शान्ति पर्व के बारे में
सबसे विशाल पर्व — शोकाकुल एवं नवाभिषिक्त युधिष्ठिर शर-शय्या पर लेटे भीष्म से राजधर्म (राजा के कर्तव्य), आपद्धर्म (विपत्ति में आचरण) और मोक्षधर्म (मुक्ति का मार्ग) का विस्तृत उपदेश प्राप्त करते हैं।
पाठ कैसे करें
शान्ति पर्व नीचे उसकी मूल संस्कृत में (देवनागरी में), अध्याय और श्लोक क्रम से दिया गया है। श्लोक-दर-श्लोक पढ़ें; महाभारत परम्परा से इतिहास-श्रवण के रूप में सुना जाता है, धर्म और विवेक हेतु।
मूल पाठ
मूल श्लोक
[वैषम्पायन] कृतॊदकास ते सुहृदं सर्वेषां पाण्डुनन्दनाः विदुरॊ धृतराष्ट्रश च सर्वाश च भरत सत्रियः
तत्र ते सुमहात्मानॊ नयवसन कुरुनन्दनाः शौचं निवर्तयिष्यन्तॊ मासम एकं बहिः पुरात
कृतॊदकं तु राजानं धर्मात्मानं युधिष्ठिरम अभिजग्मुर महात्मानः सिद्धा बरह्मर्षिसत्तमाः
दवैपायनॊ नारदश च देवलश च महान ऋषिः देवस्थानश च कण्वश च तेषां शिष्याश च सत्तमाः
अन्ये च वेद विद्वांसः कृतप्रज्ञा दविजातयः गृहस्थाः सनातकाः सर्वे ददृशुः कुरुसत्तमम
अभिगम्य महात्मानः पूजिताश च यथाविधि आसनेषु महार्हेषु विविशुस ते महर्षयः
परतिगृह्य ततः पूजां तत कालसदृशीं तदा पर्युपासन यथान्यायं परिवार्य युधिष्ठिरम
पुण्ये भागीरथी तीरे शॊकव्याकुल चेतसम आश्वासयन्तॊ राजानं विप्राः शतसहस्रशः
नारदस तव अब्रवीत काले धर्मात्मानं युधिष्ठिरम विचार्य मुनिभिः सार्धं तत कालसदृशं वचः
भवतॊ बाहुवीर्येण परसादान माधवस्य च जितेयम अवनिः कृत्स्ना धर्मेण च युधिष्ठिरः
दिष्ट्या मुक्ताः सम संग्रामाद अस्माल लॊकभयंकरात कषत्रधर्मरतश चापि कच चिन मॊदसि पाण्डव
कच चिच च निहतामित्रः परीणासि सुहृदॊ नृप कच चिच छरियम इमां पराप्य न तवां शॊकः परबाधते
[युधिस्ठिर] विजितेयं महीकृत्स्ना कृष्ण बाहुबलाश्रयात बराह्मणानां परसादेन भीमार्जुनबलेन च
इदं तु मे महद दुःखं वर्तते हृदि नित्यदा कृत्वा जञातिक्षयम इमं महान्तं लॊभकारितम
सौभद्रं दरौपदेयांश च घातयित्वा परियान सुतान जयॊ ऽयम अजयाकारॊ भगवन परतिभाति मे
किं नु वक्ष्यति वार्ष्णेयी वधूर मे मधुसूदनम दवारकावासिनी कृष्णम इतः परतिगतं हरिम
दरौपदी हतपुत्रेयं कृपणा हतबान्धवा अस्मत्प्रियहिते युक्ता भूयॊ पीडयतीव माम
इदम अन्यच च भगवन यत तवां वक्ष्यामि नारद मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन यॊजितः
यॊ ऽसौ नागायुत बलॊ लॊके ऽपरतिरथॊ रणे सिंहखेल गतिर धीमान घृणी दान्तॊ यतव्रतः
आश्रमॊ धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः अमर्षी नित्यसंरम्भी कषेप्तास्माकं रणे रणे
शीघ्रास्त्रश चित्रयॊधी च कृती चाद्भुतविक्रमः गूढॊत्पन्नः सुतः कुन्त्या भरातास्माकं च सॊदरः
तॊयकर्मणि यं कुन्ती कथयाम आस सूर्यजम पुत्रं सर्वगुणॊपेतम अवकीर्णं जले पुरा
यं सूतपुत्रं लॊकॊ ऽयं राधेयं चाप्य अमन्यत स जयेष्ठपुत्रः कुन्त्या वै भरातास्माकं च मातृजः
अजानता मया संख्ये राज्यलुब्धेन घातितः तन मे दहति गात्राणि तूलराशिम इवानलः
न हि तं वेद पार्थॊ ऽपि भरातरं शवेतवाहनः नाहं न भीमॊ न यमौ स तव अस्मान वेद सुव्रतः
गता किल पृथा तस्य सकाशम इति नः शरुतम अस्माकं शम कामा वै तवं च पुत्रॊ ममेत्य अथ
पृथाया न कृतः कामस तेन चापि महात्मना अति पश्चाद इदं मातर्य अवॊचद इति नः शरुतम
न हि शक्ष्याम्य अहं तयक्तुं नृपं दुर्यॊधनं रणे अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत
युधिष्ठिरेण संधिं चयदि कुर्यां मते तव भीतॊ रणे शवेतवाहाद इति मां मंस्यते जनः
सॊ ऽहं निर्जित्य समरे विजयं सह केशवम संधास्ये धर्मपुत्रेण पश्चाद इति च सॊ ऽबरवीत
तम अवॊचत किल पृथा पुनः पृथुल वक्षसम चतुर्णाम अभयं देहि कामं युध्यस्व फल्गुनम
सॊ ऽबरवीन मातरं धीमान वेपमानः कृताञ्जलिः पराप्तान विषह्यांश चतुरॊ न हनिष्यामि ते सुतान
पञ्चैव हि सुता मातर भविष्यन्ति हि ते धरुवम स कर्णा वा हते पार्थे सार्जुना वा हते मयि
तं पुत्रगृद्धिनी भूयॊ मातापुत्रम अथाब्रवीत भरातॄणां सवस्ति कुर्वीथा येषां सवस्ति चिकीर्षसि
तम एवम उक्त्वा तु पृथा विसृज्यॊपययौ गृहान सॊ ऽरजुनेन हतॊ वीरॊ भराता भरात्रा सहॊदरः
न चैव विवृतॊ मन्त्रः पृथायास तस्य वा मुने अथ शूरॊ महेष्वासः पार्थेनासौ निपातितः
अहं तव अज्ञासिषं पश्चात सवसॊदर्यं दविजॊत्तम पूर्वजं भरातरं कर्णं पृथाया वचनात परभॊ
तेन मे दूयते ऽतीव हृदयं भरातृघातिनः कर्णार्जुन सहायॊ ऽहं जयेयम अपि वासवम
सभायां कलिश्यमानस्य धार्तराष्ट्रैर दुरात्मभिः सहसॊत्पतितः करॊधः कर्णं दृष्ट्वा परशाम्यति
यदाय हय अस्य गिरॊ रूक्षाः शृणॊमि कटुकॊदयाः सभायां गदतॊ दयूते दुर्यॊधनहितैषिणः
तदा नश्यति मे करॊधः पादौ तस्य निरीक्ष्य ह कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर मम
सादृश्य हेतुम अन्विच्छन पृथायास तव चैव ह कारणं नाधिगच्छामि कथं चिद अपि चिन्तयन
कथं नु तस्य संग्रामे पृथिवी चक्रम अग्रसत कथं च शप्तॊ भराता मे तत तवं वक्तुम इहार्हसि
शरॊतुम इच्छामि भगवंस तवत्तः सर्वं यथातथम भवान हि सर्वविद विद्वाँल लॊके वेद कृताकृतम
[वैषम्पायन] स एवम उक्तस तु मुनिर नारदॊ वदतां वरः कथयाम आस तत सर्वं यथा शप्तः ससूतजः
एवम एतन महाबाहॊ यथा वदसि भारत न कर्णार्जुनयॊः किं चिद अविषह्यं भवेद रणे
गुह्यम एतत तु देवानां कथयिष्यामि ते नृप तन निबॊध महाराज यथावृत्तम इदं पुरा
कषत्रं सवर्गं कथं गच्छेच छस्त्र पूतम इति परभॊ संघर्षजननस तस्मात कन्या गर्भॊ विनिर्मितः
स बालस तेजसा युक्तः सूतपुत्रत्वम आगतः चकाराङ्गिरसां शरेष्ठे धनुर्वेदं गुरौ तव
सबलं भीमसेनस्य फल्गुनस्य च लाघवम बुद्धिं च तव राजेन्द्र यमयॊर विनयं तथा
सख्यं च वासुदेवेन बाल्ये गाण्डिवधन्वनः परजानाम अनुरागं च चिन्तयानॊ वयदह्यत
स सख्यम अगमद बाल्ये राज्ञा दुर्यॊधनेन वै युष्माभिर नित्यसंद्विष्टॊ दैवाच चापि सवभावतः
विद्याधिकम अथालक्ष्य धनुर्वेदे धनंजयम दरॊणं रहस्य उपागम्य कर्णॊ वचनम अब्रवीत
बरह्मास्तं वेत्तुम इच्छामि स रहस्यनिवर्तनम अर्जुनेन समॊ युद्धे भवेयम इति मे मतिः
समः पुत्रेषु च सनेहः शिष्येषु च तव धरुवम तवत्प्रसादान न मां बरूयुर अकृतास्त्रं विचक्षणाः
दरॊणस तथॊक्तः कर्णेन सापेक्षः फल्गुनं परति दौरात्म्यं चापि कर्णस्य विदित्वा तम उवाच ह
बरह्मास्तं बराह्मणॊ विद्याद यथावच चरितव्रतः कषत्रियॊ वा तपस्वी यॊ नान्यॊ विद्यात कथं चन
इत्य उक्तॊ ऽङगिरसां शरेष्ठम आमन्त्र्य परतिपूज्य च जगाम सहसा रामं महेन्द्रं पर्वतं परति
स तु रामम उपागम्य शिरसाभिप्रणम्य च बराह्मणॊ भार्गवॊ ऽसमीति गौरवेणाभ्यगच्छत
रामस तं परतिजग्राह पृष्ट्वा गॊत्रादि सर्वशः उष्यतां सवागतं चेति परीतिमांश चाभवद भृशम
तत्र कर्णस्य वसतॊ महेन्द्रे पर्वतॊत्तमे गन्धर्वै राक्षसैर यक्षैर देवैश चासीत समागमः
स तत्रेष्व अस्त्रम अकरॊद भृगुश्रेष्ठाद यथाविधि परियश चाभवद अत्यर्थं देवगन्धर्वरक्षसाम
स कदा चित समुद्रान्ते विचरन्न आश्रमान्तिके एकः खड्गधनुः पाणिः परिचक्राम सूत जः
सॊ ऽगनिहॊत्रप्रसक्तस्य कस्य चिद बरह्मवादिनः जघानाज्ञानतः पार्थ हॊमधेनुं यदृच्छया
तद अज्ञानकृतं मत्वा बराह्मणाय नयवेदयत कर्णः परसादयंश चैनम इदम इत्य अब्रवीद वचः
अबुद्धि पूर्वं भगवन धेनुर एषा हता तव मया तत्र परसादं मे कुरुष्वेति पुनः पुनः
तं स विप्रॊ ऽबरवीत करुद्धॊ वाचा निर्भर्त्सयन्न इव दुराचार वधार्हस तवं फलं पराप्नुहि दुर्मते
येन विस्पर्धसे नित्यं यदर्थं घटसे ऽनिशम युध्यतस तेन ते पापभूमिश चक्रं गरसिष्यति
ततश चक्रे मही गरस्ते मूर्धानं ते विचेतसः पातयिष्यति विक्रम्य शत्रुर गच्छ नराधम
यथेयं गौर हता मूढ परमत्तेन तवया मम परमत्तस्यैवम एवान्यः शिरस ते पातयिष्यति
ततः परसादयाम आस पुनस तं दविजसत्तमम गॊभिर धनैश च रत्नैश च स चैनं पुनर अब्रवीत
नेदं मद वयाहृतं कुर्यात सर्वलॊकॊ ऽपि वै मृषा गच्छ वा तिष्ठ वा यद वा कार्यं ते तत समाचर
इत्य उक्तॊ बराह्मणेनाथ कर्णॊ दैन्याद अधॊमुखः रामम अभ्यागमद भीतस तद एव मनसा समरन
[नारद] कर्णस्य बाहुवीर्येण परश्रयेण दमेन च तुतॊष भृगुशार्दूलॊ गुरुशुश्रूषया तथा
तस्मै स विधिवत कृत्स्नं बरह्मास्त्रं स निवर्तनम परॊवाचाखिलम अव्यग्रं तपस्वी सुतपस्विने
विदितास्त्रस ततः कर्णॊ रममाणॊ ऽऽशरमे भृगॊः चकार वै धनुर्वेदे यत्नम अद्भुतविक्रमः
ततः कदा चिद रामस तु चरन्न आश्रमम अन्तिकात कर्णेन सहितॊ धीमान उपवासेन कर्शितः
सुष्वाप जामदग्न्यॊ वै विस्रम्भॊत्पन्न सौहृदः कर्णस्यॊत्सङ्ग आधाय शिरॊ कलान्तमना गुरुः
अथ कृमिः शलेष्म मयॊ मांसशॊणितभॊजनः दारुणॊ दारुणस्पर्शः कर्णस्याभ्याशम आगमत
स तस्यॊरुम अथासाद्य बिभेद रुधिराशनः न चैनम अशकत कषेप्तुं हन्तुं वापि गुरॊर भयात
संदश्यमानॊ ऽपि तथा कृमिणा तेन भारत गुरु परबॊध शङ्की च तम उपैक्षत सूत जः
कर्णस तु वेदनां धैर्याद असह्यां विनिगृह्य ताम अकम्पन्न अव्यथंश चैव धारयाम आस भार्गवम
यदा तु रिधिरेणाङ्गे परिस्पृष्टॊ भृगूद्वहः तदाबुध्यत तेजस्वी संतप्तश चेदम अब्रवीत
अहॊ ऽसम्य अशुचितां पराप्तः किम इदं करियते तवया कथयस्व भयं तयक्त्वा याथातथ्यम इदं मम
तस्य कर्णस तदाचष्ट कृमिणा परिभक्षणम ददर्श रामस तं चापि कृमिं सूकर संनिभम
अष्ट पादं तीक्ष्णदंष्ट्रं सूचीभिर इव संवृतम रॊमभिः संनिरुद्धाङ्गम अलर्कं नाम नामतः
स दृष्टमात्रॊ रामेण कृमिः पराणान अवासृजत तस्मिन्न एवासृक संक्लिन्ने तद अद्भुतम इवाभवत
ततॊ ऽनतरिक्षे ददृशे विश्वरूपः करालवान राक्षसॊ लॊहितग्रीवः कृष्णाङ्गॊ मेघवाहनः
स राम पराञ्जलिर भूत्वा बभाषे पूर्णमानसः सवस्ति ते भृगुशार्दूल गमिष्यामि यथागतम
मॊक्षितॊ नरकाद अस्मि भवता मुनिसत्तम भद्रं च ते ऽसु नन्दिश च परियं मे भवता कृतम
तम उवाचं महाबाहुर जामदग्न्यः परतापवान कस तवं कस्माच च नरकं परतिपन्नॊ बरवीहि तत
सॊ ऽबरवीद अहम आसं पराग गृत्सॊ नाम महासुरः पुरा देवयुगे तात भृगॊस तुल्यवया इव
सॊ ऽहं भृगॊर सुदयितां भार्याम अपहरं बलात महर्षेर अभिशापेन कृमिभूतॊ ऽपतं भुवि
अब्रवीत तु स मां करॊधात तव पूर्वपितामहः मूत्र शलेष्माशनः पापनिरयं परतिपत्स्यसे
शापस्यान्तॊ भवेद बरह्मन्न इत्य एवं तम अथाब्रुवम भविता भार्गवे राम इति माम अब्रवीद भृगुः
सॊ ऽहम एतां गतिं पराप्तॊ यथा न कुशलं तथा तवया साधॊ समागम्य विमुक्तः पापयॊनितः
एवम उक्त्वा नमस्कृत्य ययौ रामं महासुरः रामः कर्णं तु स करॊदम इदं वचनम अब्रवीत
अति दुःखम इदं मूढ न जातु बराह्मणः सहेत कषत्रियस्यैव ते धैर्यं कामया सत्यम उच्यताम
तम उवाच ततः कर्णः शापभीतः परसादयन बरह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव
राधेयः कर्ण इति मां परवदन्ति जना भुवि परसादं कुरु मे बरह्मन्न अस्त्रलुब्धस्य भार्गव
संक्षिप्त मार्गदर्शिका
प्रारंभ से पहले
भाव
भक्त जिन आशीर्वादों की प्रार्थना करते हैं
प्रश्न-उत्तर
प्रायः पूछे जाने वाले प्रश्न
महाभारत का शान्ति पर्व किस विषय में है?
सबसे विशाल पर्व — शोकाकुल एवं नवाभिषिक्त युधिष्ठिर शर-शय्या पर लेटे भीष्म से राजधर्म (राजा के कर्तव्य), आपद्धर्म (विपत्ति में आचरण) और मोक्षधर्म (मुक्ति का मार्ग) का विस्तृत उपदेश प्राप्त करते हैं।
महाभारत क्या है?
महाभारत महर्षि वेदव्यास द्वारा रचित महान संस्कृत इतिहास (महाकाव्य) है, जो कुरुवंश और कुरुक्षेत्र में पाण्डवों तथा कौरवों के युद्ध की कथा कहता है। इसके अठारह पर्वों में श्रीमद्भगवद्गीता, विष्णुसहस्रनाम और धर्म का विशाल भण्डार है, और यह पंचम वेद के रूप में पूजित है।
अपने नाम से पाठ या सेवा अर्पित करें
शांति और स्पष्टता हेतु अपने नाम-गोत्र में गीता पाठ या सेवा करवाएँ। सेवा बुक करें, या सनातन साहित्य में आगे पढ़ें।








