आदि पर्व के बारे में
प्रथम पर्व सम्पूर्ण महाकाव्य की भूमिका रचता है — नैमिषारण्य के ऋषियों को सौति द्वारा कथा-वाचन — और कुरुवंश की परम्परा देता है: भीष्म, धृतराष्ट्र, पाण्डु, कौरवों और पाण्डवों का जन्म, उनका पालन-पोषण और बढ़ता वैर, लाक्षागृह, द्रौपदी का स्वयंवर एवं पाँच पाण्डवों से विवाह, और इन्द्रप्रस्थ की स्थापना।
पाठ कैसे करें
आदि पर्व नीचे उसकी मूल संस्कृत में (देवनागरी में), अध्याय और श्लोक क्रम से दिया गया है। श्लोक-दर-श्लोक पढ़ें; महाभारत परम्परा से इतिहास-श्रवण के रूप में सुना जाता है, धर्म और विवेक हेतु।
मूल पाठ
मूल श्लोक
नारायणं नमस्कृत्य नरं चैव नरॊत्तमम देवीं सरस्वतीं चैव ततॊ जयम उदीरयेत
लॊमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादशवार्षिके सत्रे
समासीनान अभ्यगच्छद बरह्मर्षीन संशितव्रतान विनयावनतॊ भूत्वा कदा चित सूतनन्दनः
तम आश्रमम अनुप्राप्तं नैमिषारण्यवासिनः चित्राः शरॊतुं कथास तत्र परिवव्रुस तपस्विनः
अभिवाद्य मुनींस तांस तु सर्वान एव कृताञ्जलिः अपृच्छत स तपॊवृद्धिं सद्भिश चैवाभिनन्दितः
अथ तेषूपविष्टेषु सर्वेष्व एव तपस्विषु निर्दिष्टम आसनं भेजे विनयाल लॊमहर्षणिः
सुखासीनं ततस तं तु विश्रान्तम उपलक्ष्य च अथापृच्छद ऋषिस तत्र कश चित परस्तावयन कथाः
कृत आगम्यते सौते कव चायं विहृतस तवया कालः कमलपत्राक्ष शंसैतत पृच्छतॊ मम
[सूत] जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः समीपे पार्थिवेन्द्रस्य सम्यक पारिक्षितस्य च
कृष्णद्वैपायन परॊक्ताः सुपुण्या विविधाः कथाः कथिताश चापि विधिवद या वैशम्पायनेन वै
शरुत्वाहं ता विचित्रार्था महाभारत संश्रिताः बहूनि संपरिक्रम्य तीर्थान्य आयतनानि च
समन्तपञ्चकं नाम पुण्यं दविजनिषेवितम गतवान अस्मि तं देशं युद्धं यत्राभवत पुरा पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम
दिदृक्षुर आगतस तस्मात समीपं भवताम इह आयुष्मन्तः सर्व एव बरह्मभूता हि मे मताः
अस्मिन यज्ञे महाभागाः सूर्यपावक वर्चसः कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः भवन्त आसते सवस्था बरवीमि किम अहं दविजाः
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः इतिवृत्तं नरेन्द्राणाम ऋषीणां च महात्मनाम
[रसयह] दवैपायनेन यत परॊक्तं पुराणं परमर्षिणा सुरैर बरह्मर्षिभिश चैव शरुत्वा यद अभिपूजितम
तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः सूक्ष्मार्थ नयाययुक्तस्य वेदार्थैर भूषितस्य च
भारतस्येतिहासस्य पुण्यां गरन्थार्थ संयुताम संस्कारॊपगतां बराह्मीं नानाशास्त्रॊपबृंहिताम
जनमेजयस्य यां राज्ञॊ वैशम्पायन उक्तवान यथावत स ऋषिस तुष्ट्या सत्रे दवैपायनाज्ञया
वेदैश चतुर्भिः समितां वयासस्याद्भुत कर्मणः संहितां शरॊतुम इच्छामॊ धर्म्यां पापभयापहाम
[सूत] आद्यं पुरुषम ईशानं पुरुहूतं पुरु षटुतम ऋतम एकाक्षरं बरह्म वयक्ताव्यक्तं सनातनम
असच च सच चैव च यद विश्वं सद असतः परम परावराणां सरष्टारं पुराणं परम अव्ययम
मङ्गल्यं मङ्गलं विष्णुं वरेण्यम अनघं शुचिम नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम
महर्षेः पूजितस्येह सर्वलॊके महात्मनः परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः
आचख्युः कवयः के चित संप्रत्याचक्षते परे आख्यास्यन्ति तथैवान्ये इतिहासम इमं भुवि
इदं तु तरिषु लॊकेषु महज जञानं परतिष्ठितम विस्तरैश च समासैश च धार्यते यद दविजातिभिः
अलंकृतं शुभैः शब्दैः समयैर दिव्यमानुषैः छन्दॊ वृत्तैश च विविधैर अन्वितं विदुषां परियम
निष्प्रभे ऽसमिन निरालॊके सर्वतस तमसावृते बृहद अण्डम अभूद एकं परजानां बीजम अक्षयम
युगस्यादौ निमित्तं तन महद दिव्यं परचक्षते यस्मिंस तच छरूयते सत्यं जयॊतिर बरह्म सनातनम
अद्भुतं चाप्य अचिन्त्यं च सर्वत्र समतां गतम अव्यक्तं कारणं सूक्ष्मं यत तत सदसद आत्मकम
यस्मात पितामहॊ जज्ञे परभुर एकः परजापतिः बरह्मा सुरगुरुः सथाणुर मनुः कः परमेष्ठ्य अथ
पराचेतसस तथा दक्षॊ दष्क पुत्राश च सप्त ये ततः परजानां पतयः पराभवन्न एकविंशतिः
पुरुषश चाप्रमेयात्मा यं सर्वम ऋषयॊ विदुः विश्वे देवास तथादित्या वसवॊ ऽथाश्विनाव अपि
यक्षाः साध्याः पिशाचाश च गुह्यकाः पितरस तथा ततः परसूता विद्वांसः शिष्टा बरह्मर्षयॊ ऽमलाः
राजर्षयश च बहवः सर्वैः समुदिता गुणैः आपॊ दयौः पृथिवी वायुर अन्तरिक्षं दिशस तथा
संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रयः करमात यच चान्यद अपि तत सर्वं संभूतं लॊकसाक्षिकम
यद इदं दृश्यते किं चिद भूतं सथावरजङ्गमम पुनः संक्षिप्यते सर्वं जगत पराप्ते युगक्षये
यथर्ताव ऋतुलिङ्गानि नानारूपाणि पर्यये दृश्यन्ते तानि तान्य एव तथा भावा युगादिषु
एवम एतद अनाद्य अन्तं भूतसंहार कारकम अनादि निधनं लॊके चक्रं संपरिवर्तते
तरयस तरिंशत सहस्राणि तरयस तरिंशच छतानि च तरयस तरिंशच च देवानां सृष्टिः संक्षेप लक्षणा
दिवः पुत्रॊ बृहद भानुश चक्षुर आत्मा विभावसुः सविता च ऋचीकॊ ऽरकॊ भानुर आशा वहॊ रविः
पुत्रा विवस्वतः सर्वे मह्यस तेषां तथावरः देव भराट तनयस तस्य तस्मात सुभ्राड इति समृतः
सुभ्राजस तु तरयः पुत्राः परजावन्तॊ बहुश्रुताः दश जयॊतिः शतज्यॊतिः सहस्रज्यॊतिर आत्मवान
दश पुत्रसहस्राणि दश जयॊतेर महात्मनः ततॊ दशगुणाश चान्ये शतज्यॊतेर इहात्मजाः
भूयस ततॊ दशगुणाः सहस्रज्यॊतिषः सुताः तेभ्यॊ ऽयं कुरुवंशश च यदूनां भरतस्य च
ययातीक्ष्वाकु वंशश च राजर्षीणां च सर्वशः संभूता बहवॊ वंशा भूतसर्गाः सविस्तराः
भूतस्थानानि सर्वाणि रहस्यं विविधं च यत वेद यॊगं सविज्ञानं धर्मॊ ऽरथः काम एव च
धर्मकामार्थ शास्त्राणि शास्त्राणि विविधानि च लॊकयात्रा विधानं च संभूतं दृष्टवान ऋषिः
इतिहासाः सवैयाख्या विविधाः शरुतयॊ ऽपि च इह सर्वम अनुक्रान्तम उक्तं गरन्थस्य लक्षणम
विस्तीर्यैतन महज जञानम ऋषिः संक्षेपम अब्रवीत इष्टं हि विदुषां लॊके समास वयास धारणम
मन्वादि भारतं के चिद आस्तीकादि तथापरे तथॊपरिचराद्य अन्ये विप्राः सम्यग अधीयते
विविधं संहिता जञानं दीपयन्ति मनीषिणः वयाख्यातुं कुशलाः के चिद गरन्थं धारयितुं परे
तपसा बरह्मचर्येण वयस्य वेदं सनातनम इतिहासम इमं चक्रे पुण्यं सत्यवती सुतः
पराशरात्मजॊ विद्वान बरह्मर्षिः संशितव्रतः मातुर नियॊगाद धर्मात्मा गाङ्गेयस्य च धीमतः
कषेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा तरीन अग्नीन इव कौरव्याञ जनयाम आस वीर्यवान
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरम एव च जगाम तपसे धीमान पुनर एवाश्रमं परति
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम अब्रवीद भारतं लॊके मानुषे ऽसमिन महान ऋषिः
जनमेजयेन पृष्टः सन बराह्मणैश च सहस्रशः शशास शिष्यम आसीनं वैशम्पायनम अन्तिके
स सदस्यैः सहासीनः शरावयाम आस भारतम कर्मान्तरेषु यज्ञस्य चॊद्यमानः पुनः पुनः
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम कषत्तुः परज्ञां धृतिं कुन्त्याः सम्यग दवैपायनॊ ऽबरवीत
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम दुर्वृत्तं धार्तराष्ट्राणाम उक्तवान भगवान ऋषिः
चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम उपाख्यानैर विना तावद भारतं परॊच्यते बुधैः
ततॊ ऽधयर्धशतं भूयः संक्षेपं कृतवान ऋषिः अनुक्रमणिम अध्यायं वृत्तान्तानां सपर्वणाम
इदं दवैपायनः पूर्वं पुत्रम अध्यापयच छुकम ततॊ ऽनयेभ्यॊ ऽनुरूपेभ्यः शिष्येभ्यः परददौ परभुः
नारदॊ ऽशरावयद देवान असितॊ देवलः पितॄन गन्धर्वयक्षरक्षांसि शरावयाम आस वै शुकः
दुर्यॊधनॊ मन्युमयॊ महाद्रुमः; सकन्धः कर्णः शकुनिस तस्य शाखाः दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रॊ ऽमनीषी
युधिष्ठिरॊ धर्ममयॊ महाद्रुमः; सकन्धॊ ऽरजुनॊ भीमसेनॊ ऽसय शाखाः माद्री सुतौ पुष्पफले समृद्धे; मूलं कृष्णॊ बरह्म च बराह्मणाश च
पाण्डुर जित्वा बहून देशान युधा विक्रमणेन च अरण्ये मृगया शीलॊ नयवसत सजनस तदा
मृगव्यवाय निधने कृच्छ्रां पराप स आपदम जन्मप्रभृति पार्थानां तत्राचार विधिक्रमः
मात्रॊर अभ्युपपत्तिश च धर्मॊपनिषदं परति धर्मस्य वायॊः शक्रस्य देवयॊश च तथाश्विनॊः
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः मेध्यारण्येषु पुण्येषु महताम आश्रमेषु च
ऋषिभिश च तदानीता धार्तराष्ट्रान परति सवयम शिशवश चाभिरूपाश च जटिला बरह्मचारिणः
पुत्राश च भरातरश चेमे शिष्याश च सुहृदश च वः पाण्डवा एत इत्य उक्त्वा मुनयॊ ऽनतर्हितास ततः
तांस तैर निवेदितान दृष्ट्वा पाण्डवान कौरवास तदा शिष्टाश च वर्णाः पौरा ये ते हर्षाच चुक्रुशुर भृशम
आहुः के चिन न तस्यैते तस्यैत इति चापरे यदा चिरमृतः पाण्डुः कथं तस्येति चापरे
सवागतं सर्वथा दिष्ट्या पाण्डॊः पश्याम संततिम उच्यतां सवागतम इति वाचॊ ऽशरूयन्त सर्वशः
तस्मिन्न उपरते शब्दे दिशः सर्वा विनादयन अन्तर्हितानां भूतानां निस्वनस तुमुलॊ ऽभवत
पुष्पवृष्टिं शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः आसन परवेशे पार्थानां तद अद्भुतम इवाभवत
तत परीत्या चैव सर्वेषां पौराणां हर्षसंभवः शब्द आसीन महांस तत्र दिवस्पृक कीर्तिवर्धनः
ते ऽपय अधीत्याखिलान वेदाञ शास्त्राणि विविधानि च नयवसन पाण्डवास तत्र पूजिता अकुतॊभयाः
युधिष्ठिरस्य शौचेन परीताः परकृतयॊ ऽभवन धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च
गुरुशुश्रूषया कुन्त्या यमयॊर विनयेन च तुतॊष लॊकः सकलस तेषां शौर्यगुणेन च
समवाये ततॊ राज्ञां कन्यां भर्तृस्वयंवराम पराप्तवान अर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम
ततः परभृति लॊके ऽसमिन पूज्यः सर्वधनुष्मताम आदित्य इव दुष्प्रेक्ष्यः समरेष्व अपि चाभवत
स सर्वान पार्थिवाञ जित्वा सर्वांश च महतॊ गणान आजहारार्जुनॊ राज्ञे राजसूयं महाक्रतुम
अन्नवान दक्षिणावांश च सर्वैः समुदितॊ गुणैः युधिष्ठिरेण संप्राप्तॊ राजसूयॊ महाक्रतुः
सुनयाद वासुदेवस्य भीमार्जुनबलेन च घातयित्वा जरासंधं चैद्यं च बलगर्वितम
दुर्यॊधनम उपागच्छन्न अर्हणानि ततस ततः मणिकाञ्चनरत्नानि गॊहस्त्यश्वधनानि च
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा शरियम ईर्ष्या समुत्थः सुमहांस तस्य मन्युर अजायत
विमानप्रतिमां चापि मयेन सुकृतां सभाम पाण्डवानाम उपहृतां स दृष्ट्वा पर्यतप्यत
यत्रावहसितश चासीत परस्कन्दन्न इव संभ्रमात परत्यक्षं वासुदेवस्य भीमेनानभिजातवत
स भॊगान विविधान भुञ्जन रत्नानि विविधानि च कथितॊ धृतराष्ट्रस्य विवर्णॊ हरिणः कृशः
अन्वजानाद अतॊ दयूतं धृतराष्ट्रः सुतप्रियः तच छरुत्वा वासुदेवस्य कॊपः समभवन महान
नातिप्रीति मनाश चासीद विवादांश चान्वमॊदत दयूतादीन अनयान घॊरान परवृद्धांश चाप्य उपैक्षत
निरस्य विदुरं दरॊणं भीष्मं शारद्वतं कृपम विग्रहे तुमुले तस्मिन्न अहन कषत्रं परस्परम
जयत्सु पाण्डुपुत्रेषु शरुत्वा सुमहद अप्रियम दुर्यॊधन मतं जञात्वा कर्णस्य शकुनेस तथा धृतराष्ट्रश चिरं धयात्वा संजयं वाक्यम अब्रवीत
शृणु संजय मे सर्वं न मे ऽसूयितुम अर्हसि शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः
न विग्रहे मम मतिर न च परीये कुरु कषये न मे विशेषः पुत्रेषु सवेषु पाण्डुसुतेषु च
वृद्धं माम अभ्यसूयन्ति पुत्रा मन्युपरायणाः अहं तव अचक्षुः कार्पण्यात पुत्र परीत्या सहामि तत मुह्यन्तं चानुमुह्यामि दुर्यॊधनम अचेतनम
राजसूये शरियं दृष्ट्वा पाण्डवस्य महौजसः तच चावहसनं पराप्य सभारॊहण दर्शने
संक्षिप्त मार्गदर्शिका
प्रारंभ से पहले
भाव
भक्त जिन आशीर्वादों की प्रार्थना करते हैं
प्रश्न-उत्तर
प्रायः पूछे जाने वाले प्रश्न
महाभारत का आदि पर्व किस विषय में है?
प्रथम पर्व सम्पूर्ण महाकाव्य की भूमिका रचता है — नैमिषारण्य के ऋषियों को सौति द्वारा कथा-वाचन — और कुरुवंश की परम्परा देता है: भीष्म, धृतराष्ट्र, पाण्डु, कौरवों और पाण्डवों का जन्म, उनका पालन-पोषण और बढ़ता वैर, लाक्षागृह, द्रौपदी का स्वयंवर एवं पाँच पाण्डवों से विवाह, और इन्द्रप्रस्थ की स्थापना।
महाभारत क्या है?
महाभारत महर्षि वेदव्यास द्वारा रचित महान संस्कृत इतिहास (महाकाव्य) है, जो कुरुवंश और कुरुक्षेत्र में पाण्डवों तथा कौरवों के युद्ध की कथा कहता है। इसके अठारह पर्वों में श्रीमद्भगवद्गीता, विष्णुसहस्रनाम और धर्म का विशाल भण्डार है, और यह पंचम वेद के रूप में पूजित है।
अपने नाम से पाठ या सेवा अर्पित करें
शांति और स्पष्टता हेतु अपने नाम-गोत्र में गीता पाठ या सेवा करवाएँ। सेवा बुक करें, या सनातन साहित्य में आगे पढ़ें।








