स्वः॒ पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् । एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ॥७॥ (५) २४ याव॑ती॒ द्यावा॑पृथि॒वी याव॑च्च स॒प्त सिन्ध॑वो वितस्थि॒रे । तव॑न्तमिन्द्र ते॒ ग्रह॑मू॒र्जा गृ॑ह्णा॒म्यक्षि॑तं॒ मयि॑ गृह्णा॒म्यक्षि॑तम् ॥१॥ २५ मयि॒ त्यदि॑न्द्रि॒यं बृ॒हन्मयि॒ दक्षो॒ मयि॒ क्रतुः॑ । घ॒र्मस्त्रि॒शुग्वि रा॑जति वि॒राजा॒ ज्योति॑षा स॒ह ब्रह्म॑णा॒ तेज॑सा स॒ह ॥ पय॑सो॒ रेत॒ आभृ॑तं॒ तस्य॒ दोह॑मशीम॒ह्युत्त॑रामुत्तरा॒ समा॑म् ॥२॥ (६) २६ त्विषः॑ सं॒वृक् क्रत्वे॒ दक्ष॑स्य ते सुषु॒म्णस्य॑ ते सुषुम्णाग्निहु॒तः । इन्द्र॑पीतस्य प्र॒जाप॑तिभक्षितस्य॒ मधु॑मत॒ उप॑हूत॒ उप॑हूतस्य भक्षयामि ॥१॥ (७) २७ ९० (२०५६) ॥इति शुक्लयजुःकाण्वसंहितायां अष्टत्रिंशोऽध्यायः॥३॥८॥”
“अथैकोनचत्वारिंशोऽध्यायः। स्वाहा॑ प्रा॒णेभ्यः॒ साधि॑पतिकेभ्यः पृथि॒व्यै स्वाहा॒ग्नये॒ स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ । दि॒ग्भ्यः स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒द्भ्यः स्वाहा॒ वरु॑णाय॒ स्वाहा॑ । नाभ्यै॒ स्वाहा॑ पू॒ताय॒ स्वाहा॑ ॥१॥ (१) १ वा॒चे स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ । चक्षु॑षे॒ स्वाहा॒ चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॑ ॥१॥ २ मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीय । प॒शू॒ना रू॒पमन्न॑स्य॒ रसो॒ यशः॒ श्रीः श्र॑यतां॒ मयि॒ स्वाहा॑ ॥२॥ (२) ३ (२०५९) प्र॒जाप॑तिः संभ्रि॒यमा॑णः स॒म्राट् संभृ॑तो वैश्वदे॒वः स॑ स॒न्नो घ॒र्मः प्रवृ॑क्त॒स्तेज॒ उद्य॑त आश्वि॒नः पय॑स्यानी॒यमा॑ने पू॒षा वि॑ष्य॒न्दमा॑ने मारु॒तः क्वथ॑न् । मै॒त्रः शर॑सि संता॒य्यमा॑ने वाय॒व्यो॑ ह्रि॒यमा॑ण आग्ने॒यो हू॒यमा॑नो॒ वाग्घु॒तः ॥१॥ (३) ४ स॒वि॒ता प्र॑थ॒मेऽह॑न्न॒ग्निर्द्वि॒तीये॑ वा॒युस्तृ॒तीय॑ आदि॒त्यश्च॑तु॒र्थे च॒न्द्रमाः॑ पञ्च॒म ऋ॒तुः ष॒ष्ठे म॒रुतः॑ सप्त॒मे बृ॑ह॒स्पति॑रष्ट॒मे । मि॒त्रो न॑व॒मे वरु॑णो दश॒म इन्द्र॑ एकाद॒शे विश्वे॑ दे॒वा द्वा॑द॒शे ॥१॥(४) ५ उ॒ग्रश्च॑ भी॒मश्च॒ ध्वान्त॑श्च॒ धुनि॑श्च । सा॒स॒ह्वा श्चा॑भियु॒ग्वा च॑ वि॒क्षिपः॒ स्वाहा॑ ॥१॥(५) ६ अ॒ग्नि हृद॑येना॒शनि॑ हृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं य॒क्ना । श॒र्वं मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तःपर्श॒व्येनो॒ग्रं दे॒वं व॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒ शिङ्गी॑नि को॒श्याभ्या॑म् ॥१॥(६) ७ उ॒ग्रँ लोहि॑तेन मि॒त्र सौ॑व्रत्येन रु॒द्रं दौर्व्र॑त्ये॒नेन्द्रं॑ प्रक्री॒ळेन॑ म॒रुतो॒ बले॑न सा॒ध्यान्प्र॒मुदा॑ । भ॒वस्य॒ कण्ठ्य॑ रु॒द्रस्या॑न्तःपा॒र्श्व्यं म॑हादे॒वस्य॒ यकृ॑च्छ॒र्वस्य॑ वनि॒ष्ठुः प॑शु॒पतेः॑ पुरी॒तत् ॥१॥(७) ८ लोम॑भ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा॑ त्व॒चे स्वाहा॑ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ मेद॑से॒ स्वाहा॒ मेद॑से॒ स्वाहा॑ । मा॒सेभ्यः॒ स्वाहा॑ मा॒सेभ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ । रेत॑से॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑ ॥१॥(८) ९ आ॒या॒साय॒ स्वाहा॑ प्राया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ । शु॒चे स्वाहा॒ शोच॑ते॒ स्वाहा॒ शोका॑य॒ स्वाहा॑ ॥१॥ १० तप॑से॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ त॒प्ताय॒ स्वाहा॑ । निष्कृ॑त्यै॒ स्वाहा॒ प्राय॑श्चित्त्यै॒ स्वाहा॑ भेष॒जाय॒ स्वाहा॑ ॥२॥ ११ य॒माय॒ स्वाहान्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॒ । ब्र॒ह्म॒ह॒त्यायै॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ स्वाहा॑ ॥३॥(९) १२ (२०६८) ॥इति शुक्लयजुःकाण्वसंहितायां एकोनचत्वारिंशोऽध्यायः॥३॥९॥”
“अथ चत्वारिंशोऽध्यायः। ई॒शा वा॒स्य॑मि॒द सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् । तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म् ॥१॥ १ कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒त समाः॑ । ए॒वं त्वयि॒ नान्यथे॒तो॑ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑ ॥२॥ अ॒सु॒र्या॒ नाम॑ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः । तास्ते प्रेत्या॒भिग॑च्छन्ति॒ ये के चा॑त्म॒हनो॒ जनाः॑ ॥३॥ ३ अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो॒ नैन॑द्दे॒वा आ॑प्नुव॒न्पूर्व॒मर्श॑त् । तद्धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त्तस्मि॑न्न॒पो मा॑त॒रिश्वा॑ दधाति ॥४॥ ४ तदे॑जति॒ तन्नै॑जति॒ तद्दू॒रे तद्व॑न्ति॒के । तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ॥५॥ ५ यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति । स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न वि जु॑गुप्सते ॥६॥ ६ यस्मि॒न्त्सर्वा॑णि भू॒तान्या॒त्मैवाभू॑द्विजान॒तः । तत्र॒ को मोहः॒ कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः ॥७॥ ७ स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒र शु॒द्धमपा॑पविद्धम् । क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑यं॒भूर्या॑थातथ्य॒तोऽर्था॒न्व्य॑द धाच्छाश्व॒ती भ्यः॒ समा॑भ्यः ॥८॥ ८ अ॒न्धं तमः॒ प्र वि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते । ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया॑ र॒ताः ॥९॥ अ॒न्यदे॒वाहुर्वि॒द्यया॒न्यदा॑हु॒रवि॑द्याया । इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥१०॥॥ १० वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ स॒ह । अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒मृत॑मश्नुते ॥११॥॥ ११ अ॒न्धं तमः॒ प्रवि॑शन्ति॒ येऽसं॑भूतिमु॒पास॑ते । ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ संभू॑त्या र॒ताः ॥१२॥ १२ अ॒न्यदे॒वाहुः सं॑भ॒वाद॒न्यदा॑हु॒रसं॑भवात् । इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥१३॥ १३ संभू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ स॒ह । वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा संभू॑त्या॒मृत॑मश्नुते ॥१४॥ १४ हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुख॑म् । तत्त्वं पू॑ष॒न्नपावृ॑णु स॒त्यध॑र्माय दृ॒ष्टये॑ ॥१५॥ १५ तेजो॒ यत्ते॑ रू॒पे कल्या॑णतमं॒ तत्ते॑ पश्यामि । यो॒ऽसाव॒सौ पुरु॑षः॒ सो॒ऽहम॑स्मि ॥१६॥ १६ वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒ शरी॑रम् । ओम्३ क्रतो॒ स्मर॑ कृ॒त स्म॑र॒ क्रतो॒ स्मर॑ कृ॒त स्म॑र ॥१७॥ १७ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उ॒क्तिं विधेम ॥१८॥ (१) १८ (२०८६) ॥इति शुक्लयजुःकाण्वसंहितायां चत्वारिंशोऽध्यायः॥४॥०॥ ॥ इति शुक्लयजुः काण्वसंहिता समाप्ता।”
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is Vajasaneyi Kanva Samhita of the Yajur Veda?
The Kanva recension of the Shukla Yajurveda — the yajus for the same great sacrifices. The Yajurveda is the Veda of the yajus — the sacrificial formulae recited by the adhvaryu priest as the rites are performed. This is the Shukla (White) Yajurveda, the Vajasaneyi Samhita, whose final adhyaya is the Ishavasya Upanishad.
What is the Yajur Veda?
The Yajurveda is the Veda of the yajus — the sacrificial formulae recited by the adhvaryu priest as the rites are performed. This is the Shukla (White) Yajurveda, the Vajasaneyi Samhita, whose final adhyaya is the Ishavasya Upanishad.
Offer a Vedic paath or seva in your name
Have a Vedic paath, havan or seva performed in your naam-gotra for peace and blessings. Book a seva, or read on in Sanatan Sahitya.








