उद्योग पर्व के बारे में
युद्ध की पूर्व-तैयारी — दोनों पक्ष मित्र जुटाते हैं, और कृष्ण पाण्डवों के शान्ति-दूत बनकर हस्तिनापुर जाते हैं। दुर्योधन पाँच गाँव तक देने से इनकार करता है; कृष्ण अपना विराट रूप दिखाते हैं; और कुन्ती कर्ण से मिलती हैं। युद्ध अवश्यम्भावी हो जाता है।
पाठ कैसे करें
उद्योग पर्व नीचे उसकी मूल संस्कृत में (देवनागरी में), अध्याय और श्लोक क्रम से दिया गया है। श्लोक-दर-श्लोक पढ़ें; महाभारत परम्परा से इतिहास-श्रवण के रूप में सुना जाता है, धर्म और विवेक हेतु।
मूल पाठ
मूल श्लोक
[व] कृत्वा विवाहं तु कुरुप्रवीरास; तदाभिमन्यॊर मुदितस्वपक्षाः विश्रम्य चत्वार्य उषसः परतीताः; सभां विराटस्य ततॊ ऽभिजग्मुः
सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकॊत्तम रत्नचित्रा नयस्तासना माल्यवती सुगन्धा; ताम अभ्ययुस ते नरराज वर्याः
अथासनान्य आविशतां पुरस्ताद; उभौ विराटद्रुपदौ नरेन्द्रौ वृद्धश च मान्यः पृथिवीपतीनां; पितामहॊ राम जनार्दनाभ्याम
पाञ्चालराजस्य समीपतस तु; शिनिप्रवीरः सह रौहिणेयः मत्स्यस्य राज्ञस तु सुसंनिकृष्टौ; जनार्दनश चैव युधिष्ठिरश च
सुताश च सर्वे दरुपदस्य राज्ञॊ; भीमार्जुनौ माद्रवतीसुतौ च परद्युम्न साम्बौ च युधि परवीरौ; विराट पुत्रश च सहाभिमन्युः
सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण बलेन चैव उपाविशन दरौपदेयाः कुमाराः; सुवर्णचित्रेषु वरासनेषु
तथॊपविष्टेषु महारथेषु; विभ्राजमानाम्बर भूषणेषु रराज सा राजवती समृद्धा; गरहैर इव दयौर विमलैर उपेता
ततः कथास ते समवाय युक्ताः; कृत्वा विचित्राः पुरुषप्रवीराः तस्थुर मुहूर्तं परिचिन्तयन्तः; कृष्णं नृपास ते समुदीक्षमाणाः
कथान्तम आसाद्य च माहवेन; संघट्टिताः पाण्डव कार्यहेतॊः ते राजसिंहाः सहिता हय अशृण्वन; वाक्यं महार्थं च महॊदयं च
सर्वैर भवद्भिर विदितं यथायं; युधिष्ठिरः सौबलेनाक्षवत्याम जितॊ निकृत्यापहृतं च राज्यं; पुनः परवासे समयः कृतश च
शक्तैर विजेतुं तरसा महीं च; सत्ये सथितैस तच चरितं यथावत पाण्डॊः सुतैस तद वरतम उग्ररूपं; वर्षाणि षट सप्त च भारताग्र्यैः
तरयॊदशश चैव सुदुस्तरॊ ऽयम; अज्ञायमानैर भवतां समीपे कलेशान असह्यांश च तितिक्षमाणैर; यथॊषितं तद विदितं च सर्वम
एवंगते धर्मसुतस्य राज्ञॊ; दुर्यॊधनस्यापि च यद धितं सयात तच चिन्तयध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशः करं च
अधर्मयुक्तं च न कामयेत; राज्यं सुराणाम अपि धर्मराजः धर्मार्थयुक्तं च महीपतित्वं; गरामे ऽपि कस्मिंश चिद अयं बुभूषेत
पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं धृतराष्ट्र पुत्रैः मिथ्यॊपचारेण तथाप्य अनेन; कृच्छ्रं महत पराप्तम असह्य रूपम
न चापि पार्थॊ विजितॊ रणे तैः; सवतेजसा धृतराष्ट्रस्य पुत्रैः तथापि राजा सहितः सुहृद्भिर; अभीप्सते ऽनामयम एव तेषाम
यत तत सवयं पाण्डुसुतैर विजित्य; समाहृतं भूमिपतीन निपीड्य तत परार्थयन्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च
बालास तव इमे तैर विविधौर उपायैः; संप्रार्थिता हन्तुम अमित्रसाहाः राज्यं जिहीर्षद्भिर असद्भिर उग्रैः; सर्वं च तद वॊ विदितं यथावत
तेषां च लॊभं परसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य संबन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक च
इमे च सत्ये ऽभिरताः सदैव; तं पारयित्वा समयं यथावत अतॊ ऽनयथा तैर उपचर्यमाणा; हन्युः समेतान धृतराष्ट्र पुत्रान
तैर विप्रकारं च निशम्य राज्ञः; सुहृज्जनास तान परिवारयेयुः युद्धेन बाधेयुर इमांस तथैव; तैर वध्यमाना युधितांश च हन्युः
तथापि नेमे ऽलपतया समर्थास; तेषां जयायेति भवेन मतं वः समेत्य सर्वे सहिताः सुहृद्भिस; तेषां विनाशाय यतेयुर एव
दुर्यॊधनस्यापि मतं यथावन; न जञायते किं नु करिष्यतीति अज्ञायमाने च मते परस्य; किं सयात समारभ्यतमं मतं वः
तस्माद इतॊ गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषॊ ऽपरमत्तः दूतः समर्थः परशमाय तेषां; राज्यार्ध दानाय युधिष्ठिरस्य
निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थयुक्तं मधुरं समं च समाददे वाक्यम अथाग्रजॊ ऽसय; संपूज्य वाक्यं तद अतीव राजन
[बलदेव] शरुतं भवद्भिर गद पूर्वजस्य; वाक्यं यथा धर्मवद अर्थवच च अजातशत्रॊश च हितं हितं च; दुर्यॊधनस्यापि तथैव राज्ञः
अर्धं हि राज्यस्य विसृज्य वीराः; कुन्तीसुतास तस्य कृते यतन्ते परदाय चार्धं धृतराष्ट्र पुत्रः; सुखी सहास्माभिर अतीव मॊदेत
लब्ध्वा हि राज्यं पुरुषप्रवीराः; सम्यक परवृत्तेषु परेषु चैव धरुवं परशान्ताः सुखम आविशेयुस; तेषां परशान्तिश च हितं परजानाम
दुर्यॊधनस्यापि मतं च वेत्तुं; वक्तुं च वाक्यानि युधिष्ठिरस्य परियं मम सयाद यदि तत्र कश चिद; वरजेच छमार्थं कुरुपाण्डवानाम
स भीष्मम आमन्त्र्य कुरुप्रवीरं; वैचित्र वीर्यं च महानुभावम दरॊणं सपुत्रं विदुरं कृपं च; गान्धारराजं च ससूतपुत्रम
सर्वे च ये ऽनये धृतराष्ट्र पुत्रा; बलप्रधाना निगम परधानाः सथिताश च धर्मेषु यथा सवकेषु; लॊकप्रवीराः शरुतकालवृद्धाः
एतेषु सर्वेषु समागतेषु; पौरेषु वृद्धेषु च संगतेषु बरवीतु वाक्यं परणिपात युक्तं; कुन्तीसुतस्यार्थ करं यथा सयात
सर्वास्व अवस्थासु च ते न कौट्याद; गरस्तॊ हि सॊ ऽरथॊ बलम आश्रितैस तैः परियाभ्युपेतस्य युधिष्ठिरस्य; दयूते परमत्तस्य हृतं च राज्यम
निवार्यमाणश च कुरुप्रवीरैः; सर्वैः सुहृद्भिर हय अयम अप्य अतज्ज्ञः गान्धारराजस्य सुतं मताक्षं; समाह्वयेद देवितुम आजमीढः
दुरॊदरास तत्र सहस्रशॊ ऽनये; युधिष्ठिरॊ यान विषहेत जेतुम उत्सृज्य तान सौबलम एव चायं; समाह्वयत तेन जितॊ ऽकषवत्याम
स दीव्यमानः परतिदेवनेन; अक्षेषु नित्यं सुपराङ्मुखेषु संरम्भमाणॊ विजितः परसह्य; तत्रापराधः शकुनेर न कश चित
तस्मात परणम्यैव वचॊ बरवीतु; वैचित्रवीर्यं बहु साम युक्तम तथा हि शक्यॊ धृतराष्ट्र पुत्रः; सवार्थे नियॊक्तुं पुरुषेण तेन
[व] एवं बरुवत्य एव मधु परवीरे; शिनिप्रवीरः सहसॊत्पपात तच चापि वाक्यं परिनिन्द्य तस्य; समाददे वक्यम इदं समन्युः
[सात्यकि] यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते यथा रूपॊ ऽनतरात्मा ते तथारूपं परभाषसे
सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास तथा उभाव एतौ दृढौ पक्षौ दृश्येते पुरुषान परति
एकस्मिन्न एव जायेते कुले कलीब महारथौ फलाफलवती शाखे यथैकस्मिन वनस्पतौ
नाभ्यसूयामि ते वाक्यं बरुवतॊ लाङ्गलध्वज ये तु शृण्वन्ति ते वाक्यं तान असूयामि माधव
कथं हि धर्मराजस्य दॊषम अल्पम अपि बरुवन लभते परिषन्मध्ये वयाहर्तुम अकुतॊभयः
समाहूय महात्मानं जितवन्तॊ ऽकषकॊविदाः अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः
यदि कुन्तीसुतं गेहे करीडन्तं भरातृभिः सह अभिगम्य जयेयुस ते तत तेषां धर्मतॊ भवेत
समाहूय तु राजानं कषत्रधर्मरतं सदा निकृत्या जितवन्तस ते किं नु तेषां परं शुभम
कथं परणिपतेच चायम इह कृत्वा पणं परम वनवासाद विमुक्तस तु पराप्तः पैतामहं पदम
यद्य अयं परवित्तानि कामयेत युधिष्ठिरः एवम अप्य अयम अत्यन्तं परान नार्हति याचितुम
कथं च धर्मयुक्तास ते न च राज्यं जिहीर्षवः निवृत्तवासान कौन्तेयान य आहुर विदिता इति
अनुनीता हि भीष्मेण दरॊणेन च महात्मना न वयवस्यन्ति पाण्डूनां परदातुं पैतृकं वसु
अहं तु ताञ शतैर बाणैर अनुनीय रणे बलात पादयॊः पातयिष्यामि कौन्तेयस्य महात्मनः
अथ ते न वयवस्यन्ति परणिपाताय धीमतः गमिष्यन्ति सहामात्या यमस्य सदनं परति
न हि ते युयुधानस्य संरब्धस्य युयुत्सतः वेगं समर्थाः संसॊढुं वज्रस्येव महीधराः
कॊ हि गाण्डीवधन्वानं कश च चक्रायुधं युधि मां चापि विषहेत कॊ नु कश च भीमं दुरासदम
यमौ च दृढधन्वानौ यम कल्पौ महाद्युती कॊ जिजीविषुर आसीदेद धृष्टद्युम्नं च पार्षतम
पञ्चेमान पाण्डवेयांश च दरौपद्याः कीर्तिवर्धनान समप्रमाणान पाण्डूनां समवीर्यान मदॊत्कटान
सौभद्रं च महेष्वासम अमरैर अपि दुःसहम गद परद्युम्न साम्बांश च कालवज्रानलॊपमान
ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह कर्णेन च निहत्याजाव अभिषेक्ष्याम पाण्डवम
नाधर्मॊ विद्यते कश चिच छत्रून हत्वाततायिनः अधर्म्यम अयशस्यं च शात्रवाणां परयाचनम
हृद्गतस तस्य यः कामस तं कुरुध्वम अतन्द्रिताः निसृष्टं धृतराष्ट्रेण राज्यं पराप्नॊतु पाण्डवः
अद्य पाण्डुसुतॊ राज्यं लभतां वा युधिष्ठिरः निहता वारणे सर्वे सवप्स्यन्ति वसुधातले
[दरुपद] एवम एतन महाबाहॊ भविष्यति न संशयः न हि दुर्यॊधनॊ राज्यं मधुरेण परदास्यति
अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः भीष्मद्रॊणौ च कार्पण्यान मौर्ख्याद राधेय सौबलौ
बलदेवस्य वाक्यं तु मम जञाने न युज्यते एतद धि पुरुषेणाग्रे कार्यं सुनयम इच्छता
न तु वाच्यॊ मृदु वचॊ धार्तराष्ट्रः कथं चन न हि मार्दवसाध्यॊ ऽसौ पापबुद्धिर मतॊ मम
गर्दभे मार्दवं कुर्याद गॊषु तीक्ष्णं समाचरेत मृदु दुर्यॊधने वाक्यं यॊ बरूयात पापचेतसि
मृदु वै मन्यते पापॊ भाष्य माणम अशक्तिजम जितम अर्थं विजानीयाद अबुधॊ मार्दवे सति
एतच चैव करिष्यामॊ यत्नश च करियताम इह परस्थापयाम मित्रेभ्यॊ बलान्य उद्यॊजयन्तु नः
शल्यस्य धृष्टकेतॊश च जयत्सेनस्य चाभिभॊः केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः
स तु दुर्यॊधनॊ नूनं परेषयिष्यति सर्वशः पूर्वाभिपन्नाः सन्तश च भजन्ते पूर्वचॊदकम
तत तवरध्वं नरेन्द्राणां पूर्वम एव परचॊदने महद धि कार्यं वॊढव्यम इति मे वर्तते मतिः
शल्यस्य परेष्यतां शीघ्रं ये च तस्यानुगा नृपाः भगदत्ताय राज्ञे च पूर्वसागरवासिने
अमितौजसे तथॊग्राय हार्दिक्यायाहुकाय च दीर्घप्रज्ञाय मल्लाय रॊचमानाय चाभिभॊ
आनीयतां बृहन्तश च सेना बिन्दुश च पार्थिवः पापजित परतिविन्ध्यश च चित्रवर्मा सुवास्तुकः
बाह्लीकॊ मुञ्ज केशश च चैद्याधिपतिर एव च सुपार्श्वश च सुबाहुश च पौरवश च महारथः
शकानां पह्लवानां च दरदानां च ये नृपाः काम्बॊजा ऋषिका ये च पश्चिमानूपकाश च ये
जयसेनश च काश्यश च तथा पञ्चनदा नृपाः कराथ पुत्रश च दुर्धर्षः पार्वतीयाश च ये नृपाः
जानकिश च सुशर्मा च मणिमान पौतिमत्स्यकः पांसुराष्ट्राधिपश चैव धृष्टकेतुश च वीर्यवान
औड्रश च दण्डधारश च बृहत्सेनश च वीर्यवान अपराजितॊ निषादश च शरेणिमान वसुमान अपि
बृहद्बलॊ महौजाश च बाहुः परपुरंजयः समुद्रसेनॊ राजा च सह पुत्रेण वीर्यवान
अदारिश च नदीजश च कर्ण वृष्टश च पार्थिवः समर्थश च सुवीरश च मार्जारः कन्यकस तथा
महावीरश च कद्रुश च निकरस तुमुलः करथः नीलश च वीरधर्मा च भूमिपालश च वीर्यवान
दुर्जयॊ दन्तवक्त्रश च रुक्मी च जनमेजयः आषाढॊ वायुवेगश च पूर्वपाली च पार्थिवः
भूरि तेजा देवकश च एकलव्यस्य चात्मजः कारूषकाश च राजानः कषेमधूर्तिश च वीर्यवान
उद्भवः कषेमकश चैव वाटधानश च पार्थिवः शरुतायुश च दृढायुश च शाल्व पुत्रश च वीर्यवान
कुमारश च कलिङ्गानाम ईश्वरॊ युद्धदुर्मदः एतेषां परेष्यतां शीघ्रम एतद धि मम रॊचते
अयं च बराह्मणः शीघ्रं मम राजन पुरॊहितः परेष्यतां धृतराष्ट्राय वाक्यम अस्मिन समर्प्यताम
यथा दुर्यॊधनॊ वाच्यॊ यथा शांतनवॊ नृपः धृतराष्ट्रॊ यथा वाच्यॊ दरॊणश च विदुषां वरः
[वासु] उपपन्नम इदं वाक्यं सॊमकानां धुरं धुरे अर्थसिद्धि करं राज्ञः पाण्डवस्य महौजसः
एतच च पूर्वकार्यं नः सुनीतम अभिकाङ्क्षताम अन्यथा हय आचरन कर्म पुरुषः सयात सुबालिशः
किं तु संबन्धकं तुल्यम अस्माकं कुरु पाण्डुषु यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च
ते विवाहार्थम आनीता वयं सर्वे यथा भवान कृते विवाहे मुदिता गमिष्यामॊ गृहान परति
भवान वृद्धतमॊ राज्ञां वयसा च शरुतेन च शिष्यवत ते वयं सर्वे भवामेह न संशयः
भवन्तं धृतराष्ट्रश च सततं बहु मन्यते आचार्ययॊः सखा चासि दरॊणस्य च कृपस्य च
स भवान परेषयत्व अद्य पाण्डवार्थ करं वचः सर्वेषां निश्चितं तन नः परेषयिष्यति यद भवान
यदि तावच छमं कुर्यान नयायेन कुरुपुंगवः न भवेत कुरु पाण्डूनां सौभ्रात्रेण महान कषयः
अथ दर्पान्वितॊ मॊहान न कुर्याद धृतराष्ट्रजः अन्येषां परेषयित्वाच च पश्चाद अस्मान समाह्वयेः
ततॊ दुर्यॊधनॊ मन्दः सहामात्यः स बान्धवः निष्टाम आपत्स्यते मूढः करुद्धे गाण्डीवधन्वनि
[व] ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः गृहान परस्थापयाम आस सगणं सह बान्धवम
दवारकां तु गते कृष्णे युधिष्ठिरपुरॊगमाः चक्रुः सांग्रामिकं सर्वं विराटश च महीपतिः
संक्षिप्त मार्गदर्शिका
प्रारंभ से पहले
भाव
भक्त जिन आशीर्वादों की प्रार्थना करते हैं
प्रश्न-उत्तर
प्रायः पूछे जाने वाले प्रश्न
महाभारत का उद्योग पर्व किस विषय में है?
युद्ध की पूर्व-तैयारी — दोनों पक्ष मित्र जुटाते हैं, और कृष्ण पाण्डवों के शान्ति-दूत बनकर हस्तिनापुर जाते हैं। दुर्योधन पाँच गाँव तक देने से इनकार करता है; कृष्ण अपना विराट रूप दिखाते हैं; और कुन्ती कर्ण से मिलती हैं। युद्ध अवश्यम्भावी हो जाता है।
महाभारत क्या है?
महाभारत महर्षि वेदव्यास द्वारा रचित महान संस्कृत इतिहास (महाकाव्य) है, जो कुरुवंश और कुरुक्षेत्र में पाण्डवों तथा कौरवों के युद्ध की कथा कहता है। इसके अठारह पर्वों में श्रीमद्भगवद्गीता, विष्णुसहस्रनाम और धर्म का विशाल भण्डार है, और यह पंचम वेद के रूप में पूजित है।
अपने नाम से पाठ या सेवा अर्पित करें
शांति और स्पष्टता हेतु अपने नाम-गोत्र में गीता पाठ या सेवा करवाएँ। सेवा बुक करें, या सनातन साहित्य में आगे पढ़ें।








