About Kaanda 6
Kaanda 6 of the Atharvaveda (Shaunaka) — shorter hymns for healing, protection, long life and well-being. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
How it is read
Kaanda 6 is given below in its original Sanskrit, in accented Devanagari. The Veda is preserved as shruti and recited in svadhyaya; read it reverently, sukta by sukta.
Original Text
The Verses
अमृतप्रदाता १-३ अथर्वा। सविता। उष्णिक्, १ त्रिपदा पिपिलिकमध्या साम्नी जगती, २-३ पिपीलिकमध्या पुरउष्णिक्। दो॒षो गा॑य बृ॒हद् गा॑य द्यु॒मद् धे॑हि । आथ॑र्वण स्तु॒हि दे॒वं स॑वि॒तार॑म्॥१॥ तमु॑ ष्टुहि॒ यो अ॒न्तः सिन्धौ॑ सू॒नुः । स॒त्यस्य॒ युवा॑न॒मद्रो॑घवाचं सु॒शेव॑म्॥२॥ स घा॑ नो दे॒वः स॑वि॒ता सा॑विषद॒मृता॑नि॒ भूरि॑ । उ॒भे सु॑ष्टुती सु॒गात॑वे ॥३॥
आत्मगोपनम्। १-३ अथर्वा। सोमः, वनस्पतिः। परोष्णिक्। इन्द्रा॑य॒ सोम॑मृत्विजः सु॒नोता च॑ धावत । स्तो॒तुर्यो वचः॑ शृ॒णव॒द्धवं॑ च मे ॥१॥ आ यं वि॒शन्तीन्द॑वो॒ वयो॒ न वृ॒क्षमन्ध॑सः । विर॑प्शि॒न् विमृधो॑ जहि रक्ष॒स्विनीः॑ ॥२॥ सु॒नोता॑ सोम॒पाव्ने॑ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ । युवा॒ जेतेशा॑नः॒ स पु॑रुष्टु॒तः ॥३॥
आत्मगोपनम्। १-३ अथर्वा। १ इन्द्रपूषणौ, अदितिः, मरुतः, अपां नपात्, सिन्धवः, विष्णुः, द्यौः,२ द्यावापृथिवी, ग्रावा, सोमः, सरस्वती, अग्निः,३ अश्विनौ, उषासानक्ता, अपां नपात्, त्वष्टा। जगती, पथ्याबृहती। पा॒तं न॑ इन्द्रापूष॒णादि॑तिः॒ पान्तु॑ म॒रुतः॑ । अपां॑ नपात् सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ॥१॥ पा॒तां नो॒ द्यावा॑पृथि॒वी अ॒भिष्ट॑ये॒ पातु॒ ग्रावा॒ पातु॒ सोमो॑ नो॒ अंह॑सः । पातु॑ नो दे॒वी सु॒भगा॒ सर॑स्वती॒ पात्व॒ग्निः शि॒वा ये अ॑स्य पा॒यवः॑ ॥२॥ पा॒तां नो॑ दे॒वाश्विना॑ शु॒भस्पती॑ उ॒षासा॒नक्तो॒त न॑ उरुष्यताम्। अपां॑ नपा॒दभिह्रुती॒ गय॑स्य चि॒द देव॑ त्वष्टर्व॒र्ध॑य॑ स॒र्वता॑तये ॥
१-३ अथर्वा। १ त्वष्टा, पर्जन्यः, ब्रह्मणस्पतिः, अदितिः, २ अंशः, भगः, वरुणः, मित्रः, अर्यमा, अदितिः, मरुतः,३ अश्विनौ, द्यौष्पिता। पथ्याबृहती, २ संस्तारपङ्क्तिः, ३ त्रिपदा विराड्गायत्री। त्वष्टा॑ मे॒ दैव्यं॒ वचः॑ प॒र्जन्यो॒ ब्रह्म॑ण॒स्पतिः॑ । पु॒त्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नु पा॑तु नो दु॒ष्टरं॒ त्राय॑माणं॒ सहः॑ ॥१॥ अंशो॒ भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मादि॑तिः॒ पान्तु॑ म॒रुतः॑ । अप॒ तस्य॒ द्वेषो॑ गमेदभि॒ह्रुतो॑ यावय॒च्छत्रु॒मन्ति॑तम्॥२॥ धि॒ये सम॑श्विना॒ प्राव॑तं न उरु॒ष्या ण॑ उरुज्म॒न्नप्र॑युछन्। द्यौ॒३ष्पित॑र्या॒वय॑ दु॒च्छुना॒ या॥३॥
वर्चः प्राप्तिः १-३ अथर्वा। १ अग्निः, २ इन्द्रः, ३ अग्निः, सोमः, ब्रह्मणस्पतिः। अनुष्टुप्, २ भुरिक्। उदे॑नमुत्त॒रं न॒याग्ने॑ घृ॒तेना॑हुत । समे॑नं॒ वर्च॑सा सृज प्र॒जया॑ च ब॒हुं कृ॑धि ॥१॥ इन्द्रे॒मं प्र॑त॒रं कृ॑धि सजा॒ताना॑मसद् व॒शी। रा॒यस्पोषे॑ण॒ सं सृ॑ज जी॒वात॑वे ज॒रसे॑ नय ॥२॥ यस्य॑ कृ॒ण्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम्। तस्मै॒ सोमो॒ अधि॑ ब्रवद॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥३॥
शत्रुनाशनम्। १-३ अथर्वा। १ ब्रह्मणस्पतिः, २-३ सोमः। अनुष्टुप्। यो॒३स्मा॑न् ब्र॑ह्मणस्प॒तेऽदे॑वो अभि॒मन्य॑ते । सर्वं॒ तं र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते॑॥१॥ यो नः॑ सोम सुशं॒सिनो॑ दुः॒शंस॑ आ॒दिदे॑शति । वज्रे॑णास्य॒ मुखे॑ जहि॒ स संपि॑ष्टो॒ अपा॑यति ॥२॥ यो नः॑ सोमाभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्यः॑ । अप॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौर्व॑ध॒त्मना॑ ॥३॥
असुरक्षयणम्। १-३ अथर्वा। सोमः, अदितिः, ३ देवाः। गायत्री, १ निचृत्। येन॑ सो॒मादि॑तिः प॒था मि॒त्रा वा॒ यन्त्य॒द्रुहः॑ । तेना॒ नोऽव॒सा ग॑हि ॥१॥ येन॑ सोम साह॒न्त्यासु॑रान् र॒न्धया॑सि नः । तेना॑ नो॒ अधि॑ वोचत ॥२॥ येन॑ देवा॒ असु॑राणा॒मोजां॒स्यवृ॑णीध्वम्। तेना॑ नः॒ शर्म॑ यच्छत ॥३॥
कामात्मा १-३ जमदग्निः। कामात्मा, २ सुपर्णः, ३ द्यावापृथिवी, सूर्यः। पथ्यापङ्क्तिः। यथा॑ वृ॒क्षं लिबु॑जा सम॒न्तं प॑रिषस्व॒जे। ए॒वा परि॑ ष्वजस्व॒ मां यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥१॥ यथा॑ सुप॒र्णः प्र॒पत॑न् प॒क्षौ नि॒हन्ति॒ भूम्या॑म्। ए॒वा नि ह॑न्मि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥२॥ यथे॒मे द्यावा॑पृथि॒वी स॒द्यः प॒र्येति॒ सूर्यः॑ । ए॒वा पर्ये॑मि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥३॥
कामात्मा १-३ जमदग्निः। कामात्मा, ३ गावः। अनुष्टुप्। वाञ्छ॑ मे त॒न्वं॑१ पादौ॒ वाञ्छा॒क्ष्यौ॒३वाञ्छ॑ स॒क्थ्यौऽ। अ॒क्ष्यौऽ वृष॒ण्यन्त्याः॒ केशा॒ मां ते॑ कामे॑न शुष्यन्तु ॥१॥ मम॑ त्वा दोषणि॒श्रिषं॑ कृ॒णोमि॑ हृदय॒श्रिष॑म्। यथा॒ मम॒ क्रता॒वसो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥२॥ यासां॒ नाभि॑रा॒रेह॑णं हृ॒दि सं॒वन॑नं कृ॒तम् । गावो॑ घृ॒तस्य॑ मा॒तरो॒ ऽमूं सं वा॑नयन्तु मे ॥३॥
संप्रोक्षणम्। १-३ शन्तातिः। १ पृथिवि, श्रोत्रं, वनस्पतिः, अग्निः, २ प्राणः, अन्तरिक्षं, वयः, वायुः, ३ द्यौः, चक्षुः, नक्षत्राणि, सूर्यः। द्वैपदम्, १ साम्नी त्रिष्टुप्, २ प्राजापत्या बृहती, ३ साम्नी बृहती। पृ॒थि॒व्यै श्रोत्रा॑य॒ वन॒स्पति॑भ्यो॒ऽग्नयेऽधि॑पतये॒ स्वाहा॑ ॥१॥ प्रा॒णाया॒न्तरि॑क्षाय॒ वयो॑भ्यो वा॒यवेऽधि॑पतये॒ स्वाहा॑ ॥२॥ दि॒वे चक्षु॑षे॒ नक्ष॑त्रेभ्यः॒ सूर्या॒याधि॑पतये॒ स्वाहा॑ ॥३॥
पुंसवनम्। १-३ प्रजापतिः। रेतः, ३ प्रजापतिः, अनुमतिः, सिनीवाली। अनुष्टुप्। श॒मीम॑श्व॒त्थ आरू॑ढ॒स्तत्र॑ पुं॒सु॑व॑नं कृ॒तम्। तद् वै पु॒त्रस्य॒ वेद॑नं॒ तत् स्त्री॒ष्वा भ॑रामसि ॥१॥ पुं॒सि वै रेतो॑ भवति॒ तत् स्त्रि॒यामनु॑ षिच्यते । तद् वै पु॒त्रस्य॒ वेद॑नं॒ तत् प्र॒जाप॑तिरब्रवीत्॥२॥ प्र॒जाप॑ति॒रनु॑मतिः सिनीवा॒ल्यऽचीक्लृपत्। स्त्रषू॑यम॒न्यत्र॒ दध॒त् पुंमां॑समु दधदि॒ह॥३॥
सर्प-विष-निवारणम्। १-३ गरुत्मान्। तक्षकः। अनुष्टुप्। परि॒ द्यामि॑व॒ सूर्योऽही॑नां॒ जनि॑मागमम्। रात्री॒ जग॑दिवा॒न्यद्धं॒सात् तेना॑ ते वारये वि॒षम्॥१॥ यद् ब्र॒ह्मभि॒र्यदृषि॑भि॒र्यद् दे॒वैर्वि॑दि॒तं पु॒रा। यद् भू॒तं भव्य॑मास॒न्वत् तेना॑ ते वारये वि॒षम्॥२॥ मध्वा॑ पृञ्चे न॒द्यः॑१ पर्व॑ता गि॒रयो॒ मधु॑ । मधु॒ परु॑ष्णी॒ शीपा॑ला॒ शमा॒स्ने अ॑स्तु॒ शं हृ॒दे॥३॥
मृत्युजयः। १-३ अथर्वा। (स्वस्त्ययनकामः)। मृत्युः। अनुष्टुप्। नमो॑ देवव॒धेभ्यो॒ नमो॑ राजव॒धेभ्यः॑ । अथो॒ ये विश्या॑नां व॒धास्तेभ्यो॑ मृत्यो॒ नमो॑ऽस्तु ते ॥१॥ नम॑स्ते अधिवा॒काय॑ परावा॒काय॑ ते॒ नमः॑ । सु॒म॒त्यै मृ॑त्यो ते॒ नमो॑ दुर्म॒त्यै त॑ इ॒दं नमः॑ ॥२॥ नम॑स्ते यातु॒धाने॑भ्यो॒ नम॑स्ते भेष॒जेभ्यः॑ । नम॑स्ते मृत्यो॒ मूले॑भ्यो ब्राह्म॒णेभ्य॑ इ॒दं नमः॑ ॥३॥
बलासनाशनम्। १-३ बभ्रुपिङ्गलः। बलासः। अनुष्टुप्। अ॒स्थि॒स्रं॒सं प॑रुस्रं॒समास्थि॑तं हृदयाम॒यम्। ब॒लासं॒ सर्वं॑ नाशयाङ्गे॒ष्ठा यश्च॒ पर्व॑सु ॥१॥ निर्ब॒लासं॑ बला॒सिनः॑ क्षि॒णोमि॑ मुष्क॒रं य॑था । छि॒नद्म्य॑स्य॒ बन्ध॑नं॒ मूल॑मुर्वा॒र्वा इ॑व ॥२॥ निर्ब॑लासे॒तः प्र प॑ताशु॒ङ्गः शि॑शु॒को य॑था । अथो॒ इट॑ इव हाय॒नोप॑ द्रा॒ह्यवी॑रहा ॥३॥
शत्रुनिवारणम्। १-३ उद्दालकः। वनस्पतिः। अनुष्टुप्। उ॒त्त॒मो अ॒स्योष॑धीनां॒ तव॑ वृ॒क्षा उ॑प॒स्तयः॑ । उ॒प॒स्तिर॑स्तु सो॒३स्माकं॒ यो अ॒स्मां अ॑भि॒दास॑ति ॥१॥ सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्मां अ॑भि॒दास॑ति । तेषां॒ सा वृ॒क्षाणा॑मिवा॒हं भू॑यासमुत्त॒मः ॥२॥ यथा॒ सोम॒ ओष॑धीनामुत्त॒मो ह॒विषां॑ कृ॒तः । त॒लाशा॑ वृ॒क्षाणा॑मिवा॒हं भू॑यासमुत्त॒मः ॥३॥
अक्षिरोगभैषजम्। १-४ शौनकः। चन्द्रमाः, मन्त्रोक्तदेवताः, अनुष्टुप्, १ निचृत्त्रिपदा गायत्री, ३ बृहतीगर्भा ककुम्मत्यनुष्टुप्, ४ त्रिपदा प्रतिष्ठा। आब॑यो॒ अना॑बयो॒ रस॑स्त उ॒ग्र आ॑बयो । आ ते॑ कर॒म्भम॑द्मसि ॥१॥ वि॒हह्लो॒ नाम॑ ते पि॒ता म॒दाव॑ती॒ नाम॑ ते मा॒ता। स हि॑न॒ त्वम॑सि॒ यस्त्वमा॒त्मान॒माव॑यः ॥२॥ तौवि॑लि॒केऽवे॑ल॒यावा॒यमै॑ल॒ब ऐ॑लयीत्। ब॒भ्रुश्च॑ ब॒भ्रुक॑र्ण॒श्चापे॑हि॒ निरा॑ल ॥३॥ अ॒ल॒साला॑सि॒ पूर्व॑ सि॒लाञ्जा॑ला॒स्युत्त॑रा । नी॒ला॒ग॒ल॒साला॑ ॥४॥
गर्भदृंहणम्। १-४ अथर्वा। गर्भदृंहणम्, पृथिवि। अनुष्टुप्। यथे॒यं पृ॑थि॒वी म॒ही भू॒तानां॒ गर्भ॑माद॒धे। ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ॥१॥ यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान् वन॒स्पती॑न्। ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ॥२॥ यथे॒यं पृ॑थि॒वी म॒ही दा॒धार॒ पर्व॑तान् गि॒रीन्। ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ॥३॥ यथे॒यं पृ॑थि॒वी म॒ही दा॒धार॒ विष्ठि॑तं॒ जग॑त्। ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ॥४॥
ईर्ष्याविनाशनम्। १-३ अथर्वा। ईर्ष्याविनाशनम्। अनुष्टुप्। ई॒र्ष्याया॒ ध्राजिं॑ प्रथ॒मां प्र॑थ॒मस्या॑ उ॒ताप॑राम्। अ॒ग्निं हृ॑द॒य्यं॑१ शोकं॒ तं ते॒ निर्वा॑पयामसि ॥१॥ यथा॒ भूमि॑र्मृ॒तम॑ना मृ॒तान्मृ॒तम॑नस्तरा । यथो॒त म॒म्रुषो॒ मन॑ ए॒वेर्ष्योर्मृ॒तं मनः॑ ॥२॥ अ॒दो यत् ते हृ॒दि श्रि॒तं म॑न॒स्कं प॑तयिष्णु॒कम्। तत॑स्त ई॒र्ष्यां मु॑ञ्चामि॒ निरू॒ष्माणं॒ दृते॑रिव ॥३॥
पावमानम्। १-३ शन्तातिः। चन्द्रमाः, १ देवजनाः, मनवः विश्वा भूतानि, पवमानः, २ पवमानः, ३ सविता। गायत्री, १ अनुष्टुप्। पु॒नन्तु॑ मा देवज॒नाः पु॒नन्तु॒ मन॑वो धि॒या। पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ पव॑मानः पुनातु मा ॥१॥ पव॑मानः पुनातु मा॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ । अथो॑ अरि॒ष्टता॑तये ॥२॥ उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च । अ॒स्मान् पु॑नीहि॒ चक्ष॑से ॥३॥
यक्ष्मनाशनम्। १-३ भृग्वङ्गिराः। यक्ष्मनाशनम्। १ अतिजगती, २ ककुम्मतीप्रस्तारपङ्क्तिः, ३ सतः पङ्क्तिः। अ॒ग्नेरि॑वास्य॒ दह॑त एति शु॒ष्मिण॑ उ॒तेव॑ म॒त्तो वि॒लप॒न्नपा॑यति । अ॒न्यम॒स्मदि॑च्छतु॒ कं चि॑दव्र॒तस्तपु॑र्वधाय॒ नमो॑ अस्तु त॒क्मने॑ ॥१॥ नमो॑ रु॒द्राय॒ नमो॑ अस्तु त॒क्मने॒ नमो॒ राज्ञे॒ वरु॑णाय॒ त्विषी॑मते । नमो॑ दि॒वे नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ॥२॥ अ॒यं यो अ॑भिशोचयि॒ष्णुर्विश्वा॑ रू॒पाणि॒ हरि॑ता कृ॒णोषि॑ । तस्मै॑ तेऽरु॒णाय॑ ब॒भ्रवे॒ नमः॑ कृणोमि॒ वन्या॑य त॒क्मने॑ ॥३॥
केशवर्धनी औषधिः। १-३ शन्तातिः। चन्द्रमाः। अनुष्टुप्। इ॒मा यास्ति॒स्रः पृ॑थि॒वीस्तासां॑ ह॒ भूमि॑रुत्त॒मा। तासा॒मधि॑ त्व॒चो अ॒हं भे॑ष॒जं समु॑ जग्रभम्॥१॥ श्रेष्ठ॑मसि भेष॒जानां॒ वसि॑ष्ठं॒ वीरु॑धानाम्। सोमो॒ भग॑ इव॒ यामे॑षु॒ दे॒वेषु॒ वरु॑णो॒ यथा॑ ॥२॥ रेव॑ती॒रना॑धृषः सिषा॒सवः॑ सिषासथ । उ॒त स्थ के॑श॒दृंह॑णी॒रथो॑ ह केश॒वर्ध॑नीः ॥३॥
भैषज्यम्। १-३ शन्तातिः। १ आदित्यरश्मिः, २-३ मरुतः। त्रिष्टुप्, २ चतुष्पदा भुरिग्जगती। कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत् प॑तन्ति । त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद् घृ॒तेन॑ पृथि॒वीं व्यूऽदुः ॥१॥ पय॑स्वतीः कृणुथा॒प ओष॑धीः शि॒वा यदेज॑था मरुतो रुक्मवक्षसः । ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वत॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ॥२॥ उ॒द॒प्रुतो॑ म॒रुत॒स्तां इ॑यर्त वृ॒ष्टिर्या विश्वा॑ नि॒वत॑स्पृ॒णाति॑ । एजा॑ति॒ ग्लहा॑ क॒न्येऽव तु॒न्नैरुं॑ तुन्दा॒ना पत्ये॑व जा॒या॥३॥
अपां भैषज्यम्। १-३ शन्तातिः। आपः। १ अनुष्टुप्, २ त्रिपदा गायत्री, ३ परोष्णिक्। स॒स्रुषी॒स्तद॒पसो॒ दिवा॒ नक्तं॑ च स॒स्रुषीः॑ । वरे॑ण्यक्रतुर॒हम॒पो दे॒वीरुप॑ ह्वये ॥१॥ ओता॒ आपः॑ कर्म॒ण्याऽमु॒ञ्चन्त्वि॒तः प्रणी॑तये । स॒द्यः कृ॑ण्व॒न्त्वेत॑वे ॥२॥ दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्तु॒ मानु॑षाः । शं नो॑ भवन्त्व॒प ओष॑धीः शि॒वाः ॥३॥
अपां भैषज्यम्। १-३ शन्तातिः। आपः। अनुष्टुप्। हि॒मव॑तः॒ प्र स्र॑वन्ति॒ सिन्धौ॑ समह सङ्ग॒मः । आपो॑ ह मह्यं॒ तद् दे॒वीर्दद॑न् हृद्द्योतभेष॒जम्॥१॥ यन्मे॑ अ॒क्ष्योरा॑दि॒द्योत॒ पार्ष्ण्योः॒ प्रप॑दोश्च॒ यत्। आप॒स्तत् सर्वं॒ निष्क॑रन् भि॒षजां॒ सुभि॑षक्तमाः ॥२॥ सिन्धु॑पत्नीः॒ सिन्धु॑राज्ञीः॒ सर्वा॒ या न॒द्य॑१स्थन॑ । द॒त्त न॒स्तस्य॑ भेष॒जं तेना॑ वो भुनजामहै ॥३॥
मन्याविनाशनम् १-३ शुनःशेपः। मन्याविनाशनम्। अनुष्टुप्। पञ्च॑ च॒ याः प॑ञ्चा॒शच्च॑ सं॒यन्ति॒ मन्या॑ अ॒भि। इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ॥१॥ स॒प्त च॒ याः स॑प्त॒तिश्च॑ सं॒यन्ति॒ ग्रैव्या॑ अ॒भि। इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ॥२॥ नव॑ च॒ या न॑व॒तिश्च॑ सं॒यन्ति॒ स्कन्ध्या॑ अ॒भि। इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ॥३॥
पाप्मनाशनम्। १-३ ब्रह्म। पाप्मा। अनुष्टुप्। अव॑ मा पाप्मन्त्सृज व॒शी सन् मृ॑डयासि नः । आ मा॑ भ॒द्रस्य॑ लो॒के पा॑प्मन् धे॒ह्यवि॑ह्रुतम्॥१॥ यो नः॑ पाप्म॒न् न जहा॑सि॒ तमु॑ त्वा जहिमो व॒यम्। प॒थामनु॑ व्या॒वर्त॑ने॒ऽन्यं पा॒प्मानु॑ पद्यताम्॥२॥ अ॒न्यत्रा॒स्मन्न्युऽच्यतु सहस्रा॒क्षो अम॑र्त्यः । यं द्वेषा॑म॒ तमृ॑च्छतु॒ यमु॑ द्वि॒ष्मस्तमिज्ज॑हि ॥३॥
अरिष्टक्षयणम्। १-३ भृगुः। यमः, निर्ऋतिः। जगती, २ त्रिष्टुप्। देवाः॑ क॒पोत॑ इषि॒तो यदि॒छन् दू॒तो निरृ॑त्या इ॒दमा॑ज॒गाम॑ । तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥१॥ शि॒वः क॒पोत॒ इषि॒तो नो॑ अस्त्वना॒गा दे॑वाः शकु॒नो गृ॒हं नः॑ । अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥२॥ हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्री प॒दं कृ॑णुते अग्नि॒धाने॑ । शि॒वो गोभ्य॑ उ॒त पुरु॑षेभ्यो नो अस्तु॒ मा नो॑ देवा इ॒ह हिं॑सीत् क॒पोतः॑ ॥३॥
अरिष्टक्षयणम्। १-३ भृगुः। यमः, निर्ऋतिः। १ त्रिष्टुप्, २ अनुष्टुप्, ३ जगती। ऋ॒चा क॒पोतं॑ नुदत प्र॒णोद॒मिषं॒ मद॑न्तः॒ परि॒ गां न॑यामः । सं॒लो॒भय॑न्तो दुरि॒ता प॒दानि॑ हि॒त्वा न॒ ऊर्जं॒ प्र प॑दा॒त् पथि॑ष्ठः ॥१॥ परी॒मे॒३ग्निम॑र्षत॒ परी॒मे गाम॑नेषत । दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ आ द॑धर्षति ॥२॥ यः प्र॑थ॒मः प्र॒वत॑मास॒साद॑ ब॒हुभ्यः॒ पन्था॑मनुपस्पशा॒नः । यो॒३स्येशे॑ द्वि॒पदो॒ यश्चतु॑ष्पद॒स्तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥३॥
अरिष्टक्षयणम्। १-३ भृगुः। यमः, निर्ऋतिः। (बृहती) १-२ विराण्नाम गायत्री, ३ त्र्यवसाना सप्तपदा विराडष्टिः। अ॒मून् हे॒तिः प॑त॒त्रिणी॒ न्येऽतु॒ यदुलू॑को॒ वद॑ति मो॒घमे॒तत्। यद् वा॑ क॒पोत॑ प॒दम॒ग्नौ कृ॒णोति॑ ॥१॥ यौ ते॑ दू॒तौ नि॑रृत इ॒दमे॒तोऽप्र॑हितौ॒ प्रहि॑तौ वा गृ॒हं नः॑ । क॒पो॒तो॒लू॒काभ्या॒मप॑दं॒ तद॑स्तु ॥२॥ अ॒वै॒र॒ह॒त्याये॒दमा प॑पत्यात् सुवी॒रता॑या इ॒दमा स॑सद्यात्। परा॑ङे॒व परा॑ वद॒ परा॑ची॒मनु॑ सं॒वत॑म्। यथा॑ य॒मस्य॑ त्वा गृ॒हेऽर॒सं प्र॑ति॒चाक॑शाना॒भूकं॑ प्रति॒चाक॑शान्॥३॥
पापशमनम्। १-३ उपरिबभ्रवः। शमी। जगती, २ त्रिष्टुप्, ३ चतुष्पाच्छंकुमत्यनुष्टुप्। दे॒वा इ॒मं मधु॑ना॒ संयु॑तं॒ यवं॒ सर॑स्वत्या॒मधि॑ म॒णाव॑चर्कृषुः । इन्द्र॑ आसी॒त् सीर॑पतिः श॒तक्र॑तुः की॒नाशा॑ आसन् म॒रुतः॑ सु॒दान॑वः ॥१॥ यस्ते॒ मदो॑ऽवके॒शो वि॑के॒शो येना॑भि॒हस्यं॒ पुरु॑षं कृ॒णोषि॑ । आ॒रात् त्वद॒न्या वना॑नि वृक्षि॒ त्वं श॑मि श॒तव॑ल्शा॒ वि रो॑ह ॥२॥ बृह॑त्पलाशे॒ सुभ॑गे॒ वर्ष॑वृद्ध॒ ऋता॑वरि । मा॒तेव॑ पु॒त्रेभ्यो॑ मृड॒ केशे॑भ्यः शमि ॥३॥
गौः। १-३ उपरिबभ्रवः। गौः। गायत्री। आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्वः ॥१॥ अ॒न्तश्च॑रति रोच॒ना अ॒स्य प्रा॒णाद॑पान॒तः । व्यऽख्यन्महि॒षः स्वः ॥२॥ त्रिं॒शद् धामा॒ वि रा॑जति॒ वाक् प॑त॒ङ्गो अ॑शिश्रियत्। प्रति॒ वस्तो॒रह॒र्द्युभिः॑ ॥३॥
यातुधानक्षयणम्। (१-३) १-२ चातनः, ३ अथर्वा। १ अग्निः, २ रुद्रः, ३ मित्रावरुणौ। त्रिष्टुप्, २ प्रस्तारपङ्क्तिः। अ॒न्त॒र्दा॒वे जु॑हुता॒ स्वे॒३तद् या॑तुधान॒क्षय॑णं घृ॒तेन॑ । आ॒राद् रक्षां॑सि॒ प्रति॑ दह॒ त्वम॑ग्ने॒ न नो॑ गृ॒हाणा॒मुप॑ तीतपासि ॥१॥ रु॒द्रो वो॑ ग्री॒वा अश॑रैत् पिशाचाः पृ॒ष्टीर्वोऽपि॑ शृणातु यातुधानाः । वी॒रुद् वो॑ वि॒श्वतो॑वीर्या य॒मेन॒ सम॑जीगमत्॥२॥ अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑ । मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम्॥३॥ <
इन्द्रस्तवः। १-३ जाटिकायनः। इन्द्रः। गायत्री, २ अनुष्टुप्। यस्ये॒दमा रजो॒ युज॑स्तु॒जे जना॒ वनं॒ स्वः । इन्द्र॑स्य॒ रन्त्यं॑ बृ॒हत्॥१॥ नाधृ॑ष॒ आ द॑धृषते धृषा॒णो धृ॑षि॒तः शवः॑ । पु॒रा यथा॑ व्य॒थिः श्रव॒ इन्द्र॑स्य॒ नाधृ॑षे॒ शवः॑ ॥२॥ स नो॑ ददातु॒ तां र॒यिमु॒रुं पि॒शङ्ग॑संदृशम्। इन्द्रः॒ पति॑स्तु॒विष्ट॑मो॒ जने॒ष्वा॥३॥
शत्रुनाशनम्। १-५ चातनः। अग्निः। गायत्री। प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम्। स नः॑ पर्ष॒दति॒ द्विषः॑ ॥१॥ यो रक्षां॑सि नि॒जूर्व॑त्य॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥२॥ यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥३॥ यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥४॥ यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत । स नः॑ पर्ष॒दति॒ द्विषः॑ ॥५॥
वैश्वानरः। १-३ कौशिकः। वैश्वानरः। गायत्री। वै॒श्वा॒न॒रो न॑ ऊ॒तय॒ आ प्र या॑तु परा॒वतः॑ । अ॒ग्निर्नः॑ सुष्टु॒तीरुप॑ ॥१॥ वै॒श्वा॒न॒रो न आग॑मदि॒मं य॒ज्ञं स॒जूरुप॑ । अ॒ग्निरु॒क्थेष्वंह॑सु ॥२॥ वै॒श्वा॒न॒रोऽङ्गि॑रसां॒ स्तोम॑मु॒क्थं च॑ चाक्लृपत्। ऐषु॑ द्यु॒म्नं स्वऽर्यमत्॥३॥
वैश्वानरः। १-३ अथर्वा (स्वस्त्ययनकामः)। अग्निः। गायत्री। वऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म्। अज॑स्रं घ॒र्ममी॑महे ॥१॥ स विश्वा॑ प्रति॑ चाक्लृप ऋ॒तूंरुत् सृ॑जते व॒शी। य॒ज्ञस्य॒ वय॑ उत्ति॒रन्॥२॥ अ॒ग्निः परे॑षु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य । स॒म्राडेको॒ वि रा॑जति ॥३॥
शापनाशनम्। १-३ अथर्वा (स्वस्त्ययनकामः)। चन्द्रमाः। अनुष्टुप्। उप॒ प्रागा॑त् सहस्रा॒क्षो यु॒क्त्वा श॒पथो॒ रथ॑म्। श॒प्तार॑मन्वि॒छन् मम॒ वृक॑ इ॒वावि॑मतो गृ॒हम्॥१॥ परि॑ णो वृङ्ग्धि शपथ ह्र॒दम॒ग्निरि॑वा॒ दह॑न्। श॒प्तार॒मत्र॑ नो जहि दि॒वो वृ॒क्षमि॑वा॒शनिः॑ ॥२॥ यो नः॒ शपा॒दश॑पतः॒ शप॑तो॒ यश्च॑ नः॒ शपा॑त्। शुने॑ पेष्ट्र॑मि॒वाव॑क्षामं॒ तं प्रत्य॑स्यामि मृ॒त्यवे॑ ॥३॥
वर्चस्यम्। १-४ अथर्वा (वर्चस्कामः)। त्विषिः। (बृहस्पतिः)। त्रिष्टुप्। सिं॒हे व्या॒घ्र उ॒त या पृदा॑कौ॒ त्विषि॑र॒ग्नौ ब्रा॑ह्म॒णे सूर्ये॒ या। इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ ऐतु॒ वर्च॑सा संविदा॒ना॥१॥ या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये॒ त्विषि॑र॒प्सु गोषु॒ या पुरु॑षेषु । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ ऐतु॒ वर्च॑सा संविदा॒ना॥२॥ रथे॑ अ॒क्षेष्वृ॑ष॒भस्य॒ वाजे॒ वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे॑ । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ ऐतु॒ वर्च॑सा संविदा॒ना॥३॥ रा॒ज॒न्येऽदुन्दु॒भावाय॑ताया॒मश्व॑स्य॒ वाजे॒ पुरु॑षस्य मा॒यौ। इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ ऐतु॒ वर्च॑सा संविदा॒ना॥४॥
वर्चस्यम्। १-३ अथर्वा (वर्चस्कामः)। (बृहस्पतिः), २ इन्द्रः, ३ इन्द्रः, अग्निः, सोमः,। १ जगती, २ त्रिष्टुप्, ३ अनुष्टुप्। यशो॑ ह॒विर्व॑र्धता॒मिन्द्र॑जूतं स॒हस्र॑वीर्यं॒ सुभृ॑तं॒ सह॑स्कृतम्। प्र॒सर्स्रा॑ण॒मनु॑ दी॒र्घाय॒ चक्ष॑से ह॒विष्म॑न्तं मा वर्धय ज्ये॒ष्ठता॑तये ॥१॥ अच्छा॑ न॒ इन्द्रं॑ य॒शसं॒ यशो॑भिर्यश॒स्विनं॑ नमसा॒ना वि॑धेम । स नो॑ रास्व रा॒ष्ट्रमिन्द्र॑जूतं॒ तस्य॑ ते रा॒तौ य॒शसः॑ स्याम ॥२॥ य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत । य॒शा विश्व॑स्य भू॒तस्या॒हम॑स्मि य॒शस्त॑मः ॥३॥
अभयम्। १-३ अथर्वा। १ द्यावापृथिवी, सोमः, सविता, अन्तरिक्षं, सप्तऋषयः, २ सविता इन्द्रः, ३ इन्द्रः। १-२ जगती, ३ अनुष्टुप्। अभ॑यं द्यावापृथिवी इ॒हास्तु॒ नोऽभ॑यं॒ सोमः॑ सवि॒ता नः॑ कृणोतु । अभ॑यं नोऽस्तू॒र्व॑१न्तरि॑क्षं सप्तऋषी॒णां च॑ ह॒विषाभ॑यं नो अस्तु ॥१॥ अ॒स्मै ग्रामा॑य प्र॒दिश॒श्चत॑स्र॒ ऊर्जं॑ सुभू॒तं स्व॒स्ति स॑वि॒ता नः॑ कृणोतु । अ॒श॒त्र्विन्द्रो॒ अभ॑यं नः कृणोत्व॒न्यत्र॒ राज्ञा॑म॒भि या॑तु म॒न्युः ॥२॥ अ॒न॒मि॒त्रं नो॑ अध॒राद॑नमि॒त्रं न॑ उत्त॒रात्। इन्द्रा॑नमि॒त्रं नः॑ प॒श्चाद॑नमि॒त्रं पु॒रस्कृ॑धि ॥३॥
दीर्घायुःप्राप्तिः। १-३ ब्रह्म।१ चन्द्रमाः, २ सरस्वती, ३ दैव्या ऋषयः। १ भुरिक्, २ अनुष्टुप्, ३ त्रिष्टुप्। मन॑से॒ चेत॑से धि॒य आकू॑तय उ॒त चित्त॑ये । म॒त्यै श्रु॒ताय॒ चक्ष॑से वि॒धेम॑ ह॒विषा॑ व॒यम्॥१॥ अ॒पा॒नाय॑ व्या॒नाय॑ प्रा॒णाय॒ भूरि॑धायसे । सर॑स्वत्या उरु॒व्यचे॑ वि॒धेम॑ ह॒विषा॑ व॒यम्॥२॥ मा नो॑ हासिषु॒र्ऋष॑यो॒ दैव्या॒ ये त॑नू॒पा ये न॑स्त॒न्वऽस्तनू॒जाः । अम॑र्त्या॒ मर्त्यां॑ अ॒भि नः॑ सचध्व॒मायु॑र्धत्त प्रत॒रं जी॒वसे॑ नः ॥३॥
परस्परचित्तैकीकरणम्। १-३ भृग्वङ्गिराः। (परस्परचित्तैकीकरणकामः)। मन्युः। १-२ भुरिक्,३ अनुष्टुप्। अव॒ ज्यामि॑व॒ धन्व॑नो म॒न्युं त॑नोमि ते हृ॒दः । यथा॒ संम॑नसौ भू॒त्वा सखा॑याविव॒ सचा॑वहै ॥१॥ सखा॑याविव सचावहा॒ अव॑ म॒न्युं त॑नोमि ते । अ॒धस्ते॑ अश्म॑नो म॒न्युमुपा॑स्यामसि॒ यो गु॒रुः ॥२॥ अ॒भि ति॑ष्ठामि ते म॒न्युं पार्ष्ण्या॒ प्रप॑देन च । यथा॑व॒शो न वादि॑षो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥३॥
मन्युशमनम्। १-३ भृग्वङ्गिराः (परस्परचित्तैकीकरणकामः)। मन्युशमनम्। अनुष्टुप्। अ॒यं द॒र्भो विम॑न्युकः॒ स्वाय॒ चार॑णाय च । म॒न्योर्विम॑न्युकस्या॒यं म॑न्यु॒शम॑न उच्यते ॥१॥ अ॒यं यो भूरि॑मूलः समु॒द्रम॑व॒तिष्ठ॑ति । द॒र्भः पृ॑थि॒व्या उत्थि॑तो मन्यु॒शम॑न उच्यते ॥२॥ वि ते॑ हन॒व्यां श॒रणिं॒ वि ते॒ मुख्यां॑ नयामसि । यथा॑व॒शो न वादि॑षो॒ मम॑ चि॒त्तमु॒पाय॑सि ॥३॥
रोगनाशनम्। १-३ विश्वामित्रः। वनस्पतिः। अनुष्टुप्, ३ त्रिपदा महाबृहती। अस्था॒द् द्यौरस्था॑त् पृथि॒व्यस्था॒द् विश्व॑मि॒दं जग॑त्। अस्थु॑र्वृ॒क्षा ऊ॒र्ध्वस्व॑प्ना॒स्तिष्ठा॒द् रोगो॑ अ॒यं तव॑ ॥१॥ श॒तं या भे॑ष॒जानि॑ ते स॒हस्रं॒ संग॑तानि च । श्रेष्ठ॑मास्रावभेष॒जं वसि॑ष्ठं रोग॒नाश॑नम्॥२॥ रु॒द्रस्य॒ मूत्र॑मस्य॒मृत॑स्य॒ नाभिः॑ । वि॒षा॒ण॒का नाम॒ वा अ॑सि पितॄ॒णां मूला॒दुत्थि॑ता वातीकृत॒नाश॑नी ॥३॥
दुःष्वप्ननाशनम्। १-३ अङ्गिराः प्रचेता, यमश्च। दुःष्वप्ननाशनम्। १ पथ्यापङ्क्तिः, २ भुरिक् त्रिष्टुप्, ३ अनुष्टुप्। प॒रोऽपे॑हि मनस्पाप॒ किमश॑स्तानि शंससि । परे॑हि॒ न त्वा॑ कामये वृ॒क्षां वना॑नि॒ सं च॑र गृ॒हेषु॑ गोषु॑ मे॒ मनः॑ ॥१॥ अ॒व॒शसा॑ निः॒शसा॒ यत् प॑रा॒शसो॑पारि॒म जाग्र॑तो॒ यत् स्व॒पन्तः॑ । अ॒ग्निर्वि॑श्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद् द॑धातु ॥२॥ यदि॑न्द्र ब्रह्मणस्प॒तेऽपि॒ मृषा॒ चरा॑मसि । प्रचे॑ता न आङ्गिर॒सो दु॑रि॒तात् पा॒त्वंह॑सः ॥३॥
दुःष्वप्ननाशनम्। १-३ अङ्गिराः प्रचेता, यमश्च। दुःष्वप्ननाशनम्।१ विष्टारपङ्क्तिः, २ त्र्यवसाना शक्वरीगर्भा पञ्चपदा जगती, ३ अनुष्टुप्। यो न जी॒वोऽसि॒ न मृ॒तो दे॒वाना॑ममृतग॒र्भोऽसि स्वप्न । व॒रु॒णा॒नी ते॑ मा॒ता य॒मः पि॒तार॑रु॒र्नामा॑सि ॥१॥ वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रोऽसि य॒मस्य॒ कर॑णः । अन्त॑कोऽसि मृ॒त्युर॑सि। तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥२॥ यथा॑ क॒लां यथा॑ श॒फं यथ॒र्णं सं॒नय॑न्ति । ए॒वा दु॒ष्वप्न्यं॒ सर्वं॑ द्विष॒ते सं न॑यामसि ॥३॥
दीर्घायुः प्राप्तिः। १-३ अङ्गिराः प्रचेताः। १ अग्निः, २ विश्वे देवाः, ३ सुधन्वा। त्रिष्टुप्। अ॒ग्निः प्रा॑तःसव॒ने पा॑त्व॒स्मान् वै॑श्वान॒रो वि॑श्व॒कृद् वि॒श्वशं॑भूः । स नः॑ पाव॒को द्रवि॑णे दधा॒त्वायु॑ष्मन्तः सहभ॑क्षाः स्याम ॥१॥ विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन् द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः । आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥२॥ इ॒दं तृ॒तीयं॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त । ते सौ॑धन्व॒नाः स्वऽरानशा॒नाः स्विऽष्टिं नो अ॒भि वस्यो॑ नयन्तु ॥३॥
स्वस्तिवाचनम्। १-३ अङ्गिराः, प्रचेताः। १ श्येनः, २ ऋभुः, ३ वृषा। उष्णिक्। श्ये॒नोऽसि गाय॒त्रच्छन्दा॒ अनु॒ त्वा र॑भे । स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ॥१॥ ऋ॒भुर॑सि॒ जग॑च्छन्दा॒ अनु॒ त्वा र॑भे । स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ॥२॥ वृषा॑सि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वा र॑भे । स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ॥३॥
अग्निस्तवः। १-३ गार्ग्यः। अग्निः। १ अनुष्टुप्, २ जगती, ३ विराड्जगती। न॒हि ते॑ अग्ने त॒न्वः क्रू॒रमा॒नंश॒ मर्त्यः॑ । क॒पिर्ब॑भस्ति॒ तेज॑नं॒ स्वं ज॒रायु॒ गौरि॑व ॥१॥ मे॒ष इ॑व॒ वै सं च॒ वि चो॒र्व॒ऽच्यसे॒ यदु॑त्तर॒द्रावुप॑रश्च॒ खाद॑तः । शी॒र्ष्णा शिरोऽप्स॒साप्सो॑ अ॒र्दय॑न्नं॒शून् ब॑भस्ति॒ हरि॑तेभिरा॒सभिः॑ ॥२॥ सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः । नि यन्नि॒यन्त्युप॑रस्य॒ निष्कृ॑तिं पु॒रू रेतो॑ दधिरे सूर्य॒श्रितः॑ ॥३॥
अभययाचना। १-३ अथर्वा (अभयकामः)। अश्विनौ। १ विराड्जगती, २-३ पथ्यापङ्क्तिः। ह॒तं त॒र्दं स॑म॒ङ्कमा॒खुमश्वि॑ना छि॒न्तं शिरो॒ अपि॑ पृ॒ष्टीः शृ॑णीतम्। यवा॒न्नेददा॒नपि॑ नह्यतं॒ मुख॒मथाभ॑यं कृणुतं धा॒न्याऽय ॥१॥ तर्द॒ है पत॑ङ्ग॒ है जभ्य॒ हा उप॑क्वस । ब्र॒ह्मेवासं॑स्थितं ह॒विरन॑दन्त इ॒मान् यवा॒नहिं॑सन्तो अ॒पोदि॑त ॥२॥ तर्दा॑पते॒ वघा॑पते॒ तृष्ट॑जम्भा॒ आ शृ॑णोत मे । य आ॑र॒ण्या व्यऽद्व॒रा ये के च॒ स्थ व्यऽद्वरास्तान्त्सर्वा॑न् जम्भयामसि ॥३॥
एनोनाशनम्। १-३ शन्तातिः। आपः, ३ वरुणः। १ गायत्री, २ त्रिष्टुप्, ३ जगती। वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ् सोमो॒ अति॑ द्रु॒तः । इन्द्र॑स्य॒ युजः॒ सखा॑ ॥१॥ आपो॑ अ॒स्मान् मा॒तरः॑ सूदयन्तु घृ॒तेन॑ नो घृ॒तप्वः पुनन्तु । विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥२॥ यत् किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒३श्चर॑न्ति । अचि॑त्त्या॒ चेत् तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥३॥
भैषज्यम्। १-३ भागलिः। १ सूर्यः, २ गावः, ३ भेषजम्। अनुष्टुप्। उत् सूर्यो॑ दि॒व ए॑ति पु॒रो रक्षां॑सि नि॒जूर्व॑न्। आ॒दि॒त्यः पर्वतेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा॥१॥ नि गावो॑ गो॒ष्ठे अ॑सद॒न् नि मृ॒गासो॑ अविक्षत । न्यू॒३र्मयो॑ न॒दीनं॒ न्य॑१दृष्टा॑ अलिप्सत ॥२॥ आ॒यु॒र्ददं॑ विप॒श्चितं॑ श्रु॒तां कण्व॑स्य वी॒रुध॑म्। आभा॑रिषं वि॒श्वभे॑षजीम॒स्यादृष्टा॒न् नि श॑मयत्॥३॥
सर्वतो रक्षणम्। १-३ बृहच्छुक्रः। १ द्यौः, पृथिवि, शुक्रः, सोमः, अग्निः, वायुः, सविता, १ भगः, २ वैश्वानरः, ३ त्वष्टा। त्रिष्टुप्, १ जगती। द्यौश्च॑ म इ॒दं पृ॑थि॒वी च॒ प्रचे॑तसौ शु॒क्रो बृ॒हन् दक्षि॑णया पिपर्तु । अनु॑ स्व॒धा चि॑कितां॒ सोमो॑ अ॒ग्निर्वा॒युर्नः॑ पातु सवि॒ता भग॑श्च ॥१॥ पुनः॑ प्रा॒णः पुन॑रा॒त्मा न॒ ऐतु॒ पुन॒श्चक्षुः॒ पुन॒रसु॑र्न॒ ऐतु॑ । वै॒श्वा॒न॒रो नो॒ अद॑ब्धस्तनू॒पा अ॒न्तस्ति॑ष्ठाति दुरि॒तानि॒ विश्वा॑ ॥२॥ सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सं शि॒वेन॑ । त्वष्टा॑ नो॒ अत्र॒ वरी॑यः कृणो॒त्वनु॑ नो मार्ष्टु त॒न्वो॒३यद् विरि॑ष्टम्॥३॥
अमित्रदम्भनम्। १-३ ब्रह्मा। अग्नीषोमौ। अनुष्टुप्। इ॒दं तद् यु॒ज उत्त॑र॒मिन्द्रं॑ शुम्भा॒म्यष्ट॑ये । अ॒स्य क्ष॒त्रं श्रियं॑ म॒हीं वृ॒ष्टिरि॑व वर्धया॒ तृण॑म्॥१॥ अ॒स्मै क्ष॒त्रम॑ग्नीषोमाव॒स्मै धा॑रयतं र॒यिम्। इ॒मं रा॒ष्ट्रस्या॑भीव॒र्गे कृ॑णु॒तं यु॒ज उत्त॑रम्॥२॥ सब॑न्धु॒श्चास॑बन्धुश्च॒ यो अ॒स्मां अ॑भि॒दास॑ति । सर्वं॒ तं र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते॥३॥
सौमनस्यम्। १-३ ब्रह्म। १ विश्वे देवाः, २-३ रुद्रः। जगती, २ त्रिष्टुप्। ये पन्था॑नो ब॒हवो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति । तेषा॒मज्या॑निं यत॒मो वहा॑ति॒ तस्मै॑ मा देवाः॒ परि॑ धत्ते॒ह सर्वे॑ ॥१॥ ग्री॒ष्मो हे॑म॒न्तः शिशि॑रो वस॒न्तः श॒रद् व॒र्षाः स्वि॒ते नो॑ दधात । आ नो॒ गोषु॒ भज॒ता प्र॒जायां॑ निवा॒त इद् वः॑ शर॒णे स्या॑म ॥२॥ इ॒दा॒व॒त्स॒राय॑ परिवत्स॒राय॑ संवत्स॒राय॑ कृणुता बृ॒हन्नमः॑ । तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥३॥
सर्पेभ्यो रक्षणम्। १-३ शन्तातिः। १ विश्वे देवाः, २-३ रुद्रः। १ उष्णिग्गर्भा पथ्यापङ्क्तिः, २ अनुष्टुप्, ३ निचृत्। मा नो॑ देवा॒ अहि॑र्वधी॒त् सतो॑कान्त्स॒हपु॑रुषान्। सम्य॑तं॒ न वि ष्प॑रद् व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑।।१।। नमो॑ऽस्त्वसि॒ताय॒ नम॒स्तिर॑श्चिराजये । स्व॒जाय॑ ब॒भ्रवे॒ नमो॒ नमो॑ देवज॒नेभ्यः॑ ॥२॥ सं ते॑ हन्मि द॒ता द॒तः समु॑ ते॒ हन्वा॒ हनू॑ । सं ते॑ जि॒ह्वया॑ जि॒ह्वां सम्वा॒स्नाह॑ आ॒स्यऽम्॥३॥
जलचिकित्सा। १-३ शन्तातिः। रुद्रः। १-२ अनुष्टुप् ३ पथ्याबृहती। इ॒दमिद् वा उ॑ भेष॒जमि॒दं रु॒द्रस्य॑ भेष॒जम्। येनेषु॒मेक॑तेजनां श॒तश॑ल्यामप॒ब्रव॑त्॥१॥ जा॒ला॒षेणा॒भि षि॑ञ्चत जालाषेणोप॑ सिञ्चत । जा॒ला॒षमु॒ग्रं भे॑ष॒जं तेन॑ नो मृड जी॒वसे॑ ॥२॥ शं च॑ नो॒ मय॑श्च नो॒ मा च॑ नः॒ किं च॒नाम॑मत्। क्ष॒मा रपो॒ विश्वं॑ नो अस्तु भेष॒जं सर्वं॑ नो अस्तु भेष॒जम्॥३॥
यशः प्राप्तिः। १-३ अथर्वा (यशस्कामः)। बृहस्पतिः, १-२ इन्द्रः, द्यावापृथिवि, सविता, ३ अग्निः, इन्द्रः, सोमः। १ जगती, २ प्रस्तारपङ्क्तिः, ३ अनुष्टुप्। य॒शसं॒ मेन्द्रो॑ म॒घवान् कृणोतु य॒शसं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे। य॒शसं॑ मा दे॒वः स॑वि॒ता कृ॑णोतु प्रि॒यो दा॒तुर्दक्षि॑णाया इ॒ह स्या॑म्॥१॥ यथेन्द्रो॒ द्यावा॑पृथि॒व्योर्यश॑स्वा॒न् यथाप॒ ओष॑धीषु॒ यश॑स्वतीः । ए॒वा विश्वे॑षु दे॒वेषु॑ व॒यं सर्वे॑षु य॒शसः॑ स्याम ॥२॥ य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत । य॒शा विश्व॑स्य भू॒तस्या॒हम॑स्मि य॒शस्त॑मः ॥३॥
औषधिः। १-३ अथर्वा। रुद्रः, अरुन्धती औषधिः। अनुष्टुप्। अ॒न॒डुद्भ्य॒स्त्वं प्र॑थ॒मं धे॒नुभ्य॒स्त्वम॑रुन्धति । अधे॑नवे॒ वय॑से॒ शर्म॑ यच्छ॒ चतु॑ष्पदे ॥१॥ शर्म॑ यच्छ॒त्वोष॑धिः स॒ह दे॒वीर॑रुन्ध॒ती। कर॒त् पय॑स्वन्तं गो॒ष्ठम॑य॒क्ष्मां उ॒त पूरु॑षान्॥२॥ वि॒श्वरू॑पां सु॒भगा॑म॒च्छाव॑दामि जीव॒लाम्। सा नो॑ रु॒द्रस्या॒स्तां हे॒तिं दू॒रं न॑यतु॒ गोभ्यः॑ ॥३॥
पतिलाभः। १-३ अथर्वा। अर्यमा। अनुष्टुप्। अ॒यमा या॑त्यर्य॒मा पु॒रस्ता॒द् विषि॑तस्तुपः । अ॒स्या इ॒चछन्न॒ग्रुवै॒ पति॑मु॒त जा॒याम॒जान॑ये ॥१॥ अश्र॑मदि॒यम॑र्यमन्न॒न्यासां॒ सम॑नं य॒ती। अ॒ङ्गो न्वऽर्यमन्न॒स्या अ॒न्याः सम॑न॒माय॑ति ॥२॥ धा॒ता दा॑धार पृथि॒वीं धा॒ता द्यामु॒त सूर्य॑म्। धा॒तास्या अ॒ग्रुवै॒ पतिं॒ दधा॑तु प्रतिका॒म्यऽम्॥३॥
विश्वस्रष्टा। १-३ अथर्वा। रुद्रः। १ त्रिष्टुप्, २-३ भुरिक्। मह्य॒मापो॒ मधु॑म॒देर॑यन्तां॒ मह्यं॒ सूरो॑ अभर॒ज्ज्योति॑षे॒ कम्। मह्यं॑ दे॒वा उ॒त विश्वे॑ तपो॒जा मह्यं॑ दे॒वः स॑वि॒ता व्यचो॑ धात्॥१॥ अ॒हं वि॑वेच पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सा॒कम्। अ॒हं स॒त्यमनृ॑तं॒ यद् वदा॑म्य॒हं दैवीं॒ परि॒ वाचं॒ विश॑श्च ॥२॥ अ॒हं ज॑जान पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सिन्धू॑न्। अ॒हं स॒त्वमनृ॑तं॒ यद् वदा॑मि यो अ॑ग्नीषो॒मावजु॑षे॒ सखा॑या ॥३॥
पावमानम्। १-३ अथर्वा। रुद्रः, वैश्वानरः, वातः, द्यावापृथिवि। त्रिष्टुप्। वै॒श्वा॒न॒रो र॒श्मिभि॑र्नः पुनातु॒ वातः॑ प्रा॒णेने॑षि॒रो नभो॑भिः । द्यावा॑पृथि॒वी पय॑सा॒ पय॑स्वती ऋ॒ताव॑री य॒ज्ञिये॑ न पुनीताम्॥१॥ वै॒श्वा॒न॒रीं सू॒नृता॒मा र॑भध्वं॒ यस्या॒ आशा॑स्त॒न्वोऽवी॒तपृ॑ष्ठाः । तया॑ गृ॒णन्तः॑ सध॒मादे॑षु व॒यं स्या॑म॒ पत॑यो रयी॒नाम्॥२॥ वै॒श्वा॒न॒रीं वर्च॑स॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः । इ॒हेड॑या सध॒मादं॒ मद॑न्तो॒ ज्योक् प॑श्येम॒ सूर्य॑मु॒च्चर॑न्तम्॥३॥
वर्चोबलप्राप्तिः। १-४ द्रुणः। १ निर्ऋतिः, २ यमः, ३ मृत्युः, ४ अग्नि। १-3 जगती, २ अतिजगतीगर्भा, ४ अनुष्टुप्। यत् ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ दाम॑ ग्री॒वास्व॑विमो॒क्यं यत्। तत् ते वि ष्या॒म्यायु॑षे॒ वर्च॑से॒ बला॑यादोम॒दमन्न॑मद्धि॒ प्रसू॑तः ॥१॥ नमो॑ऽस्तु ते निरृते तिग्मतेजोऽय॒स्मया॒न् वि चृ॑ता बन्धपा॒शान्। य॒मो मह्यं॒ पुन॒रित् त्वां द॑दाति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥२॥ अ॒य॒स्मये॑ द्रुप॒दे बे॑धिषे इ॒हाभिहि॑तो मृ॒त्युभि॒र्ये स॒हस्र॑म्। य॒मेन॒ त्वं पि॒तृभिः॑ संविदा॒न उ॑त्त॒मं नाक॒मधि॑ रोहये॒मम्॥३॥ संस॒मिद् यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्यृ आ। इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥४॥
सांमनस्यम्। १-३ अथर्वा। सांमनस्यम्, १ विश्वे देवाः। अनुष्टुप्, (२ त्रिष्टुप्)। सं जा॑नीध्वं॒ सं पृ॑च्यध्वं॒ सं वो॒ मनां॑सि जानताम्। दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥१॥ स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं व्र॒तं स॒ह चि॒त्तमे॑षाम्। स॒मा॒नेन॑ वो ह॒विषा॑ जुहोमि समा॒नं चेतो॑ अभि॒संवि॑शध्वम्॥२॥ स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥३॥
शत्रुनाशनम्। १-३ अथर्वा।(चन्द्रमाः) इन्द्रः, पराशरः। अनुष्टुप्, १ पथ्यापङ्क्तिः। अव॑ म॒न्युरवाय॒ताव॑ बा॒हू म॑नो॒युजा॑ । परा॑शर॒ त्वं तेषां॒ परा॑ञ्चं॒ शुष्म॑मर्द॒याधा॑ नो र॒यिमा कृधि ॥१॥ निर्ह॑स्तेभ्यो नैर्ह॒स्तं यं दे॑वाः॒ शरु॒मस्य॑थ । वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒हम्॥२॥ इन्द्र॑श्चकार प्रथ॒मं नै॑र्ह॒स्तमसु॑रेभ्यः । जय॑न्तु सत्वा॑नो॒ मम॑ स्थि॒रेणेन्द्रे॑ण मे॒दिना॑ ॥३॥
शत्रुनाशनम्। १-३ अथर्वा। इन्द्रः। अनुष्टुप्, १ त्रिष्टुप्। निर्ह॑स्तः शत्रु॑रभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान्। सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्वे॑षामघहा॒रो विवि॑द्धः ॥१॥ आ॒त॒न्वा॒ना आ॒यच्छ॒न्तोऽस्य॑न्तो॒ ये च॒ धाव॑थ । निर्ह॑स्ताः शत्रवः स्थ॒नेन्द्रो॑ वोऽद्य परा॑शरीत्॥२॥ निर्ह॑स्ताः सन्तु॒ शत्र॒वोऽङ्गै॑षां म्लापयामसि । अथै॑षामिन्द्र॒ वेदां॑सि शत॒शो वि भ॑जामहै ॥३॥
शत्रुनाशनम्। १-३ अथर्वा। इन्द्रः। अनुष्टुप्। परि॒ व॑र्त्मा॑नि स॒र्वत॒ इन्द्रः॑ पू॒षा च॑ सस्रतुः । मुह्य॑न्त्व॒द्यामूः सेना॑ अ॒मित्रा॑णां परस्त॒राम्॥१॥ मू॒ढा अ॒मित्रा॑श्चरताशी॒र्षाण॑ इ॒वाहयः॑ । तेषां॑ वो अ॒ग्निमू॑ढाना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम्॥२॥ ऐषु॑ नह्य॒ वृषा॒जिनं॑ हरि॒णस्या॒ भियं॑ कृधि । परा॑ङ॒मित्र॒ एष॑त्व॒र्वाची॒ गौरुपे॑षतु ॥३॥
वपनम्। १-३ अथर्वा। १ सविता, आदित्याः, रुद्राः, वसवः, २ अदितिः, आपः, प्रजापतिः, ३ सविता, सोमः, वरुणः। १ पुरोविराडतिशाक्वरगर्भा चतुष्पदा जगती, २ अनुष्टुप्, ३ अतिजगतीगर्भा त्रिष्टुप्। आयम॑गन्त्सवि॒ता क्षु॒रेणो॒ष्णेन॑ वाय उद॒केनेहि॑ । आ॒दि॒त्या रु॒द्रा वस॑व उन्दन्तु॒ सचे॑तसः॒ सोम॑स्य॒ राज्ञो॑ वपत॒ प्रचे॑तसः ॥१॥ अदि॑तिः॒ श्मश्रु॑ वप॒त्वाप॑ उन्दन्तु॒ वर्च॑सा । चिकि॑त्सतु प्र॒जाप॑तिर्दीर्घायु॒त्वाय॒ चक्ष॑से ॥२॥ येनाव॑पत् सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्। तेन॑ ब्रह्माणो वपते॒दम॒स्य गोमा॒नश्व॑वान॒यम॑स्तु प्र॒जावा॑न्॥३॥
वर्चःप्राप्तिः। १-३ अथर्वा। बृहस्पतिः, अश्विनौ। अनुष्टुप्। गि॒राव॑र॒गरा॑टेषु॒ हिर॑ण्ये॒ गोषु॒ यद् यशः॑ । सुरा॑यां सि॒च्यमा॑नायां की॒लाले॒ मधु॒ तन्मयि॑ ॥१॥ अश्वि॑ना सार॒घेण॑ मा॒ मधु॑नाङ्क्तं शुभस्पती । यथा॒ भर्ग॑स्वतीं॒ वाच॑मा॒वदा॑नि॒ जनाँ॑ अनु॑ ॥२॥ मयि॒ वर्चो॒ अथो॒ यशोऽथो॑ य॒ज्ञस्य॒ यत् पयः॑ । तन्मयि॑ प्र॒जाप॑तिर्दि॒वि द्यामि॑व दृंहतु ॥३॥
अघ्न्याः। १-३ काङ्कायनः। अघ्न्याः। जगती। यथा॑ मां॒सं॑ यथा॒ सुरा॒ यथा॒क्षा अ॑धि॒देव॑ने । यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑ । ए॒वा ते॑ अघ्न्ये॒ मनोऽधि॑ व॒त्से नि ह॑न्यताम्॥१॥ यथा॑ ह॒स्ती ह॑स्ति॒न्याः प॒देन॑ प॒दमु॑द्यु॒जे। यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑ । ए॒वा ते॑ अघ्न्ये॒ मनोऽधि॑ व॒त्से नि ह॑न्यताम्॥२॥ यथा॑ प्र॒धिर्यथो॑प॒धिर्यथा॒ नभ्यं॑ प्र॒धावधि॑ । यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑ । ए॒वा ते॑ अघ्न्ये॒ मनोऽधि॑ व॒त्से नि ह॑न्यताम्॥३॥
अन्नम्। १-३ ब्रह्मा। अग्निः, ३ वैश्वानरः, देवाः। जगती, ३ त्रिष्टुप्। यदन्न॒मद्मि॑ बहु॒धा विरू॑पं॒ हिर॑ण्य॒मश्व॑मु॒त गाम॒जामवि॑म्। यदे॒व किं च॑ प्रतिज॒ग्रहाह॑म॒ग्निष्टद्धोता॒ सुहु॑तं कृनोतु ॥१॥ यन्मा॑ हु॒तमहु॑तमाज॒गाम॑ द॒त्तं पि॒तृभि॒रनु॑मतं मनु॒ष्यैः । यस्मा॑न्मे॒ मन॒ उदि॑व॒ रार॑जीत्य॒ग्निष्टद्धोता॒ सुहु॑तं कृणोतु ॥२॥ यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त सं॑गृ॒णामि॑ । वै॒श्वा॒न॒रस्य॑ मह॒तो म॑हि॒म्ना शि॒वं मह्यं॒ मधु॑मद॒स्त्वन्न॑म्॥३॥
वाजीकरणम्। १-३ अथर्वाङ्गिराः। शेपोऽर्कः। १ जगती, २ अनुष्टुप्, ३ भुरिक्। यथा॑सि॒तः प्र॒थय॑ते॒ वशाँ॒ अनु॒ वपूं॑षि कृ॒ण्वन्नसु॑रस्य मा॒यया॑ । ए॒वा ते॒ शेपः॒ सह॑सा॒यम॒र्कोऽङ्गे॒नाङ्गं॒ संस॑मकं कृणोतु ॥१॥ यथा॒ पस॑स्तायाद॒रं वाते॑न स्थूल॒भं कृ॒तम्। याव॒त् पर॑स्वतः॒ पस॒स्ताव॒त् ते वर्धतां॒ पसः॑ ॥२॥ या॒व॒द॒ङ्गीनं॒ पार॑स्वतं॒ हास्ति॑नं॒ गार्द॑भं च॒ यत्। याव॒दश्वस्य वा॒जिन॒स्ताव॑त् ते वर्धतां॒ पसः॑ ॥३॥
सांमनस्यम्। १-३ अथर्वा। सांमनस्यम्, वरुणसोमाग्निबृहस्पतिवसवः, ३ वास्तोष्पतिः, १,३ भुरिक्, २ त्रिष्टुप्। एह या॑तु॒ वरु॑णः॒ सोमो॑ अ॒ग्निर्बृह॒स्पति॒र्वसु॑भि॒रेह या॑तु । अ॒स्य श्रिय॑मुप॒संया॑त॒ सर्व॑ उ॒ग्रस्य॑ चे॒त्तुः संम॑नसः सजाताः ॥१॥ यो वः॒ शुष्मो॒ हृद॑येष्व॒न्तराकू॑ति॒र्या वो॒ मन॑सि॒ प्रवि॑ष्टा । तान्त्सी॑वयामि ह॒विषा॑ घृ॒तेन॒ मयि॑ सजाता र॒मति॑र्वो अस्तु ॥२॥ इ॒हैव स्त॒ माप॑ या॒ताध्य॒स्मत् पू॒षा प॒रस्ता॒दप॑थं वः कृणोतु । वास्तो॒ष्पति॒रनु॑ वो जोहवीतु॒ मयि॑ सजाता र॒मति॑र्वो अस्तु ॥३॥
सांमनस्यम्। १-३ अथर्वा। सांमनस्यम्, नाना देवताः, त्रिणामा। अनुष्टुप्, ३ त्रिषटुप्। सं वः॑ पृच्यन्तां त॒न्वः॑१ सं मनां॑सि॒ समु॑ व्र॒ता। सं वोऽयं ब्रह्म॑ण॒स्पति॒र्भगः॑ सं वो॑ अजीगमत्॥१॥ सं॒ज्ञप॑नं वो॒ मन॒सोऽथो॑ सं॒ज्ञप॑नं हृ॒दः । अथो॒ भग॑स्य॒ यच्छ्रा॒न्तं तेन॒ संज्ञ॑पयामि वः ॥२॥ यथा॑दि॒त्या वसु॑भिः संबभू॒वुर्म॒रुद्भि॑रु॒ग्रा अहृ॑णीयमानाः । एवा त्रि॑णाम॒न्नहृ॑णीयमान इ॒मान् जना॒न्त्संम॑नसस्कृधी॒ह॥३॥
सपत्नक्षयणम्। १-३ कबन्धः। इन्द्रः। अनुष्टुप्, ३ षट्-पदा जगती। निर॒मुं नु॑द॒ ओक॑सः स॒पत्नो॒ यः पृ॑त॒न्यति॑ । नै॒र्बा॒ध्येऽन ह॒विषेन्द्र॑ एनं॒ परा॑शरीत्॥१॥ प॒र॒मां तं प॑रा॒वत॒मिन्द्रो॑ नुदतु वृत्र॒हा। यतो॒ न पुन॒राय॑ति शश्व॒तीभ्यः॒ समा॑भ्यः ॥२॥ एतु॑ ति॒स्रः प॑रा॒वत॒ एतु॒ पञ्च॒ जनाँ॒ अति॑ । एतु॑ ति॒स्रोऽति॑ रोच॒ना यतो॒ न पुन॒राय॑ति । शश्व॒तीभ्यः॒ समा॑भ्यो॒ यावत् सूर्यो॒ अस॑द् दि॒वि॥३॥
आयुष्यम्। १-४ कबन्धः। सान्तपनाग्निः। अनुष्टुप्, ३ ककुम्मती। य ए॑नं परि॒षीद॑न्ति समा॒दध॑ति॒ चक्ष॑से । सं॒प्रेद्धो॑ अ॒ग्निर्जि॒ह्वाभि॒रुदे॑तु॒ हृद॑या॒दधि॑ ॥१॥ अ॒ग्नेः सा॑न्तप॒नस्या॒हमायु॑षे प॒दमा र॑भे । अ॒द्धा॒तिर्यस्य॒ पश्य॑ति धू॒ममु॒द्यन्त॑मास्य॒तः ॥२॥ यो अ॑स्य स॒मिधं॒ वेद॑ क्ष॒त्रिये॑ण स॒माहि॑ताम्। नाभि॑ह्वा॒रे प॒दं नि द॑धाति॒ स मृ॒त्यवे॑ ॥३॥ नैनं घ्नन्ति पर्या॒यिणो॒ न स॒न्नाँ अव॑ गच्छति । अ॒ग्नेर्यः क्ष॒त्रियो॑ वि॒द्वान् नाम॑ गृ॒ह्णात्यायु॑षे ॥४॥
प्रतिष्ठापनम्। १-३ कबन्धः। जातवेदाः। अनुष्टुप्। अस्था॒द् द्यौरस्था॑त् पृथि॒व्यस्था॒द् विश्व॑मि॒दं जग॑त्। आ॒स्थाने॒ पर्व॑ता अस्थु॒ स्थाम्न्यश्वां॑ अतिष्ठिपम्॥१॥ य उ॒दान॑ट् प॒राय॑णं॒ य उ॒दान॒ण् न्याय॑नम्। आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ॥२॥ जात॑वेदो॒ नि व॑र्तय श॒तं ते॑ सन्त्वा॒वतः॑ । स॒हस्रं॑ त उपा॒वृत॒स्तभि॑र्नः॒ पुन॒रा कृ॑धि ॥३॥
दम्पत्यो रयिप्राप्तये प्रार्थना। १-३ अथर्वा। १-२ चन्द्रमाः, ३ त्वष्टा। अनुष्टुप्। तेन॑ भू॒तेन॑ ह॒विषा॒यमा प्या॑यतां॑ पुनः॑ । जा॒यां याम॑स्मा॒ आवा॑क्षु॒स्तां रसे॑ना॒भि व॑र्धताम्॥१॥ अ॒भि व॑र्धतां॒ पय॑सा॒भि रा॒ष्ट्रेण॑ वर्धताम्। र॒य्या स॒हस्र॑वर्चसे॒मौ स्तामनु॑पक्षितौ ॥२॥ त्वष्टा॑ जा॒याम॑जनय॒त् त्वष्टा॑स्यै॒ त्वां पति॑म्। त्वष्टा॑ स॒हस्र॒मायूं॑षि दी॒र्घमायुः॑ कृणोतु वाम्॥३॥
ऊर्जःप्राप्तिः। १-३ अथर्वा। संस्फानम्। गायत्री, ३ त्रिपदा प्राजापतया गायत्री। अ॒यं नो॒ नभ॑स॒स्पतिः॑ सं॒स्फानो॑ अ॒भि र॑क्षतु । अस॑मातिं गृहेषु॑ नः ॥१॥ त्वं नो॑ नभसस्पत ऊर्जं॑ गृ॒हेषु॑ धारय । आ पु॒ष्टमेत्वा वसु॑ ॥२॥ देव॑ संस्फान सहस्रापो॒षस्ये॑शिषे । तस्य॑ नो रास्व॒ तस्य॑ नो धेहि॒ तस्य॑ ते भक्ति॒वांसः॑ स्याम ॥३॥
अरिष्टक्षयणम्। १-३ अथर्वा। चन्द्रमाः। १ भुरिक्, २ अनुष्टुप्, ३ प्रस्तारपङक्तिः। अ॒न्तरि॑क्षेण पतति॒ विश्वा॑ भू॒ताव॒चाक॑शत्। शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥१॥ ये त्रयः॑ कालका॒ञ्जा दि॒वि दे॒वा इ॑व श्रि॒ताः । तान्त्सर्वा॑नह्व ऊ॒तये॒ऽस्मा अ॑रि॒ष्टता॑तये ॥२॥ अ॒प्सु ते॒ जन्म॑ दि॒वि ते॑ स॒धस्थं॑ समु॒द्रे अ॒न्तर्म॑हि॒मा ते॑ पृथि॒व्याम्। शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥३॥
गर्भाधानम्। १-३ अथर्वा। आदित्यः, ३ त्वष्टा। अनुष्टुप्। य॒न्तासि॒ यच्छ॑से॒ हस्ता॒वप॒ रक्षां॑सि सेधसि । प्र॒जां धनं॑ च गृह्णा॒नः प॑रिह॒स्तो अ॑भूद॒यम्॥१॥ परि॑हस्त॒ वि धा॑रय॒ योनिं॒ गर्भा॑य॒ धात॑वे । मर्या॑दे पु॒त्रमा धे॑हि॒ तं त्वमा ग॑मयागमे ॥२॥ यं प॑रिह॒स्तमबि॑भ॒रदि॑तिः पुत्रका॒म्या। त्वष्टा॒ तम॑स्या॒ आ ब॑ध्ना॒द् यथा॑ पु॒त्रं जना॒दिति॑॥३॥
जायाकामना। १-३ भगः। इन्द्रः। अनुष्टुप्। आ॒गच्छ॑त॒ आग॑तस्य॒ नाम॑ गृह्णाम्याय॒तः । इन्द्र॑स्य वृत्र॒घ्नो व॑न्वे वास॒वस्य॑ श॒तक्र॑तोः ॥१॥ येन॑ सू॒र्यां सा॑वि॒त्रीम॒श्विनो॒हतुः॑ प॒था। तेन॒ माम॑ब्रवी॒द् भगो॑ जा॒यामा व॑हता॒दिति॑ ॥२॥ यस्ते॑ऽङ्कु॒शो व॑सु॒दानो॑ बृ॒हन्नि॑न्द्र हिर॒ण्ययः॑ । तेना॑ जनीय॒ते जा॒यां मह्यं॑ धेहि शचीपते ॥३॥
भैषज्यम्। १-४ भगः। २ सूर्यः, चन्द्रमाः, २ रोहिणी, ३ रामायणी। अनुष्टुप्, ४ एकावसाना द्विपदा निचृदार्च्यनुष्टुप्। अप॑चितः॒ प्र प॑तत सुप॒र्णो व॑स॒तेरि॑व । सूर्यः॑ कृ॒णोतु॑ भेष॒जं च॒न्द्रमा॒ वोऽपो॑च्छतु ॥१॥ एन्येका॒ श्येन्येका॑ कृ॒ष्णैका॒ रोहि॑णी॒ द्वे। सर्वा॑सामग्रभं॒ नामावी॑रघ्नी॒रपे॑तन ॥२॥ अ॒सूति॑का रामाय॒ण्यऽप॒चित् प्र प॑तिष्यति । ग्लरि॒तः प्र प॑तिष्यति॒ स ग॑लु॒न्तो न॑शिष्यति ॥३॥ वी॒हि स्वामाहु॑तिं जुषा॒णो मन॑सा॒ स्वाहा॒ मन॑सा॒ यदि॒दं जु॒होमि॑ ॥४॥
निर्ऋतिमोचनम्। १-४ भगः।निर्ऋतिः। १ भुरिग्जगती, २ त्रिपदार्षी बृहती, ३ जगती, ४ भुरिक् त्रिष्टुप् (जगती) यस्या॑स्त आ॒सनि॑ घो॒रे जु॒होम्ये॒षां ब॒द्धाना॑मव॒सर्ज॑नाय॒ कम्। भूमि॒रिति॑ त्वाभि॒प्रम॑न्वते॒ जना॒ निरृ॑ति॒रिति॑ त्वा॒हं परि॑ वेद स॒र्वतः॑ ॥१॥ भूते॑ ह॒विष्म॑ती भवै॒ष ते॑ भा॒गो यो अ॒स्मासु॑ । मु॒ञ्चेमान॒मूनेन॑सः॒ स्वाहा॑ ॥२॥ ए॒वो ष्व॑१स्मन्नि॑रृतेऽने॒हा त्वम॑य॒स्मया॒न् वि चृ॑ता बन्धपा॒शान्। य॒मो मह्यं॒ पुन॒रित् त्वां द॑दाति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥३॥ अ॒य॒स्मये॑ द्रुप॒दे बे॑धिष इ॒हाभिहि॑तो मृ॒त्युभि॒र्ये स॒हस्र॑म्। य॒मेन॒ त्वं पि॒तृभिः॑ संविदा॒न उ॑त्त॒मं नाक॒मधि॑ रोहये॒मम्॥४॥
यक्ष्मनाशनम्। १-३ अथर्वा। वनस्पतिः। अनुष्टुप्। व॒र॒णो वा॑रयाता अ॒यं दे॒वो वन॒स्पतिः॑ । यक्ष्मो॒ यो अ॒स्मिन्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन्॥१॥ इन्द्र॑स्य॒ वच॑सा व॒यं मि॒त्रस्य॒ वरु॑णस्य च । दे॒वानां॒ सर्वे॑षां वा॒चा यक्ष्मं॑ ते वारयामहे ॥२॥ यथा॑ वृ॒त्र इ॒मा आप॑स्त॒स्तम्भ॑ वि॒श्वधा॑ य॒तीः । ए॒वा ते॑ अ॒ग्निना॒ यक्ष्मं॑ वैश्वान॒रेण॑ वारये ॥३॥
वृषकामना। १-३ अथर्वा। एकवृषः। अनुष्टुप्। वृषेन्द्र॑स्य॒ वृषा॑ दि॒वो वृषा॑ पृथि॒व्या अ॒यम्। वृषा॒ विश्व॑स्य भू॒तस्य॒ त्वमे॑कवृ॒षो भ॑व ॥१॥ स॒मु॒द्र ई॑शे स्र॒वता॑म॒ग्निः पृ॑थि॒व्या व॒शी। च॒न्द्रमा॒ नक्ष॑त्राणामीशे॒ त्वमे॑कवृ॒षो भ॑व ॥२॥ स॒म्राड॒स्यसु॑राणां क॒कुन्म॑नु॒ष्याऽणाम्। दे॒वाना॑मर्ध॒भाग॑सि॒ त्वमे॑कवृ॒षो भ॑व ॥३॥
राज्ञः संवरणम्। १-३ अथर्वा। ध्रुवः। अनुष्टुप्। आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलत्। विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद् रा॒ष्ट्रमधि॑ भ्रशत्॥१॥ इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलत्। इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥२॥ इन्द्र॑ ए॒तम॑दीधरत् ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ । तस्मै॒ सोमो॒ अधि॑ ब्रवद॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥३॥
ध्रुवो राजा। १-३ अथर्वा। ध्रुवः। अनुष्टुप्, ३ त्रिष्टुप्। ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वं विश्व॑मि॒दं जग॑त्। ध्रु॒वासः॒ पर्व॑ता इ॒मे ध्रु॒वो राजा॑ वि॒शाम॒यम्॥१॥ ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ । ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम्॥२॥ ध्रु॒वोऽच्यु॑तः॒ प्र मृ॑णीहि॒ शत्रू॑न्छत्रूय॒तोऽध॑रान् पादयस्व । सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीची॑र्ध्रु॒वाय॑ ते॒ समि॑तिः कल्पतामि॒ह॥३॥
प्रीतिसंजननम्। १-३ अथर्वा। (रुद्रः,) १ सोमः, २ वातः, ३ मित्रावरुणौ। अनुष्टुप्। इ॒दं यत् प्रे॒ण्यः शिरो॑ द॒त्तं सोमे॑न॒ वृष्ण्य॑म्। ततः॒ परि॒ प्रजा॑तेन॒ हार्दिं॑ ते शोचयामसि ॥१॥ शो॒चया॑मसि ते॒ हार्दिं॑ शो॒चया॑मसि ते॒ मनः॑ । वातं॑ धू॒म इ॑व स॒ध्र्य॑१ङ्मामे॒वान्वे॑तु ते॒ मनः॑ ॥२॥ मह्यं॑ त्वा मि॒त्रावरु॑णौ॒ मह्यं॑ दे॒वी सर॑स्वती । मह्यं॑ त्वा॒ मध्यं॒ भूम्या॑ उ॒भावन्तौ॒ सम॑स्यताम्॥३॥
इषुनिष्कासनम्। १-३ अथर्वा। रुद्रः। अनुष्टुप्, ३ आर्षी भुरिगुष्णिक्। यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च । इ॒दं ताम॒द्य त्वद् व॒यं विषू॑चीं॒ वि वृ॑हामसि ॥१॥ यास्ते॑ श॒तं ध॒मन॒योऽङ्गा॒न्यनु॒ विष्ठि॑ताः । तासां॑ ते॒ सर्वा॑सां व॒यं निर्वि॒षाणि॑ ह्वयामसि ॥२॥ नम॑स्ते रु॒द्रास्य॑ते॒ नमः॒ प्रति॑हितायै । नमो॑ विसृ॒ज्यमा॑नायै॒ नमो॒ निप॑तितायै ॥३॥
यक्ष्मनाशनम्। १-३ भृग्वङ्गिराः। यक्ष्मनाशनम्, ३ आपः। अनुष्टुप्। इ॒मं यव॑मष्टायो॒गैः ष॑ड्यो॒गेभि॑रचर्कृषुः । तेना॑ ते त॒न्वो॒३रपो॑ ऽपा॒चीन॒मप॑ व्यये ॥१॥ न्य॑१ग्वातो॑ वाति॒ न्यऽक् तपति॑ सूर्यः॑ । नी॒चीन॑म॒घ्न्या दु॑हे॒ न्यऽग् भवतु ते॒ रपः॑ ॥२॥ आप॒ इद् वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आपो॑ विश्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम्॥३॥
वाजी। १-३ अथर्वा। इन्द्रः, वाजी। त्रिष्टुप्, १ जगती। वात॑रम्हा भव वाजिन् यु॒ज्यमा॑न॒ इन्द्र॑स्य याहि प्रस॒वे मनो॑जवाः । यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु ॥१॥ ज॒वस्ते॑ अर्व॒न् निहि॑तो॒ गुहा॒ यः श्ये॒ने वात॑ उ॒त योऽच॑र॒त् परी॑त्तः । तेन॒ त्वं वा॑जि॒न् बल॑वा॒न् बले॑ना॒जिं ज॑य॒ सम॑ने पारयि॒ष्णुः ॥२॥ त॒नूष्टे॑ वाजिन् त॒न्वं॑१ नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म्। अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वीऽव ज्योतिः॒ स्वमा मि॑मीयात्॥३॥
स्वस्त्ययनम्। १-३ शन्तातिः। रुद्रः, १ यमो, मृत्युः, शर्वः, २ भवः, शर्वः ३ विश्वे देवाः, मरुतः, अग्नीषोमौ, वरुणः, वातपर्जन्यौ। त्रिष्टुप्। य॒मो मृ॒त्युर॑घमा॒रो नि॑रृ॒थो ब॒भ्रुः श॒र्वोऽस्ता॒ नील॑शिखण्डः । दे॒व॒ज॒नाः सेन॑योत्तस्थि॒वांस॒स्ते अ॒स्माकं॒ परि॑ वृञ्जन्तु वी॒रान्॥१॥ मन॑सा॒ होमै॒र्हर॑सा घृ॒तेन॑ श॒र्वायास्त्र॑ उ॒त राज्ञे॑ भ॒वाय॑ । न॒म॒स्येऽभ्यो॒ नम॑ एभ्यः कृणोम्य॒न्यत्रा॒स्मद॒घवि॑षा नयन्तु ॥२॥ त्राय॑ध्वं नो अ॒घवि॑षाभ्यो व॒धाद् विश्वे॑ देवा मरुतो विश्ववेदसः । अ॒ग्नीषोमा॒ वरु॑णः पू॒तद॑क्षा वातापर्ज॒न्ययोः॑ सुम॒तौ स्या॑म ॥३॥
सांमनस्यम्। १-३ अथर्वाङ्गिराः। सरस्वती। अनुष्टुप्, २ विराड्-जगती। सं वो॒ मनां॑सि॒ सं व्र॒ता समाकू॑तीर्नमामसि । अ॒मी ये विव्र॑ता॒ स्थन॒ तान् वः॒ सं न॑मयामसि ॥१॥ अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑ । मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ॥२॥ ओते॑ मे॒ द्यावा॑पृथि॒वी ओता॑ दे॒वी सर॑स्वती । ओतौ॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒र्ध्यास्मे॒दं स॑रस्वति ॥३॥
कुष्ठौषधिः। १-३ भृग्वङ्गिराः। वनस्पतिः। अनुष्टुप्। अ॒श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि। तत्रा॒मृत॑स्य॒ चक्ष॑णं दे॒वाः कुष्ठ॑मवन्वत ॥१॥ हि॒र॒ण्ययी॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि। तत्रा॒मृत॑स्य॒ पुष्पं॑ दे॒वाः कुष्ठ॑मवन्वत ॥२॥ गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॑ हि॒मव॑तामु॒त। गर्भो॒ विश्व॑स्य भू॒तस्ये॒मं मे॑ अग॒दं कृ॑धि ॥३॥
चिकित्सा। १-३ भृग्वङ्गिराः। वनस्पतिः, ३ सोमः। अनुष्टुप्, ३ त्रिपाद्विराण्नाम गायत्री। या ओष॑धयः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥१॥ मु॒ञ्चन्तु॑ मा शप॒थ्या॒३दथो॑ वरु॒ण्याऽदु॒त। अथो॑ य॒मस्य॒ पड्वी॑शाद् विश्व॑स्माद् देवकिल्बि॒षात्॥२॥ यच्चक्षु॑षा॒ मन॑सा॒ यच्च॑ वा॒चोपा॑रि॒म जाग्र॑तो॒ यत् स्व॒पन्तः॑ । सोम॒स्तानि॑ स्व॒धया॑ नः पुनातु ॥३॥
अभिभूर्वीरः -३ अथर्वा। १,३ देवाः, २ मित्रावरुणौ। १ त्रिष्टुप्, २ जगती, ३ भुरिक्। अ॒भि॒भूर्य॒ज्ञो अ॑भि॒भूर॒ग्निर॑भि॒भूः सोमो॑ अभि॒भूरिन्द्रः॑ । अ॒भ्य॑हं विश्वाः॒ पृत॑ना॒ यथासा॑न्ये॒वा वि॑धेमा॒ग्निहो॑त्रा इ॒दं ह॒विः ॥१॥ स्व॒धास्तु॑ मित्रावरुणा विपश्चिता प्र॒जाव॑त् क्ष॒त्रं मधु॑ने॒ह पि॑न्वतम्। बाधे॑थां दू॒रं निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुक्तम॒स्मत्॥२॥ इ॒मं वी॒रमनु॑ हर्षध्वमु॒ग्रमिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम्। ग्रा॒म॒जितं॑ गो॒जितं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ॥३॥
अजरं क्षत्रम्। १-३ अथर्वाः। इन्द्रः। त्रिष्टुप्, २ बृहतीगर्भास्तारपङ्क्तिः। इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयातै । च॒र्कृत्य॒ ईड्यो॒ वन्द्य॑श्चोप॒सद्यो॑ नम॒स्योऽभवे॒ह॥१॥ त्वमि॑न्द्राधिरा॒जः श्र॑व॒स्युस्त्वं भू॑र॒भिभू॑ति॒र्जना॑नाम्। त्वं दैवी॒र्विश॑ इ॒मा वि रा॒जायु॑ष्मत् क्ष॒त्रम॒जरं॑ ते अस्तु ॥२॥ प्राच्या॑ दि॒शस्त्वमि॑न्द्रासि॒ राजो॒तोदी॑च्या दि॒शो वृ॑त्रहन्छत्रु॒होऽसि । यत्र॒ यन्ति॑ स्रो॒त्यास्तज्जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑षि॒ हव्यः॑ ॥३॥
संग्रामजयः। १-३ अथर्वा। इन्द्रः, सोमः, सविता च। अनुष्टुप्, ३ भुरिग्बृहती (सौम्या सावित्री)। अ॒भि त्वे॑न्द्र॒ वरि॑मतः पु॒रा त्वां॑हूर॒णाद्धु॑वे । ह्वया॑म्यु॒ग्रं चे॒त्तारं॑ पु॒रुणा॑मानमेक॒जम्॥१॥ यो अ॒द्य सेन्यो॑ व॒धो जिघां॑सन् न उ॒दीर॑ते । इन्द्र॑स्य॒ तत्र॑ बा॒हू स॑म॒न्तं परि॑ दद्मः ॥२॥ परि॑ दद्म॒ इन्द्र॑स्य बा॒हू स॑म॒न्तं त्रा॒तुस्त्राय॑तां नः । देव॑ सवितः॒ सोम॑ राजन्त्सु॒मन॑सं मा कृणु स्व॒स्तये॑ ॥३॥
विषदूषणम्। १-३ गरुत्मान्। वनस्पतिः। अनुष्टुप्। दे॒वा अ॑दुः॒ सूर्यो॑ अदाद् द्यौर॑दात् पृथि॒व्यऽदात्। ति॒स्रः सर॑स्वतिरदुः॒ सचि॑त्ता विष॒दूष॑णम्॥१॥ यद् वो॑ दे॒वा उ॑पजीका॒ आसि॑ञ्च॒न् धन्व॑न्युद॒कम्। तेन॑ दे॒वप्र॑सूतेने॒दं दू॑षयता वि॒षम्॥२॥ असु॑राणां दुहि॒तासि॒ सा दे॒वाना॑मसि॒ स्वसा॑ । दि॒वस्पृ॑थि॒व्याः संभू॑ता॒ सा च॑कर्थार॒सं वि॒षम्॥३॥
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is Kaanda 6 of the Atharva Veda?
Kaanda 6 of the Atharvaveda (Shaunaka) — shorter hymns for healing, protection, long life and well-being. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
What is the Atharva Veda?
The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
Offer a Vedic paath or seva in your name
Have a Vedic paath, havan or seva performed in your naam-gotra for peace and blessings. Book a seva, or read on in Sanatan Sahitya.








