About Kaanda 7
Kaanda 7 of the Atharvaveda (Shaunaka) — shorter hymns for healing, protection, long life and well-being. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
How it is read
Kaanda 7 is given below in its original Sanskrit, in accented Devanagari. The Veda is preserved as shruti and recited in svadhyaya; read it reverently, sukta by sukta.
Original Text
The Verses
आत्मा। १-२ अथर्वा (ब्रह्मवर्चसकामः) । आत्मा। त्रिष्टुप्, २ विराड् जगती। धी॒ती वा॒ ये अन॑यन् वा॒चो अग्रं॒ मन॑सा वा॒ येऽव॑दन्नृ॒ तानि॑ । तृ॒तीये॑न॒ ब्रह्म॑णा वावृ॒धा॒नास्तु॒रीये॑णामन्वत॒ नाम॑ धे॒नोः ॥१॥ स वे॑द पु॒त्रः पि॒तरं॒ स मा॒तरं॒ स सू॒नुर्भु॑व॒त् स भु॑व॒त् पुन॑र्मघः । स द्यामौ॑र्णोद॒न्तरि॑क्षं॒ स्वः॑१ स इ॒दं विश्व॑मभवत् स आभ॑वत्॥२॥
आत्मा। १ अथर्वा (ब्रह्मवर्चसकामः) । आत्मा। त्रिष्टुप्, अथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुं मा॒तुर्गर्भं॑ पि॒तुरसुं॒ युवा॑नम्। य इ॒मं य॒ज्ञं मन॑सा चि॒केत॒ प्र णो॑ वोच॒स्तमि॒हेह ब्र॑वः ॥१॥
आत्मा। १ अथर्वा (ब्रह्मवर्चसकामः) । आत्मा। त्रिष्टुप्, अ॒या वि॒ष्ठा ज॒नय॒न् कर्व॑राणि॒ स हि घृणि॑रु॒रुर्वरा॑य गा॒तुः । स प्र॒त्युदै॑द् ध॒रुणं॒ मध्वो॒ अग्रं॒ स्वया॑ त॒न्वाऽत॒न्वऽमैरयत ॥१॥
आत्मा। १ अथर्वा (ब्रह्मवर्चसकामः) । वायुः। त्रिष्टुप्, एक॑या च द॒शभि॑श्चा सुहुते॒ द्वाभ्या॑मि॒ष्टये॑ विंश॒त्या च॑ । ति॒सृभि॑श्च॒ वह॑से त्रिं॒शता॑ च वि॒युग्भि॑र्वाय इ॒ह ता वि मु॑ञ्च ॥१॥
आत्मा। १-५ अथर्वा (ब्रह्मवर्चसकामः) । आत्मा। त्रिष्टुप्, ३ पङ्क्तिः ४ अनष्टुप्। य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्। ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥१॥ य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ स प्र ज॑ज्ञे॒ स उ॑ वावृधे॒ पुनः॑ । स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्मासु॒ द्रवि॑ण॒मा द॑धातु ॥२॥ यद् दे॒वा दे॒वान् ह॒विषाय॑ज॒न्ताम॑र्त्या॒न् मन॒साम॑र्त्येन । मदे॑म॒ तत्र॑ पर॒मे व्योऽम॒न् पश्ये॑म॒ तदुदि॑तौ॒ सूर्य॑स्य ॥३॥ यत् पुरु॑षेण ह॒विषा॑ य॒ज्ञं दे॒वा अत॑न्वत । अस्ति॒ नु तस्मा॒दोजी॑यो॒ यद् विहव्ये॑नेजि॒रे॥४॥ मु॒ग्धा दे॒वा उ॒त शुनाय॑जन्तो॒त गोरङ्गैः॑ पुरु॒धाय॑जन्त । य इ॒मं य॒ज्ञं मन॑सा चि॒केत॒ प्र णो॑ वोच॑स्तमि॑हेह ब्र॑वः ॥५॥
अदितिः १-४ अथर्वा (ब्रह्मवर्चसकामः) । अदितिः। त्रिष्टुप्, २ भुरिक्, ३-४ विराड् जगती। अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम्॥१॥ म॒हीमू॒ षु मा॒तरं॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हवामहे । तु॒वि॒क्ष॒त्राम॒जर॑न्तीमुरू॒चीं सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम्॥२॥ सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम्। दैवीं॒ नावं॑ स्वरि॒त्रामना॑गसो॒ अस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥३॥ वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे । यस्या॑ उ॒पस्थ॑ उ॒र्व॑१न्तरि॑क्षं॒ सा नः॒ शर्म॑ त्रि॒वरू॑थं॒ नि य॑च्छात्॥४॥
आदित्याः। १ अथर्वा (ब्रह्मवर्चसकामः) । अदितिः।आर्षी जगती। दितेः॑ पु॒त्राणा॒मदि॑तेरकारिष॒मव॑ दे॒वानां॑ बृह॒ताम॑न॒र्मणा॑म्। तेषां॒ हि धाम॑ गभि॒षक् स॑मु॒द्रियं॒ नैना॒न् नम॑सा प॒रो अ॑स्ति॒ कश्च॒न॥१॥
शत्रुनाशनम्। १ उपरिबभ्रवः। बृहस्पतिः। त्रिष्टुप्। भ॒द्रादधि॒ श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अस्तु । अथे॒मम॒स्या वर॒ आ पृ॑थि॒व्या आ॒रेश॑त्रुं कृणुहि॒ सर्व॑वीरम्॥१॥
स्वस्तिदा पूषा। १-४ उपरिबभ्रवः। पूषा। त्रिष्टुप्, ३ त्रिपदा आर्षी गायत्री, ४ अनुष्टुप्। प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः । उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजा॒नन्॥१॥ पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॑ सो अ॒स्माँ अभ॑यतमेन नेषत्। स्व॒स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन् पु॒र ए॑तु प्रजा॒नन्॥२॥ पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम क॒दा च॒न। स्तो॒तार॑स्त इ॒ह स्म॑सि ॥३॥ परि॑ पू॒षा प॒रस्ता॒द्धस्तं॑ दधातु॒ दक्षि॑णम्। पुन॑र्नो न॒ष्टमाज॑तु॒ सं न॒ष्टेन॑ गमेमहि ॥४॥
सरस्वती। १ शौनकः। सरस्वती। त्रिष्टुप्। यस्ते॒ स्तनः॑ शश॒युर्यो म॑यो॒भूर्यः सु॑म्न॒युः सु॒हवो॒ यः सु॒दत्रः॑ । येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ॥१॥
सरस्वती। १ शौनकः। सरस्वती। त्रिष्टुप्। यस्ते॒ स्तनः॑ शश॒युर्यो म॑यो॒भूर्यः सु॑म्न॒युः सु॒हवो॒ यः सु॒दत्रः॑ । येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ॥१॥
राष्ट्रसभा। १-४ शौनकः। सभा, १-२ सभा, पितरः, ३ इन्द्रः, ४ मनः। अनुष्टुप्, १ भुरिक् त्रिष्टुप्। स॒भा च॑ मा॒ समि॑तिश्चावतां प्र॒जाप॑तेर्दुहि॒तरौ॑ संविदा॒ने। येना॑ सं॒गच्छा॒ उप॑ मा॒ स शि॑क्षा॒च्चारु॑ वदानि पितरः॒ संग॑तेषु ॥१॥ वि॒द्म ते॑ सभे॒ नाम॑ न॒रिष्टा॒ नाम॒ वा अ॑सि । ये ते॒ के च॑ सभा॒सद॒स्ते मे॑ सन्तु॒ सवा॑चसः ॥२॥ ए॒षाम॒हं स॒मासी॑नानां॒ वर्चो॑ वि॒ज्ञान॒मा द॑दे । अ॒स्याः सर्व॑स्याः सं॒सदो॒ मामि॑न्द्र भ॒गिनं॑ कृणु ॥३॥ यद् वो॒ मनः॒ परा॑गतं॒ यद् ब॒द्धमि॒ह वे॒ह वा॑ । तद् व॒ आ व॑र्तयामसि॒ मयि॑ वो रमतां॒ मनः॑ ॥४॥
शत्रुनाशनम्। १-२ अथर्वा (द्विषो वर्चो हर्तुकामः)। सूर्यः। अनुष्टुप्। यथा॒ सूर्यो॒ नक्ष॑त्राणामु॒द्यंस्तेजां॑स्याद॒दे। ए॒वा स्त्री॒णां च॑ पुं॒सां च॑ द्विष॒तां वर्च॒ आ द॑दे ॥१॥ याव॑न्तो मा स॒पत्ना॑नामा॒यन्तं॑ प्रति॒पश्य॑थ । उ॒द्यन्त्सूर्य॑ इव सु॒प्तानां॑ द्विष॒तां वर्च॒ आ द॑दे ॥२॥
सविता १-४ अथर्वा। सविता। अनुष्टुप्, ३ त्रिष्टुप्, ४ जगती। अ॒भि त्यं दे॒वं स॑वि॒तार॑मो॒ण्योः क॒विक्र॑तुम्। अर्चा॑मि स॒त्यस॑वं रत्न॒धाम॒भि प्रि॒यं म॒तिम्॥१॥ उ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त् सवी॑मनि । हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पात् स्वः ॥२॥ सावी॒र्हि दे॑व प्रथ॒माय॑ पि॒त्रे व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै । अथा॒स्मभ्यं॑ सवित॒र्वार्या॑णि दि॒वोदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः ॥३॥ दमू॑ना दे॒वः स॑वि॒ता वरे॑ण्यो॒ दध॒द् रत्नं॒ दक्षं पि॒तृभ्य॒ आयूं॑षि । पिबा॒त् सोमं॑ म॒मद॑देनमि॒ष्टे परि॑ज्मा चित् क्रमते अस्य॒ धर्म॑णि ॥४॥
सविता १ भृगुः। सविता। त्रिष्टुप्। तां स॑वितः स॒त्यस॑वां सुचि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्ववा॑राम्। याम॑स्य॒ कण्वो॒ अदु॑ह॒न् प्रपी॑नां स॒हस्र॑धारां महि॒षो भगा॑य ॥१॥
सविता १ भृगुः। सविता। त्रिष्टुप्। बृह॑स्पते॒ सवि॑तर्व॒र्धयै॑नं ज्यो॒तयै॑नं मह॒ते सौभ॑गाय । संशि॑तं चित् संत॒रं सं शि॑शाधि॒ विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ॥१॥
द्रविणार्थ प्रार्थना। १-४ भृगुः। धाता, सविता, ४ अग्निः, त्वष्टा, विष्णुः। १ त्रिपदा आर्षी गायत्री, २ अनुष्टुप्, ३-४ त्रिष्टुप्। धा॒ता द॑धातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णेन॑ यच्छतु ॥१॥ धा॒ता द॑धातु दा॒शुषे॒ प्राचीं॑ जी॒वातु॒क्षि॑ताम्। व॒यं दे॒वस्य॑ धीमहि सुम॒तिं वि॒श्वरा॑धसः ॥२॥ धा॒ता विश्वा॒ वार्या॑ दधातु प्र॒जाका॑माय दा॒शुषे॑ दुरो॒णे। तस्मै॑ दे॒वाअ॒मृतं॒ सं व्य॑यन्तु॒ विश्वे॑ दे॒वा अदि॑तिः स॒जोषाः॑ ॥३॥ धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्नि॒धिप॑तिर्नो अ॒ग्निः । त्वष्टा॒ विष्णुः॑ प्र॒जया॑ संररा॒णो यज॑मानाय॒ द्रवि॑णं दधातु ॥४॥
दवृष्टिः। १-२ अथर्वा। पृथिवि, पर्जन्यः। १ चतुष्पदा भुरिगुष्णिक्, २ त्रिष्टुप्। प्र न॑भस्व पृथिवि भि॒न्द्धी॒३दं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो धात॒रीशा॑नो॒ वि ष्या॒ दृति॑म्॥१॥ न घ्रंस्त॑ताप॒ न हि॒मो ज॑घान॒ प्र न॑भतां पृथि॒वी जी॒रदा॑नुः । आप॑श्चिदस्मै घृ॒तमित् क्ष॑रन्ति॒ यत्र॒ सोमः॒ सद॒मित् तत्र॑ भ॒द्रम्॥२॥
प्रजाः। १ ब्रह्मा। प्रजापतिः। जगती। प्र॒जाप॑तिर्जनयति प्र॒जा इ॒मा धा॒ता द॑धातु सुमन॒स्यमा॑नः । सं॒जा॒ना॒नाः संम॑नसः॒ सयो॑नयो॒ मयि॑ पु॒ष्टं पु॑ष्ट॒पति॑र्दधातु ॥१॥
अनुमतिः। १-६ अथर्वा। अनुमतिः। १-२ अनुष्टुप्, ३ त्रिष्टुप्, ४ भुरिक्, ५ जगती ६ अतिशाक्वरीगर्भा जगती। अन्व॒द्य नोऽनु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम्। अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मम॑ ॥१॥ अन्विद॑नुमते॒ त्वं मंस॑से॒ शं च॑ नस्कृधि । जुष॒स्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि ररास्व नः ॥२॥ अनु॑ मन्यतामनु॒मन्य॑मानः प्र॒जाव॑न्तं र॒यिमक्षी॑यमाणम्। तस्य॑ व॒यं हेड॑सि॒ मापि॑ भूम सुमृडी॒के अ॑स्य सुम॒तौ स्या॑म ॥३॥ यत् ते॒ नाम॑ सु॒हवं॑ सुप्रणी॒तेऽनु॑मते॒ अनु॑मतं सु॒दानु॑ । तेना॑ नो य॒ज्ञं पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर॑म्॥४॥ एमं य॒ज्ञमनु॑मतिर्जगाम सुक्षे॒त्रता॑यै सुवी॒रता॑यै सुजा॑तम्। भ॒द्रा ह्यऽस्याः॒ प्रम॑तिर्ब॒भूव॒ सेमं य॒ज्ञम॑वतु दे॒वगो॑पा ॥५॥ अनु॑मतिः॒ सर्व॑मि॒दं ब॑भूव॒ यत् तिष्ठ॑ति॒ चर॑ति॒ यदु॑ च॒ विश्व॒मेज॑ति । तस्या॑स्ते देवि सुम॒तौ स्या॒मानु॑मते॒ अनु॒ हि मंस॑से नः ॥६॥
एको विभुः। १ ब्रह्म। आत्मा। शक्वरी विराड्-गर्भा जगती। स॒मेत॒ विश्वे॒ वच॑सा॒ पतिं॑ दि॒व एको॑ वि॒भूरति॑थि॒र्जना॑नाम्। स पू॒र्व्यो नूत॑नमा॒विवा॑सत् तं व॑र्त॒निरनु॑ वावृत॒ एक॒मित् पु॒रु॥१॥
ज्योतिः। १-२ ब्रह्मा। ब्रध्नः। १ द्विपदा एकावसाना विराड्-गायत्री. २ त्रिपदा अनुष्टुप्। अ॒यं स॒हस्र॒मा नो॑ दृ॒शे क॑वी॒नां म॒तिर्ज्योति॒र्विध॑र्मणि ॥१॥ ब्र॒ध्नः स॒मीची॑रु॒षसः॒ समै॑रयन्। अ॒रे॒पसः॒ सचे॑तसः॒ स्वस॑रे मन्यु॒मत्त॑माश्चि॒ते गोः ॥२॥
दुःस्वप्ननाशनम्। १ यमः। दुःस्वप्ननाशनम्। अनुष्टुप्। दौष्व॑प्न्यं दौर्जी॑वित्यं॒ रक्षो॑ अ॒भ्वऽमरा॒य्यः । दु॒र्णाम्नीः॒ सर्वा॑ दु॒र्वाच॒स्ता अ॒स्मन्ना॑शयामसि ॥१॥
सविता। १ ब्रह्मा। इन्द्रः, अग्निः, विश्वे देवाः, मरुतः, सविता, प्रजापतिः अनुमतिः। त्रिष्टुप्। यन्न॒ इन्द्रो॒ अख॑न॒द् यद॒ग्निर्विश्वे॑ दे॒वा म॒रुतो॒ यत् स्व॒र्काः । तद॒स्मभ्यं॑ सवि॒ता स॒त्यध॑र्मा प्र॒जाप॑ति॒रनु॑मति॒र्नि य॑च्छात्॥१॥
विष्णुः। १-२ मेधातिथिः। विष्णुः, वरुणः। त्रिष्टुप्। ययो॒रोज॑सा स्कभि॒ता रजां॑सि॒ यौ वीर्यौऽर्वी॒रत॑मा॒ शवि॑ष्ठा । यौ पत्ये॑ते॒ अप्र॑तीतौ॒ सहो॑भि॒र्विष्णु॑मग॒न् वरु॑णं पू॒र्वहू॑तिः ॥१॥ यस्ये॒दं प्र॒दिशि॒ यद् वि॒रोच॑ते॒ प्र चान॑ति॒ वि च॒ चष्टे॒ शची॑भिः । पु॒रा दे॒वस्य॒ धर्म॑णा॒ सहो॑भि॒र्विष्णु॑मग॒न् वरु॑णं पू॒र्वहू॑तिः ॥२॥
विष्णुः। १-८ मेधातिथिः। विष्णुः। १,८ त्रिष्टुप्, २ त्रिपदा विराड्-गायत्री, ३ त्र्यवसाना षट्-पदा विराट् शक्वरी, ४-७ गायत्री। विष्णो॒र्नु कं॒ प्रा वो॑चं वी॒र्याऽणि॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥१॥ प्र तद् विष्णु॑ स्तवते वी॒र्याऽणि मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । प॒रा॒वत॒ आ ज॑गम्या॒त् पर॑स्याः ॥२॥ यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑नेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ । उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नस्कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर ॥३॥ इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दा। समू॑ढमस्य पांसु॒रे॥४॥ त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः । इ॒तो धर्मा॑णि धा॒रय॑न्॥५॥ विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे। इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥६॥ तद् विष्णोः॑ पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीऽव॒ चक्षु॒रात॑तम्॥७॥ दि॒वो वि॑ष्ण उ॒त वा॑ पृथि॒व्या म॒हो वि॑ष्ण उ॒रोर॒न्तरि॑क्षात्। हस्तौ॑ पृणस्व ब॒हुभि॑र्व॒सव्यै॑रा॒प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात्॥८॥
इडा। १ मेधातिथिः। इडा। त्रिष्टुप्। इडै॒वास्मां अनु॑ वस्तां व्र॒तेन॒ यस्याः॑ प॒दे पु॒नते॑ देव॒यन्तः॑ । घृ॒तप॑दी॒ शक्व॑री॒ सोम॑पृ॒ष्ठोप॑ य॑ज्ञम॑स्थित वैश्वदे॒वी॥१॥
स्वस्ति। मेधातिथिः। वेदः। त्रिष्टुप्। वे॒दः स्व॒स्तिर्द्रु॑घ॒णः स्व॒स्तिः प॑र॒शुर्वेदिः॑ पर॒शुर्नः॑ स्व॒स्ति। ह॒वि॒ष्कृतो॑ य॒ज्ञिया॑ य॒ज्ञका॑मा॒स्ते दे॒वासो॑ य॒ज्ञमि॒मं जु॑षन्ताम्॥१॥
अग्नाविष्णू। १-२ मेधातिथिः। अग्नाविष्णू। त्रिष्टुप्। अग्ना॑विष्णू॒ महि॒ तद् वां॑ महि॒त्व पा॒थो घृ॒तस्य॒ गुह्य॑स्य॒ नाम॑ । दमे॑दमे स॒प्त रत्ना॒ दधा॑नौ॒ प्रति॑ वां जि॒ह्वा घृ॒तमा च॑रण्यात्॥१॥ अग्ना॑विष्णू॒ महि॒ धाम॑ प्रि॒यं॑ वां॑ वी॒थो घृ॒तस्य॒ गुह्या॑ जुषा॒णौ। दमे॑दमे सुष्टु॒त्या वा॑वृधा॒नौ प्रति॑ वां जि॒ह्वा घृ॒तमुच्च॑रण्यात्॥२॥
अञ्जनम्। १ भृग्वङ्गिराः। द्यावापृथिवी, मित्रः, ब्रह्मणस्पतिः, सविता च । बृहती। स्वाक्तं॑ मे॒ द्यावा॑पृथि॒वी स्वाक्तं॑ मि॒त्रो अ॑कर॒यम्। स्वाक्तं॑ मे॒ ब्रह्म॑ण॒स्पतिः॒ स्वाक्तं॑ सवि॒ता क॑रत्॥१॥
शत्रुनाशनम्। १ भृग्वङ्गिराः। इन्द्रः। भुरिक् त्रिष्टुप्। इन्द्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑वच्छ्रे॒ष्ठाभि॑र्मघवन्छूर जिन्व । यो नो॒ द्वेष्ट्यध॑र॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ॥१॥
दीर्घायुः। १ ब्रह्मा। आयुः। अनुष्टुप्। उप॑ प्रि॒यं पनि॑प्नतं युवा॑नमाहुती॒वृध॑म्। अग॑न्म॒ बिभ्र॑तो॒ नमो॑ दी॒र्घमायुः॑ कृणोतु मे ॥१॥
दीर्घायुः। १ ब्रह्मा। मरुतः, पूषा, बृहसपतिः, अग्निः। पथ्यापङ्क्तिः। सं मा॑ सिञ्चन्तु म॒रुतः॒ सं पू॒षा सं बृह॒स्पतिः॑ । सं मा॒यम॒ग्निः सि॑ञ्चतु प्र॒जया॑ च॒ धने॑न च दी॒र्घमायुः॑ कृणोतु मे ॥१॥
शत्रुनाशनम्। १ अथर्वा। जाचवेदाः। जगती। अग्ने॑ जा॒तान् प्र णु॑दा मे स॒पत्ना॒न् प्रत्यजा॑तान् जातवेदो नुदस्व । अ॒ध॒स्प॒दं कृ॑णुष्व॒ ये पृ॑त॒न्यवोऽना॑गस॒स्ते व॒यमदि॑तये स्याम ॥१॥
सपत्नीनाशनम्। १-३ अथर्वा। जातवेदाः। १ जगती, २ अनुष्टुप्, ३ त्रिष्टुप्। प्रान्यान्त्स॒पत्ना॒न्त्सह॑सा॒ सह॑स्व॒ प्रत्यजा॑तान् जातवेदो नुदस्व । इ॒दं रा॒ष्ट्रं पि॑पृ॒हि सौभ॑गाय॒ विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ॥१॥ इ॒मा यास्ते॑ श॒तं हि॒राः स॒हस्रं॑ ध॒मनी॑रु॒त। तासां॑ ते॒ सर्वा॑साम॒हमश्म॑ना॒ बिल॒मप्य॑धाम्॥२॥ परं॒ योने॒रव॑रं ते कृणोमि॒ मा त्वा॑ प्र॒जाभि भू॒न्मोत सूनुः॑ । अ॒स्वं॑१ त्वाप्र॑जसं कृणो॒म्यश्मा॑नं ते अपि॒धानं कृणोमि ॥३॥
अञ्जनम्। १ अथर्वा। अक्षि, मनः। अनुष्टुप्। अ॒क्ष्यौऽनौ॒ मधु॑संकाशे॒ अनी॑कं नौ स॒मञ्ज॑नम्। अ॒न्तः कृ॑ष्णुष्व॒ मां हृ॒दि मन॒ इन्नौ॑ स॒हास॑ति ॥१॥
वासः। १ अथर्वा। वासः। अनुष्टुप्। अ॒भि त्वा॒ मनु॑जातेन॒ दधा॑मि॒ मम॒ वास॑सा । यथासो॒ मम॒ केव॑लो॒ नान्यासां॑ की॒र्तया॑श्च॒न॥१॥
केवलः पतिः। १-५ अथर्वा। वनस्पतिः। अनुष्टुप्, ३ चतुष्पदा उष्णिक्। इ॒दं ख॑नामि भेष॒जं मां॑प॒श्यम॑भिरोरु॒दम्। प॒रा॒य॒तो नि॒वर्त॑नमाय॒तः प्र॑ति॒नन्द॑नम्॥१॥ येना॑ निच॒क्र आ॑सु॒रीन्द्रं॑ दे॒वेभ्य॒स्परि॑ । तेना॒ नि कु॑र्वे॒ त्वाम॒हं यथा॒ तेऽसा॑नि॒ सुप्रि॑या ॥२॥ प्र॒तीची॒ सोम॑मसि प्र॒तीच्यु॒त सूर्य॑म्। प्र॒तीची॒ विश्वा॑न् दे॒वान् तां त्वा॒च्छाव॑दामसि ॥३॥ अ॒हं व॑दामि॒ नेत् त्वं स॒भाया॒मह॒ त्वं वद॑ । ममेदस॒स्त्वं केव॑लो॒ नान्यासां॑ की॒र्तया॑श्च॒न॥४॥ यदि॒ वासि॑ तिरोज॒नं यदि॑ वा न॒द्यऽस्ति॒रः । इ॒यं ह॒ मह्यं॒ त्वामोष॑धिर्ब॒द्ध्वेव॒ न्यान॑यत्॥५॥
आपः। १ प्रस्कण्वः। आपः, सुपर्णः वृषभः त्रिष्टुप्। दि॒व्यं सु॑प॒र्णं प॑य॒सं बृ॒हन्त॑म॒पां गर्भं॑ वृष॒भमोष॑धीनाम्। अ॒भी॒प॒तो वृ॒ष्ट्या त॒र्पय॑न्त॒मा नो॑ गो॒ष्ठे र॑यि॒ष्ठां स्था॑पयाति ॥१॥
सरस्वान्। १-२ प्रस्कण्वः। सरस्वान्। १ भुरिक्, २ त्रिष्टुप्। यस्य॑ व्र॒तं प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒त उ॑प॒तिष्ठ॑न्त॒ आपः॑ । यस्य॑ व्र॒ते पु॑ष्ट॒पति॒र्निवि॑ष्ट॒स्तं सर॑स्वन्त॒मव॑से हवामहे ॥१॥ आ प्र॒त्यञ्चं॑ दा॒शुषे॑ दा॒श्वंसं॒ सर॑स्वन्तं पुष्ट॒पतिं॑ रयि॒ष्ठाम्। रा॒यस्पोषं॑ श्रव॒स्युं वसा॑ना इ॒ह हुवेम॒ सद॑नं रयी॒णाम्॥२॥
सुपर्णः। १-२ प्रस्कण्वः। श्येनः । १ जगती, २ त्रिष्टुप्। अति॒ धन्वा॒न्यत्य॒पस्त॑तर्द श्ये॒नो नृ॒चक्षा॑ अवसानद॒र्शः । तर॒न् विश्वा॒न्यव॑रा॒ रजां॒सीन्द्रे॑ण॒ सख्या॑ शि॒व आ ज॑गम्यात्॥१॥ श्ये॒नो नृ॒चक्षा॑ दि॒व्यः सु॑प॒र्णः स॒हस्र॑पाच्छ॒तयो॑निर्वयो॒धाः । स नो॒ नि य॑च्छाद् वसु॒ यत् परा॑भृतम॒स्माक॑मस्तु पि॒तृषु॑ स्व॒धाव॑त्॥२॥
पापमोचनम्। १-२ प्रस्कण्वः। सोमारुद्रौ। त्रिष्टुप्। सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑ वा॒ या नो॒ गय॑मावि॒वेश॑ । बाधे॑थां दू॒रं निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुक्तम॒स्मत्॥१॥ सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मद् विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम्। अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस॑त् त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत्॥२॥
वाक् १ प्रस्कण्वः। वाक्। त्रिष्टुप्। शि॒वास्त॒ एका॒ अशि॑वास्त॒ एकाः॒ सर्वा॑ बिभर्षि सुमन॒स्यमा॑नः । ति॒स्रो वाचो॒ निहि॑ता अ॒न्तर॒स्मिन् तासा॒मेका॒ वि प॑पा॒तानु॒ घोष॑म्॥१॥
इन्द्राविष्णुः। १ प्रस्कण्वः। इन्द्रः, विष्णुः। भुरिक् त्रिष्टुप्। उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैन॑योः । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम्॥१॥
ईर्ष्यानिवारणम्। १-२ प्रस्कण्वः, २ अथर्वा। ईर्ष्यापनयनं, भेषजम्। अनुष्टुप्। जना॑द् विश्वज॒नीना॑त् सिन्धु॒तस्पर्याभृ॑तम्। दू॒रात् त्वा॑ मन्य॒ उद्भृ॑तमी॒र्ष्याया॒ नाम॑ भेष॒जम्॥१॥ अ॒ग्नेरि॑वास्य॒ दह॑तो दा॒वस्य॒ दह॑तः॒ पृथ॑क्। ए॒तामे॒तस्ये॒र्ष्यामु॒द्राग्निमि॑व शमय ॥२॥
सिनीवाली। १-३ अथर्वा। सिनीवाली। अनुष्टुप्। ३ त्रिष्टुप्। सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ । जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥१॥ या सु॑बा॒हुः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्न्यै॑ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥२॥ या वि॒श्पत्नीन्द्र॒मसि॑ प्र॒तीची॑ स॒हस्र॑स्तुकाभि॒यन्ती॑ दे॒वी। विष्णोः॑ पत्नि॒ तुभ्यं॑ रा॒ता ह॒वींषि॒ पतिं॑ देवि॒ राध॑से चोदयस्व ॥३॥
कुहूः। १-२ अथर्वा। कुहूः। जगती, २ त्रिष्टुप्। कु॒हूं दे॒वीं सु॒कृतं॑ विद्म॒नाप॑सम॒स्मिन् य॒ज्ञे सु॒हवा॑ जोहवीमि । सा नो॑ र॒यिं वि॒श्ववा॑रं॒ नि यच्छाद् ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्यऽम्॥१॥ कु॒हूर्दे॒वाना॑म॒मृत॑स्य॒ पत्नी॒ हव्या॑ नो अस्य ह॒विषो॑ जुषेत । शृ॒णोतु॑ य॒ज्ञमु॑श॒ती नो॑ अ॒द्य रा॒यस्पोषं॑ चिकि॒तुषी॑ दधातु ॥२॥
राका। १-२अथर्वा। राका। जगती। रा॒काम॒हं सु॒हवा॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॑ बोध॑तु॒ त्मना॑ । सीव्य॒त्वपः॑ सू॒च्याच्छिद्यमानया॒ ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्यऽम्॥१॥ यास्ते॑ राके सुम॒तयः॑ सु॑पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि । ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रापो॒षं सु॑भगे॒ ररा॑णा ॥२॥
देवपत्न्यः। १-२ अथर्वा। देवपत्नीः। १ आर्षी जगती, २ चतुष्पदा पङ्क्तिः। दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः॒ प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये । याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सु॒हवाः॒ शर्म॑ यच्छन्तु ॥१॥ उ॒त ग्ना व्य॑न्तु दे॒वप॑त्नीरिन्द्रा॒ण्य॑१ग्नाय्य॒श्विनी॒ राट्। आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम्॥२॥
विजयः। १-९ अङ्गिराः ( कितववधकामः)। इन्द्रः। अनुष्टुप्, ३, ७ त्रिष्टुप्, ४ जगती, ६ भुरिक् त्रिष्टुप्। यथा॑ वृ॒क्षम॒शनि॑र्वि॒श्वाहा॒ हन्त्य॑प्र॒ति। ए॒वाहम॒द्य कि॑त॒वान॒क्षैर्ब॑ध्यासमप्र॒ति॥१॥ तु॒राणा॒मतु॑राणां वि॒शामव॑र्जुषीणाम्। स॒मैतु॑ वि॒श्वतो॒ भगो॑ अन्तर्ह॒स्तं कृ॒तं मम॑ ॥२॥ ईडे॑ अग्निं स्वाव॑सुं॒ नमो॑भिरि॒ह प्र॑स॒क्तो वि च॑यत् कृ॒तं नः । रथै॑रिव॒ प्र भ॑रे वा॒जय॑द्भिः प्रदक्षि॒णं म॒रुतां॒ स्तोम॑मृध्याम्॥३॥ व॒यं ज॑येम॒ त्वया॑ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे॑भरे । अ॒स्मभ्य॑मिन्द्र॒ वरी॑यः सु॒गं कृ॑धि॒ प्र शत्रू॑णां मघव॒न् वृष्ण्या॑ रुज ॥४॥ अजै॑षं त्वा॒ संलि॑खित॒मजै॑षमु॒त सं॒रुध॑म्। अविं॒ वृको॒ यथा॒ मथ॑दे॒वा म॑थ्नामि ते कृ॒तम्॥५॥ उ॒त प्र॒हामति॑दीवा जयति कृ॒तमि॑व श्व॒घ्नी वि चि॑नोति का॒ले। यो दे॒वका॑मो॒ न धनं रु॒णद्धि॒ समित् तं रा॒यः सृ॑जति स्व॒धाभिः॑ ॥६॥ गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न वा॒ क्षुधं॑ पुरुहूत॒ विश्वे॑ । व॒यं राज॑सु प्रथ॒मा धना॒न्यरि॑ष्टासो वृज॒नीभि॑र्जयेम ॥७॥ कृ॒तं मे॒ दक्षि॑णे॒ हस्ते॑ ज॒यो मे॑ स॒व्य आहि॑तः । गो॒जिद् भू॑यासमश्व॒जिद् ध॑नंज॒यो हि॑रण्य॒जित्॥८॥ अक्षाः॒ फल॑वतीं॒ द्युवं॑ द॒त्त गां क्षी॒रिणी॑मिव । सं मा॑ कृ॒तस्य॒ धार॑या॒ धनुः॒ स्नाव्ने॑व नह्यत ॥९॥
परिपाणम्। १ अङ्गिराः। इन्द्राबृहस्पती। त्रिष्टुप्। बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरी॑यः॒ कृणोतु ॥१॥
सांमनस्यम्। १-२ अथर्वा। सांमनस्यं, अश्विनौ। १ ककुम्मत्यनुष्टुप्, २ जगती। सं॒ज्ञानं॑ नः॒ स्वेभिः॑ सं॒ज्ञान॒मर॑णेभिः । सं॒ज्ञान॑मश्विना यु॒वमि॒हास्मासु॒ नि य॑च्छतम्॥१॥ सं जा॑नामहै॒ मन॑सा॒ सं चि॑कि॒त्वा मा यु॑ष्महि॒ मन॑सा॒ दैव्ये॑न । मा घोषा॒ उत् स्थु॑र्बहु॒ले वि॒निर्ह॑ते॒ मेषुः॑ पप्त॒दिन्द्र॒स्याह॒न्याग॑ते ॥२॥
दीर्घायुः। १-७ ब्रह्मा। आयुः, बृहस्पतिः अश्विनौ च। १-२ त्रिष्टुप्, ३ भुरिक्, ४ उष्णिग्गर्भार्षी पङ्क्तिः, ५-७ अनुष्टुप्। अ॒मु॒त्र॒भूया॒दधि॒ यद् य॒मस्य॒ बृह॑स्पतेर॒भिश॑स्तेर॑मुञ्चः । प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॒स्मद् दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥१॥ सं क्रा॑मतं॒ मा ज॑हीतं॒ शरी॑रं प्राणापा॒नौ ते॑ स॒युजा॑वि॒ह स्ता॑म्। श॒तं जी॑व श॒रदो॒ वर्ध॑मानो॒ऽग्निष्टे॑ गो॒पा अ॑धि॒पा वसि॑ष्ठः ॥२॥ आयु॒र्यत् ते॒ अति॑हितं परा॒चैर॑पा॒नः प्रा॒णः पुन॒रा तावि॑ताम्। अ॒ग्निष्टदाहा॒र्निरृ॑तेरु॒पस्था॒त् तदा॒त्मनि॒ पुन॒रा वे॑शयामि ते ॥३॥ मेमं प्रा॒णो हा॑सी॒न्मो अ॑पा॒नोऽव॒हाय॒ परा॑ गात्। स॒प्त॒र्षिभ्य॑ एनं॒ परि॑ ददामि॒ त ए॑नं स्व॒स्ति ज॒रसे॑ वहन्तु ॥४॥ प्र वि॑शतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम्। अ॒यं ज॑रि॒म्णः शे॑व॒धिररि॑ष्ट इ॒ह व॑र्धताम्॥५॥ आ ते॑ प्रा॒णं सु॑वामसि॒ परा॒ यक्ष्मं॑ सुवामि ते । आयु॑र्नो वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे॑ण्यः ॥६॥ उद् व॒यं तम॑स॒स्परि॒ रोह॑न्तो॒ नाक॑मुत्त॒मम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्॥७॥
अध्यापकविघ्नशमनम्। (१-२) १ ब्रह्मा, २ भृगुः। १ ऋक्सामनी, २ इन्द्र। अनुष्टुप्। ऋचं॒ साम॑ यजामहे॒ याभ्यां॒ कर्मा॑णि कु॒र्वते॑ । ए॒ते सद॑सि राजतो य॒ज्ञं दे॒वेषु॑ यच्छतः ॥१॥ ऋचं॒ साम॒ यदप्रा॑क्षं ह॒विरोजो॑ यजु॒र्बल॑म्। ए॒ष मा॒ तस्मा॒न्मा हिं॑सी॒द् वेदः॑ पृ॒ष्टः श॑चीपते ॥२॥
मार्गस्वस्त्ययनम्। १ भृगुः। इन्द्रः। विराट् परोष्णिक्। ये ते॒ पन्था॒नोऽव॑ दि॒वो येभि॒र्विश्व॒मैर॑यः । तेभिः॑ सुम्न॒या धे॑हि नो वसो ॥१॥
विषभैषज्यम्। १-८ अथर्वा।वृश्चिकादयः, २ वनस्पतिः, ४ ब्रह्मणस्पतिः। अनुष्टुप्, ४ विराट्-प्रस्तारपङ्क्तिः। तिर॑श्चिराजेरसि॒तात् पृदा॑कोः॒ परि॒ संभृ॑तम्। तत् क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत्॥१॥ इ॒यं वी॒रुन्मधु॑जाता मधु॒श्चुन्म॑धु॒ला म॒धूः । सा विह्रु॑तस्य भेष॒ज्यथो॑ मशक॒जम्भ॑नी ॥२॥ यतो॑ द॒ष्टं यतो॑ धी॒तं तत॑स्ते॒ निर्ह्व॑यामसि । अ॒र्भस्य॑ तृप्रदं॒शिनो॑ म॒शक॑स्यार॒सं वि॒षम्॥३॥ अ॒यं यो व॒क्रो विप॑रु॒र्व्यऽङ्गो॒ मुखा॑नि व॒क्रा वृ॑जि॒ना कृ॒णोषि॑ । तानि॒ त्वं ब्र॑ह्मणस्पत इ॒षीका॑मिव॒ सं न॑मः ॥४॥ अ॒र॒सस्य॑ श॒र्कोट॑स्य नी॒चीन॑स्योप॒सर्प॑तः । वि॒षं ह्य॑१स्यादि॒ष्यथो॑ एनमजीजभम्॥५॥ न ते॑ बा॒ह्वोर्बल॑मस्ति॒ न शी॒र्षे नोत म॑ध्य॒तः । अथ॒ किं पा॒पया॑मु॒या पुच्छे॑ बिभर्ष्यर्भ॒कम्॥६॥ अ॒दन्ति॑ त्वा पि॒पीलि॑का॒ वि वृ॑श्चन्ति मयू॒र्यः । सर्वे॑ भल ब्रवाथ॒ शार्को॑टमर॒सं वि॒षम्॥७॥ य उ॒भाभ्यां॑ प्र॒हर॑सि॒ पुच्छे॑न चा॒स्येऽन च । आ॒स्ये॒३ न ते॑ वि॒षं किमु॑ ते पुच्छ॒धाव॑सत्॥८॥
सरस्वती। १-२ वामदेवः। सरस्वती। जगती। यदा॒शसा॒ वद॑तो मे विचुक्षु॒भे यद् याच॑मानस्य॒ चर॑तो॒ जनाँ॒ अनु॑ । यदा॒त्मनि॑ त॒न्वोऽमे॒ विरि॑ष्टं॒ सर॑स्वती॒ तदा पृ॑णद् घृ॒तेन॑ ॥१॥ स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवृतन्नृ॒तानि॑ । उ॒भे इद॑स्यो॒भे अ॑स्य राजत उ॒भे य॑तेते उ॒भे अस्य पुष्यतः ॥२॥
अन्नम्। १-२ कौरुपथिः। इन्द्रावरुणौ। जगती, २ त्रिष्टुप्। इन्द्रा॑वरुणा सुतपावि॒मं सु॒तं सोमं॑ पिबतं॒ मद्यं॑ धृतव्रतौ । यु॒वो रथो॑ अध्व॒रो दे॒ववी॑तये॒ प्रति॒ स्वस॑र॒मुप॑ यातु पी॒तये॑ ॥१॥ इन्द्रा॑वरुणा॒ मधु॑मत्तमस्य॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम्। इ॒दं वा॒मन्धः॒ परि॑षिक्तमा॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयेथाम्॥२॥
शाप-मोचनम्। १ बादरायणिः। अरिनाशनम्। अनुष्टुप्। यो नः॒ शपा॒दश॑पतः॒ शप॑तो॒ यश्च॑ नः॒ शपा॑त्। वृ॒क्ष इ॑व वि॒द्युता॑ ह॒त आ मूला॒दनु॑ शुष्यतु ॥१॥
रम्यं गृहम्। १-७ ब्रह्मा। गृहाः, वास्तोष्पतिः। अनुष्टुप्, १ परानुष्टुप् त्रिष्टुप्। ऊर्जं॒ बिभ्र॑द् वसु॒वनिः॑ सुमे॒धा अघो॑रेण॒ चक्षु॑षा मि॒त्रिये॑ण । गृ॒हानैमि॑ सु॒मना॒ वन्द॑मानो॒ रम॑ध्वं॒ मा बि॑भीत॒ मत्॥१॥ इ॒मे गृ॒हा म॑यो॒भुव॒ ऊर्ज॑स्वन्तः॒ पय॑स्वन्तः । पू॒र्णा वा॒मेन॒ तिष्ठ॑न्त॒स्ते नो॑ जानन्त्वाय॒तः ॥२॥ येषा॑म॒ध्येति॑ प्र॒वस॒न् येषु॑ सौमन॒सो ब॒हुः । गृ॒हानुप॑ ह्वयामहे॒ ते नो॑ जानन्त्वाय॒तः ॥३॥ उप॑हूता॒ भूरि॑धनाः॒ सखा॑यः स्वा॒दुसं॑मुदः । अ॒क्षु॒ध्या अ॑तृ॒ष्या स्त॒ गृहा॒ मास्मद् बि॑भीतन ॥४॥ उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वयः॑ । अथो॒ अन्न॑स्य की॒लाल॒ उप॑हूतो गृ॒हेषु॑ नः ॥५॥ सू॒नृता॑वन्तः सु॒भगा॒ इरा॑वन्तो हसामु॒दाः । अ॒तृ॒ष्या अ॑क्षु॒ध्या स्त॒ गृहा॒ मास्मद् बि॑भीतन ॥६॥ इ॒हैव स्त॒ मानु॑ गात॒ विश्वा॑ रू॒पाणि॑ पुष्यत । ऐष्या॑मि भ॒द्रेणा॑ स॒ह भूयां॑सो भवता॒ मया॑ ॥७॥
तपः। १-२ अथर्वा। अग्निः। अनुष्टुप्। यद॑ग्ने॒ तप॑सा॒ तप॑ उपत॒प्याम॑हे॒ तपः॑ । प्रि॒याः श्रु॒तस्य॑ भूया॒स्मायु॑ष्मन्तः सुमे॒धसः॑ ॥१॥ अग्ने॒ तप॑स्तप्यामह॒ उप॑ तप्यामहे॒ तपः॑ । श्रु॒तानि॑ शृ॒ण्वन्तो॑ व॒यमायु॑ष्मन्तः सुमे॒धसः॑ ॥२॥
शत्रुनाशनम्। १ मरीचिःकाश्यपः। अग्निः। जगती। अ॒यम॒ग्निः सत्प॑तिर्वृ॒द्धवृ॑ष्णो र॒थीव॑ प॒त्तीन॑जयत् पु॒रोहि॑तः । नाभा॑ पृथि॒व्यां निहि॑तो॒ दवि॑द्युतदधस्प॒दं कृ॑णुतां॒ ये पृ॑त॒न्यवः॑ ॥१॥
दुरितनाशनम्। १ मरीचिः काश्यपः। जातवेदाः। जगती। पृ॒त॒ना॒जितं॒ सह॑मानम॒ग्निमु॒क्थ्यैर्ह॑वामहे पर॒मात् स॒धस्था॑त्। स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द् दे॒वोऽति॑ दुरि॒तान्य॒ग्निः ॥१॥
पापमोचनम्। १-२ यमः। आपः, अग्निः, निर्ऋतिः। १ भुरिगनुष्टुप्, २ न्यङ्कुसारिणी बृहती। इ॒दं यत् कृ॒ष्णः श॒कुनि॑रभिनि॒ष्पत॒न्नपी॑पतत्। आपो॑ मा॒ तस्मा॒त् सर्व॑स्माद् दुरि॒तात् पा॒न्त्वंह॑सः ॥१॥ इ॒दं यत् कृ॒ष्णः श॒कुनि॑र॒वामृ॑क्षन्निरृते ते॒ मुखे॑न । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्यः॒ प्र मु॑ञ्चतु ॥२॥
दुरितनाशनम्। १-३ शुक्रः। अपामार्गवीरुत। अनुष्टुप्। प्र॒ती॒चीन॑फलो॒ हि त्वमपा॑मार्ग रु॒रोहि॑थ । सर्वा॒न् मच्छ॒पथाँ अधि॒ वरी॑यो यावया इ॒तः ॥१॥ यद् दु॑ष्कृ॒तं यच्छम॑लं॒ यद् वा चेरि॒म पा॒पया॑ । त्वया॒ तद् वि॑श्वतोमु॒खापा॑मा॒र्गाप॑ मृज्महे ॥२॥ श्या॒वद॑ता कुन॒खिना॑ ब॒ण्डेन॒ यत् स॒हासि॒म। अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ॥३॥
ब्रह्म। १ ब्रह्म। ब्रह्म। त्रिष्टुप्। यद्य॒न्तरि॑क्षे॒ यदि॒ वात॒ आस॒ यदि॑ वृ॒क्षेषु॒ यदि॒ वोल॑पेषु । यदश्र॑वन् प॒शव॑ उ॒द्यमा॑नं॒ तद् ब्राह्म॑णं॒ पुन॑र॒स्मानु॒पैतु॑ ॥१॥
आत्मा। १ ब्रह्म। आत्मा। पुरःपरोष्णिग्बृहती। पुन॒र्मैत्वि॑न्द्रि॒यं पुन॑रा॒त्मा द्रवि॑णं॒ ब्राह्म॑णं च । पुन॑र॒ग्नयो॒ धिष्ण्या॑ यथास्था॒म क॑ल्पयन्तामि॒हैव॥१॥
सरस्वती। १-३ शन्तातिः। सरस्वती। १ अनुष्टुप्, २ त्रिष्टुप्, ३ गायत्री। सर॑स्वति व्र॒तेषु॑ ते दि॒व्येषु॑ देवि॒ धाम॑सु । जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि ररास्व नः ॥१॥ इ॒दं ते॑ ह॒व्यं घृ॒तव॑त् सरस्वती॒दं पि॑तॄ॒णां ह॒विरा॒स्यं॑१ यत्। इ॒मानि॑ त उदि॒ता शंत॑मानि॒ तेभि॑र्व॒यं मधु॑मन्तः स्याम ॥२॥ शि॒वा नः॒ शंत॑मा भव सुमृडी॒का स॑रस्वति । मा ते॑ युयोम सं॒दृशः॑ ॥१॥
सुखम्। १ शन्तातिः। सुखम्। पथ्यापङ्क्तिः। शं नो॒ वातो॑ वातु॒ शं न॑स्तपतु॒ सूर्यः॑ । अहा॑नि॒ शं भ॑वन्तु नः॒ शं रात्री॒ प्रति॑ धीयतां॒ शमु॒षा नो॒ व्युऽच्छतु ॥१॥
शत्रुदमनम्। १-५ अथर्वा। श्येनः, देवाः। १ त्रिष्टुप्, २ अतिजगतीगर्भा जगती, ३-५ अनुष्टुप् (३ पुरःककुम्मती)। यत् किं चा॒सौ मन॑सा॒ यच्च॑ वा॒चा य॒ज्ञैर्जु॒होति॑ ह॒विषा॒ यजु॑षा । तन्मृ॒त्युना॒ निरृ॑तिः संविदा॒ना पु॒रा स॒त्यादाहु॑तिं हन्त्वस्य ॥१॥ या॒तु॒धाना॒ निरृ॑ति॒रादु॒ रक्ष॒स्ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम्। इन्द्रे॑षिता दे॒वा आज्य॑मस्य मथ्नन्तु॒ मा तत् सं पा॑दि॒ यद॒सौ जु॒होति॑ ॥२॥ अ॒जि॒रा॒धि॒रा॒जौ श्ये॒नौ सं॑पा॒तिना॑विव । आज्यं॑ पृतन्य॒तो ह॑तां॒ यो नः॒ कश्चा॑भ्यघा॒यति॑ ॥३॥ अपा॑ञ्चौ त उ॒भौ बा॒हू अपि॑ नह्याम्या॒स्यऽम्। अ॒ग्नेर्दे॒वस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥४॥ अपि॑ नह्यामि ते बा॒हू अपि॑ नह्याम्या॒स्यऽम्। अ॒ग्नेर्घो॒रस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥५॥
अग्निः। १ अथर्वा। अग्निः। अनुष्टुप्। परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि । धृ॒षद् व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑तः ॥१॥
इन्द्रः। १-३ अथर्वा। इन्द्रः। १ अनुष्टुप्, २-३ त्रिष्टुप्। उत् ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय॑म्। यदि॑ श्रा॒तं॑ जु॒होत॑न॒ यद्यश्रा॑तं म॒मत्त॑न ॥१॥ श्रा॒तं ह॒विरो ष्वि॑न्द्र॒ प्र या॑हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ वि मध्य॑म्। परि॑ त्वासते नि॒धिभिः॒ सखा॑यः कुल॒पा न व्रा॑जप॒तिं चर॑न्तम्॥२॥ श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुशृ॑तं मन्ये॒ तदृ॒तं नवी॑यः । माध्य॑न्दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन् पुरु॒कृज्जु॑षा॒णः ॥१॥
घर्मः। १-११ अथर्वा। घर्मः, अश्विनौ। त्रिष्टुप्, १, ४, ६ जगती, २ पथ्याबृहती। समि॑द्धो अ॒ग्निर्वृ॑षणा र॒थी दि॒वस्त॒प्तो घ॒र्मो दु॑ह्यते वामि॒षे मधु॑ । व॒यं हि वां॑ पुरु॒दमा॑सो अश्विना॒ हवा॑महे सध॒मादे॑षु का॒रवः॑ ॥१॥ समि॑द्धो अ॒ग्निर॑श्विना त॒प्तो वां॑ घ॒र्म आ ग॑तम्। दु॒ह्यन्ते॑ नू॒नं वृ॑षणे॒ह धे॒नवो॒ दस्रा॒ मद॑न्ति वे॒धसः॑ ॥२॥ स्वाहा॑कृतः॒ शुचि॑र्दे॒वेषु॑ य॒ज्ञो यो अ॒श्विनो॑श्चम॒सो दे॑व॒पानः॑ । तमु॒ विश्वे॑ अ॒मृता॑सो जुषा॒णा ग॑न्ध॒र्वस्य॒ प्रत्या॒स्ना रि॑हन्ति ॥३॥ यदु॒स्रिया॒स्वाहु॑तं घृ॒तं पयो॒ऽयं स वा॑मश्विना भा॒ग आ ग॑तम्। माध्वी॑ धर्तारा विदथस्य सत्पती त॒प्तं घ॒र्मं पि॑बतं रोच॒ने दि॒वः ॥४॥ त॒प्तो वां॑ घ॒र्मो न॑क्षतु॒ स्वहो॑ता॒ प्र वा॑मध्व॒र्युश्च॑रतु॒ पय॑स्वान्। मधो॑र्दु॒ग्धस्या॑श्विना त॒नाया॑ वी॒तं पा॒तं पय॑स उ॒स्रिया॑याः ॥५॥ उप॑ द्रव॒ पय॑सा गोधुगो॒षमा घ॒र्मे सि॑ञ्च॒ पय॑ उ॒स्रिया॑याः । वि नाक॑मख्यत् सवि॒ता वरे॑ण्योऽनुप्र॒याण॑मुषसो॒ वि रा॑जति ॥६॥ उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम्। श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभीऽद्धो घ॒र्मस्तदु॒ षु प्र वो॑चत्॥७॥ हि॒ङ्कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒च्छन्ती॒ मन॑सा॒ न्याग॑न्। दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥८॥ जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒ण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान्। विश्वा॑ अग्ने अभि॒युजो॑ वि॒हत्य॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ॥९॥ अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ॥१०॥ सू॒य॒व॒साद् भग॑वती॒ हि भू॒या अधा॑ व॒यं भग॑वन्तः स्याम । अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चर॑न्ती ॥११॥
गण्डमालाचिकित्सा। १-४ अथर्वाङ्गिराः। मन्त्रोक्ताः, ४ जातवेदाः। अनुष्टुप्। अ॒प॒चितां॒ लोहि॑नीनां कृ॒ष्णा मा॒तेति॑ शुश्रुम । मुने॑र्दे॒वस्य॒ मूले॑न॒ सर्वा॑ विध्यामि॒ ता अ॒हम्॥१॥ विध्या॑म्यासां प्रथ॒मां विध्या॑म्यु॒त म॑ध्य॒माम्। इ॒दं ज॑घ॒न्याऽमासा॒मा च्छि॑नद्मि॒ स्तुका॑मिव ॥२॥ त्वा॒ष्ट्रेणा॒हं वच॑सा॒ वि त॑ ई॒र्ष्याम॑मीमदम्। अथो॒ यो म॒न्युष्टे॑ पते॒ तमु॑ ते शमयामसि ॥३॥ व्र॒तेन॒ त्वं व्र॑तपते॒ सम॑क्तो वि॒श्वाहा॑ सु॒मना॑ दीदिही॒ह। तं त्वा॑ व॒यं जा॑तवेदः॒ समि॑द्धं प्र॒जाव॑न्त॒ उप॑ सदेम॒ सर्वे॑ ॥४॥
अघ्न्याः। १-२ उपरिबभ्रबः। अघ्न्याः। १ त्रिष्टुप्, २ त्र्यवसाना पञ्चपदा भुरिक् पथ्यापङ्क्तिः। प्र॒जाव॑तीः सू॒यव॑से रु॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः । मा व॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु ॥१॥ प॒द॒ज्ञा स्थ॒ रम॑तयः॒ संहि॑ता वि॒श्वना॑म्नीः । उप॑ मा देवीर्दे॒वेभि॒रेत॑ । इ॒मं गो॒ष्ठमि॒दं सदो॑ घृ॒तेना॒स्मान्त्समु॑क्षत ॥२॥
गण्डमालाचिकित्सा। १-६ अथर्वा। १,२ अपचिद्भैषज्यं, ३-६ जायान्यः, इन्द्रः। अनुष्टुप्, आ सु॒स्रसः॑ सु॒स्रसो॒ अस॑तीभ्यो॒ अस॑त्तराः । से हो॑रर॒सत॑रा लव॒णाद् विक्ले॑दीयसीः ॥१॥ या ग्रैव्या॑ अप॒चितोऽथो॒ या उ॑पप॒क्ष्याः । वि॒जाम्नि॒ या अ॑प॒चितः॑ स्वयं॒स्रसः॑ ॥२॥ यः कीक॑साः प्रशृ॒णाति॑ तली॒द्यऽमव॒तिष्ठ॑ति । निर्हा॒स्तं सर्वं॑ जा॒यान्यं॒ यः कश्च॑ क॒कुदि॑ श्रि॒तः ॥३॥ प॒क्षी जा॒यान्यः॑ पतति॒ स आ वि॑शति॒ पूरु॑षम्। तदक्षि॑तस्य भेष॒जमु॒भयोः॒ सुक्ष॑तस्य च ॥४॥ वि॒द्म वै ते॑ जायान्य॒ जानं॒ यतो॑ जायान्य॒ जाय॑से । क॒थं ह॒ तत्र॒ त्वं ह॑नो॒ यस्य॑ कृ॒ण्मो ह॒विर्गृ॒हे॥५॥ धृ॒षत् पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू॑र सम॒रे वसू॑नाम्। माध्य॑न्दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒ष्ठानो॑ र॒यिम॒स्मासु॑ धेहि ॥६॥
शत्रुनाशनम्। १-३ अङ्गिराः।मरुतः। १ त्रिपदा गायत्री, २ त्रिष्टुप्, ३ जगती। सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन । अ॒स्माको॒ती रि॑शादसः ॥१॥ यो नो॒ मर्तो॑ मरुतो दुर्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति । द्रु॒हः पाशा॒न् प्रति॑ मुञ्चतां॒ सस्तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम्॥२॥ संव॒त्स॒रीणा॑ म॒रुतः॑ स्व॒र्का उ॒रुक्ष॑याः॒ सग॑णा॒ मानु॑षासः । ते अ॒स्मत् पाशा॒न् प्र मु॑ञ्च॒न्त्वेन॑सः सांतप॒ना म॑त्स॒रा मा॑दयि॒ष्णवः॑ ॥३॥
वन्दमोचनम्। १-२ अथर्वा। अग्निः। १ परोष्णिक्, २ त्रिष्टुप्। वि ते॑ मुञ्चामि रश॒नां वि योक्त्रं॒ वि नि॒योज॑नम्। इ॒हैव त्वमज॑स्र एध्यग्ने ॥१॥ अ॒स्मै क्ष॒त्राणि॑ धा॒रय॑न्तमग्ने यु॒नज्मि॑ त्वा॒ ब्रह्म॑णा॒ दैव्ये॑न । दी॒दि॒ह्य॑१स्मभ्यं॒ द्रवि॑णे॒ह भ॒द्रं प्रेमं वो॑चो हवि॒र्दां दे॒वता॑सु ॥२॥
अमावास्या। १-४ अथर्वा। अमावास्या। त्रिष्टुप्, १ जगती। यत् ते॑ दे॒वा अकृ॑ण्वन् भाग॒धेय॒ममा॑वास्ये सं॒वस॑न्तो महि॒त्वा। तेना॑ नो य॒ज्ञं पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर॑म्॥१॥ अ॒हमे॒वास्म्य॑मावा॒स्या॒३ मामा व॑सन्ति सु॒कृतो॒ मयी॒मे। मयि॑ दे॒वा उ॒भये॑ सा॒ध्याश्चेन्द्र॑ज्येष्ठाः॒ सम॑गच्छन्त॒ सर्वे॑ ॥२॥ आग॒न् रात्री॑ सं॒गम॑नी॒ वसू॑ना॒मूर्जं॑ पु॒ष्टं वस्वा॑वे॒शय॑न्ती । अ॒मा॒वा॒स्याऽयै ह॒विषा॑ विधे॒मोर्जं॒ दुहा॑ना॒ पय॑सा न॒ आग॑न्॥३॥ अमा॑वास्ये न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॑ परि॒भूर्ज॑जान । यत् का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयि॒णाम्॥४॥
पूर्णिमा। १-४ अथर्वा।पौर्णमासी, ३ प्रजापतिः। त्रिष्टुप्, २ अनुष्टुप्। पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॒दुन्म॑ध्य॒तः पौ॑र्णमा॒सी जि॑गाय । तस्यां॑ दे॒वैः सं॒वस॑न्तो महि॒त्वा नाक॑स्य पृ॒ष्ठे समि॒षा म॑देम ॥१॥ वृ॒ष॒भं वा॒जिनं॑ व॒यं पौ॑र्णमा॒सं य॑जामहे । स नो॑ ददा॒त्वक्षि॑तां र॒यिमनु॑पदस्वतीम्॥२॥ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॑ परि॒भूर्ज॑जान । यत् का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम्॥३॥ पौ॒र्ण॒मा॒सी प्र॑थ॒मा य॒ज्ञिया॑सी॒दह्नां॒ रात्री॑णामतिशर्व॒रेषु॑ । ये त्वां य॒ज्ञैर्य॑ज्ञिये अ॒र्धय॑न्त्य॒मी ते नाके॑ सु॒कृतः॒ प्रवि॑ष्टाः ॥४॥
सूर्याचन्द्रमसौ। १-६ अथर्वा। सावित्री, सूर्यः, चन्द्रमाः। त्रिष्टुप्, ३ अनुष्टुप्, ४ आस्तारपङ्क्तिः, ५ सम्राडास्तारपङ्क्तिः। पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीड॑न्तौ॒ परि॑ यातोऽर्ण॒वम्। विश्वा॒न्यो भुव॑ना वि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायसे॒ नवः॑ ॥१॥ नवो॑नवो भवसि॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒ष्यग्र॑म्। भा॒गं दे॒वेभ्यो॒ वि द॑धास्या॒यन् प्र च॑न्द्रमस्तिरसे दी॒र्घमायुः॑ ॥२॥ सोम॑स्यांशो युधां प॒तेऽनू॑नो॒ नाम॒ वा अ॑सि । अनू॑नं दर्श मा कृधि प्र॒जया॑ च॒ धने॑न च ॥३॥ द॒र्शोऽसि दर्श॒तोऽसि॒ सम॑ग्रोऽसि॒ सम॑न्तः । सम॑ग्रः॒ सम॑न्तो भूयासं॒ गोभि॒रश्वैः॑ प्र॒जया॑ प॒शुभि॑र्गृहैर्धने॑न ॥४॥ यो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तस्य॒ त्वं प्रा॒णेना प्या॑यस्व । आ व॒यं प्या॑सिषीमहि॒ गोभि॒रश्वैः॑ प्र॒जया॑ प॒शुभि॑र्गृ॒हैर्धने॑न ॥५॥ यं दे॒वा अं॒शुमा॑प्या॒यय॑न्ति॒ यमक्षि॑त॒मक्षि॑ता भ॒क्षय॑न्ति । तेना॒स्मानिन्द्रो॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥६॥
अग्निः। १-६ शौनकः (संपत्कामः)। अग्निः। त्रिष्टुप्, २ ककुम्मती बृहती, ३ जगती। अ॒भ्यऽर्चत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त । इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत् पवन्ताम्॥१॥ मय्यग्रे॑ अ॒ग्निं गृ॑ह्णामि स॒ह क्ष॒त्रेण॒ वर्च॑सा॒ बले॑न । मयि॑ प्र॒जां मय्यायु॑र्दधामि॒ स्वाहा॒ मय्य॒ग्निम्॥२॥ इ॒हैवाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ नि क्र॒न् पूर्व॑चित्ता निका॒रिणः॑ । क्ष॒त्रेणा॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः ॥३॥ अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑ उ॒षसो॒ अनु॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ वि॑वेश ॥४॥ प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्य॒त् प्रत्यहा॑नि प्रथ॒मो जा॒तवे॑दाः । प्रति॒ सूर्य॑स्य पुरु॒धा च॑ र॒श्मीन् प्रति॒ द्यावा॑पृथि॒वी आ त॑तान ॥५॥ घृ॒तं ते॑ अग्ने दि॒व्ये स॒धस्थे॑ घृ॒तेन॒ त्वां मनु॑र॒द्या समि॑न्धे । घृ॒तं ते॑ दे॒वीर्न॒प्त्य॑१आ व॑हन्तु घृ॒तं तुभ्यं॑ दुह्रतां॒ गावो॑ अग्ने ॥६॥
पाशमोचनम्। १-४ शुनःशेपः। वरुणः। अनुष्टुप्, २ पथ्यापङ्क्तिः, ३ त्रिष्टुप्, ४ बृहतीगर्भा त्रिष्टुप्। अ॒प्सु ते॑ राजन् वरुण गृ॒हो हि॑र॒ण्ययो॑ मि॒थः । ततो॑ धृ॒तव्र॑तो॒ राजा॒ सर्वा॒ धामा॑नि मुञ्चतु ॥१॥ धाम्नो॑धाम्नो राजन्नि॒तो व॑रुण मुञ्च नः । यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ यदू॑चि॒म ततो॑ वरुण मुञ्च नः ॥२॥ उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय । अधा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥३॥ प्रास्मत् पाशा॑न् वरुण मुञ्च॒ सर्वा॒न् य उ॑त्त॒मा अ॑ध॒मा वा॑रु॒णा ये । दु॒ष्वप्न्यं॑ दुरि॒तं नि ष्वा॒स्मदथ॑ गच्छेम सुकृ॒तस्य॑ लो॒कम्॥४॥
क्षत्रभृदग्निः। १-३ भृगु। १ जातवेदाःअग्निः, २-३ इन्द्रः। त्रिष्टुप्, १ जगती। अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अम॑र्त्यो वि॒राड॑ग्ने क्षत्र॒भृद् दी॑दिही॒ह। विश्वा॒ अमी॑वाः प्रमु॒ञ्चन् मानु॑षीभिः शि॒वाभि॑र॒द्य परि॑ पाहि नो॒ गय॑म्॥१॥ इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम्। अपा॑नुदो॒ जन॑ममित्रा॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम्॥२॥ मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गम्या॒त् पर॑स्याः । सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न् ताढि॒ वि मृघो॑ नुदस्व ॥३॥
अरिष्टनेमिः। १ अथर्वा (स्वस्त्ययनकामः)। तार्क्ष्यः। त्रिष्टुप्। त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं॒ सहो॑वानं तरु॒तारं॒ रथा॑नाम्। अरि॑ष्टनेमिं पृतना॒जिमा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥१॥
त्राता इन्द्रः। १ अथर्वा (स्वस्त्ययनकामः)। इन्द्रः। त्रिष्टुप्। त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म्। हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति न॒ इन्द्रो॑ म॒घवा॑न् कृणोतु ॥१॥
व्यापको देवः। १ अथर्वा। रुद्रः। जगती। यो अ॒ग्नौ रु॒द्रो यो अ॒प्स्व॑१न्तर्य ओष॑धीर्वी॒रुध॑ आवि॒वेश॑ । य इ॒मा विश्वा॒ भुव॑नानि चाक्लृ॒प तस्मै॑ रु॒द्राय॒ नमो॑ अस्त्व॒ग्नये ॥१॥
सर्पविषनाशनम्। १ गरुत्मान्। तक्षकः। त्र्यवसाना बृहती। अपे॒ह्यरि॑र॒स्यरि॒र्वा अ॑सि। वि॒षे वि॒षम॑पृक्था वि॒षमिद् वा अ॑पृक्थाः । अहि॑मे॒वाभ्यपे॑हि॒ तं ज॑हि ॥१॥
दिव्या आपः। १-४ सिन्धुद्वीपः। अग्निः। अनुष्टुप्, ४ त्रिपदा निचृत् परोष्णिक्। अ॒पो दि॒व्या अ॑चायिषं॒ रसे॑न॒ सम॑पृक्ष्महि । पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥१॥ सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा । वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात् सह ऋषि॑भिः ॥२॥ इ॒दमा॑पः॒ प्र व॑हताव॒द्यं च॒ मलं॑ च॒ यत्। यच्चा॑भिदु॒द्रोहानृ॑तं॒ यच्च॑ शे॒पे अ॒भीरु॑णम्॥३॥ एधो॑ऽस्येधिषी॒य स॒मिद॑सि॒ समे॑धिषीय । तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ॥४॥
शत्रुबलनाशनम्। १-३ अङ्गिराः। मन्त्रोक्ताः। १ गायत्री, २ विराट् पुरस्ताद् बृहती, अपि॑ वृश्च पुराण॒वद् व्र॒तते॑रिव गुष्पि॒तम्। ओजो॑ दा॒स्यस्य॑ दम्भय ॥१॥ व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जामहै । म्ला॒पया॑मि भ्र॒जः शि॒भ्रं वरु॑णस्य व्र॒तेन॑ ते ॥२॥ यथा॒ शेपो॑ अ॒पाया॑तै स्त्री॒षु चास॒दना॑वयाः । अ॒व॒स्थस्य॑ क्न॒दीव॑तः शाङ्-कु॒रस्य॑ नितो॒दिनः॑ । यदात॑त॒मव॒ तत् त॑नु॒ यदुत्त॑तं॒ नि तत् त॑नु ॥३॥
सुत्रामा इन्द्रः। १ अथर्वा। चन्द्रमाः (इन्द्रः)। त्रिष्टुप्। इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥१॥
सुत्रामा इन्द्रः। १ अथर्वा। चन्द्रमाः (इन्द्रः)। त्रिष्टुप्। स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मदा॒राच्चि॒द् द्वेषः॑ सनु॒तर्यु॑योतु । तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥१॥
शत्रुनाशनम्। १ भृग्वङ्गिराः। इन्द्रः। गायत्री। इन्द्रे॑ण म॒न्युना॑ व॒यम॒भि ष्या॑म पृतन्य॒तः । घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति॥१॥
सांमनस्यम्। १ अथर्वा। सोमः। अनुष्टुप्। ध्रु॒वं ध्रु॒वेण॑ ह॒विषाव॒ सोमं॑ नयामसि । यथा॑ न॒ इन्द्रः॒ केव॑ली॒र्विशः॒ संम॑नस॒स्कर॑त्॥१॥
शत्रुनाशनम्। १-३ कपिञ्जलः। गृध्रौ। अनुष्टुप्, २-३ भुरिक्। उद॑स्य श्या॒वौ वि॑थु॒रौ गृध्रौ॒ द्यामि॑व पेततुः । उ॒च्छो॒च॒न॒प्र॒शो॒च॒नाव॒स्योच्छोच॑नौ हृ॒दः ॥१॥ अ॒हमे॑ना॒वुद॑तिष्ठिपं॑ गावौ॑ श्रान्त॒सदा॑विव । कु॒र्कु॒रावि॑व॒ कूज॑न्तावु॒दव॑न्तौ॒ वृका॑विव ॥२॥ आ॒तो॒दिनौ॑ नितो॒दिना॒वथो॑ संतो॒दिना॑वु॒त। अपि॑ नह्याम्यस्य॒ मेढ्रं॒ य इ॒तः स्त्री पुमा॑न् ज॒भार॑ ॥३॥
शत्रुनाशनम्। १ कपिञ्जलः। वयः। अनुष्टुप्। अस॑द॒न् गावः॒ सद॒नेऽप॑प्तद् वस॒तिं वयः॑ । आ॒स्थाने॒ पर्व॑ता अस्थुः॒ स्थाम्नि॑ वृ॒क्काव॑तिष्ठिपम्॥१॥
यज्ञः १-५ अथर्वा। इन्द्राग्नी।त्रिष्टुप्, ५ त्रिपदार्षी भुरिग्गायत्री, ६ त्रिपदा प्राजापत्या बृहती, ७ त्रिपदा साम्नी भुरिग्जगती, ८ उपरिष्टाद्बृहती। यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन् होत॑श्चिकित्व॒न्नवृ॑णीमही॒ह। ध्रु॒वम॑यो ध्रु॒वमु॒ता श॑विष्ठ प्रवि॒द्वान् य॒ज्ञमुप॑ याहि॒ सोम॑म्॥१॥ समि॑न्द्र नो॒ मन॑सा नेष॒ गोभिः॒ सं सू॒रिभि॑र्हरिव॒न्त्सं स्व॒स्त्या। सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒तौ य॒ज्ञिया॑नाम्॥२॥ यानाव॑ह उश॒तो दे॑व दे॒वांस्तान् प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑ । ज॒क्षि॒वांसः॑ पपि॒वांसो॒ मधू॑न्य॒स्मै ध॑त्त वसवो॒ वसू॑नि ॥३॥ सु॒गा वो॑ देवाः॒ सद॑ना अकर्म॒ य आ॑ज॒ग्म सव॑ने मा जुषा॒णाः । वह॑माना॒ भर॑माणाः॒ स्वा वसू॑नि॒ वसुं॑ घ॒र्मं दिव॒मा रो॑ह॒तानु॑ ॥४॥ यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं गच्छ । स्वां योनिं॑ गच्छ॒ स्वाहा॑ ॥५॥ ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाकः । सु॒वीर्यः॒ स्वाहा॑ ॥६॥ वष॑ड् ढु॒तेभ्यो॒ वष॒डहु॑तेभ्यः । देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त ॥७॥ मन॑सस्पत इ॒मं नो॑ दि॒वि दे॒वेषु॑ य॒ज्ञम्। स्वाहा॑ दि॒वि स्वाहा॑ पृथि॒व्यां स्वाहा॒न्तरि॑क्षे॒ स्वाहा॒ वाते॑ धां॒ स्वाहा॑ ॥८॥
हविः। १ अथर्वा। इन्द्रः, विश्वे देवाः। विराट् त्रिष्टुप्। सं ब॒र्हिर॒क्तं ह॒विषा॑ घृ॒तेन॒ समिन्द्रे॑ण॒ वसु॑ना॒ सं म॒रुद्भिः॑ । सं दे॒वैर्वि॒श्वदे॑वेभिर॒क्तमिन्द्रं॑ गच्छतु ह॒विः स्वाहा॑ ॥१॥
वेदी। १ अथर्वा। वेदी। भुरिक् त्रिष्टुप्। परि॑ स्तृणीहि॒ परि॑ धेहि॒ वेदिं॒ मा जा॒मिं मो॑षीरमु॒या शया॑नाम्। हो॒तृ॒षद॑नं हरि॑तं हिर॒ण्ययं॑ नि॒ष्का ए॒ते यज॑मानस्य लो॒के॥१॥
दुःष्वप्ननाशनम्। १ यमः। दुःष्वप्ननाशनम्। अनुष्टुप्। प॒र्याव॑र्ते दु॒ष्वप्न्या॑त् पा॒पात् स्वप्न्या॒दभू॑त्याः । ब्रह्मा॒हमन्त॑रं कृण्वे॒ परा॒ स्वप्न॑मुखाः॒ शुचः॑ ॥१॥
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is Kaanda 7 of the Atharva Veda?
Kaanda 7 of the Atharvaveda (Shaunaka) — shorter hymns for healing, protection, long life and well-being. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
What is the Atharva Veda?
The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
Offer a Vedic paath or seva in your name
Have a Vedic paath, havan or seva performed in your naam-gotra for peace and blessings. Book a seva, or read on in Sanatan Sahitya.








