About Kaanda 2
Kaanda 2 of the Atharvaveda (Shaunaka) — shorter hymns for healing, protection, long life and well-being. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
How it is read
Kaanda 2 is given below in its original Sanskrit, in accented Devanagari. The Veda is preserved as shruti and recited in svadhyaya; read it reverently, sukta by sukta.
Original Text
The Verses
परमं धाम १-५ वेनः। ब्रह्म, आत्मा। त्रिष्टुप्, ३ जगती। वे॒नस्तत् प॑श्यत् पर॒मं गुहा॒ यद् यत्र॒ विश्वं॒ भव॒त्येक॑रूपम्। इ॒दं पृश्नि॑रदुह॒ज्जाय॑मानाः स्व॒र्विदो॑ अ॒भ्यऽनूषत॒ व्राः ॥१॥ प्र तद् वो॑चेद॒मृत॑स्य वि॒द्वान् ग॑न्ध॒र्वो धाम॑ पर॒मं गुहा॒ यत्। त्रीणि॑ प॒दानि॒ निहि॑ता॒ गुहा॑स्य॒ यस्तानि॒ वेद॒ स पि॒तुष्पि॒तास॑त्॥२॥ स नः॑ पि॒ता ज॑नि॒ता स उ॒त बन्धु॒र्धामा॑नि वेद॒ भुव॑नानि॒ विश्वा॑ । यो दे॒वानां॑ नाम॒ध एक॑ ए॒व तं सं॑प्र॒श्नं भुव॑ना यन्ति॒ सर्वा॑ ॥३॥ परि॒ द्यावा॑पृथि॒वी स॒द्य आ॑य॒मुपा॑तिष्ठे प्रथम॒जामृ॒तस्य॑ । वाच॑मिव व॒क्तरि॑ भुवने॒ष्ठा धा॒स्युरे॒ष न॒न्वे॒३षो अ॒ग्निः ॥४॥ परि॒ विश्वा॒ भुव॑नान्यायमृ॒तस्य॒ तन्तुं॒ वित॑तं दृ॒शे कम्। यत्र॑ दे॒वा अ॒मृत॑मानशा॒नाः स॑मा॒ने योना॒वध्यैर॑यन्त ॥५॥
भुवनपतिसूक्तम्। १-५ मातृनामा। गन्धर्वाप्सरसः। त्रिष्टुप्, १ विराड् जगती, ४ त्रिष्टुपाद्विराण्नाम गायत्री, ५ भुरिगनुष्टुप्। दि॒व्यो ग॑न्ध॒र्वो भुव॑नस्य॒ यस्पति॒रेक॑ ए॒व न॑म॒स्योऽवि॒क्ष्वीड्यः॑ । तं त्वा॑ यौमि॒ ब्रह्म॑णा दिव्य देव॒ नम॑स्ते अस्तु दि॒वि ते॑ स॒धस्थ॑म्॥१॥ दि॒वि स्पृ॒ष्टो य॑ज॒तः सूर्य॑त्वगवया॒ता हर॑सो॒ दैव्य॑स्य । मृ॒डाद् ग॑न्ध॒र्वो भुव॑नस्य॒ यस्पति॒रेक॑ ए॒व न॑म॒स्यः सु॒शेवाः॑ ॥२॥ अ॒न॒व॒द्याभिः॒ समु॑ जग्म आभिरप्स॒रास्वपि॑ गन्ध॒र्व आ॑सीत्। स॒मु॒द्र आ॑सां॒ सद॑नं म आहु॒र्यतः॑ स॒द्य आ च॒ परा॑ च॒ यन्ति॑ ॥३॥ अभ्रि॑ये॒ दिद्यु॒न्नक्ष॑त्रिये॒ या वि॒श्वाव॑सुं गन्ध॒र्वं सच॑ध्वे । ताभ्यो॑ वो देवी॒र्नम॒ इत् कृ॑णोमि ॥४॥ याः क्ल॒न्दास्तमि॑षीचयो॒ऽक्षका॑मा मनो॒मुहः॑ । ताभ्यो॑ गन्ध॒र्वप॑त्नीभ्योऽप्स॒राभ्यो॑ऽकरं॒ नमः॑ ॥५॥
आस्रावस्य भेषजम्। १-६ अङ्गिराः। भैषज्यं, आयुः, धन्वन्तरिः। अनुष्टुप्, ६ त्रिपदा स्वराडुपरिष्टान्महाबृहती। अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात्। तत् ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि ॥१॥ आद॒ङ्गा कु॒विद॒ङ्गा श॒तं या भे॑ष॒जानि॑ ते । तेषा॑मसि॒ त्वमु॑त्त॒मम॑नास्रा॒वमरो॑गणम्॥२॥ नी॒चैः ख॑न॒न्त्यसु॑रा अरु॒स्राण॑मि॒दं म॒हत्। तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत्॥३॥ उ॒प॒जीका॒ उद् भ॑रन्ति समु॒द्रादधि॑ भेष॒जम्। तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मशीशमत्॥४॥ अ॒रु॒स्राण॑मि॒दं म॒हत् पृ॑थि॒व्या अध्युद्भृ॑तम्। तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत्॥५॥ शं नो॑ भवन्त्व॒प ओष॑धयः शि॒वाः । इन्द्र॑स्य॒ वज्रो॒ अप॑ हन्तु र॒क्षस॑ आ॒राद् विसृ॑ष्टा॒ इष॑वः पतन्तु र॒क्षसा॑म्॥६॥
दीर्घायुःप्राप्तिः। १-६ अथर्वा। (चन्द्रमाः,) जङ्गिडः। अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः। दी॒र्घा॒यु॒त्वाय॑ बृह॒ते रणा॒यारि॑ष्यन्तो॒ दक्ष॑माणाः॒ सदै॒व। म॒णिं वि॑ष्कन्ध॒दूष॑णं जङ्गि॒डं बि॑भृमो व॒यम्॥१॥ जङ्गि॒डो ज॒म्भाद् वि॑श॒राद् विष्क॑न्धादभि॒शोच॑नात्। म॒णिः स॒हस्र॑वीर्यः॒ परि॑ णः पातु वि॒श्वतः॑ ॥२॥ अ॒यं विष्क॑न्धं सहते॒ऽयं बा॑धते अ॒त्त्रिणः॑ । अ॒यं नो॑ वि॒श्वभे॑षजो जङ्गि॒डः पा॒त्वंह॑सः ॥३॥ दे॒वैर्द॒त्तेन॑ म॒णिना॑ जङ्गि॒डेन॑ मयो॒भुवा॑ । विष्क॑न्धं॒ सर्वा॒ रक्षां॑सि व्याया॒मे स॑हामहे ॥४॥ श॒णश्च॑ मा जङ्गि॒डश्च॒ विष्क॑न्धाद॒भि र॑क्षताम्। अर॑ण्याद॒न्य आभृ॑तः कृ॒ष्या अ॒न्यो रसे॑भ्यः ॥५॥ कृ॒त्या॒दूषि॑र॒यं म॒णिरथो॑ अराति॒दूषिः॑ । अथो॒ सह॑स्वान् जङ्गि॒डः प्र ण॒ आयुं॑षि तारिषत्॥६॥
इन्द्रस्य वीर्याणि। १-७ भृगुराथर्वणः। इन्द्रः। त्रिष्टुप्, १ उपरिष्टान्निचृद् बृहती, २ उपरिष्टाद्विराड् बृहती,३ विराट् पथ्या बृहती, ४ जगती पुरोविराट्। इन्द्र॑ जु॒षस्व॒ प्र व॒हा या॑हि शूर॒ हरि॑भ्याम्। पिबा॑ सु॒तस्य॑ म॒तेरि॒ह मधो॑श्चका॒नश्चारु॒र्मदा॑य ॥१॥ इन्द्र॑ ज॒ठरं॑ न॒व्यो न पृ॒णस्व॒ मधो॑र्दि॒वो न। अ॒स्य सु॒तस्य॒ स्व॑१र्णोप॑ त्वा॒ मदाः॑ सु॒वाचो॑ अगुः ॥२॥ इन्द्र॑स्तुरा॒षाण्मि॒त्रो वृ॒त्रं यो ज॒घान॑ य॒तीर्न। बि॒भेद॑ व॒लं भृगु॒र्न स॑सहे॒ शत्रू॒न् मदे॒ सोम॑स्य ॥३॥ आ त्वा॑ विशन्तु सु॒तास॑ इन्द्र पृ॒णस्व॑ कु॒क्षी वि॒ड्ढि श॑क्र धि॒येह्या नः॑ । श्रु॒धी हवं॒ गिरो॑ मे जुष॒स्वेन्द्र॑ स्व॒युग्भि॒र्मत्स्वे॒ह म॒हे रणा॑य ॥४॥ इन्द्र॑स्य॒ नु प्रा वो॑चं वी॒र्याऽणि॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री। अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त् पर्व॑तानाम्॥५॥ अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं ऽ ततक्ष । वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥६॥ वृषा॒यमा॑णो अवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत् सु॒तस्य॑ । आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम्॥७॥
सपत्नहाऽग्निः। १-५ शौनकः(सम्पत्कामः) अग्निः। त्रिष्टुप्, ४ चतुष्पदार्षी पङ्क्तिः, ५ विराट् प्रस्तारपङ्क्तिः। समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या। सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः ॥१॥ सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ वर्धये॒ममुच्च॑ तिष्ठ मह॒ते सौभ॑गाय । मा ते॑ रिषन्नुपस॒त्तारो॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ मान्ये॥२॥ त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः । स॒प॒त्न॒हाग्ने॑ अभिमाति॒जिद् भ॑व॒ स्वे गये॑ जागृ॒ह्यप्र॑युछन्॥३॥ क्ष॒त्रेणा॑ग्ने॒ स्वेन॒ सं र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धा य॑तस्व । स॒जा॒तानां॑ मध्यमे॒ष्ठा राज्ञा॑मग्ने वि॒हव्यो॑ दीदिही॒ह॥४॥ अति॒ निहो॒ अति॒ सृधोऽत्यचि॑त्ती॒रति॒ द्विषः॑ । विश्वा॒ ह्यऽग्ने दुरि॒ता त॑र॒ त्वमथा॒स्मभ्यं॑ स॒हवी॑रं र॒यिं दाः॑
शापमोचनम्। १-५ अथर्वा। भैषज्यं, आयुः, वनस्पतिः। अनुष्टुप्, १ भुरिक्, ४ विराडुपरिष्टाद् बृहती। अ॒घद्वि॑ष्टा दे॒वजा॑ता वी॒रुच्छ॑पथ॒योप॑नी । आपो॒ मल॑मिव॒ प्राणै॑क्षी॒त् सर्वा॒न् मच्छ॒पथाँ॒ अधि॑ ॥१॥ यश्च॑ साप॒त्नः श॒पथो॑ जा॒म्याः श॒पथ॑श्च॒ यः । ब्र॒ह्मा यन्म॑न्यु॒तः शपा॒त् सर्वं॒ तन्नो॑ अधस्प॒दम्॥२॥ दि॒वो मूल॒मव॑ततं पृथि॒व्या अध्युत्त॑तम्। तेन॑ स॒हस्र॑काण्डेन॒ परि॑ णः पाहि वि॒श्वतः॑ ॥३॥ परि॒ मां परि॑ मे प्र॒जां परि॑ णः पाहि॒ यद्धन॑म्। अरा॑तिर्नो॒ मा ता॑री॒न्मा न॑स्तारि॒षुर॒भिमा॑तयः ॥४॥ श॒प्तार॑मेतु श॒पथो॒ यः सु॒हार्त् तेन॑ नः स॒ह। चक्षु॑र्मन्त्रस्य दु॒र्हार्दः॑ पृ॒ष्टीरपि॑ शृणीमसि ॥५॥
क्षेत्रियरोगनाशनम्। १-५ भृग्वङ्गिराः। वनस्पतिः, यक्ष्म नाशनम्। अनुष्टुप्, ३ पथ्यापङ्क्तिः, ४ विराट्, ५ निचृत्पथ्यापङ्क्तिः। उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के । वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम्॥१॥ अपे॒यं रात्र्यु॑च्छ॒त्वपो॑च्छन्त्वभि॒कृत्व॑रीः । वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥२॥ ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या। वीरुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥३॥ नम॑स्ते॒ लाङ्ग॑लेभ्यो॒ नम॑ ईषायु॒गेभ्यः॑ । वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥४॥ नमः॑ सनिस्रसा॒क्षेभ्यो॒ नमः॑ संदे॒श्येऽभ्यः । नमः॒ क्षेत्र॑स्य॒ पत॑ये वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥५॥
दीर्घायुःप्राप्तिः। १- ५ भृग्वङ्गिराः। वनस्पतिः, यक्ष्मनाशनम्। अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः। दश॑वृक्ष मु॒ञ्चेमं रक्ष॑सो॒ ग्राह्या॒ अधि॒ यैनं॑ ज॒ग्राह॒ पर्व॑सु । अथो॑ एनं वनस्पते जी॒वानां॒ लो॒क॑मु॑न्नय ॥१॥ आगा॒दुद॑गाद॒यं जी॒वानां॒ व्रात॒मप्य॑गात्। अभू॑दु पु॒त्राणां॑ पि॒ता नृ॒णां च॒ भग॑वत्तमः ॥२॥ अधी॑ती॒रध्य॑गाद॒यमधि॑ जीवपु॒रा अ॑गान्। श॒तं ह्य॑स्य भि॒षजः॑ स॒हस्र॑मु॒त वी॒रुधः॑ ॥३॥ दे॒वास्ते॑ ची॒तिम॑विदन् ब्र॒ह्माण॑ उ॒त वी॒रुधः॑ । ची॒तिं ते॒ विश्वे॑ दे॒वा अवि॑द॒न् भूम्या॒मधि॑ ॥४॥ यश्च॒कार॒ स निष्क॑र॒त् स ए॒व सुभि॑षक्तमः । स ए॒व तुभ्यं॑ भेष॒जानि॑ कृ॒णव॑द् भि॒षजा॒ शुचिः॑ ॥५॥
पाशमोचनम्। १-८ भृग्वङ्गिराः। १-८ द्यावापृथिवी, ब्रह्म, २ अग्निः, आपः, ओषधयः, सोमः, ३ वातः, दिशः,४-८वातपत्नीः, सूर्यः, यक्ष्मं, निर्ऋतिः। १ त्रिष्टुप्, २ सप्तपदाष्टिः, ३-५, ७-८ सप्तपदा धृतिः, ६ सप्तपदात्यष्टिः, ८ (२, ३) द्वौ पादौ उष्णिहौ। क्षे॒त्रि॒यात् त्वा॒ निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑ पृथि॒वी उ॒भे स्ता॑म्॥१॥ शं ते॑ अ॒ग्निः स॒हाद्भिर॑स्तु॒ शं सो॑मः स॒हौष॑धीभिः । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥२॥ शं ते॒ वातो॑ अ॒न्तरि॑क्षे॒ वयो॑ धा॒च्छं ते॑ भवन्तु प्र॒दिश॒श्चत॑स्रः । ए॒वाहं त्वां क्षे॑त्रि॒या॑न्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥३॥ इ॒मा या दे॒वीः प्र॒दिश॒श्चत॑स्रो॒ वात॑पत्नीर॒भि सूर्यो॑ वि॒चष्टे॑ । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑ त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॑ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥४॥ तासु॑ त्वा॒न्तर्ज॒रस्या द॑धामि॒ प्र यक्ष्म॑ एतु॒ निरृ॑तिः परा॒चैः । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥५॥ अमु॑क्था॒ यक्ष्मा॑द् दुरि॒ताद॑व॒द्याद् द्रु॒हः पाशा॒द् ग्राह्या॒श्चोद॑मुक्थाः । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥६॥ अहा॒ अरा॑ति॒म॑विदः स्यो॒नमप्य॑भूर्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥७॥ सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ अधि॑ दे॒वा मुञ्च॑न्तो असृज॒न्निरेण॑सः । ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्॥८॥
श्रेयःप्राप्तिः। १-५ शुक्रः। कृत्यादूषणम्। १ चतुष्पदा विराट् गायत्री, २-५ त्रिपदा परोष्णिक्, ४ पिपीलिकमध्या निचृत्। दूष्या॒ दूषि॑रसि हे॒त्या हे॒तिर॑सि मे॒न्या मे॒निर॑सि । आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥१॥ स्र॒क्त्योऽसि प्रतिस॒रोऽसि प्रत्यभि॒चर॑णोऽसि । आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥२॥ प्रति॒ तम॒भि च॑र॒ यो॒ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः । आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥३॥ सू॒रिर॑सि वर्चो॒धा अ॑सि तनू॒पानोऽसि । आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥४॥ शु॒क्रोऽसि भ्रा॒जोऽसि॒ स्वऽरसि॒ ज्योति॑रसि । आ॒प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥५॥
शत्रुनाशनम्। १-८ भरद्वाजः। १ द्यावापृथिवी, अन्तरिक्षम्, २ देवाः, ३ इन्द्रः, ४ आदित्या वसवोऽङ्गिरसः पितरः, ५ सोम्यासः पितरः, ६ मरुतः, ७ यमसादनम्, ब्रह्म, ८ अग्निः। त्रिष्टुप्, २ जगती, ७-८ अनुष्टुप्। द्यावा॑पृथिवी उ॒र्व॑१न्त॑रिक्षं॒ क्षेत्र॑स्य॒ पत्न्यु॑रुगा॒योऽद्भु॑तः । उ॒तान्तरिक्ष॑मु॒रु वात॑गोपं॒ त इ॒ह त॑प्यन्तां॒ मयि॑ त॒प्यमा॑ने ॥१॥ इ॒दं दे॑वाः शृणुत॒ ये य॒ज्ञिया॒ स्थ भ॒रद्वा॑जो॒ मह्य॑मु॒क्थानि॑ शंसति । पाशे॒ स ब॒द्धो दु॑रि॒ते नि यु॑ज्यतां॒ यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥२॥ इ॒दमि॑न्द्र शृणुहि सोमप॒ यत् त्वा॑ हृ॒दा शोच॑ता॒ जोह॑वीमि । वृ॒श्चामि॒ तं कुलि॑शेनेव वृ॒क्षं यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥३॥ अ॒शी॒तिभि॑स्ति॒सृभिः॑ साम॒गेभि॑रादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः । इ॒ष्टा॒पू॒र्तम॑वतु नः पितॄ॒णामामुं द॑दे॒ हर॑सा॒ दैव्ये॑न ॥४॥ द्यावा॑पृथिवी॒ अनु॒ मा दी॑धीथां॒ विश्वे॑ देवासो॒ अनु॒ मा र॑भध्वम्। अङ्गि॑रसः॒ पित॑रः॒ सोम्या॑सः पा॒पमार्छ॑त्वपका॒मस्य॑ क॒र्ता॥५॥ अती॑व॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यो निन्दि॑षत् क्रि॒यमा॑णम्। तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विषं॒ द्यौर॑भि॒संत॑पाति ॥६॥ स॒प्त प्रा॒णान॒ष्टौ म॒न्यस्तांस्ते॑ वृश्चामि॒ ब्रह्म॑णा । अया॑ य॒मस्य॒ साद॑नम॒ग्निदू॑तो॒ अरं॑कृतः ॥७॥ आ द॑धामि ते प॒दं समि॑द्धे जा॒तवे॑दसि । अ॒ग्निः शरी॑रं वेवे॒ष्ट्वसुं॒ वागपि॑ गछतु ॥८॥
दीर्घायुःप्राप्तिः। १-५ अथर्वा। अग्निः, २-३ बृहस्पतिः, ४-५ विश्वे देवाः। त्रिष्टुप्, ४ अनुष्टुप्, ५ विराड् जगती। आ॒युर्दा अ॑ग्ने ज॒रसं॑ वृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रान॒भि र॑क्षतादि॒मम्॥१॥ परि॑ धत्त ध॒त्त नो॒ वर्च॑से॒मं ज॒रामृ॑त्युं कृणुत दी॒र्घमायुः॑ । बृह॒स्पतिः॒ प्राय॑च्छ॒द् वास॑ ए॒तत् सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ॥२॥ परी॒दं वासो॑ अधिथाः स्व॒स्तयेऽभू॑र्गृष्टी॒नाम॑भिशस्ति॒पा उ॑ । श॒तं च॒ जीव॑ श॒रदः॑ पुरू॒ची रा॒यश्च॒ पोष॑मुप॒संव्य॑यस्व ॥३॥ एह्यश्मा॑न॒मा ति॒ष्ठाश्मा॑ भवतु ते त॒नूः । कृ॒ण्वन्तु॒ विश्वे॑ दे॒वा आयु॑ष्टे श॒रदः॑ श॒तम्॥४॥ यस्य॑ ते॒ वासः॑ प्रथमवा॒स्यं॑१ हरा॑म॒स्तं त्वा॒ विश्वे॑ऽवन्तु दे॒वाः । तं त्वा॒ भ्रात॑रः सु॒वृधा॒ वर्ध॑मान॒मनु॑ जातन्तां ब॒हवः॒ सुजा॑तम्॥५॥
वस्युनाशनम्। १-६ चातनः। शालाग्निदैवत्यम्। अनुष्टुप्, २ भुरिक्, ४ उपरिष्ठाद्विराड् बृहती। निः॒सालां धृ॒ष्णुं धि॒षण॑मेकवा॒द्यां जि॑घ॒त्स्वऽम्। सर्वा॒श्चण्ड॑स्य न॒प्त्योऽ ना॒शया॑मः स॒दान्वाः॑ ॥१॥ निर्वो॑ गो॒ष्ठाद॑जामसि॒ निरक्षा॒न्निरु॑पान॒सात्। निर्वो॑ मगुन्द्या दुहितरो गृ॒हेभ्य॑श्चातयामहे ॥२॥ अ॒सौ यो अ॑ध॒राद् गृ॒हस्तत्र॑ सन्त्वरा॒य्यः । तत्र॑ से॒दिर्न्युऽच्यतु॒ सर्वा॑श्च यातुधा॒न्यः ॥३॥ भू॒त॒प॒तिर्निर॑ज॒त्विन्द्र॑श्चे॒तः स॒दान्वाः॑ । गृ॒हस्य॑ बु॒ध्न आसी॑ना॒स्ता इन्द्रो॒ वज्रे॒णाधि॑ तिष्ठतु ॥४॥ यदि॒ स्थ क्षे॑त्रि॒याणां॒ यदि॑ वा॒ पुरु॑षेषिताः । यदि॒ स्थ दस्यु॑भ्यो जा॒ता नश्य॑ते॒तः स॒दान्वाः॑ ॥५॥ परि॒ धामा॑न्यासामा॒शुर्गाष्ठा॑मिवासरन्। अजै॑षं॒ सर्वा॑ना॒जीन्वो॒ नश्य॑ते॒तः स॒दान्वाः॑ ॥६॥
अभय प्राप्तिः। १-६ ब्रह्मा। प्राणः, आयुः। त्रिपाद्गायत्री। यथा॒ द्यौश्च॑ पृथि॒वी च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥१॥ यथाह॑श्च॒ रात्री॑ च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥२॥ यथा॒ सूर्य॑श्च च॒न्द्रश्च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥३॥ यथा॒ ब्रह्म॑ च क्ष॒त्रं च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥४॥ यथा॑ स॒त्यं चानृ॑तं च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥५॥ यथा॑ भू॒तं च॒ भव्यं॑ च॒ न बि॑भी॒तो न रिष्य॑तः । ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥६॥
सुरक्षा १-५ ब्रह्मा। प्राणः, अपानः, आयुः। (एकावसानम्) १, ३ एकपदासुरी त्रिष्टुप्, प्राणा॑पानौ मृ॒त्योर्मा॑ पातं॒ स्वाहा॑ ॥१॥ द्यावा॑पृथिवी॒ उप॑श्रुत्या मा पातं॒ स्वाहा॑ ॥२॥ सूर्य॒ चक्षु॑षा मा पाहि॒ स्वाहा॑ ॥३॥ अग्ने॑ वैश्वानर॒ विश्वै॑र्मा दे॒वैः पा॑हि॒ स्वाहा॑ ॥४॥ विश्वं॑भर॒ विश्वे॑न मा॒ भर॑सा पाहि॒ स्वाहा॑ ॥५॥
बलप्राप्तिः। १-७ ब्रह्मा। प्राणः, अपानः, आयुः। (एकावसानम्) १-६ एकपदासुरी त्रिष्टुप्, ७ आसुरी उष्णिक्। ओजो॒ऽस्योजो॑ मे दाः॒ स्वाहा॑ ।१॥ सहो॑ऽसि॒ सहो॑ मे दाः स्वाहा॑ ॥२॥ बल॑मसि॒ बलं॑ मे दाः॒ स्वाहा॑ ॥३॥ आयु॑र॒स्यायु॑र्मे दाः॒ स्वाहा॑ ॥४॥ श्रोत्र॑मसि॒ श्रोत्रं॑ मे दाः॒ स्वाहा॑ ॥५॥ चक्षु॑रसि॒ चक्षु॑र्मे दाः॒ स्वाहा॑ ॥६॥ प॒रि॒पाण॑मसि परि॒पाणं॑ मे दाः॒ स्वाहा॑ ॥७॥
शत्रुनाशनम्। १-५ चातनः। अग्निः। (द्वैपदम्) साम्नी बृहती। भ्रा॒तृ॒व्य॒क्षय॑णमसि भ्रातृव्य॒चात॑नं मे दाः॒ स्वाहा॑ ॥१॥ स॒प॒त्न॒क्षय॑णमसि सपत्न॒चात॑नं मे दाः॒ स्वाहा॑ ॥२॥ अ॒रा॒य॒क्षय॑णमस्यराय॒चात॑नं मे दाः॒ स्वाहा॑ ॥३॥ पि॒शा॒च॒क्षय॑णमसि पिशाच॒चात॑नं मे दाः॒ स्वाहा॑ ॥४॥ स॒दा॒न्वा॒क्षय॑णमसि सदान्वा॒चात॑नं मे दाः॒ स्वाहा॑ ॥५॥
शत्रुनाशनम्। १-५ अथर्वा। अग्निः। (एकावसानम्) १-४ निचृद्विषमा गायत्री, ५ भुरिग्विषमा। अग्ने॒ यत् ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥१॥ अग्ने॒ यत् ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥२॥ अग्ने॒ यत् ते॒ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥३॥ अग्ने॒ यत् ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥४॥ अग्ने॒ यत् ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥५॥
शत्रुनाशनम्। १-५ अथर्वा। वायुः। (एकावसानम्) १-४ निचृद्विषमा गायत्री, ५ भुरिग्विषमा। वायो॒ यत् ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥१॥ वायो॒ यत् ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥२॥ वायो॒ यत् ते॒ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥३॥ वायो॒ यत् ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥४॥ वायो॒ यत् ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥५॥
शत्रुनाशनम्। १-५ अथर्वा। सूर्यः। (एकावसानम्) १-४ निचृद्विषमा गायत्री, ५ भुरिग्विषमा। सूर्य॒ यत् ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥१॥ सूर्य॒ यत् ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥२॥ सूर्य॒ यत् ते॒ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥३॥ सूर्य॒ यत् ते॑ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥४॥ सूर्य॒ यत् ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥५॥
शत्रुनाशनम्। १-५ अथर्वा। चन्द्रः। (एकावसानम्) १-४ निचृद्विषमा गायत्री, ५ भुरिग्विषमा। चन्द्र॒ यत् ते॒ तप॒स्तेन॒ तं प्रति॑ तप॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥१॥ चन्द्र॒ यत् ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥२॥ चन्द्र॒ यत् ते॒ऽर्चिस्तेन॒ तं प्रत्य॑र्च॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥३॥ चन्द्र॒ यत् ते॒ शो॒चिस्तेन॒ तं प्रति॑ शोच॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥४॥ चन्द्र॒ यत् ते॒ तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणु॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥५॥
शत्रुनाशनम्। १-५ अथर्वा। आपः। (एकावसानम्) १-४ समविषमा, ५ स्वराड्विषमा। आपो॒ यद् व॒स्तप॒स्तेन॒ तं प्रति॑ तपत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥१॥ आपो॒ यद् वो॒ हर॒स्तेन॒ तं प्रति॑ हरत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥२॥ आपो॒ यद् वो॒ऽर्चिस्तेन॒ तं प्रत्य॑र्चत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥३॥ आपो॒ यद् वः॑ शो॒चिस्तेन॒ तं प्रति॑ शोचत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥४॥ आपो॒ यद् व॒स्तेज॒स्तेन॒ तम॑ते॒जसं॑ कृणुत॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥५॥
शत्रुनाशनम्। १-८ ब्रह्मा। आयुष्यम्। पङ्क्तिः, १-२ पुरउष्णिक्, ३-४ पुरोदेवत्या पङ्क्तिः(१-४ विराट्), ५-८ पञ्चपदा पथ्यापङ्क्तिः (५ भुरिक्, ६-७ निचृत्, ५ चतुष्पदा बृहती, ७-८ भुरिक्)। शेर॑भक॒ शेर॑भ॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥१॥ शेवृ॑धक॒ शेवृ॑ध॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः । यस्य॒ स्थ तम॑त्त॒ यो वः प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥२॥ म्रोकानु॑म्रोक॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥३॥ सर्पानु॑सर्प॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥४॥ जूर्णि॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥५॥ उप॑ब्दे॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥६॥ अर्जु॑नि॒ पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥७॥ भरू॑जि पुन॑र्वो यन्तु या॒तवः॒ पुन॑र्हे॒तिः कि॑मीदिनीः । यस्य॒ स्थ तम॑त्त॒ यो वः॒ प्राहै॒त् तम॑त्त॒ स्वा मां॒सान्य॑त्त ॥८॥
पृश्निपर्णी। १-५ चातनः। पृश्निपर्णी वनस्पतिः। अनुष्टुप्, ४ भुरिक्। शं नो॑ दे॒वी पृ॑श्निप॒र्ण्यशं॒ निरृ॑त्या अकः । उ॒ग्रा हि क॑ण्व॒जम्भ॑नी॒ ताम॑भक्षि॒ सह॑स्वतीम्॥१॥ सह॑माने॒यं प्र॑थ॒मा पृ॑श्निप॒र्ण्यऽजायत । तया॒हं दु॒र्णाम्नां॒ शिरो॑ वृ॒श्चामि॑ श॒कुने॑रिव ॥२॥ अ॒राय॑मसृ॒क्पावा॑नं॒ यश्च॑ स्फा॒तिं जिही॑र्षति । ग॒र्भा॒दं कण्वं॑ नाशय॒ पृश्नि॑पर्णि॒ सह॑स्व च ॥३॥ गि॒रिमे॑नाँ॒ आ वे॑शय॒ कण्वा॑न् जीवित॒योप॑नान्। तांस्त्वं दे॑वि पृश्निपर्ण्य॒ग्निरि॑वानु॒दह॑न्निहि ॥४॥ परा॑च एना॒न् प्र णु॑द॒ कण्वा॑न् जीवित॒योप॑नान्। तमां॑सि॒ यत्र॒ गच्छ॑न्ति॒ तत् क्र॒व्यादो॑ अजीगमम्॥५॥
पशुसंवर्धनम्। १-५ सविता। पशवः। त्रिष्टुप्, ३ उपरिष्टाद्विराड् बृहती, ४ भुरिगनुष्टुप्, ५ अनुष्टुप्। एह य॑न्तु प॒शवो॒ ये प॑रे॒युर्वा॒युर्येषां॑ सहचा॒रं जु॒जोष॑ । त्वष्टा॒ येषां॑ रूप॒धेया॑नि वेदा॒स्मिन् तान् गो॒ष्ठे स॑वि॒ता नि य॑छतु ॥१॥ इ॒मं गो॒ष्ठं प॒शवः॒ सं स्र॑वन्तु॒ बृह॒स्पति॒रा न॑यतु प्रजा॒नन्। सि॒नी॒वा॒ली न॑य॒त्वाग्र॑मेषामाज॒ग्मुषो॑ अनुमते॒ नि य॑छ ॥२॥ सं सं स्र॑वन्तु प॒शवः॒ समश्वाः॒ समु॒ पूरु॑षाः । सं धा॒न्यऽस्य॒ या स्फा॒तिः सं॑स्रा॒व्येऽण ह॒विषा॑ जुहोमि ॥३॥ सं सि॑ञ्चामि॒ गवां॑ क्षी॒रं समाज्ये॑न॒ बलं॒ रसम्। संसि॑क्ता अ॒स्माकं॑ वी॒रा ध्रु॒वा गावो॒ मयि॒ गोप॑तौ ॥४॥ आ ह॑रामि॒ गवां॑ क्षी॒रमाहा॑र्षं धा॒न्यं॑१ रस॑म्। आहृ॑ता अ॒स्माकं॑ वी॒रा आ पत्नी॑रि॒दमस्त॑कम्॥५॥
शत्रुपराजयः। १-७ कपिञ्जलः। १-५ वनस्पतिः, ६ रुद्रः, ७ इन्द्रः। अनुष्टुप्। नेच्छत्रुः॒ प्राशं॑ जयाति॒ सह॑मानाभि॒भूर॑सि । प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑न्वोषधे ॥१॥ सु॒प॒र्णस्त्वान्व॑विन्दत् सूक॒रस्त्वा॑खनन्न॒सा। प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे ॥२॥ इन्द्रो॑ ह चक्रे त्वा बा॒हावसु॑रेभ्य॒ स्तरी॑तवे । प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे ॥३॥ पा॒टामिन्द्रो॒ व्याऽश्ना॒दसु॑रेभ्य॒ स्तरी॑तवे । प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे ॥४॥ तया॒हं शत्रू॑न्त्साक्ष॒ इन्द्रः॑ सालावृ॒काँ इ॑व । प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे ॥५॥ रुद्र॒ जला॑षभेषज॒ नील॑शिखण्ड॒ कर्म॑कृत्। प्राशं॒ प्रति॑प्राशो जह्यर॒सान् कृ॑ण्वोषधे ॥६॥ तस्य॒ प्राशं॒ त्वं ज॑हि॒ यो न॑ इन्द्राभि॒दास॑ति । अधि॑ नो ब्रूहि॒ शक्ति॑भिः प्रा॒शि मामुत्त॑रं कृधि ॥७॥
दीर्घायुःप्राप्तिः। १-५ शम्भुः। १, ३ जरिमा, आयुः, २ मित्रावरुणौ, ३-५ द्यावापृथिव्यादयो देवाः। त्रिष्टुप्, १जगती, ५ भुरिक्। तुभ्य॑मे॒व ज॑रिमन् वर्धताम॒यं मेमम॒न्ये मृ॒त्यवो॑ हिंसिषुः श॒तं ये॑। मा॒तेव॒ पु॒त्रं प्रम॑ना उ॒पस्थे॑ मि॒त्र ए॑नं मि॒त्रिया॑त् पा॒त्वंह॑सः ॥१॥ मि॒त्र एनं॒ वरु॑णो वा रि॒शादा॑ ज॒रामृ॑त्युं कृणुतां संविदा॒नौ। तद॒ग्निर्होता॑ व॒युना॑नि विद्वान् विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति ॥२॥ त्वमी॑शिषे पशू॒नां पार्थि॑वानां॒ ये जा॒ता उ॒त वा॒ ये ज॒नित्राः॑ । मेमं प्रा॒णो हा॑सी॒न्मो अ॑पा॒नो मेमं मि॒त्रा व॑धिषु॒र्मो अ॒मित्राः॑ ॥३॥ द्यौष्ट्वा॑ पि॒ता पृ॑थि॒वी मा॒ता ज॒रामृ॑त्युं कृणुतां संविदा॒ने। यथा॒ जीवा॒ अदि॑तेरु॒पस्थे॑ प्राणापा॒नाभ्यां॑ गुपि॒तः श॒तं हिमाः॑ ॥४॥ इ॒मम॑ग्ने॒ आयु॑षे॒ वर्च॑से नय प्रि॒यं रेतो॑ वरुण मित्रराजन्। मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा ज॒रद॑ष्टि॒र्य॑थास॑त्॥५॥
दीर्घायुष्यम्। १-७ अथर्वा। १ अग्निः, सूर्यः, बृहस्पतिः, २ जातवेदाः, सविता, ३ इन्द्रः, ४-५ द्यावापृथिवी, विश्वे देवाः, मरुतः, आपः, ६ अश्विनौ, ७ इन्द्रः। त्रिष्टुप्, १ अनुष्टुप्, ४ पराबृहती निचृत्प्रस्तारपङ्क्तिः। पार्थि॑वस्य॒ रसे॑ देवा॒ भग॑स्य त॒न्वो॒३ बले॑ । आ॒यु॒ष्यऽम॒स्मा अ॒ग्निः सूर्यो वर्च॒ आ धा॒द् बृह॒स्पतिः॑ ॥१॥ आयु॑र॒स्मै धे॑हि जातवेदः प्रजां त्व॑ष्टरधि॒निधे॑ह्य॒स्मै। रा॒यस्पोषं॑ सवित॒रा सु॑वा॒स्मै श॒तं जी॑वाति श॒रद॒स्तवा॒यम्॥२॥ आ॒शीर्ण॒ ऊर्ज॑मु॒त सौ॑प्रजा॒स्त्वं दक्षं॑ धत्तं॒ द्रवि॑णं॒ सचे॑तसौ । जयं॒ क्षेत्रा॑णि॒ सह॑सा॒यमि॑न्द्र कृण्वा॒नो अ॒न्यानध॑रान्त्स॒पत्ना॑न्॥३॥ इन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टो म॒रुद्भि॑रु॒ग्रः प्रहि॑तो न॒ आग॑न्। ए॒ष वां॑ द्यावापृथिवी उ॒पस्थे॒ मा क्षु॑ध॒न्मा तृ॑षत्॥४॥ ऊर्ज॑मस्मा ऊर्जस्वती धत्तं॒ पयो॑ अस्मै पयस्वती धत्तम्। ऊर्ज॑म॒स्मै द्यावा॑पृथि॒वी अ॑धातां॒ विश्वे॑ दे॒वा म॒रुत॒ ऊर्ज॒मापः॑ ॥५॥ शि॒वाभि॑ष्टे॒ हृद॑यं तर्पयाम्यनमी॒वो मो॑दिषीष्ठाः सु॒वर्चाः॑ । स॒वा॒सिनौ॑ पिबतां म॒न्थमे॒तम॒श्विनो॑ रू॒पं प॑रि॒धाय॑ मा॒याम्॥६॥ इन्द्र॑ ए॒तां स॑सृजे विद्धो अग्र॑ ऊ॒र्जां स्व॒धाम॒जरां॒ सा त॑ ए॒षा। तया॒ त्वं जी॑व श॒रदः॑ सु॒वर्चा॒ मा त॒ आ सु॑स्रोद् भि॒षज॑स्ते अक्रन्॥७॥
कामिनीमनोऽभिमुखीकरणम्। १-५ प्रजापतिः। १ मनः, २ अश्विनौ, ३-४ औषधिः, ५ दम्पती। अनुष्टुप्, १ पथ्यापङ्क्तिः, ३ भुरिक्। यथे॒दं भूम्या॒ अधि॒ तृणं॒ वातो॑ मथा॒य॑ति । ए॒वा म॑थ्नामि ते मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥१॥ सं चेन्नया॑थो अश्विना का॒मिना॒ सं च॒ वक्ष॑थः । सं वां॒ भगा॑सो अग्मत॒ सं चि॒त्तानि॒ समु॑ व्र॒ता॥२॥ यत् सु॑प॒र्णा वि॑व॒क्षवो॑ अनमी॒वा वि॑व॒क्षवः॑ । तत्र॑ मे गछता॒द्धवं॑ श॒ल्य इ॑व॒ कुल्म॑लं॒ यथा॑ ॥३॥ यदन्त॑रं॒ तद् बाह्यं॒ यद् बाह्यं॒ तदन्त॑रम्। क॒न्याऽनां वि॒श्वरू॑पाणां॒ मनो॑ गृभायौषधे ॥४॥ एयम॑ग॒न् पति॑कामा॒ जनि॑कामो॒ऽहमाग॑मम्। अश्वः॒ कनि॑क्रद॒द् यथा॒ भगे॑ना॒हं स॒हाग॑मम्॥५॥
क्रिमिजम्भनम्। १-५ कण्वः। मही, चन्द्रमाः। अनुष्टुप्, २, ४ उपरिष्टाद्विराड्बृहती, ३, ५ आर्षी त्रिष्टुप्। इन्द्र॑स्य॒ या म॒ही दृ॒षत् क्रिमे॒र्विश्व॑स्य॒ तर्ह॑णी । तया॑ पिनष्मि॒ सं क्रिमी॑न् दृ॒षदा॒ खल्वाँ॑ इव ॥१॥ दृ॒ष्टम॒दृष्ट॑मतृह॒मथो॑ कु॒रूरु॑मतृहम्। अ॒ल्गण्डू॒न्त्सर्वा॑न् छ॒लुना॒न् क्रिमी॒न् वच॑सा जम्भयामसि ॥२॥ अ॒ल्गण्डू॑न् हन्मि मह॒ता व॒धेन॑ दू॒ना अदू॑ना अर॒सा अ॑भूवन्। शि॒ष्टानशि॑ष्टा॒न् नि ति॑रामि वा॒चा यथा॒ क्रिमी॑णां॒ नकि॑रु॒च्छिषा॑तै ॥३॥ अन्वा॑न्त्र्यं शीर्ष॒ण्य॑१मथो॒ पार्ष्टे॑यं॒ क्रिमी॑न्। अ॒व॒स्क॒वं व्य॑ध्व॒रं क्रिमी॒न् वच॑सा जम्भयामसि ॥४॥ ये क्रिम॑यः॒ पर्व॑तेशु॒ वने॒ष्वोष॑धीषु प॒शुष्व॒प्स्व॑१न्तः । ये अ॒स्माकं॑ त॒न्वऽमाविवि॒शुः सर्वं॒ तद्ध॑न्मि॒ जनि॑म॒ क्रिमी॑णाम्॥५॥
क्रिमिनाशनम्। १-६ कण्वः। आदित्यः। अनुष्टुप्, १ त्रिपाद्भुरिग्गायत्री, ६ चतुष्पान्निचृदुष्णिक्। उ॒द्यन्ना॑दि॒त्यः क्रिमी॑न् हन्तु नि॒म्रोच॑न् हन्तु र॒श्मिभिः॑ । ये अ॒न्तः क्रिम॑यो॒ गवि॑ ॥१॥ वि॒श्वरू॑पं चतुर॒क्षं क्रिमिं॑ सा॒रङ्ग॒मर्जु॑नम्। शृ॒णाम्य॑स्य पृ॒ष्टीरपि॑ वृश्चामि॒ यच्छिरः॑ ॥२॥ अ॒त्रि॒वद् वः॑ क्रिमयो हन्मि कण्व॒वज्ज॑मदग्नि॒वत्। अ॒गस्त्य॑स्य॒ ब्रह्म॑णा॒ सं पि॑नष्म्य॒हं क्रिमी॑न्॥३॥ ह॒तो राजा॒ क्रिमी॑णामु॒तैषां॑ स्थ॒पति॑र्ह॒तः । ह॒तो ह॒तमा॑ता॒ क्रिमि॑र्ह॒तभ्रा॑ता ह॒तस्व॑सा ॥४॥ ह॒तासो॑ अस्य वे॒शसो॑ ह॒तासः॒ परि॑वेशसः । अथो॒ ये क्षु॑ल्ल॒का इ॑व॒ सर्वे॒ ते क्रिम॑यो ह॒ताः ॥५॥ प्र ते॑ शृणामि॒ शृङ्गे॒ याभ्यां॑ वितुदा॒यसि॑ । भि॒नाद्मि॑ ते कु॒षुम्भं॒ यस्ते॑ विष॒धानः॑ ॥६॥
यक्ष्मविबर्हणम्। १-७ ब्रह्मा। यक्ष्मविबर्हणं, चन्द्रमाः, आयुष्यम्। अनुष्टुप्, ३ ककुम्मती, ४ चतुष्पदा भुरिगुष्णिक्, ५ उपरिष्टाद्विराड्बृहती, ६ उष्णिग्गर्भा निचृदनुष्टुप्, ७ पथ्यापङ्क्तिः। अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां छुबु॑का॒दधि॑ । यक्ष्मं॑ शीर्ष॒ण्यं ऽ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥१॥ ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्याऽत्। यक्ष्मं॑ दोष॒ण्य॑१मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥२॥ हृद॑यात् ते॒ परि॑ क्लो॒म्नो हली॑क्ष्णात् पा॒र्श्वाभ्या॑म्। यक्ष्मं॒ मत॑स्नाभ्यां प्ली॒ह्नो य॒क्नस्ते॒ वि वृ॑हामसि ॥३॥ आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोरु॒दरा॒दधि॑ । यक्ष्मं॑ कु॒क्षिभ्यां॑ प्ला॒शेर्नाभ्या॒ वि वृ॑हामि ते ॥४॥ ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णिभ्यां॒ प्रप॑दाभ्याम्। यक्ष्मं॑ भस॒द्यं॑१ श्रोणि॑भ्यां॒ भास॑दं॒ भंस॑सो॒ वि वृ॑हामि ते ॥५॥ अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः । यक्ष्मं॑ पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ॥६॥ अङ्गे॑अङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि । यक्ष्मं॑ त्वचस्य ऽ ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ॥७॥
पशवः। १-५ अथर्वा। १ पशुपतिः, २ देवाः, ३ अग्निः विश्वाकर्मा, ४ वायुः प्रजापतिः, ५ आशीः। त्रिष्टुप्। य ईशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त यो द्वि॒पदा॑म्। निष्क्री॑तः॒ स य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानं सचन्ताम्॥१॥ प्र॒मु॒ञ्चन्तो॒ भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः । उ॒पाकृ॑तं शशमा॒नं यदस्था॑त् प्रि॒यं दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥२॥ ये ब॒ध्यमा॑न॒मनु॒ दीध्या॑ना अ॒न्वैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च । अ॒ग्निष्टानग्रे॒ प्र मु॑मोक्तु दे॒वो वि॒श्वक॑र्मा प्र॒जया॑ संररा॒णः ॥३॥ ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा विरू॑पाः सन्तो॑ बहु॒धैक॑रूपाः । वा॒युष्टानग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संररा॒णः ॥४॥ प्र॒जा॒नन्तः॒ प्रति॑ गृह्णन्तु॒ पूर्वे॑ प्रा॒णमङ्गे॑भ्यः॒ पर्या॒चर॑न्तम्। दिवं॑ गच्छ॒ प्रति॑ तिष्ठा॒ शरी॑रैः स्व॒र्गं या॑हि प॒थिभि॑र्देव॒यानैः॑ ॥५॥
विश्वकर्मा। १-५ अङ्गिराः। विश्वकर्मा। त्रिष्टुप्, १ बृहतीगर्भा, ४-५ भुरिक्। ये भ॒क्षय॑न्तो॒ न वसू॑न्यानृ॒धुर्यान॒ग्नयो॑ अ॒न्वत॑प्यन्त॒ धिष्ण्याः॑ । या तेषा॑मव॒या दुरि॑ष्टिः॒ स्विऽष्टिं न॒स्तां कृ॑णवद् वि॒श्वक॑र्मा ॥१॥ य॒ज्ञप॑ति॒मृष॑यः॒ एन॑साहु॒र्निर्भ॑क्तं प्र॒जा अ॑नुत॒प्यमा॑नम्। म॒थ॒व्या॒ऽन्त्स्तो॒कानप॒ यान् र॒राध॒ सं न॒ष्टेभिः॑ सृजतु वि॒श्वक॑र्मा ॥२॥ अ॒दा॒न्यान्त्सो॑म॒पान् मन्य॑मानो य॒ज्ञस्य॑ वि॒द्वान्त्स॑म॒ये न धीरः॑ । यदेन॑श्चकृ॒वान् ब॒द्ध ए॒ष तं वि॑श्वकर्म॒न् प्र मु॑ञ्चा स्व॒स्तये॑ ॥३॥ घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्य॒श्चक्षु॒र्यदे॑षां॒ मन॑सश्च स॒त्यम्। बृह॒स्पत॑ये महिष द्यु॒मन्नमो॒ विश्व॑कर्म॒न् नम॑स्ते पा॒ह्य॑१स्मा॑न्॥४॥ य॒ज्ञस्य॒ चक्षुः॒ प्रभृ॑ति॒र्मुखं॑ च वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि । इ॒मं य॒ज्ञं वित॑तं वि॒श्वक॑र्म॒णा दे॒वा य॑न्तु सुमन॒स्यमा॑नाः ॥५॥
पतिवेदनम्। १-८ पतिवेदनः। १अग्निः, २ सोमः, अर्यमा, धाता, ३ अग्नीषोमौ, ४ इन्द्रः, ५ सूर्यः, ६ धनपतिः, ७ भगः, ८ औषधिः। त्रिष्टुप्, १भुरिक्, २, ५-७ अनुष्टुप्, ८ निचृत्पुरउष्णिक्। आ नो॑ अग्ने सुम॒तिं सं॑भ॒लो ग॑मेदि॒मां कु॑मा॒रीं स॒ह नो॒ भगे॑न । जु॒ष्टा व॒रेषु॒ सम॑नेषु व॒ल्गुरो॒षं पत्या॒ सौभ॑गमस्त्व॒स्यै॥१॥ सोम॑जुष्टं॒ ब्रह्म॑जुष्टमर्य॒म्णा संभृ॑तं॒ भग॑म्। धा॒तुर्दे॒वस्य॑ स॒त्येन॑ कृ॒णोमि॑ पति॒वेद॑नम्॥२॥ इ॒यम॑ग्ने॒ नारी॒ पतिं॑ विदेष्ट॒ सोमो॒ हि राजा॑ सु॒भगां॑ कृ॒णोति॑ । सुवा॑ना पु॒त्रान् महि॑षी भवाति ग॒त्वा पतिं॑ सु॒भगा॒ वि रा॑जतु ॥३॥ यथा॑ख॒रो म॑घवं॒श्चारु॑रे॒ष प्रि॒यो मृ॒गाणां॑ सु॒षदा॑ ब॒भूव॑ । ए॒वा भग॑स्य जु॒ष्टेयम॑स्तु॒ नारी॒ संप्रि॑या॒ पत्यावि॑राधयन्ती ॥४॥ भग॑स्य॒ नाव॒मा रो॑ह पू॒र्णामनु॑पदस्वतीम्। तयो॑पप्रता॑रय॒ यो वरः प्र॑तिका॒म्यः ॥५॥ आ क्र॑न्दय धनपते व॒रमाम॑नसं कृणु । सर्वं॑ प्रदक्षि॒णं कृ॑णु॒ यो व॒रः प्र॑तिका॒म्यः ॥६॥ इ॒दं हिर॑ण्यं॒ गुल्गु॑ल्व॒यमौ॒क्षो अथो॒ भगः॑ । ए॒ते पति॑भ्य॒स्त्वाम॑दुः प्रतिका॒माय॒ वेत्त॑वे ॥७ आ ते॑ नयतु सवि॒ता न॑यतु॒ पति॒र्यः प्र॑तिका॒म्यः । त्वम॑स्यै धेह्योषधे ॥८॥
Quick guide
Before you begin
Bhav
Benefits devotees pray for
FAQ
Common questions
What is Kaanda 2 of the Atharva Veda?
Kaanda 2 of the Atharvaveda (Shaunaka) — shorter hymns for healing, protection, long life and well-being. The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
What is the Atharva Veda?
The Atharvaveda is the Veda of the Atharvan and Angirasa rishis — hymns and formulae woven into everyday life: for healing and long life, for protection and prosperity, for household and society and kingship, alongside profound philosophical hymns.
Offer a Vedic paath or seva in your name
Have a Vedic paath, havan or seva performed in your naam-gotra for peace and blessings. Book a seva, or read on in Sanatan Sahitya.








