About the Yuddha Kanda
The vanara army bridges the ocean and lays siege to Lanka. In the great war, Ravana’s brother Kumbhakarna and son Indrajit (Meghnad) fall, and at last Ram slays Ravana. Sita, proven pure through the fire, is reunited with Ram, and the victorious party returns to Ayodhya.
How it is read
The Yuddha Kanda is given below in its original Sanskrit (Devanagari), numbered by sarga and shloka. Read verse by verse; the Sundara Kanda in particular is recited as a paath for courage and protection.
Original Text
The Verses
श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् ।रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥६-१-१॥।।
कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् ।मनसापि यदन्येन न शक्यम् धरणीतले ॥६-१-२॥।।
न हि तम् परिपश्यामि यस्तरेत महोदधिम् ।अन्यत्र गुरुडाद्वायोरन्यत्र च हनूमतः ॥६-१-३॥।।
देवदानवयक्षाणाम् गन्धर्वोरगरक्षसाम् ।अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् ॥६-१-४॥।।
प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् ।को विशेत्सुदुराधर्षाम् राक्षसैश्च सुरक्षिताम् ॥६-१-५॥।।
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ।भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् ॥६-१-६॥।।
एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च ।यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ॥६-१-७॥।।
कुर्यात्तदुनुरागेण तमहुः पुरुषोत्तमम् ।यो नियुक्तः परम् कार्यम् न कुर्यान्नऋपतेः प्रियम् ॥६-१-८॥।।
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम् नरम् ।नियुक्तो नृपतेः कार्यम् न कुर्याद्यः समाहितः ॥६-१-९॥।।
भृत्यो युक्तः समर्थश्च तमाहुः पुरुष्धमम् ।तन्नियोगे नियुक्तेन कृतम् हनूमता ॥६-१-१०॥।।
न चात्मा लघताम् नीतः सुग्रीवश्चापि तोषितः ।अहम् च रघवम्शश्च लक्ष्मणश्च महाबलः ॥६-१-११॥।।
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ।इदम् तु मम दीनस्य मनो भूयः प्रकर्षति ॥६-१-१२॥।।
यदिहास्य प्रियाक्ष्यातुर्न कुर्मि सदृशम् प्रियम् ।एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः ॥६-१-१३॥।।
मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः ।इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिष्स्वजे ॥६-१-१४॥।।
हनुमन्तम् कृतात्मानम् क्R६इतवाक्यमुपागतम् ।ध्यात्वा पुनरुवाचेदम् वचनम् रघुसत्तमः ॥६-१-१५॥।।
हरीनामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ।सर्वथा सुकृतम् तावत्सीतायाः परिमार्गणम् ॥६-१-१६॥।।
सागरम् तु समासाद्य पुनर्नष्टम् मनो मम ।कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः ॥६-१-१७॥।।
हरयो दक्षिणम् पारम् गमिष्यन्ति समागताह् ।यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ॥६-१-१८॥।।
समुद्रपारगमने हरीणाम् किमिहोत्तरम् ।इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ॥६-१-१९॥
तम् तु शोकपरिद्यूनम् रामम् दशरथात्मजम् ।उवाच वचनम् श्रीमान् सुग्रीवह् शोकनाशनम् ॥६-२-१॥।।
किम् त्वया तप्यते वीर यथान्यः प्राकृतस्तथा ।मैवम् भूस्त्यज सतापम् कृतघ्न इव सौहृदम् ॥६-२-२॥।।
सम्तापस्य च ते स्थानम् न हि पश्यामि राघव ।प्रवृत्तामुपलब्धायाम् ज्ञाते च निलये रिपोः ॥६-२-३॥।।
मतिमान् शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ।त्यजेमाम् प्राकृताम् उद्धिं कृतात्मेवार्थदूषणीम् ॥६-२-४॥।।
सम्द्रम् लङ्घयित्वा तु महानक्रसमाकुलम् ।लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥६-२-५॥।।
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।सर्वार्था व्यवसीदन्ति व्यसनम् चाधिगच्छति ॥६-२-६॥।।
इमे शूराः समर्थाश्च सर्वतो हरियूथपाः ।त्वत्प्रियार्थम् कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥६-२-७॥।।
एषाम् हर्षेण जानामि तर्कश्चापि दृढो मम ।विक्रमेण समानेष्ये सीताम् हत्वा यथा रिपुम् ॥६-२-८॥।।
रावनम् पापक्र्माणम् तथा त्वम् कर्तुमर्हसि ।सेतुरत्र यथा बद्ध्येथा पश्येम ताम् पुरीम् ॥६-२-९॥।।
तस्य राक्षसराजस्य तथा त्वम् कुरु राघव ।दृष्ट्वा ताम् हि पुरीम् लङ्काम् त्रिकूटशिखरे स्थिताम् ॥६-२-१०॥।।
हतम् च रावणम् उद्धे दर्शनादवधारय ।अबद्ध्वा सागरे सेतुम् घोरे च वरुणालये ॥६-२-११॥।।
लङ्का न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः ।सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः ॥६-२-१२॥।।
सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय ।इमे हि समरे वीरा हरयः कामरूपिणः ॥६-२-१३॥।।
तदलम् विक्लबाम् बुद्धिम् राजन् सर्वार्थनाशनीम् ।पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥६-२-१४॥।।
यत्तु कार्यम् मनुष्येण शौण्डीर्यमवलम्ब्यताम् ।तदलम्करणायैव कर्तुर्भवति सत्वरम् ॥६-२-१५॥।।
अस्मिन् काले महाप्राज्ञ् सत्त्वमातिष्ठ ते जसा ।शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् ॥६-२-१६॥।।
विनष्टेवा रनस्स्टे वाशोकः सर्वार्थनाशनः ।तत्त्वम् बुद्धिमताम् श्रेष्ठह् सर्वशास्त्रर्थकोविदः ॥६-२-१७॥।।
मद्विधैः सचिवैः सार्धमरिम् जेतुम् समर्हसि ।न हि पश्याम्यहम् कम् चित्त्रिषु लोकेषु राघव ॥६-२-१८॥।।
गृहीतधनुषो यस्ते तिष्ठे दभिमुखो रणे ।वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते ॥६-२-१९॥।।
अचिराद्द्रक्ष्यसे सीताम् तीर्त्वा सागरमक्षयम् ।तदलम् शोकमालम्ब्य क्रोधमालम्ब भूपते ॥६-२-२०॥।।
निश्चेष्टाह् क्षत्रिया मन्दाः सर्वे चण्डस्य् बिभ्यति ।लङ्घानार्थम् च घोरस्य समुद्रस्य नदीपतेः ॥६-२-२१॥।।
सहास्माभिरिहोओपेतह् सूक्ष्मबुद्धिर्विचारय ।लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ॥६-२-२२॥।।
सर्वम् तीर्णम् च मे सैन्यम् जितमित्यवधार्यताम् ।इमे हि हरयः शूराः समरे कामरूपिणः ॥६-२-२३॥।।
तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।कथम् चित्परिपश्यामि लङ्घितम् वरुणालयम् ॥६-२-२४॥।।
हतमित्येव तम् मन्ये युद्धे शत्रुनिबर्हण ।किमुक्त्वा बहुधा चापि सर्वथा विजया भवान् ॥६-२-२५॥
सुग्रीवस्य वचः श्रुत्वा हेतुमत् परम अर्थवित् ।प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथ अब्रवीत् ॥६-३-१॥।।
तरसा सेतु बन्धेन सागर उच्चोषणेन वा ।सर्वथा सुसमर्थो अस्मि सागरस्य अस्य लन्घने ॥६-३-२॥।।
कति दुर्गाणि दुर्गाया लंकायास् तद् ब्रवीहि मे ।ज्ञातुम् इच्चामि तत् सर्वम् दर्शनाद् इव वानर ॥६-३-३॥।।
बलस्य परिमाणम् च द्वार दुर्ग क्रियाम् अपि ।गुप्ति कर्म च लंकाया रक्षसाम् सदनानि च ॥६-३-४॥।।
यथा सुखम् यथावच् च लंकायाम् असि दृष्टवान् ।सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलो हि असि ॥६-३-५॥।।
श्रुत्वा रामस्य वचनम् हनूमान् मारुत आत्मजः ।वाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनर् अथ अब्रवीत् ॥६-३-६॥।।
श्रूयताम् सर्वम् आख्यास्ये दुर्ग कर्म विधानतः ।गुप्ता पुरी यथा लंका रक्षिता च यथा बलैः ॥६-३-७॥।।
राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा ।पराम् समृद्धिम् लंकायाः सागरस्य च भीमताम् ॥६-३-८॥।।
विभागम् च बल ओघस्य निर्देशम् वाहनस्य च ।एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्ववित् ॥६-३-९॥।।
प्रहृष्टा मुदिता लंका मत्त द्विप समाकुला ।महती रथ सम्पूर्णा रक्षो गण समाकुला ॥६-३-१०॥।।
दृढ बद्ध कवाटानि महापरिघवन्ति च ।चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति ॥६-३-११॥।।
तत्रेषूपयन्त्राणि बलवन्ति महान्ति च ।आगतम् पर सैन्यम् तैस् तत्र प्रतिनिवार्यते ॥६-३-१२॥।।
द्वारेषु सम्स्कृता भीमाः काल आयस मयाः शिताः ।शतशो रोचिता वीरैः शतघ्न्यो रक्षसाम् गणैः ॥६-३-१३॥।।
सौवर्णः च महाम्स् तस्याः प्राकारो दुष्प्रधर्षणः ।मणि विद्रुम वैदूर्य मुक्ता विचरित अन्तरः ॥६-३-१४॥।।
सर्वतः च महाभीमाः शीत तोया महाशुभाः ।अगाधा ग्राहवत्यः च परिखा मीन सेविताः ॥६-३-१५॥।।
द्वारेषु तासाम् चत्वारः सम्क्रमाः परम आयताः ।यन्त्रैर् उपेता बहुभिर् महद्भिर् दृढ सम्धिभिः ॥६-३-१६॥।।
त्रायन्ते सम्क्रमास् तत्र पर सैन्य आगमे सति ।यन्त्रैस् तैर् अवकीर्यन्ते परिखासु समन्ततः ॥६-३-१७॥।।
एकस् त्व् अकम्प्यो बलवान् सम्क्रमः सुमहादृढः ।काञ्चनैर् बहुभिः स्तम्भैर् वेदिकाभिः च शोभितः ॥६-३-१८॥।।
स्वयम् प्रकृति सम्पन्नो युयुत्सू राम रावणः ।उत्थितः च अप्रमत्तः च बलानाम् अनुदर्शने ॥६-३-१९॥।।
लंका पुरी निरालम्बा देव दुर्गा भय आवहा ।न अदेयम् पार्वतम् वन्यम् कृत्रिमम् च चतुर् विधम् ॥६-३-२०॥।।
स्थिता पारे समुद्रस्य दूर पारस्य राघव ।नौ पथः च अपि न अस्ति अत्र निरादेशः च सर्वतः ॥६-३-२१॥।।
शैल अग्रे रचिता दुर्गा सा पूर् देव पुर उपमा ।वाजि वारण सम्पूर्णा लंका परम दुर्जया ॥६-३-२२॥।।
परिघाः च शतघ्न्यः च यन्त्राणि विविधानि च ।शोभयन्ति पुरीम् लंकाम् रावणस्य दुरात्मनः ॥६-३-२३॥।।
अयुतम् रक्षसाम् अत्र पश्चिम द्वारम् आश्रितम् ।शूल हस्ता दुराधर्षाः सर्वे खड्ग अग्र योधिनः ॥६-३-२४॥।।
नियुतम् रक्षसाम् अत्र दक्षिण द्वारम् आश्रितम् ।चतुर् अन्गेण सैन्येन योधास् तत्र अपि अनुत्तमाः ॥६-३-२५॥।।
प्रयुतम् रक्षसाम् अत्र पूर्व द्वारम् समाश्रितम् ।चर्म खड्ग धराः सर्वे तथा सर्व अस्त्र कोविदाः ॥६-३-२६॥।।
न्यर्बुदम् रक्षसाम् अत्र उत्तर द्वारम् आश्रितम् ।रथिनः च अश्व वाहाः च कुल पुत्राः सुपूजिताः ॥६-३-२७॥।।
शतम् शत सहस्राणाम् मध्यमम् गुल्मम् आश्रितम् ।यातु धाना दुराधर्षाः साग्र कोटिः च रक्षसाम् ॥६-३-२८॥।।
ते मया सम्क्रमा भग्नाः परिखाः च अवपूरिताः ।दग्धा च नगरी लंका प्राकाराः च अवसादिताः ॥६-३-२९॥।।
बलैकदेशः क्षपितो राक्षसानाम् महात्मनाम् ।येन केन तु मार्गेण तराम वरुण आलयम् ॥६-३-३०॥।।
हता इति नगरी लंकाम् वानरैर् अवधार्यताम् ।अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः ॥६-३-३१॥।।
नीलः सेना पतिः चैव बल शेषेण किम् तव ।प्लवमाना हि गत्वा ताम् रावणस्य महापुरीम् ॥६-३-३२॥।।
सप्रकाराम् सभवनाम् आनयिष्यन्ति मैथिलीम् ।सप्राकाराम् सभवनामानयुष्यन्ति राघव ॥६-३-३३॥।।
एवम् आज्ञापय क्षिप्रम् बलानाम् सर्व सम्ग्रहम् ।मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥६-३-३४॥
सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता ।सागरस्य उत्तरे तीरे साधु सेना विनिएशिता ॥६-५-१॥।।
मैन्दः च द्विविधः च उभौ तत्र वानर पुम्गवौ ।विचेरतुः च ताम् सेनाम् रक्षा अर्थम् सर्वतो दिशम् ॥६-५-२॥।।
निविष्टायाम् तु सेनायाम् तीरे नद नदी पतेः ।पार्श्वस्थम् लक्ष्मणम् दृष्ट्वा रामो वचनम् अब्रवीत् ॥६-५-३॥।।
शोकः च किल कालेन गच्चता हि अपगच्चति ।मम च अपश्यतः कान्ताम् अहनि अहनि वर्धते ॥६-५-४॥।।
न मे दुह्खम् प्रिया दूरे न मे दुह्खम् हृता इति च ।तद् एव अनुशोचामि वयो अस्या हि अतिवर्तते ॥६-५-५॥।।
वाहि वात यतः कन्या ताम् स्पृष्ट्वा माम् अपि स्पृश ।त्वयि मे गात्र सम्स्पर्शः चन्द्रे दृष्टि समागमः ॥६-५-६॥।।
तन् मे दहति गात्राणि विषम् पीतम् इव आशये ।हा नाथ इति प्रिया सा माम् ह्रियमाणा यद् अब्रवीत् ॥६-५-७॥।।
तद् वियोग इन्धनवता तच् चिन्ता विपुल अर्चिषा ।रात्रिम् दिवम् शरीरम् मे दह्यते मदन अग्निना ॥६-५-८॥।।
अवगाह्य अर्णवम् स्वप्स्ये सौमित्रे भवता विना ।कथम्चित् प्रज्वलन् कामः समासुप्तम् जले दहेत् ॥६-५-९॥।।
बह्व् एतत् कामयानस्य शक्यम् एतेन जीवितुम् ।यद् अहम् सा च वाम ऊरुर् एकाम् धरणिम् आश्रितौ ॥६-५-१०॥।।
केदारस्य इव केदारः स उदकस्य निरूदकः ।उपस्नेहेन जीवामि जीवन्तीम् यत् शृणोमि ताम् ॥६-५-११॥।।
कदा तु खलु सुस्शोणीम् शत पत्र आयत ईक्षणाम् ।विजित्य शत्रून् द्रक्ष्यामि सीताम् स्फीताम् इव श्रियम् ॥६-५-१२॥।।
कदा नु चारु बिम्ब ओष्ठम् तस्याः पद्मम् इव आननम् ।ईषद् उन्नम्य पास्यामि रसायनम् इव आतुरः ॥६-५-१३॥।।
तौ तस्याः सम्हतौ पीनौ स्तनौ ताल फल उपमौ ।कदा नु खलु स उत्कम्पौ हसन्त्या माम् भजिष्यतः ॥६-५-१४॥।।
सा नूनम् असित अपान्गी रक्षो मध्य गता सती ।मन् नाथा नाथ हीना इव त्रातारम् न अधिगच्चति ॥६-५-१५॥।।
कदा विक्षोभ्य रक्षाम्सि सा विधूय उत्पतिष्यति ।राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥६-५-१६॥।।
अविक्षोभ्याणि रक्षाम्सि सा विधूयोत्पतिष्यति ।विधूय जलदान् नीलान् शशि लेखा शरत्स्व् इव ॥६-५-१७॥।।
स्वभाव तनुका नूनम् शोकेन अनशनेन च ।भूयस् तनुतरा सीता देश काल विपर्ययात् ॥६-५-१८॥।।
कदा नु राक्षस इन्द्रस्य निधाय उरसि सायकान् ।सीताम् प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसम् ॥६-५-१९॥।।
कदा नु खलु माम् साध्वी सीता अमर सुता उपमा ।स उत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यति आनन्दजम् जलम् ॥६-५-२०॥।।
कदा शोकम् इमम् घोरम् मैथिली विप्रयोगजम् ।सहसा विप्रमोक्ष्यामि वासः शुक्ल इतरम् यथा ॥६-५-२१॥।।
एवम् विलपतस् तस्य तत्र रामस्य धीमतः ।दिन क्षयान् मन्द वपुर् भास्करो अस्तम् उपागमत् ॥६-५-२२॥।।
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is the Yuddha Kanda of the Valmiki Ramayana about?
The vanara army bridges the ocean and lays siege to Lanka. In the great war, Ravana’s brother Kumbhakarna and son Indrajit (Meghnad) fall, and at last Ram slays Ravana. Sita, proven pure through the fire, is reunited with Ram, and the victorious party returns to Ayodhya.
What is the Valmiki Ramayana?
The Valmiki Ramayana is the original Sanskrit epic of Shri Ram, composed by Maharishi Valmiki and revered as the Adi Kavya, the first poem. It has seven kandas (books): Bala, Ayodhya, Aranya, Kishkindha, Sundara, Yuddha and Uttara, and is the source of the many later Ramayanas including Tulsidas’s Ramcharitmanas.
Offer a Ram path or seva in your name
Have a Ramayana or Sunderkand path performed in your naam-gotra for protection and peace. Book a seva, or read on in Sanatan Sahitya.







