काण्ड 16 के बारे में
अथर्ववेद (शौनक) का काण्ड 16 — परवर्ती मण्डलों के विस्तृत एवं दार्शनिक सूक्त। अथर्ववेद अथर्वन और अंगिरा ऋषियों का वेद है — जीवन से जुड़े सूक्त और मन्त्र: रोग-निवारण और दीर्घायु, रक्षा और समृद्धि, गृहस्थ, समाज और राज-धर्म हेतु, साथ ही गूढ़ दार्शनिक सूक्त।
पाठ कैसे करें
काण्ड 16 नीचे उसकी मूल संस्कृत में, स्वरांकित देवनागरी में दिया गया है। वेद श्रुति रूप में सुरक्षित है और स्वाध्याय में पढ़ा जाता है; इसे श्रद्धापूर्वक काण्ड-दर-काण्ड पढ़ें।
मूल पाठ
मूल श्लोक
दुःखमोचनम्। १-१३ अथर्वा। प्रजापतिः (नव पर्यायाः)। १, ३ द्विपदा साम्नी बृहती, २, १० याजुषी त्रिष्टुप्, ४ आसुरी गायत्री, ५, ८ साम्नी पङ्क्तिः (५ द्विपदा), ६ साम्नी अनुष्टुप्, ७ निचृद् विराड् गायत्री, ९ आसुरी पङ्क्तिः, ११ साम्नी उष्णिक्, १२-१३ आर्ची अनुष्टुप्। अति॑सृष्टो अ॒पां वृ॑ष॒भोऽति॑सृष्टा अ॒ग्नयो॑ दि॒व्याः ॥१॥ रु॒जन् प॑रिरु॒जन् मृ॒णन् प्र॑मृ॒णन्॥२॥ म्रो॒को म॑नो॒हा ख॒नो नि॑र्दा॒ह आ॑त्म॒दूषि॑स्तनू॒दूषिः॑ ॥३॥ इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि ॥४॥ तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥५॥ अ॒पामग्र॑मसि समु॒द्रं वो॒ऽभ्यव॑सृजामि॥६॥ यो॒३प्स्व॑१ग्निरति॒ तं सृ॑जामि म्रो॒कं ख॒निं त॑नू॒दूषि॑म्॥७॥ यो व॑ आपो॒ऽग्निरा॑वि॒वेश॒ स ए॒ष यद् वो॑ घो॒रं तदे॒तत्॥८॥ इन्द्र॑स्य व इन्द्रि॒येणा॒भि षि॑ञ्चेत्॥९॥ अ॒रि॒प्रा आपो॑ अप॑ रि॒प्रम॒स्मत्॥१०॥ प्रास्मदेनो॑ वहन्तु॒ प्र दु॒ष्वप्न्यं॑ वहन्तु ॥११॥ शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे ॥१२॥ शि॒वान॒ग्नीन॑प्सु॒षदो॑ हवामहे॒ मयि॑ क्ष॒त्रं वर्च॒ आ ध॑त्त देवीः ॥१३॥
१-६ अथर्वा। वाक्। १ आसुरी अनुष्टुप्, २ आसुरी उष्णिक्, ३ साम्नी उष्णिक्, ४ त्रिपदा साम्नी बृहती, ५ आर्ची अनुष्टुप्, ६ निचृद् विराड् गायत्री। निर्दु॑रर्म॒ण्य ऊ॒र्जा मधु॑मती॒ वाक्॥१॥ मधु॑मती स्थ॒ मधु॑मतीं॒ वाच॑मुदेयम्॥२॥ उप॑हूतो मे गो॒पाः उप॑हूतो गोपी॒थः ॥३॥ सु॒श्रुतौ॒ कर्णौ॑ भद्र॒श्रुतौ॒ कर्णौ॑ भ॒द्रं श्लोकं॑ श्रूयासम्॥४॥ सुश्रु॑तिश्च॒ मोप॑श्रुतिश्च॒ मा हा॑सिष्टां॒ सौप॑र्णं॒ चक्षु॒रज॑स्रं॒ ज्योतिः॑ ॥५॥ ऋषी॑णां प्रस्त॒रोऽसि॒ नमो॑ऽस्तु दैवा॑य प्रस्त॒राय॑ ॥६॥
१-६ ब्रह्मा।आदित्यः। १ आसुरी गायत्री, २-३ आर्ची अनुष्टुप्, ४ प्राजापत्या त्रिष्टुप्, ५ साम्नी उष्णिक्, ६ द्विपदा साम्नी त्रिष्टुप्। मू॒र्धाहं र॑यी॒णां मू॒र्धा स॑मा॒नानां॑ भूयासम्॥१॥ रु॒जश्च॑ मा वे॒नश्च॒ मा हा॑सिष्टां मू॒र्धा च॑ मा॒ विध॑र्मा च॒ मा हा॑सिष्टाम्॥२॥ उ॒र्वश्च॑ मा चम॒सश्च॒ मा हा॑सिष्टां ध॒र्ता च॑ मा ध॒रुण॑श्च॒ मा हा॑सिष्टाम्॥३॥ वि॒मो॒कश्च॑ मा॒र्द्रप॑विश्च॒ मा हा॑सिष्टामा॒र्द्रदा॑नुश्च मा मात॒रिश्वा॑ च॒ मा हा॑सिष्टाम्॥४॥ बृह॒स्पति॑र्म आ॒त्मा नृ॒मणा॒ नाम॒ हृद्यः॑ ॥५॥ अ॒सं॒ता॒पं मे॒ हृद॑यमु॒र्वी गव्यू॑तिः समु॒द्रो अ॑स्मि॒ विध॑र्मणा ॥६॥
१-७ ब्रह्मा। आदित्यः,। १,३ साम्नी अनुष्टुप्, २ साम्नी उष्णिक्, ४ त्रिपदा अनुष्टुप्, ५ आसुरी गायत्री, ६ आर्ची उष्णिक्, ७ त्रिपदा विराड् गर्भाऽनुष्टुप्। नाभि॑र॒हं र॑यी॒णां नाभिः॑ समा॒नानां॑ भूयासम्॥१॥ स्वा॒सद॑सि सू॒षा अ॒मृतो॒ मर्त्ये॒श्वा॥२॥ मा मां प्रा॒णो हा॑सी॒न्मो अ॑पा॒नोऽव॒हाय॒ परा॑ गात्॥३॥ सूर्यो॒ माह्नः॑ पात्व॒ग्निः पृ॑थि॒व्या वा॒युर॒न्तरि॑क्षाद् य॒मो म॑नु॒ष्येऽभ्यः॒ सर॑स्वती॒ पार्थि॑वेभ्यः ॥४॥ प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒ मा जने॒ प्र मे॑षि ॥५॥ स्व॒स्त्य॑१द्योषसो॑ दो॒षस॑श्च॒ सर्व॑ आपः॒ सर्व॑गणो अशीय ॥६॥ शक्व॑री स्थ प॒शवो॑ मोप॑ स्थेषुर्मि॒त्रावरु॑णौ मे प्राणापा॒नाव॒ग्निर्मे॒ दक्षं॑ दधातु ॥७॥
१-१० यमः। दुःष्वप्ननाशनम्। १-६ (प्रथमा) विराड् गायत्री ५ (प्रथमा) भुरिक्, ६(प्रथमा) स्वराट्, १-६ (द्वितीया) प्राजापत्या गायत्री, १-६ (तृतीय) द्विपदा साम्नी बृहती। वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ ग्राह्याः॑ पु॒त्रोऽसि य॒मस्य॒ कर॑णः ॥१॥ अन्त॑कोऽसि मृ॒त्युर॑सि ॥२॥ तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥३॥ वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निरृ॑त्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः । अन्त॑कोऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥४॥ वि॒द्म ते॑ स्वप्न ज॒नित्र॒मभू॑त्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः । अन्त॑कोऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥५॥ वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निर्भू॑त्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः । अन्त॑कोऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥६॥ वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ परा॑भूत्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः । अन्त॒कोऽसि मृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥७॥ वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रोऽसि य॒मस्य॒ कर॑णः ॥८॥ अन्त॑कोऽसि मृ॒त्युर॑सि ॥९॥ तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि ॥१०॥
१-११ यमः। दुःष्वप्ननाशनं,उषा। १-४ प्राजापत्याऽनुष्टुप्, ५ साम्नी पङ्क्तिः ६ निचृदार्षी बृहती, ७ द्विपदा साम्नी बृहती, ८ आसुरी जगती, ९ आसुरी बृहती, १० आर्ची उष्णिक्, ११ त्रिपदा यवमध्या गायत्री वा आर्ची अनुष्टुप्। अजै॑ष्मा॒द्यास॑नामा॒द्याभू॒माना॑गसो व॒यम्॥१॥ उषो॒ यस्मा॑द् दु॒ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छतु ॥२॥ द्वि॒ष॒ते तत् परा॑ वह॒ शप॑ते॒ तत् परा॑ वह ॥३॥ यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तस्मा॑ एनद् गमयामः ॥४॥ उ॒षा दे॒वी वा॒चा सं॑विदा॒ना वाग् दे॒व्यु॑१षसा॑ संविदा॒ना॥५॥ उ॒षस्पति॑र्वा॒चस्पति॑ना संविदा॒नो वा॒चस्पति॑रु॒षस्पति॑ना संविदा॒नः ॥६॥ ते॒३मुष्मै॒ परा॑ वहन्त्व॒राया॑न् दु॒र्णाम्नः॑ स॒दान्वाः॑ ॥७॥ कु॒म्भीकाः॑ दू॒षीकाः॒ पीय॑कान्॥८॥ जा॒ग्र॒द्दु॒ष्व॒प्न्यं स्व॑प्नेदुष्व॒प्न्यम्॥९॥ अना॑गमिष्यतो॒ वरा॒नवि॑त्तेः संक॒ल्पानमु॒च्या द्रु॒हः पाशा॑न्॥१०॥ तद॒मुष्मा॑ अग्ने दे॒वाः परा॑ वहन्तु॒ वघ्रि॒र्यथास॒द् विथु॑रो॒ न सा॒धुः ॥११॥
१-१३ यमः। दुःष्वप्ननाशनं, उषा। १ पङ्क्तिः, २ साम्नी अनुष्टुप्, ३ आसुरी उष्णिक्, ४ प्राजापत्या गायत्री, ५ आर्ची उष्णिक् ६, ९, ११ साम्नी बृहती, ७ याजुषी गायत्री, ८ प्राजापत्या बृहती, १० साम्नी गायत्री १२ भुरिक् प्राजापत्याऽनुष्टुप्, १३ आसुरी त्रिष्टुप्। तेनै॑नं विध्या॒म्यभू॑त्यैनं विध्यामि॒ निर्भू॑त्यैनं विध्यामि॒ परा॑भूत्यैनं विध्यामि॒ ग्राह्यै॑नं विध्यामि॒ तम॑सैनं विध्यामि ॥१॥ दे॒वाना॑मेनं घो॒रैः क्रू॒रैः प्रै॒षैर॑भि॒प्रेष्या॑मि ॥२॥ वै॒श्वा॒न॒रस्यै॑नं॒ दंष्ट्र॑यो॒रपि॑ दधामि ॥३॥ ए॒वाने॒वाव॒ सा ग॑रत्॥४॥ यो॒३स्मान् द्वेष्टि॒ तमा॒त्मा द्वे॑ष्टु॒ यं व॒यं द्वि॒ष्मः स आ॒त्मानं॑ द्वेष्टु ॥५॥ निर्द्वि॒षन्तं॑ दि॒वो निः पृ॑थि॒व्या निर॒न्तरि॑क्षाद् भजाम ॥६॥ सुया॑मंश्चाक्षुष ॥७॥ इ॒दम॒हमा॑मुष्याय॒णे॒३मुष्याः॑ पु॒त्रे दु॒ष्वप्न्यं॑ मृजे ॥८॥ यद॒दोअ॑दो अ॒भ्यग॑च्छन् यद् दो॒षा यत् पूर्वां॒ रात्रि॑म्॥९॥ यज्जाग्र॑द् यत् सु॒प्तो यद् दिवा॒ यन्नक्त॑म्॥१०॥ यदह॑रहरभि॒गच्छा॑मि॒ तस्मा॑देन॒मव॑ दये ॥११॥ तं ज॑हि॒ तेन॑ मन्दस्व॒ तस्य॑ पृ॒ष्टीरपि॑ शृणीहि ॥१२॥ स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु ॥१३॥
१-२७ यमः। दुःष्वप्ननाशनम्। १-२७ (प्रथमा) एकपदा यजुर्ब्राह्मी अनुष्टुप्, १-२७ (द्वितीया) त्रिपदा निचृद्गायत्री, १ (तृतीया) प्राजापत्या गायत्री, १-२७ (चतुर्थी) त्रिपदा प्राजापत्या त्रिष्टुप्, २-४, ९, १७, १९, २४ (तृतीया) आसुरी जगती, ५, ७-८, १०-११, १३, १८ (तृतीया) आसुरीत् त्रिष्टुप्, ६, १२, १४-१६, २०-२३, २७ (तृतीया) आसुरी पङ्क्तिः, २५-२६ (तृतीया) आसुरी बृहती। जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ १ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः ॥२॥ २ स ग्राह्याः॒ पाशा॒न्मा मो॑चि ॥३॥ ३ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ ४। १ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स निरृ॑त्याः पाशा॒न्मा मो॑चि ॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ ५। २ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॑ ब्रह्मा॒स्माकं॒ स्वर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ सोऽभू॑त्याः॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ ६। ३ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स निर्भू॑त्याः॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ ७। ४ जि॒तम॒स्माक॒मुद्भिन्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स परा॑भूत्याः॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ ८। ५ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स दे॑वजामी॒नां पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ ९। ६ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स बृ॒हस्पतेः॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ १०। ७ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स प्र॒जाप॑तेः॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ ११। ८ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स ऋषी॑णां॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमेनमध॒राञ्चं॑ पादयामि॥४॥ १२। ९ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स आ॑र्षे॒याणां॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ १३। १० जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ सोऽङ्गि॑रसां॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ १४। ११ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स आ॑ङ्गिर॒सानां॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ १५। १२ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भजामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ सोऽथ॑र्वणां॒ पाशा॒न्मा मो॑चि । तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ १६। १३ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॑ ब्रह्मा॒स्माकं॑ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स आ॑थर्व॒णानां॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ १७। १४ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स वन॒स्पती॑णां॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ १८। १५ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स वा॑नस्प॒त्यानां॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ १९। १६ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स ऋ॑तू॒नां पाशा॒न्मा मो॑चि । तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ २०। १७ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॑ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स आ॑र्त॒वानां॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ २१। १८ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॑ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स मासा॑नां॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ २२। १९ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ सोऽर्धमा॒सानां॒ पाशा॒न्मा मो॑चि । तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ २३। २० जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ सोऽहोरा॒त्रयोः॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ २४। २१ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॒ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ सोऽह्नोः॑ संय॒तोः पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ २५। २२ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स द्यावा॑पृथि॒व्योः पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ २६। २३ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स इ॑न्द्रा॒ग्न्योः पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ २७। २४ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः॥२॥ स मि॒त्रावरु॑णयोः॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ २८। २५ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॑सौ यः॥२॥ स राज्ञो॒ वरु॑णस्य॒ पाशा॒न्मा मो॑चि॥३॥ तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ २९। २६ जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒ स्वऽर॒स्माकं॑ य॒ज्ञो॒३ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒रा अ॒स्माक॑म्॥१॥ ३०। तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः ॥२॥ ३१। स मृ॒त्योः पड्वी॑शा॒त् पाशा॒न्मा मो॑चि ॥३॥ ३२। तस्ये॒दं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि॥४॥ ३३। २७
१-४ यमः। १ प्रजापतिः, २ अग्निः, सोमः, पूषा, ३-४ सूर्यः। प्राजापत्या आर्च्यनुष्टुप्, २ आर्च्युष्णिक्, ३ साम्नी पङ्क्तिः, ४ परोष्णिक्। जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्यऽष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः ॥१॥ तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह पू॒षा मा॑ धात् सुकृ॒तस्य॑ लो॒के॥२॥ अग॑न्म॒ स्वः॑१ स्वऽरगन्म॒ सं सूर्य॑स्य॒ ज्यो॑ति॑षागन्म ॥३॥ व॒स्यो॒भूया॑य॒ वसु॑मान् य॒ज्ञो वसु॑ वंसिषीय॒ वसु॑मान् भूयासं॒ वसु॒ मयि॑ धेहि ॥४॥
संक्षिप्त मार्गदर्शिका
प्रारंभ से पहले
भाव
भक्त जिन आशीर्वादों की प्रार्थना करते हैं
प्रश्न-उत्तर
प्रायः पूछे जाने वाले प्रश्न
अथर्ववेद का काण्ड 16 क्या है?
अथर्ववेद (शौनक) का काण्ड 16 — परवर्ती मण्डलों के विस्तृत एवं दार्शनिक सूक्त। अथर्ववेद अथर्वन और अंगिरा ऋषियों का वेद है — जीवन से जुड़े सूक्त और मन्त्र: रोग-निवारण और दीर्घायु, रक्षा और समृद्धि, गृहस्थ, समाज और राज-धर्म हेतु, साथ ही गूढ़ दार्शनिक सूक्त।
अथर्ववेद क्या है?
अथर्ववेद अथर्वन और अंगिरा ऋषियों का वेद है — जीवन से जुड़े सूक्त और मन्त्र: रोग-निवारण और दीर्घायु, रक्षा और समृद्धि, गृहस्थ, समाज और राज-धर्म हेतु, साथ ही गूढ़ दार्शनिक सूक्त।
अपने नाम से वैदिक पाठ या सेवा अर्पित करें
शांति और आशीर्वाद हेतु अपने नाम-गोत्र में वैदिक पाठ, हवन या सेवा करवाएँ। सेवा बुक करें, या सनातन साहित्य में आगे पढ़ें।








