उत्तरकाण्ड के बारे में
अंतिम काण्ड राम के राज्याभिषेक और राम-राज्य के स्वर्ण-युग, रावण और हनुमान की पूर्व-कथाओं, लव-कुश के जन्म — जो स्वयं वाल्मीकि से रामायण सीखते हैं — और सीता के पृथ्वी में समाने की कथा कहता है, और इस प्रकार आदि काव्य का समापन होता है।
पाठ कैसे करें
उत्तरकाण्ड नीचे उसकी मूल संस्कृत में (देवनागरी में), सर्ग और श्लोक क्रम से दिया गया है। श्लोक-दर-श्लोक पढ़ें; विशेषकर सुन्दरकाण्ड का पाठ साहस और रक्षा हेतु किया जाता है।
मूल पाठ
मूल श्लोक
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ।आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ।। ७.१.१ ॥
कौशिको ऽथ यवक्रीतो गार्ग्यो गालव एव च ।कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ।। ७.१.२ ॥
स्वस्त्यात्रेयो ऽथ भगवान्नमुचिः प्रमुचिस्तथा ।आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ।। ७.१.३ ॥
नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः ।ते ऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ।। ७.१.४ ॥
वसिष्ठः कश्यपो ऽथात्रिर्विश्वामित्रः सगौतमः ।जमदग्निर्भरद्वाजस्ते ऽपि सप्तर्षयस्तथा ।। ७.१.५ ॥
उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ।। ७.१.६ ॥
सम्प्राप्य ते महात्मानो राघवस्य निवेशनम् ।विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः ।वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ।। ७.१.७ ॥
द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः ।निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ।। ७.१.८ ॥
प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् ।समीपं राघवस्याशु प्रविवेश महात्मनः ।। ७.१.९ ॥
नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः ।स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ।। ७.१.१० ॥
अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह ।। ७.१.११ ॥
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् ।प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम् ।। ७.१.१२ ॥
तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः ।पाद्यार्घ्यादिभिरानर्च गां निवेद्य च सादरम् ।। ७.१.१३ ॥
रामो ऽभिवाद्य प्रयत आसनान्यादिदेश ह ।तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ।। ७.१.१४ ॥
कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च ।यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ।। ७.१.१५ ॥
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः ।महर्षयो वेदविदो रामं वचनमब्रुवन् ।। ७.१.१६ ॥
कुशलं नो महाबाहो सर्वत्र रघुनन्दन ।त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ।। ७.१.१७ ॥
दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः ।न हि भारः स ते राम रावणः पुत्रपौत्रवान् ।। ७.१.१८ ॥
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः ।दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ।। ७.१.१९ ॥
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया ।लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वद्धितकारिणा ।। ७.१.२० ॥
मातृभिर्भ्रातृसहितं पश्यामो ऽद्य वयं नृप ।दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः ।अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ।। ७.१.२१ ॥
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ।दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ।। ७.१.२२ ॥
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ।दिष्ट्या ते निहता राम महावीर्या निशाचराः ।। ७.१.२३ ॥
कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ ।दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ।। ७.१.२४ ॥
युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ ।यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ।। ७.१.२५ ॥
कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः ।अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ।। ७.१.२६ ॥
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ।देवतानामवध्येन विजयं प्राप्तवानसि ।। ७.१.२७ ॥
सङ्ख्ये तस्य न किञ्चित्तु रावणस्य पराभवः ।द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ।। ७.१.२८ ॥
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ।मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ।। ७.१.२९ ॥
अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् ।सो ऽवध्यः सर्वभूतानां महामायाधरो युधि ।। ७.१.३० ॥
विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ।। ७.१.३१ ॥
एते चान्ये च बहवो राक्षसाः कामरूपिणः ।दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन ।। ७.१.३२ ॥
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ॥
दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ।। ७.१.३३ ॥
श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् ।विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ।। ७.१.३४ ॥
भगवन्तः कुम्भकर्णं रावणं च निशाचरम् ।अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ।। ७.१.३५ ॥
महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् ।मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ ॥
अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् ।। ७.१.३६ ॥
अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् ।अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ।। ७.१.३७ ॥
कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः ।केन वा कारणेनैष रावणादतिरिच्यते ।। ७.१.३८ ॥
शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ।यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ।। ७.१.३९ ॥
शक्रो ऽपि विजितस्तेन कथं लब्धवरश्च सः ।कथं च बलवानन्पुत्रो न पिता तस्य रावणः ।। ७.१.४० ॥
कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः ।वराश्च लब्धाः कथयस्व मे ऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ।। ७.१.४१ ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।कुम्भयोनिर्मिहातेजा राममेतदुवाच ह ।। ७.२.१ ॥
शृणु राम कथावृत्तं तस्य तेजोबलं महत् ।जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ।। ७.२.२ ॥
तावत्ते रावणस्येदं कुलं जन्म च राघव ।वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ।। ७.२.३ ॥
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ।पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ।। ७.२.४ ॥
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ।। ७.२.५ ॥
प्रजापतिसुतत्वेन देवानां वल्लभो हि सः ।हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ।। ७.२.६ ॥
स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ।तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ।। ७.२.७ ॥
तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ।गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ।। ७.२.८ ॥
देवपन्नगकन्याश्च राजर्षितनयाश्च याः ।क्रीडन्त्यो ऽप्सरसश्चैव तं देशमुपपेदिरे ।। ७.२.९ ॥
सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च ।नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ।। ७.२.१० ॥
देशस्य रमणीयत्वात्पुलस्त्यो यत्र स द्विजः ।गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ।मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ।। ७.२.११ ॥
अथ क्रुद्धो महातेजा व्याजहार महामुनिः ।या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ।। ७.२.१२ ॥
तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः ।ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ।। ७.२.१३ ॥
तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ।। ७.२.१४ ॥
गत्वाश्रमपदं तत्र विचचार सुनिर्भया ।न सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ।। ७.२.१५ ॥
तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः ।स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ।। ७.२.१६ ॥
सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् ।अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ।। ७.२.१७ ॥
वभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः ।इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वा ऽ ऽश्रमे स्थिता ।। ७.२.१८ ॥
तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् ।किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ।। ७.२.१९ ॥
सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् ।न जाने कारणं तात येन मे रूपमीदृशम् ।। ७.२.२० ॥
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ।। ७.२.२१ ॥
न च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् ।रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ।। ७.२.२२ ॥
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ।। ७.२.२३ ॥
स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ।। ७.२.२४ ॥
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ।। ७.२.२५ ॥
तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते ।शुश्रूषणपरा नित्यं भविष्यति न संशयः ।। ७.२.२६ ॥
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ।जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ।। ७.२.२७ ॥
दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः ।सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ।। ७.२.२८ ॥
तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः ।प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ।। ७.२.२९ ॥
परितुष्टो ऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् ।तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ।। ७.२.३० ॥
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ।यस्मात्तु विश्रुतो वेदस्त्वयैषो ऽध्ययतो मम ।। ७.२.३१ ॥
तस्मात्स विश्रवा नाम भविष्यति न संशयः ।एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ।। ७.२.३२ ॥
अचिरेणैव कालेनासूत विश्रवसं सुतम् ।त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ।। ७.२.३३ ॥
श्रुतिमान्समदर्शी च व्रताचाररतस्तथा ।पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ।। ७.२.३४ ।।
अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः ।अचिरेणैव कालेन पितेव तपसि स्थितः ।। ७.३.१ ॥
सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः ।सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ।। ७.३.२ ॥
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः ।ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ।। ७.३.३ ॥
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा ।प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ।। ७.३.४ ॥
मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः ।स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् ।। ७.३.५ ॥
जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् ।तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः ।। ७.३.६ ॥
दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति ।नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ।। ७.३.७ ॥
यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव ।तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः ।। ७.३.८ ॥
स तु वैश्रवणस्तत्र तपोवनगतस्तदा ।अवर्धताहुतिहुतो महातेजा यथानलः ।। ७.३.९ ॥
तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः ।चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ।। ७.३.१० ॥
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ।। ७.३.११ ॥
पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् ।जलाशी मारुताहारो निराहारस्तथैव च ।। ७.३.१२ ॥
एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् ।अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ।। ७.३.१३ ॥
गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ।परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत ।वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते ।। ७.३.१४ ॥
अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् ।भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ।। ७.३.१५ ॥
अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा ।ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ।। ७.३.१६ ॥
अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः ।। ७.३.१७ ॥
यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् ।तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि ।शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि ।। ७.३.१८ ॥
एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् ।प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ।। ७.३.१९ ॥
स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् ।कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् ।। ७.३.२० ॥
इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ।। ७.३.२१ ॥
गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्थलम् ।वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान् ।निवासनं न मे देवो विदधे स प्रजापतिः ।। ७.३.२२ ॥
भगवँल्लब्धवानस्मि वरमिष्टं पितामहात् ।तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो ।। ७.३.२३ ॥
संक्षिप्त मार्गदर्शिका
प्रारंभ से पहले
भाव
भक्त जिन आशीर्वादों की प्रार्थना करते हैं
प्रश्न-उत्तर
प्रायः पूछे जाने वाले प्रश्न
वाल्मीकि रामायण का उत्तरकाण्ड किस विषय में है?
अंतिम काण्ड राम के राज्याभिषेक और राम-राज्य के स्वर्ण-युग, रावण और हनुमान की पूर्व-कथाओं, लव-कुश के जन्म — जो स्वयं वाल्मीकि से रामायण सीखते हैं — और सीता के पृथ्वी में समाने की कथा कहता है, और इस प्रकार आदि काव्य का समापन होता है।
वाल्मीकि रामायण क्या है?
वाल्मीकि रामायण श्री राम की मूल संस्कृत महाकाव्य है, जिसे महर्षि वाल्मीकि ने रचा और जो आदि काव्य (प्रथम काव्य) के रूप में पूजित है। इसमें सात काण्ड हैं: बाल, अयोध्या, अरण्य, किष्किन्धा, सुन्दर, युद्ध और उत्तर; यही तुलसीदास की रामचरितमानस सहित अनेक परवर्ती रामायणों का स्रोत है।
अपने नाम से राम पाठ या सेवा अर्पित करें
रक्षा और शांति हेतु अपने नाम-गोत्र में रामायण या सुंदरकांड पाठ करवाएँ। सेवा बुक करें, या सनातन साहित्य में आगे पढ़ें।







